भाषा

ENहिગુ
ग्रंथ पाठ

ज्ञानामृतसारसंहिता · अध्याय 1.11

1.11.1

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे
महोत्सवारम्भो नाम दशमो ऽध्यायः
प्रथमैक-रात्रे एकादशो ऽध्यायः
अथ महोत्सव-दर्शनम्
श्री-व्यास उवाच
अथ गन्धर्व-राजस् तु भगवान् आज्ञया विधेः ।
संगीतं च जगौ तत्र कृष्ण-रास-महोत्सवम्

1.11.2

सुसमं तालमानं च सुतानं मधुरं श्रुतम् ।
वीणा-मृदङ्ग-मुरज-युक्तं ध्वनि-समन्वितम्

1.11.3

रागिणी-युक्त-रागेण समयोक्तेन सुन्दरम् ।
माधुर्यं मूर्च्छ्नायुक्तं मनसे हर्ष-कारणम्

1.11.4

विचित्रं नृत्य-रुचिरं रूप-वेशम् उत्तमम् ।
लोकानुराग-बीजं च नाट्योपयुक्त-हस्तकम्

1.11.5

दृष्ट्वा श्रुत्वा सुराः सर्वे मुनयः सर्व-योषितः ।
मूर्च्छां प्रायुश् च सहसा चेतनां च पुनः पुनः

1.11.6

गोपीनां वस्त्र-हरणं गोपी-गण-विलापनं ।
ताभ्यो वस्त्र-प्रदानं च संमानं वरदानकम्

1.11.7

कात्यायनी-व्रतं चापि विप्र-दारान्न-भोजनम् ।
महेन्द्र-दर्प-पूजादि भञ्जनं शैल-पूजनम्

1.11.8

पुनश् च शुश्रुवुः सर्वे श्री-वृन्दावन-वर्णनम् ।
संप्रापुश् च पुनर् मूर्च्छां पुनः प्रापुश् च चेतनाम्

1.11.9

तस्मै ददौ पुरो ब्रह्मा वह्नि-शुद्धांशुकं परम् ।
परं शुभाशीर्-वचनं यत् तन्-मानस-वाञ्छितम्

1.11.10

अमूल्य-रत्न-निर्माणं चारु-कुण्डाल-युग्मकम् ।
मणीन्द्र-सार-मुकुटं परं रत्नाङ्गुरीयकम्

1.11.11

सुगन्धि चन्दनं पुष्पं स्व-पाद-रेणुम् ईप्सितम् ।
अमूल्य-रत्न-तिलकं रत्न-भूषणम् उज्ज्वलम्

1.11.12

प्रत्येकं वस्तु रुचिरं तद्-योषिद्भ्यश् च संददौ ।
विश्वकर्मा च निर्माण-मणिं भूषणम् उत्तमम्

1.11.13

प्रत्येकं शङ्ख-सिन्दूरं कस्तूरी-युक्त-चन्दनम् ।
सकर्पूरं च ताम्बूलं रत्नेन्द्र-सार-दर्पणम्

1.11.14

मणि-निर्माणा-मञ्जोरं श्वेत-चामर-शोभनम् ।
मनोयायि रथं दिव्यं ईस्वरेच्छा-विनिर्मितम्

1.11.15

मुक्ता-माणिक्य-हीरेन्द्रैर् मणीन्द्रैश् च परिष्कृतम् ।
सद्-रत्न-माला-जालैश् च श्वेत-चामर-दर्पणैः

1.11.16

सुशोभितं च परितो लक्षैः सुन्दर-मन्दिरैः ।
मणि-मानिक्य-हीराढ्यं सद्-रत्न-कलशोज्ज्वलम्

1.11.17

सहस्र-चक्र-संसक्तं योजनायत-सम्मितम् ।
धनुर् लक्षोच्छ्रितं चैव सहस्राश्वेन योजितम्

1.11.18

एतद् एव ददौ ब्रह्मा प्रहृष्टस् तुष्ट एव च ।
शम्भुस् तुष्टो ददौ हृष्टो हरि-भक्तिं च निश्चलाम्

1.11.19

ज्ञानम् अध्यात्मिकं चैव योग-ज्ञानं सुदुर्लभम् ।
नाना-जन्म-स्मृति-ज्ञानं नैपुण्यं सर्व-सिद्धिषु

1.11.20

हरेश् चर्चाविधानं च स्तवनं पूजनं तथा ।
माणिक्य-हीराहारं च रत्न-लक्षं सुदुर्लभम्

1.11.21

नाग-हारं ददौ शेषो नागेन्द्रमौलि-मण्डनम् ।
नाग-कन्या-शतं चैव वर-भूषण-भूषितम्

1.11.22

नागेभ्यश् चाभ्यं नित्यं हिस्र-जन्तुभ्य एव च ।
नृपालय-गति-ज्ञानं सर्व-लोक-विलोकनम्

1.11.23

निर्विघ्नत्वं ददौ तस्मै विघ्न्-राजश् च संसदि ।
सुदुर्लभं पाद-पद्म-युग्म-रेणुम् अभीप्सितम्

1.11.24

अमूल्यं च निरुपमं ग्रीष्म-सूर्य-प्रभोपमम् ।
मणि-राजं सुदीप्तं च त्रिषु लोकेषु दुर्लभम्

1.11.25

सर्वत्र विजयं चैव वाञ्च्छितं निर्मलं यशः ।
संगीत-विद्या-विज्ञानं तन्-नैपुण्यं मनोहरम्

1.11.26

लक्ष-स्वर्णं धनेशश् च दासानां च शतं शतम् ।
धर्मः कीर्तिमयीं मालां स्कन्दो धैर्यं ददौ तथा

1.11.27

विषय-जीर्णापहरणं ददौ धन्वन्तरिर् मनुम् ।
सूर्यः स्यमन्तक-मणिं स्वर्णा-भाराष्टकप्रसुम्

1.11.28

चन्द्रः श्वेताश्व-रत्नं च ह्य् अमूल्यम् उत्तमं ददौ ।
वह्नि-शुद्धांशुक-युगं ददौ वह्निश् च संसदि

1.11.29

उपेन्द्रो रत्न-कोटिं च तद् एवेन्द्रो ददौ पुरा ।
वीणा-शिल्पं विश्वकर्मा वरुणश् च मणि-स्रजम्

1.11.30

स्मरः शृङ्गार-नैपुण्यं वीर्य-स्तम्भनम् एव च ।
काम-सन्दीपनं ज्ञानं कामिनी-प्रेम-मूर्छनम्

1.11.31

कामिनी-वश-गं शिल्पं रति-तत्त्वं ददौ तथा ।
पाप-दाहन-मन्त्रं च रत्न-छत्रं समीरणः

1.11.32

यमश् च धर्म-तत्त्वं च नरक-त्राण-कारणम् ।
वसवश् च वसून् दिव्यान् रुद्रस् तेभ्यो ऽभयं ददौ

1.11.33

मधु-पात्रं सुधा-पात्रं जयन्तो नलकूवरः ।
शुक्ल-पुष्पं शुक्ल-धान्यं पाद-रेणुम् अभीप्सितम्

1.11.34

मनोभिरां मनुयो ददौ तस्मै शुभाशिषम् ।
लक्ष्मीश् च परमैश्वर्यं भारती हारम् उत्तमम्

1.11.35

रत्न-मालां ददौ दुर्गा सर्वत्राभयम् ईप्सितम् ।
तत्-पत्नीभ्यश् च रत्नानि सिन्दूराभरणानि च

1.11.36

क्रीडा-पद्मं रोहिनी च रतिः सद्-रत्न-दर्पणम् ।
तुलसी चातुलं माल्यं दिव्यं वसु वसुन्धरा

1.11.37

गङ्गा च विपुलं पुण्यं स्वाहा सद्-रत्न-पाशकम् ।
यमुना जलजं पद्मम् अम्लानं सार्वकालिकम्

1.11.38

वारुणीं वारुणी तुष्टा रत्न-पात्रं शची ददौ ।
मनसा प्रददौ तस्मै नागानां मौलि-मण्डनम्

1.11.39

गन्धर्वाश् चापि तत्-पत्न्यः स्व-शिल्पं प्रददुस् तथा ।
परमानन्द-युक्ताश् च मुनि-पत्न्यः शुभाशिषम्

मूल पाठ: Jñānāmṛtasārasaṃhitā (also called “Nāradapañcarātra”) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc