ज्ञानालोकालंकारसूत्र · अध्याय 4
§11 म्स्. 10अ6-11ब्7, प्. 311ब्1-313अ8, द्. 284ब्5-286अ7, त्. 357 242ब्20-243अ11, त्. 358 251अ29-ब्20, त्. 359(द्) 257अ8-ब्25.
तद्यथा मञ्जुश्रीः सूर्यरश्मयो जम्बूद्वीपे पूर्वतरम् एव तावद् महाशैलेन्द्रराजानम् अवभासयन्ति । ततः पश्चाच् चक्रवाडान् महाचक्रवाडान् अवभासयन्ति । ततः पश्चाद् उच्चोच्चान् पृथिवीप्रदेशान् अवभासयन्ति । ततः पश्चाद् इह जम्बूद्वीपे निम्नान् पृथिवीप्रदेशान् अवभासयन्ति । ते च मञ्जुश्रीः सूर्यरश्मयो न कल्पयन्ति, न विकल्पयन्ति, न चिन्तयन्ति, न विचिन्तयन्ति । चित्तमनोविज्ञानापगता मञ्जुश्रीः सूर्यरश्मयः, अनुत्पन्ना अनिरुद्धाः, अलक्षणा लक्षणापगताः, अमनस्कारा मनस्कारापगताः, अप्रपञ्चाः प्रपञ्चापगताः, ( जाअ 38 ) अपरिदाहा निष्परिदाहाः, नौरस्था न परस्थाः, नोच्चा न नीचाः, न बद्धा न मुक्ताः, न ज्ञानवन्तो नाज्ञानवन्तः, न संक्लेशा न निःक्लेशाः, न सत्यवादिनो न मृषावादिनः, न तीरे न निम्ने, न स्थले नौघे, न तर्कावचरा नातर्कावचराः, न रूपिणो नारूपिणः । अथ च पुनर् मञ्जुश्रीः पृथिव्याम् उच्चनीचमध्यविशेषेण हीनमध्योत्कृष्टावभासस्य च्छाया वैचित्र्यं भवति ।
एवम् एव मञ्जुश्रीस् तथागतो ऽप्य् अर्हन् सम्यक्संबुद्धो न कल्पयति, न विकल्पयति, न चिन्तयति, न विचिन्तयति । चित्तमनोविज्ञानापगतो मञ्जुश्रीस् तथागतः, अनुत्पन्नो ऽनिरुद्धः, अलक्षणो लक्षणापगतः, अमनस्कारो मनस्कारापगतः, अप्रपञ्चः प्रपञ्चापगतः, अपरिदाहो निष्परिदाहः । नौरस्थो न पारस्थः, नोच्चो न नीचः, न बद्धो न मुक्तः, न ज्ञानवान् नाज्ञानवान्, न संक्लेशो न निःक्लेशः, न सत्यवादी न मृषावादी, नावारे न पारे, न तीरे नातीरे, न निम्ने नानिम्ने, न स्थले नास्थले, नौघे नानोघे, न सर्वज्ञो नासर्वज्ञः, न तर्को नातर्कः, न प्रचारो ( जाअ 39 ) नाप्रचारः, न समुदाचारो नासमुदाचारः, न स्मृतिमान् नास्मृतिमान्, न चेतनो न निश्चेतनः, न मनो नामनः, न निर्जातो नानिर्जातः, न नामो नानामः, न रूपो नारूपः, न व्याहारो नाव्याहारः, न प्रज्ञप्यो नाप्रज्ञप्यः, न दृश्यो नादृश्यः, न नेत्री नानेत्री, न मार्गप्रणेता नामार्गप्रणेता, न प्राप्तफलो नाप्राप्तफलः, न कल्पो नाकल्पः, न कल्पापगतो नाकल्पापगतः ।
अथ च पुनर् मञ्जुश्रीस् तथागतसूर्यमण्डलज्ञानरश्मयस् त्रैधातुके ऽनन्तमध्यधर्मधात्वप्रतिहतरश्म्यवभासप्रमुक्ताः । प्रसृताश् च रश्मयः पूर्वतरम् एव महाशैलेन्द्रकल्पाध्याशयानां बोधिसत्त्वानां काये निपतन्ति । ततः पश्चात् प्रत्येकबुद्धयानसंप्रस्थितानां काये निपतन्ति । ततः पश्चाच् छ्रावकयानसंप्रस्थितानां काये निपतन्ति । ततः पश्चात् कुशलाध्याशयानां यथाधिमुक्तीनां सत्त्वानां काये निपतन्ति । ततः पश्चाद् अन्तशो मिथ्यात्वनियतेषु सत्त्वसंतानेषु काये तथागतसूर्यमण्डलरश्मयो निपतन्ति । तेषां चोपकारीभूता भवन्त्य् अनागतहेतुसंजननतया, संवर्धयन्ति च कुशलैर् धर्मैः ।
तत्र च तथागतो मञ्जुश्रीः समः सर्वत्रोपेक्षको निर्विकल्पो निर्विशेषः । न पुनर् मञ्जुश्रीस् तथागतज्ञानसूर्यमण्डलस्यैवं भवति । अस्याहं सत्त्वस्योदारं ( जाअ 40 ) धर्मं देशयिष्यामि, अस्य न देशयिष्यामीति । न तस्यैवं विकल्पो भवति, अयम् उदाराधिमुक्तिकः सत्त्वः, अयं मध्याधिमुक्तिकः, अयं श्रावकयानाधिमुक्तिकः । अयं कुशलाशयः, अयं हीनो मिथ्याशय इति ।
न मञ्जुश्रीस् तथागतज्ञानसूर्यमण्डलस्यैवं भवति । अयम् उदाराशयाधिमुक्तिकः सत्त्वो ऽस्य महायानं देशयिष्यामि, अयं मध्याशयाधिमुक्तो ऽस्य प्रत्येकबुद्धयानं देशयिष्यामि, अयं श्रावकयानाधिमुक्तिको ऽस्य श्रावकयानं देशयिष्यामि । कुशलाकुशलाशयानां च सत्त्वानाम् आशयं विदित्वा विशोधयिष्यामि, ऋजुकां दृष्टिं करिष्यामि । यावद् मिथ्यात्वनियतानाम् अपि सत्त्वानां यथानुरूपं धर्मं देशयिष्यामि । न तथागतज्ञानसूर्यमण्डलरश्म्यवभासस्यैवं विकल्पो भवति । तत् कस्य हेतोः । सर्वकल्पविकल्पप्रपञ्चसमुच्छिन्नत्वात् तथागतज्ञानसूर्यमण्डलरश्म्यवभासस्य । अथ च मञ्जुश्रीः सत्त्वानां कुशलाशयसंतानवैचित्र्यात् तथागतज्ञानसूर्यमण्डलरश्म्यवभासस्य वैचित्र्यं भवति ॥
§12 म्स्. 11ब्7-12ब्4, प्. 313अ8-314अ6, द्. 286अ7-287अ4, त्. 357 243अ12-ब्4, त्. 358 251ब्20-च्5, त्. 359(द्) 257ब्26-च्19.
तद्यथा मञ्जुश्रीर् अस्ति महासागरे सर्वाभिप्रायपरिपूरणं नाम महामणिरत्नं तद् ध्वजाग्रावबद्धम् । यस्य सत्त्वस्य यादृशो ऽभिप्रायो भवति, तादृशं ततः ( जाअ 41 ) शब्दं निश्चरन्तं सत्त्वाः संजानन्ति । तच् च महामणिरत्नं न कल्पयति न विकल्पयति न चिन्तयति न विचिन्तयति, अचिन्त्यं निश्चिन्त्यं चित्तमनोविज्ञानापगतम् ।
एवम् एव मञ्जुश्रीस् तथागतो न कल्पयति न विकल्पयति न चिन्तयति न विचिन्तयति, न चिन्त्यो निश्चिन्त्यश् चित्तमनोविज्ञानापगतः । अग्राहो ऽपर्यवग्राहः, अप्राप्तो ऽप्राप्तव्यः, प्रणुन्नप्रत्येकसत्यः, प्रणुन्नरागः प्रणुन्नदोषः प्रणुन्नमोहः, न सत्यो न मृषा, न नित्यो नानित्यः, न प्रभो नाप्रभः, न लोको नालोकः, अवितर्को ऽविचारः, अनुत्पन्नो ऽनिरुद्धः । अचिन्त्यो ऽप्रचिन्त्यः, अस्वभावो ऽस्वाभाव्यः, अभावशून्यः, अनायूहो ऽनिर्यूहः, अनभिनिवेश्यः, अव्यवहारो व्यवहारसमुच्छेदः, अनानन्दो निरानन्दो नन्दीसमुद्घातः, असंख्यातः संख्यापगतः, अगतिर् अगतिगामी सर्वगतिसमुच्छिन्नः, सर्वव्याहारसमुच्छिन्नः, अदृश्यो ऽनालोक्यो ऽग्राह्यः, नावकाशो नानवकाशः, न पश्यो न निर्देश्यः, न सामग्री न विसामग्री, न विकल्पितो नाविकल्पितः, अविठापितो ऽसंदर्शितः, असंक्लिष्टो ऽपरिशोधनार्हः, न नाम न रूपं न निमित्तम्, न कर्म न कर्मविपाकः, नातीतो ( जाअ 42 ) नानागतो न प्रत्युत्पन्नः, निष्किञ्चनः, अरणः, अनक्षरः, अघोषो घोषसमतिक्रान्तो ऽरुतः, अलक्षणः सर्वलक्षणापगतः, नाध्यात्म्यं न बहिर्द्धा नोभयम् अन्तरेणोपलभ्यते । अथ च मञ्जुश्रीस् तथागतज्ञानरत्नम् अध्याशयपरिशुद्धं महाकरुणाध्वजाग्रावबद्धम्, ततो यो यथाशयाधिमुक्तः सत्त्वः स तथा धर्मदेशनां निश्चरन्तीं संजानाति । तत्र च तथागतः समः सर्वत्रोपेक्षको निर्विकल्पो निर्विशेषः ॥
§13 म्स्. 12ब्4-13ब्3, प्. 314अ6-315अ7, द्. 287अ4-288अ5, त्. 357 243ब्5-च्4, त्. 358 251च्5-8, त्. 359(द्) 257च्20-258अ19.
तद्यथा मञ्जुश्रीः प्रतिश्रुत्काम् अन्यरुतविज्ञप्तितो निश्चरन्तीं सत्त्वाः संजानन्ति । सा च नातीता नानागता न प्रत्युत्पन्ना, नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते, नोत्पन्ना न निरुद्धा, नोच्छिन्ना न शाश्वता, न ज्ञानवती नाज्ञानवती, न प्रज्ञा नाप्रज्ञा, न विद्या नाविद्या, न विमुक्तिर् नाविमुक्तिः, न सावद्या न निरवद्या, न स्मृतिर् नास्मृतिः, न स्थानवती नास्थानवती, न निषद्या नानिषद्या, न पृथिवीधातुर् नाब्धातुर् न तेजोधातुर् न वायुधातुः, न संस्कृता नासंस्कृता, न निष्प्रपञ्चा न सप्रपञ्चा, न ( जाअ 43 ) रुता नारुता, न दृश्या नादृश्या, अनक्षरा, अनक्षरापगता, अघोषा घोषसमतिक्रान्ता, अतुला तुलनासमतिक्रान्ता, अलक्षणा लक्षणापगता, न शान्तिर् नाशान्तिः, न दीर्घा न ह्रस्वा, न चेतना नाचेतना, न चैत्या नाचैत्या, न लोक्या नालोक्या, दर्शनस्वभावेन शून्यास्मृतिर् अमनसिकारा, अवितर्का, अविचारा, चित्तमनोविज्ञानापगता, सर्वत्र समा निर्विकल्पा, निर्विशेषा त्र्यध्वसमतिक्रान्ता । अथ च मञ्जुश्रीः प्रतिश्रुत्का नानारुतघोषा नानाध्याशयानां सत्त्वानां नानारुतघोषविज्ञप्तितो निश्चरति । तांश् च सत्त्वास् तथैव संजानन्ति ।
एवम् एव मञ्जुश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धो नातीतो नानागतो न प्रत्युत्पन्नः, नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते, नोत्पन्नो न निरुद्धः, नोच्छिन्नो न शास्वतः, न ज्ञानवान् नाज्ञानवान्, अप्रज्ञावान् नाप्रज्ञावान्, न विद्या नाविद्या, न विमुक्तिर् नाविमुक्तिः, न सावद्यो न निरवद्यः, न स्मृतिमान् नास्मृतिमान्, न स्थानवान् नास्थानवान्, न निषद्यो नानिषद्यः, न पृथिवीधातुर् नाब्धातुर् न तेजोधातुर् न वायुधातुः, न संस्कृतो नासंस्कृतः, न ( जाअ 44 ) प्रपञ्चो नाप्रपञ्चः, न रुतो नारुतः, न दृश्यो नादृश्यः, अनक्षरः, अघोषो घोषसमतिक्रान्तः, अतुलस् तुलासमतिक्रान्तः, अलक्षणो लक्षणापगतः, न शान्तो नाशान्तः, न दीर्घो न ह्रस्वः, न चेतनो नाचेतनः, न चैत्यो नाचैत्यः, न लोक्यो नालोक्यः, दर्शनस्वभावेन शून्यः, अस्मृती, अमनसिकारः, अवितर्कः, अविचारः, चित्तमनोविज्ञानापगतः, सर्वत्र समो निर्विकल्पः, निर्विशेषस् त्र्यध्वसमतिक्रमः । अथ च मञ्जुश्रीर् नानाविमुक्ताः सत्त्वा नानाध्याशयविज्ञप्तितस् तथागतवाचं निश्चरन्तीं संजानन्ति ॥
§14 म्स्. 13ब्3-14अ2, प्. 315अ7-ब्7, द्. 288अ5-ब्4, त्. 357 243च्4-19, त्. 358 251च्8-12, त्. 359(द्) 258अ19-ब्2.
तद्यथापि मञ्जुश्रीः पृथिवीं निश्रित्य पृथिवीं प्रतिष्ठाय सर्वतृणगुल्मौषधिवनस्पतयो वृद्धिं विरूढिं वैपुल्यताम् आपद्यन्ते । न मञ्जुश्रीः पृथिवी कल्पयति, न विकल्पयति, सर्वत्र समा निर्विकल्पा, निर्विशेषा निश्चिन्ता चित्तमनोविज्ञानापगता ।
एवम् एव मञ्जुश्रीस् तथागतं निश्रित्य तथागतं प्रतिष्ठाय सर्वसत्त्वानां सर्वकुशलमूलानि वृद्धिं विरूढिं वैपुल्यताम् आपद्यन्ते । श्रावकयानिकानां वा प्रत्येकबुद्धयानिकानां वा महायानिकानां वा, अन्येषां ( जाअ 45 ) वा चरकपरिव्राजकनिर्ग्रन्थप्रभृतीनां सर्वतीर्थ्यायतनानां कुशलमूलानि, यानि चान्यान्य् अन्तशो मिथ्यात्वनियतानां कुशलमूलानि सर्वाणि तानि तथागतं निश्रित्य तथागतं प्रतिष्ठाय वृद्धिं विरूढिं वैपुल्यताम् आपद्यन्ते । न च मञ्जुश्रीस् तथागतः कल्पयति, न विकल्पयति । सर्वकल्पविकल्पारम्बणमनसिकारोच्छिन्नो मञ्जुश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धः, चित्तमनोविज्ञानापगतः, अतर्कः, अतर्कावचरः, अदृश्यः, अनालोक्यः, अचिन्त्यः, अचिन्तनीयः, अमनसिकारः, निश्चिन्तः, चित्तमनोविज्ञानापगतः, समः सर्वत्रोपेक्षको निर्विकल्पो निर्विशेषः ॥
§15 म्स्. 14अ2-15अ2, प्. 315ब्7-317अ1, द्. 288ब्4-289ब्4, त्. 357 243च्20-224अ29, त्. 358 251च्12-20, त्. 359(द्) 258ब्2-च्7.
तद्यथा मञ्जुश्रीर् आकाशं सर्वत्र समं निर्विकल्पं निर्विशेषम्, अनुत्पन्नम् अनिरुद्धम्, नातीतं नानागतं न प्रत्युत्पन्नम्, अलक्ष्यम्, अप्रपञ्चम्, अनिरूपि, अनिदर्शनम्, अविज्ञपनीयम्, असंस्पर्शम्, अनिकेतम्, अतुल्यं तुलासमतिक्रान्तम्, अनुपमम् उपमासमतिक्रान्तम्, अप्रतिष्ठम्, अग्राह्यम्, चक्षुःपथसमतिक्रान्तम्, चित्तमनोविज्ञानापगतम्, अलक्षणम्, अनक्षरम्, अघोषम्, अमनसिकारम्, अनायूहम् ( जाअ 46 ) अनिर्यूहम्, अनिक्षेपम् अप्रक्षेपम्, वाक्पथसमतिक्रान्तम्, सर्वत्रानुगतम् अप्रतिष्ठितम् । अथ मञ्जुश्रीः सत्त्वाः संस्थानस्य हीनमध्योत्कृष्टतयाकाशं हीनोत्कृष्टं संजानन्ति ।
एवम् एव मञ्जुश्रीस् तथागतो ऽप्य् अर्हन् सम्यक्संबुद्धः सर्वत्र समो निर्विशेषः, अनुत्पन्नो ऽनिरुद्धः, नातीतो नानागतो न प्रत्युत्पन्नः, अलक्ष्यो ऽप्रपञ्चः, अरूप्य् अनिदर्शनो ऽविज्ञप्तिकः, अस्पर्शो ऽनिकेतः, अतुलस् तुलासमतिक्रान्तः, अनुपम उपमासमतिक्रान्तः, अप्रतिष्ठितः, अग्राह्यः, चक्षुःपथसमतिक्रान्तः, चित्तमनोविज्ञानापगतः, अलक्षणः, अनक्षरः, अघोषो ऽमनसिकारः, अनायूहानिर्यूहः, अनिक्षेपो ऽप्रक्षेपः, वाक्पथसमतिक्रान्तः, सर्वत्रानुगतो ऽनुप्रविष्टः । अथ च मञ्जुश्रीर् ये हीनमध्योत्कृष्टाशयाः सत्त्वास् ते हीनमध्योत्कृष्टं तथागतं पश्यन्ति ॥
न च मञ्जुश्रीस् तथागतस्यैवं भवति । अयं हीनाध्याशयाधिमुक्तः सत्त्वः, अस्य सत्त्वस्य हीनां रूपकायवर्णपरिनिष्पत्तिं दर्शयिष्यामि । अयं मध्याशयाधिमुक्तः सत्त्वः, अस्य मध्यमां रूपकायवर्णपरिनिष्पत्तिं दर्शयिष्यामि । अयम् उदाराशयाधिमुक्तः सत्त्वः, अस्योदारां रूपकायवर्णपरिनिष्पत्तिं दर्शयिष्यामि ॥
एवम् एव मञ्जुश्रीर् धर्मदेशनायाम् अनुगन्तव्यम् । न च मञ्जुश्रीस् तथागतस्यैवं भवति । अयं हीनाधिमुक्तः ( जाअ 47 ) सत्त्वः, अस्य सत्त्वस्य हीनां श्रावकयानकथां करिष्ये । अयं मध्याशयाधिमुक्तः सत्त्वः, अस्य सत्त्वस्य प्रत्येकबुद्धयानकथां करिष्ये । अयम् उदाराशयाधिमुक्तः सत्त्वः, अस्य सत्त्वस्य महायानकथां करिष्ये ॥
न मञ्जुश्रीस् तथागतस्यैवं भवति । अयम् उदाराधिमुक्तः सत्त्वः, अस्य सत्त्वस्य दानकथां करिष्ये ॥
एवं शीलं क्षान्तिं वीर्यं ध्यानं च । न मञ्जुश्रीस् तथागतस्यैवं भवति । अयं प्रज्ञापारमिताधिमुक्तः सत्त्वः, अस्य सत्त्वस्य प्रज्ञापारमितां कथां कथयिष्ये । नैवं मञ्जुश्रीस् तथागतस्यैवं भवति । तत् कस्माद् धेतोः । धर्मकायो मञ्जुश्रीस् तथागतः । अत्यन्तानुत्पन्नो मञ्जुश्रीस् तथागतः ॥
इइइ
§16 म्स्. 15अ2-16अ4, प्. 317अ1-318अ4, द्. 289ब्4-290ब्6, त्. 357 224अ29-च्13, त्. 358 251च्20-29, त्. 359(द्) 258च्7-259अ15.
न मञ्जुश्रीस् तथागतस्य नामरूपनिरुक्त्यानुसारि विज्ञानं प्रवर्तते । न मञ्जुश्रीस् तथागतः कल्पयति, न विकल्पयति । क्षणिको हि मञ्जुश्रीस् तथागतो ऽक्षयलक्षणो ऽक्षयकोटीभूतकोटीनियतः ॥
सर्वधर्मसमताकोटी मञ्जुश्रीस् तथागतो ऽर्हन् सम्यक्सम्बुद्धः समः सर्वत्र निर्विकल्पो निर्विशेषः, न हीनो न मध्यो नोत्कृष्टः । एवम् एव मञ्जुश्रीः समाः सर्वधर्माः, निर्विकल्पा निर्विशेषाः, न हीना न मध्या नोत्कृष्टाः । तत् कस्माद् धेतोः । अनुपलब्धित्वात् सर्वधर्माणाम् । या मञ्जुश्रीर् अनुपलब्धिः सर्वधर्माणां सा समता, या समता सा स्थिता, या स्थिता साचलनता, याचलनता सानिश्रयता ॥
अनिश्रितस्य सर्वधर्मेषु नास्ति चित्तप्रतिष्ठानम् । अप्रतिष्ठितचित्तस्यानुत्पत्तिर् आजायते । एवं दर्शिनश् च विपर्यस्ताच् चित्तचैतसिका न प्रवर्तन्ते । यश् चाविपर्यस्तचित्तः स यथावत्प्राप्तो भवति । यथावत्प्राप्तो न प्रपञ्चयति । अप्रपञ्चयतः प्रचारो नास्ति । यदा न प्रचरति तदा न संचरति । यदा न संचरति तदा न विसरति । अविसरं धर्मतां न विरोधयति । धर्मताम् अविरोधयन् सर्वत्रानुलोमो भवति । सर्वत्रानुलोमो धर्मप्रकृतेर् न चलति । धर्मप्रकृतेर् अचलं धर्मप्रकृतिप्राप्तो भवति । धर्मप्रकृतिप्राप्तो न किंचित् प्रपञ्चयति । तत् कस्य हेतोः । प्रत्ययहेतुजनितत्वात् ॥
यः प्रत्ययहेतुजनितः सो ऽत्यन्ताजातः । यश् चात्यन्ताजातः ( जाअ 49 ) स नियामप्राप्तः । यश् च नियामप्राप्तः स सर्वधर्ममनसिकारैः सार्धं न संवसति । यदा सर्वधर्ममनसिकारैः सार्धं न संवसति तदा संवाश्यो न भवति । यदा संवाश्यो न भवति तदा न भवति न विभवति । यदा न भवति न विभवति तदा स्थितो धर्मप्राप्तो भवति । यदा स्थितो धर्मप्राप्तो भवति तदा योनिशोधर्मप्रयुक्तो भवति । योनिशोधर्मप्रयुक्तस्य न कश्चिद् धर्मो ऽस्ति यो न बुद्धधर्मः । तत् कस्य हेतोः । शून्यतानुबोधत्वात् । यश् च शून्यतानुबोधः स बोधिः ॥
स एवं शून्यतानिमित्ताप्रणिहितानभिसंस्कारानिकेतासंभवाग्राह्यानालयावबोधाद् बोधिः । बोधिश् च योनिशोप्रयोगः ॥
योनिशःप्रयोगः, योनिशः प्रयोगेनामोच्यते । अनुपेक्षाप्रक्षेपः, अकारविकारप्रयोगः, असंबद्धः, अप्रमुक्तप्रयोगः, अनेकत्वानानात्वप्रयोगः, अनागतप्रयोगो योनिशः प्रयोगः ॥
न तत्र प्रयोगो न प्रमाणं न फलसाक्षात्क्रिया । तत् कस्य हेतोः । प्रकृतिप्रभास्वरं चित्तं तच् चागन्तुकैर् उपक्लेशैर् उपक्लिश्यते न च प्रकृतिः संक्लिश्यते । या च प्रकृतिप्रभास्वरता सासंक्लेशता । या चासंक्लेशता तत्र प्रतिपक्षो नास्ति येन प्रतिपक्षेण क्लेशप्रहाणं स्यात् । तत् ( जाअ 50 ) कस्य हेतोः । न शुद्धः शुध्यति शुद्ध एव सः । यश् च शुद्धः सो ऽनुत्पादः । यश् चानुत्पादः सो ऽनिन्दितः । यश् चानिन्दितः स नन्दीप्रहाणं तत्र सर्वस्नेहा निरुध्यन्ते । यत्र सर्वस्नेहा निरुध्यन्ते सो ऽनुत्पादः । यश् चानुत्पादः स बोधिः ॥
§17 म्स्. 16अ4-17अ2, प्. 318अ4-319अ4, द्. 290ब्6-291ब्4, त्. 357 244च्13-245अ12, त्. 358 ö, त्. 359(द्) 259अ15-ब्18.
या बोधिः सा समता । या समता सा तथता । तथताप्रतिष्ठिताश् च सर्वधर्माः संस्कृता असंस्कृताश् च । या च तथता न तत्र संस्कृतं नासंस्कृतं न द्वयप्रज्ञप्तिः । यत्र न संस्कृतं नासंस्कृतं न द्वयप्रज्ञप्तिः सा तथता । या तथता सानन्यतथता । यानन्यतथता साविकारतथता । या चाविकारतथता सानागततथता । या चानागततथता सावितथता । या चावितथता सा यथावत्तथता । या यथावत्तथता सा नजातुतथता । या नजातुतथता सा न संक्लिश्यते न विशुध्यते । या न संक्लिश्यते न विशुध्यते सा नोत्पद्यते न निरुध्यते । या नोत्पद्यते न निरुध्यते सा निर्वाणेन समा । या निर्वाणेन समा सा न संसरति न परिनिर्वाति । या न संसरति न परिनिर्वाति सा नातीता नानागता न प्रत्युत्पन्ना । या नातीता नानागता न प्रत्युत्पन्ना सा न हीना न मध्या नोत्कृष्टा । या न हीना न मध्या नोत्कृष्टा सा तथता ॥
तथता नामोच्यते । तत्त्वार्थाधिवचनम् एतत् तत्त्वम् ( जाअ 51 ) उच्यते । तथात्वं तथत्वम् उच्यते । तथैव तथता चात्मा चाद्वयम् एतद् अद्वैधीकारम् । यश् चाद्वयार्थः स बोधिश् चावबोधार्थः॥
अर्थ उच्यते । त्रिविमोक्षमुखप्रवेशं ज्ञानं सर्वधर्मनिर्देशेषु । ज्ञानम् उच्यते । त्र्यध्वसमतावतारः सर्वधर्मेषु । असंभेदार्थश् च सर्वधर्माणाम् अयम् उच्यते ऽर्थः । अरुतो ऽनभिलाप्यो ऽव्याहारो व्याहारसमुच्छिन्नः ॥
ज्ञानम् उच्यते । यद् अर्थानुगमज्ञानं विज्ञानानुगमं चेदम् उच्यते ज्ञानम् । अर्थ उच्यते । यत् तत्त्वार्थज्ञानेन विज्ञानानुगमज्ञानेन च नीतार्थता । सैव धर्मता या । या च धर्मता सो ऽर्थः ॥
यार्थानुगमज्ञानेन विज्ञानानुगमज्ञानेन नीतार्थानुगमज्ञानेन च सा धर्मता । या धर्मता सो ऽर्थः । सा च धर्मता धर्मस्थितिता धर्मनियामता, सा धर्मे न प्रवर्तते । या धर्मस्याप्रवृत्तिः, या चार्थव्यंजनसमता साद्वयार्थे समा । या च समता सो ऽर्थः, सा चार्थज्ञानेन समता, साद्वयमुखप्रवेशेन ज्ञानसमता ॥
नीतार्थेन नेयार्थसमता समानार्था सा शून्यता । समानार्थेन पुद्गलसमता समा । पुद्गलसमतया धर्मसमता समा । धर्मसमतया विमुक्तिसमता समा । विमुक्तिसमतया चानुबोधो बोधिः ॥
§18 म्स्. 17अ2-18अ4, प्. 319अ4-320अ5, द्. 291ब्4-292ब्4, त्. 357 245अ12-ब्6, त्. 358 251च्29-252अ1, त्. 359(द्) 259ब्18-च्20.
रूपसङ्गसंयुक्तानां मञ्जुश्रीश् चक्षुः सङ्गः । रूपचक्षुःप्रकृतिज्ञानम् असङ्गः । दृष्टिसङ्गसंयुक्तानां स्वकायं सङ्गः । सर्वदृष्टिकृतानां स्वकायप्रकृतिश्[टा]ऊन्यताज्ञानम् असङ्गः । अयोनिशोमनस्कारसङ्गसक्तानां धर्मालोकः सङ्गः । योनिशोमनस्कारधर्मप्रत्यवेक्षाप्रकृतिशून्यतास्वभावशून्यताज्ञानम् असङ्गः । विचिकित्सामलसङ्गसक्तानां मोक्षः सङ्गः । अधिमुक्तिविमुक्तियथाभूतज्ञानम् असङ्गः । कौशीद्यमलसङ्गसक्तानाम् अधिगमदृष्टवीर्यता सङ्गः । यथाधर्माणाम् अनुबोधः सङ्गः । नीवरणसङ्गयुक्तानां बोध्यङ्गानि सङ्गः । अनावरणज्ञानविमोक्षो ऽसंगः ॥
प्रकृतिपरिशुद्धाः सर्वधर्मा हेतुप्रत्ययसामग्र्या प्रवर्तन्ते । तत्र बोधिसत्त्वेन संक्लेशहेतुर् व्यवदानहेतुश् च परिज्ञातव्यः । संक्लेशहेतुविशुद्ध्या च व्यवदानविशुद्ध्या च न स्थातव्यम्॥
आत्मसमुत्थानं च संक्लेशस्य हेतुः । नैरात्म्यधर्मावतारक्षान्तिर् व्यवदानस्य हेतुः । अहंकारममकारदृष्टिः संक्लेशस्य हेतुः । अध्यात्मोपशमो बहिर्धापचारश् च व्यवदानस्य हेतुः । कामव्यापादविहिंसावितर्कः ( जाअ 53 ) संक्लेशस्य हेतुः । अशुभामैत्रीकरुणामुदितोपेक्षाप्रतीत्यधर्मावतारक्षान्तिर् व्यवदानस्य हेतुः । चत्वारो विपर्यासाः संक्लेशस्य हेतुः । चत्वारि सम्यक्स्मृत्युपस्थानानि व्यवदानस्य हेतुः । पञ्च नीवरणानि संक्लेशस्य हेतुः । पञ्चेन्द्रियाणि व्यवदानस्य हेतुः । षड् आयतनानि संक्लेशस्य हेतुः । षड् अनुस्मृतयो व्यवदानस्य हेतुः । सप्तासद्धर्माः संक्लेशस्य हेतुः । सप्त बोध्यङ्गानि व्यवदानस्य हेतुः । अष्ट मिथ्यात्वानि संक्लेशस्य हेतुः । अष्टौ सम्यक्त्वानि व्यवदानस्य हेतुः । नवाघातवस्तूनि संक्लेशस्य हेतुः । नवानुपूर्वविहारसमापत्तयो व्यवदानस्य हेतुः । दशाकुशलाः कर्मपथाः संक्लेशस्य हेतुः । दश कुशलाः कर्मपथा व्यवदानस्य हेतुः । संक्षिप्तेन सर्वे ऽकुशला मनस्काराः संक्लेशस्य हेतुः, सर्वे कुशला मनस्कारा व्यवदानस्य हेतुः ॥
तत्र यः संक्लेशस्य हेतुः, यश् च व्यवदानस्य हेतुः, सर्वे ते धर्माः प्रकृतिशून्या निःसत्त्वा निर्जीवा निष्पोषा निष्पुरुषा निष्पुद्गला अस्वामिका अपरिग्रहा निर्व्यापारा मायोपमा अलक्षणा अध्यात्मोपशान्ताः । यश् चाध्यात्मोपशमः स प्रशमः । यः प्रशमः सा प्रकृतिः । या प्रकृतिः सो ऽनुपलम्भः । यो ऽनुपलम्भः सो ऽनिलयः । यश् चानिलयः तत् खम् । खं चाकाशम् । स आकाशसमान् सर्वधर्मान् प्रजानाति, संक्लेशव्यवदानेन च व्यवहरति, न चाकाशधर्मतां विजहाति । तत् कस्माद् धेतोः । न कश्चिन् मञ्जुश्रीर् धर्मः संविद्यते यस्योत्पादो निरोधो वा भवेत् ॥
§19 म्स्. 18अ4-6, प्. 320अ5-8, द्. 292ब्5-7, त्. 357 245ब्6-11, त्. 358 252अ1-6, त्. 359(द्) 259च्20-26.
मञ्जुश्रीर् आह । तत् कथं भगवंस् तथागतेन बोधिः प्राप्ता । भगवान् आह । अमूलाप्रतिष्ठाना मञ्जुश्रीस् तथागतेन बोधिः प्राप्ता । मञ्जुश्रीर् आह । तत्र कतमद् भगवन् मूलं कतमत् प्रतिष्ठानम् । भगवान् आह । सत्कायो मञ्जुश्रीर् मूलम् अभूतपरिकल्पः प्रतिष्ठानम् । तत् तथागतेन मञ्जुश्रीर् बोधिसमतया सर्वधर्मसमता ज्ञाता । तस्माद् उच्यते मञ्जुश्रीर् अमूलाप्रतिष्ठाना तथागतेन बोधिर् अभिसंबुद्धेति ॥
§20 म्स्. 18अ6-ब्6, प्. 320अ8-ब्6, द्. 292ब्7-293अ6, त्. 357 245ब्12-18, त्. 358 252अ6-11, त्. 359(द्) 259च्26-260अ8.
बोधिर् मञ्जुश्रीः शान्ता चोपशान्ता च । तत्र कतमः शमः कतम उपशमः । अध्यात्मं शमः, बहिर्धोपशमः । तत् कस्माद् धेतोः । चक्शुर् मञ्जुश्रीः शून्यम् आत्मना चात्मीयेन च, प्रकृतिर् अस्यैषा, अयम् उच्यते शम इति । स चक्षुः शून्यम् इति परिज्ञाय रूपेषु न धावति, तेनोच्यत उपशम इति ।
एवं श्रोत्रं शून्यम् आत्मना चात्मीयेन च, प्रकृतिर् अस्यैषा, अयम् उच्यते शम इति । स श्रोत्रं शून्यम् इति परिज्ञाय शब्देषु न धावति, तेनोच्यत उपशम इति ।
घ्राणं शून्यम् आत्मना चात्मीयेन च, प्रकृतिर् अस्यैषा, अयम् उच्यते शम इति । स घ्राणं शून्यम् इति परिज्ञाय गन्धेषु न धावति, तेनोच्यत उपशम इति ।
जिह्वा शून्यात्मना चात्मीयेन च, प्रकृतिर् अस्या एषा, अयम् उच्यते शम इति । स जिह्वा शून्येति परिज्ञाय रसेषु न ( जाअ 55 ) धावति, तेनोच्यत उपशम इति ।
कायः शून्य आत्मना चात्मीयेन च, प्रकृतिर् अस्यैषा, अयम् उच्यते शम इति । स कायं शून्यम् इति परिज्ञाय स्प्रष्टव्येषु न धावति, तेनोच्यत उपशम इति ।
मनो मञ्जुश्रीः शून्यम् आत्मना चात्मीयेन च, प्रकृतिर् अस्यैषा, अयम् उच्यते शम इति । स मनः शून्यम् इति परिज्ञाय धर्मेषु न धावति, तेनोच्यत उपशम इति ॥
§21 म्स्. 18ब्6-19अ1, प्. 320ब्6-8, द्. 293अ6-7, त्. 357 245ब्18-21, त्. 358 -, त्. 359(द्) 260अ8-12.
बोधिर् मञ्जुश्रीः प्रकृतिप्रभास्वरा चित्तप्रकृतिप्रभास्वरतया । तेन कारणेनोच्यते प्रकृतिप्रभास्वरेति । या सा प्रकृति सासंक्लिष्टा, आकाशसमा, आकाशप्रकृतिः, आकाशसमवसरणा, आकाशोपमा, अत्यन्तप्रभास्वरा प्रकृतिः ॥
§22 म्स्. 19अ1-4, प्. 320ब्8-321अ3, द्. 293अ7-ब्2, त्. 357 245ब्22-27, त्. 358 252अ11-15, त्. 359(द्) 260अ12-16.
बोधिर् मञ्जुश्रीर् अनायूहानिर्यूहा । तत्र कतमानायूहता कतमानिर्यूहता । अनायूहस् तेनोच्यते ऽग्रहः सर्वधर्माणाम् । अनिर्यूह उच्यते ऽनुत्सर्गः सर्वधर्माणाम् । तत्र मञ्जुश्रीस् तथागतो ऽनायूहो ऽनिर्यूह ओघम् अवतार्षीत् । तथा चावतार्षीद् यथा तथताया नापारं न पारं समनुपश्यति । इति ह्य् अपारपारविगताः सर्वधर्मास् तथागतेनाभिसंबुद्धाः । तेन तथागत इत्य् उच्यते ॥
§23 म्स्. 19अ4-ब्1, प्. 321अ3-8, द्. 293ब्2-6, त्. 357 245ब्27-च्5, त्. 358 252अ15-18, त्. 359(द्) 260अ16-25.
बोधिर् मञ्जुश्रीर् अनिमित्तानारम्बणा । तत्र कतमानिमित्तता कतमानारम्बणता । चक्षुर्विज्ञानानुपलब्धिर् मञ्जुश्रीर् अनिमित्तता । रूपस्यासमनुपश्यनतानारम्बणता । श्रोत्रविज्ञानानुपलब्धिर् अनिमित्तता । शब्दाश्रवणतानारम्बणता। घ्राणविज्ञानानुपलब्धिर् अनिमित्तता । गन्धाघ्राणतानारम्बणता । जिह्वाविज्ञानानुपलब्धिर् अनिमित्तता । रसास्वादनतानारम्बणता । कायविज्ञानानुपलब्धिर् अनिमित्तता । स्प्रष्टव्यास्पृशणतानारम्बणता । मनोविज्ञानानुपलब्धिर् अनिमित्तता । धर्माविज्ञानतानारम्बणता । अयं मञ्जुश्रीर् आर्याणां गोचरः । यस् त्रैधातुके ऽगोचरः, अयं मञ्जुश्रीर् आर्याणां गोचरः ॥
§24 म्स्. 19ब्1-3, प्. 321अ8-ब्3, द्. 293ब्7-294अ2, त्. 357 245च्5-11, त्. 358 252अ18-22, त्. 359(द्) 260अ25-260ब्1.
बोधिर् मञ्जुश्रीर् नातीता नानागता न प्रत्युत्पन्ना त्र्यध्वसमा त्रिमण्डलपरिच्छिन्ना । तत्र कतमो मञ्जुश्रीस् त्रिमण्डलपरिच्छेदः । यद् अतीते चित्तं नोपलभ्यते । अनागते विज्ञानं न धावति । न प्रत्युत्पन्ने मनस्कारः प्रवर्तते । स चित्तमनोविज्ञानाप्रतिष्ठितो न कल्पयति न विकल्पयति । अनवकल्पयन्न् अविकल्पयन् नातीतं करोत्य् अनागतं न मन्यते प्रत्युत्पन्नं न प्रपञ्चयति ॥
§25 म्स्. 19ब्3-6, प्. 321ब्3-ब्7, द्. 294अ2-5, त्. 357 245च्11-17, त्. 358 252अ22-24, त्. 359(द्) 260ब्1-6.
बोधिर् मञ्जुश्रीर् अशरीरासंस्कृता । तत्राशरीरता मञ्जुश्रीर् या न चक्षुर्विज्ञानविज्ञेया, न श्रोत्र, न घ्राण, न जिह्वा, न काय, न मनोविज्ञानविज्ञेया । यन् मञ्जुश्रीर् न चित्तमनोविज्ञानविज्ञेयं तद् असंस्कृतम् । असंस्कृतम् उच्यते यत्र नोत्पादो न स्थितिर् न व्ययः । तद् उच्यते त्रिमण्डलपरिशुद्धम् असंस्कृतम् । यथैवासंस्कृतस् तथैवं संस्कृतं बोद्धव्यम् । तत् कस्य हेतोः । सर्वधर्माणां यः स्वभावः सो ऽस्वभावः, तत्र नास्ति द्वयम् इति ॥
§26 म्स्. 19ब्6-20अ3, प्. 321ब्7-322अ4, द्. 294अ5-ब्1, त्. 357 245च्17-27, त्. 358 252 अ24-ब्3, त्. 359(द्) 260ब्6-16.
बोधिर् मञ्जुश्रीर् अभेदपदम् एतत् । तत्र कतमो ऽभेदः, कतमत् पदम् । असंज्ञाभेदस् तथता पदम् । अप्रतिष्ठानम् अभेदो धर्मधातुः पदम् । अनानात्वम् अभेदो भूतकोटिः पदम् । अनिलम्भो ऽभेदो ऽचलनता पदम् । शून्यताभेदो ऽनिमित्तं पदम् । अवितर्को ऽभेदो ऽप्रणिहितं पदम् । अप्रार्थनाभेदो निःसत्त्वता पदम् । सत्त्वास्वभावो ऽभेद आकाशं पदम् । अनुपलम्भो ऽभेदो ऽनुत्पादं पदम् । अनिरोधो ऽभेदो ऽसंस्कृतं पदम् । अप्रचारो ऽभेदो बोधिः पदम् । व्युपशमो ऽभेदो निर्वाणं पदम् । अनभिनिर्वृत्तिर् अभेदो ऽजातिः पदम् ॥
§27 म्स्. 20अ3-6, प्. 322अ4-7, द्. 294ब्1-4, त्. 357 245च्27-246अ4, त्. 358 252ब्3-7, त्. 359(द्) 260ब्16-21.
बोधिर् मञ्जुश्रीर् न कायेनाभिसम्बुध्यते न चित्तेन । तत् कस्माद् धेतोः । जडः कायो मञ्जुश्रीर् निश्चेष्टो ऽचेतनस् तृणकाष्ठकुड्यलोष्टप्रतिभासोपमः । चित्तं च मायोपमं रिक्तं तुच्छम् अभूतम् असंस्कृतम् । यो मञ्जुश्रीर् एवं कायस्य चित्तस्य चावबोधः, अयम् उच्यते मञ्जुश्रीर् बोधिः । व्यवहारम् उपादाय न पुनः परमार्थतः । तत् कस्माद् धेतोः । न मञ्जुश्रीर् बोधिः कायेन वा चित्तेन वा धर्मेण वा अधर्मेण वा भूतेन वाभूतेन वा सत्येन वा मृषा वा वचनीया ॥
§28 म्स्. 20अ6-ब्2, प्. 322अ7-322ब्3, द्. 294ब्4-7, त्. 357 246अ4-12, त्. 358 252ब्7-10, त्. 359(द्) 260ब्21-27.
अवचनीया मञ्जुश्रीर् बोधिः सर्वधर्मैः । तत् कस्माद् धेतोः । न मञ्जुश्रीर् बोधिः किञ्चित् स्थानं येन च व्यवहारं गच्छेत् । यथा मञ्जुश्रीर् आकाशस्थानम् असंस्कृतम् अनुत्पन्नम् अनिरुद्धम् अवचनीयं तथा मञ्जुश्रीर् बोधिर् असंस्कृतास्थानानुत्पन्नानिरुद्धावचनीया । यथा मञ्जुश्रीर् भूतं परिगवेष्यमाणं सर्वधर्मैर् अवचनीयम्, एवम् एव मञ्जुश्रीर् बोधिर् भूता परिगवेष्यमाणा सर्वधर्मैर् अवचनीया । तत् कस्माद् धेतोः । न मञ्जुश्रीर् भूते वचनं संविद्यते ऽनुत्पन्नानिरुद्धत्वात् ॥
§29 म्स्. 20ब्2-21अ4, प्. 322ब्3-323अ5, द्. 294ब्7-295ब्1, त्. 357 246अ12-ब्2, त्. 358 252ब्10-16, त्. 359(द्) 260ब्27-च्15.
बोधिर् मञ्जुश्रीर् अग्राह्यतानालयता । तत्र मञ्जुश्रीः कतमाग्राह्यता कतमानालयता । चक्षुःपरिज्ञा मञ्जुश्रीर् अग्राह्यता रूपानुपलब्धिर् अनालयता । श्रोत्रपरिज्ञाग्राह्यता शब्दानुपलब्धिर् अनालयता । घ्राणपरिज्ञाग्राह्यता गन्धानुपलब्धिर् अनालयता । जिह्वापरिज्ञाग्राह्यता रसानुपलब्धिर् अनालयता । कायपरिज्ञाग्राह्यता स्प्रष्टव्यानुपलब्धिर् अनालयता । मनःपरिज्ञाग्राह्यता धर्मानुपलब्धिर् अनालयता ॥
एवं तथागतेनाग्राह्यानालया बोधिर् अभिसंबुद्धा । अभिसंबुध्य चक्षुषो ऽननुग्रहाय रूपानुपलब्धितश् चक्षुर्विज्ञानं न प्रतिष्ठितम् । श्रोत्राननुग्रहाय शब्दानुपलब्धितः श्रोत्रविज्ञानं न प्रतिष्ठितम् । घ्राणाननुग्रहाय गन्धानुपलब्धितो घ्राणविज्ञानं न प्रतिष्ठितम् । जिह्वाननुग्रहाय रसानुपलब्धितो जिह्वाविज्ञानं न प्रतिष्ठितम् । कायाननुग्रहाय स्प्रष्टव्यानुपलब्धितः ( जाअ 60 ) कायविज्ञानं न प्रतिष्ठितम् । मनोऽननुग्रहाय धर्मानुपलब्धितो मनोविज्ञानं न प्रतिष्ठितम् । तेनाप्रतिष्ठितविज्ञानस् तथागतो ऽर्हन् सम्यक्सम्बुद्ध इति संख्यां गच्छति ॥
चत्वारीमानि मञ्जुश्रीः सत्त्वानां चित्तप्रतिष्ठानि । कतमानि चत्वारि यद् उत रूपं सत्त्वानां चित्तस्य प्रतिष्ठानम् । एवं वेदनासंज्ञासंस्कारा मञ्जुश्रीः सत्त्वानां चित्तस्य प्रतिष्ठानम् । तानि खलु पुनर् इमानि मञ्जुश्रीश् चत्वारि चित्तस्य प्रतिष्ठानानि तथागतेनानुत्पन्नान्य् अनिरुद्धानीति ज्ञातानि ॥
§30 म्स्. 21अ4-ब्6, प्. 323अ5-ब्7, द्. 295ब्1-296अ2, त्. 357 246अब्2-19, त्. 358 252ब्16-26, त्. 359(द्) 260च्15-261अ5.
बोधिर् इति मञ्जुश्रीः शून्यताया एतद् अधिवचनम् । यया शून्यतया मञ्जुश्रीर् बोधिः शून्या तया शून्यतया मञ्जुश्रीः सर्वधर्माः शून्याः । ते तथागतेन यथैव शून्यास् तथैवाभिसंबुद्धाः । न मञ्जुश्रीः शून्यतया शून्यताभिसंबुद्धाः । अपि तु खलु पुनर् मञ्जुश्रीर् एकनयम् एतद् यद् उत शून्यता वा बोधिर् वा । यत्र मञ्जुश्रीर् न शून्यता न बोधिः, न तत्र मञ्जुश्रीः किंचिद् द्वयं येन द्वयेन शून्यता वा बोधिर् वा द्विधाक्रियते । तत् कस्माद् धेतोः । अद्वया मञ्जुश्रीः सर्वधर्मा अलक्षणा अद्वैधीकारा अनामानो ऽनिमित्ताश् चित्तमनोविज्ञानापगता अनुत्पन्ना अनिरुद्धा ( जाअ 61 ) अनाचारा अप्रचारा असमुदाचारा अनक्षरा अघोषाः ॥
यत् पुनर् उच्यते मञ्जुश्रीः शून्यम् इति, अनभिनिवेशग्राहस्यैतद् अधिवचनम् । न पुनर् अत्र मञ्जुश्रीः परमार्थतः कश्चिद् धर्म उपलभ्यते यः शून्यम् इत्य् उच्यते । यथा मञ्जुश्रीर् आकाशम् आकाशम् इत्य् उच्यते, अवचनीयम् आकाशम् । एवम् एव मञ्जुश्रीः शून्यं शून्यम् इत्य् उच्यते, अवचनीयेषु शून्येषु प्रवेशः सर्वधर्माणाम् । अनामका मञ्जुश्रीः सर्वधर्मानाम् अतश् च व्याक्रियन्ते । न मञ्जुश्रीर् नाम देशस्थं न प्रदेशस्थं । तथाभिसंबुद्धास् तथागतेन । नाम्ना यो धर्मो ऽभिलप्यते सो ऽपि धर्मो न देशस्थो न प्रदेशस्थः ।
एवम् एते मञ्जुश्रीः सर्वधर्मास् तथागतेन ज्ञाता आदित एवाजाता अनुत्पन्ना अनिरुद्धा अलक्षणाश् चित्तमनोविज्ञानापगता अनक्षरा अघोषाः । यथा ज्ञातास् तथैवाधिमुक्ताः । न मञ्जुश्रीर् बुद्धो ऽधिमुच्यते ॥
§31 म्स्. 21ब्6-22अ4, प्. 323ब्7-324अ5, द्. 296अ2-7, त्. 357 246ब्19-246च्1, त्. 358 252ब्26-252च्3, त्. 359(w) 261अ5-19.
बोधिर् मञ्जुश्रीर् आकाशसमा । आकाशं च न समं न ( जाअ 62 ) विषमं बोधिर् अपि न समा न विषमा । तत् कस्माद् धेतोः । यस्य मञ्जुश्रीर् धर्मस्य न भूतपरिनिष्पत्तिर् नासौ समो न विषमो वा वक्तव्य इति । हि मञ्जुश्रीस् तथागतेन सर्वधर्मा असमा अविषमा अभिसंबुद्धाः । तथा चाभिसंबुद्धा अथाणुर् अपि न समीकृतो न विषमीकृतः । यादृशा एव ते धर्माः तादृशा एव विज्ञाताः । भूतज्ञानेन कतमच् च मञ्जुश्रीः सर्वधर्मा अनुत्पन्नानिरुद्धाः, अभूत्वा भवन्ति, अभूत्वाश् च प्रति विगच्छन्ति । ते चास्वामिका अपरिग्रहाः संभवन्ति, अस्वामिका अपरिग्रहाश् च मञ्जुश्रीः प्रति विगच्छन्ति । इति हि मञ्जुश्रीः संभवन्ति विभवन्ति च प्रतीत्य धर्मे वर्तन्ते न चात्र कश्चिद् वर्तयिता । तद् उच्यते धर्मोपच्छेदाय तथागतो धर्मं देशयतीति ॥
§32 म्स्. 22अ4-22ब्3, प्. 324अ5-ब्5, द्. 296अ7-296ब्6, त्. 357 246च्2-17, त्. 358 252च्3-8, त्. 359(w) 261अ20-261ब्9.
बोधिर् इति मञ्जुश्रीर् यथावत्पदम् एतत् । तत्र मञ्जुश्रीः कतमद् यथावत्पदम् । मञ्जुश्रीर् बोधिः, यथा बोधिस् तथा रूपं तथतान् न व्यतिवर्तते । यथा बोधिस् तथा वेदनासंज्ञासंस्कारविज्ञानं तथतान् न व्यतिवर्तते । यथा बोधिस् तथा पृथिवीधातुस् तथतान् न व्यतिवर्तते । ( जाअ 63 ) यथा बोधिस् तथाप्धातुस् तेजोधातुस् तथतान् न व्यतिवर्तते । यथा बोधिस् तथा चक्षुर्धातू रूपधातुश् चक्षुर्विज्ञानधातुस् तथतान् न व्यतिवर्तते । यथा हि मञ्जुश्रीर् बोधिस् तथा श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातुः, घ्राणधातुर् गन्धदातुर् घ्राणविज्ञानधातुः, जिह्वाधातू रसधातुर् जिह्वाविज्ञानधातुः, कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुः, मनोधातुर् धर्मधातुर् मनोविज्ञानधातुस् तथतान् न व्यतिवर्तन्ते । एतावती चेयं धर्मप्रज्ञप्तिः । यदुत स्कन्धधात्वायतनप्रज्ञप्तिः । सा तथागतेन यथावदभिसंबुद्धा यथैव पूर्वात् तथा पश्चात् तथा मध्ये । पूर्वान्ततो ऽजातापरान्ततो ऽसंक्रान्ता मध्यो विविक्ता । एवम् एवैषां यथावत्पदं भवति । यथैकस् तथा सर्वे, यथा सर्वे तथा चैकः । न चात्र मञ्जुश्रीर् एकत्वं वा बहुत्वं चोपलभ्यते ॥
§33 म्स्. 22ब्3-7, प्. 324ब्5-325अ1, द्. 296ब्6-297अ2, त्. 357 246च्17-23, त्. 358 252च्8-12, त्. 359(w) 261ब्9-15.
बोधिर् मञ्जुश्रीर् आकारप्रविशेनानाकारप्रविष्टा । तत्र मञ्जुश्रीः कतम आकारः । कतमश् चानाकारः । आकारो मञ्जुश्रीर् उच्यत आरम्भः सर्वेषां कुशलानां धर्माणाम् । अनाकार उच्यते ऽनुपलम्भः सर्वेषां धर्माणाम् । आकार उच्यते ऽनवस्थितस्य चित्तस्यावस्थानम् । अनाकार उच्यते ( जाअ 63 ) ऽनिमित्तः समाधिर् विमोक्षमुखम् । आकार उच्यते चित्तनातुलनागणनाप्रत्यवेक्षाविमोक्षः सर्वधर्माणाम् । अनाकार उच्यते तुलासमतिक्रमः । कतमश् च तुलासमतिक्रमः । यत्र विज्ञानकर्म नास्ति । आकार उच्यते संस्कृतप्रत्यवेक्षा । अनाकार उच्यते ऽसंस्कृतप्रत्यवेक्षा ॥
§34 म्स्. 22ब्7-23ब्4, प्. 325अ1-325ब्6, द्. 297अ2-297ब्5, त्. 357 246च्23-249अ18, त्. 358 252च्12-26, त्. 359(w) 261ब्16-261च्10.
बोधिर् मञ्जुश्रीर् अनास्रवो ऽनुपादानता । तत्र मञ्जुश्रीः कतमो ऽनास्रवः कतमानुपादानता । अनास्रवता मञ्जुश्रीर् उच्यते चतुर्णाम् आस्रवानां विगमः । कतमेषां चतुर्णाम्, यदुत कामास्रवस्य, भवास्रवस्य, अविद्यास्रवस्य, दृष्ट्वास्रवस्य च, एषां चतुर्णाम् आस्रवाणाम् । अनुपादानतोच्यते चतुर्णाम् उपादानानां विगमः । कतमेषां चतुर्णाम् । कामोपादानस्य, दृष्ट्युपादानस्य, शीलव्रतपरामर्शोपादानस्य, आत्मवादोपादानस्य च, एषां चतुर्णाम् उपादानानाम् । सर्वाण्य् अविद्यया अन्धीकृतानि, तृष्णयालालपितानि, अन्योन्याभिनिवेश्योपादीयन्ते । तत्र मञ्जुश्रीस् तथागत आत्मवादोपादानमूलपरिज्ञातावी । आत्मविशुद्ध्या सर्वसत्त्वविशुद्धिम् अनुगतः । या चात्मविशुद्धिः सा सर्वसत्त्वविशुद्धिः । या सर्वसत्त्वविशुद्धिर् अद्वैधा अद्वैधीकारा । ( जाअ 65 ) यश् चाद्वयार्थः सो ऽनुत्पादानिरोधः ।
अनुत्पादानिरोधे मञ्जुश्रीश् चित्तमनोविज्ञानं न प्रवर्तते । तत्र न कश्चित् परिकल्पः । येन विकल्पो ऽयोनिशो ऽमनसि कुर्यात् । स योनिशो मनस्कारप्रवृतो ऽविद्यां न समुत्थापयति । यच् चाविद्याया असमुत्थानं तद् द्वादशानां भवाङ्गानाम् असमुत्थानम् । यद् द्वादशानां भवाङ्गानाम् असमुत्थानं साजातिः । या चाजातिः स नियामः । यो नियामः स नीतार्थः । यो नीतार्थः स परमार्थः । यः परमार्थः स निःपुद्गलार्थः । यो निःपुद्गलार्थः सो ऽनभिलाप्यार्थः । यश् चानभिलाप्यार्थः स प्रतीत्यसमुत्पादार्थः । यः प्रतीत्यसमुत्पादार्थः स धर्मार्थः । यो धर्मार्थः स तथागतार्थः । तेनोच्यते । यः प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यति । यो धर्मं पश्यति स तथागतं पश्यति । तथा च पश्यति यथा परिगवेष्यमाणो न किंचित् पश्यति । तत्र मञ्जुश्रीः कतमत् किंचित् । यदुत चित्तम् आरम्बणं च । स यदा न चित्तम्, न चारम्बणं पश्यति तदा भूतम् पश्यति । एवम् एते धर्मास् तथागतेन संबुद्धाः समतया समाः ॥
§35 म्स्. 23ब्4-24अ6, प्. 325ब्6-3261, द्. 297ब्5-298अ7, त्. 357 247अ1-8, त्. 358 252च्26-253अ17, त्. 359(w) 261च्11-262अ5.
बोधिर् मञ्जुश्रीः शुद्धा विमला अनङ्गणाः । तत्र मञ्जुश्रीः कतमा शुद्धिः, कतमद् विमलम्, कतमद् अनङ्गणम् । शून्यता मञ्जुश्रीः शुद्धिः, आनिमित्तं विमलम्, ( जाअ 66 ) अप्रणिहितम् अनङ्गणम् । अजातिः शुद्धिः, अनभिसंस्कारो विमलम्, अनुत्पादो ऽनङ्गणम् । प्रकृतिर् विशुद्धिः, परिशुद्धिर् विमलम्, प्रभास्वरतानङ्गणम् । अप्रपञ्चः शुद्धिः, निष्प्रपञ्चो विमलम्, प्रपञ्चव्युपशमो ऽनङ्गणम् । तथता विशुद्धिः, धर्मधातुर् विमलम्, भूतकोटिर् अनङ्गणम् । आकाशं शुद्धिः, गगनं विमलम्, खम् अनङ्गणम् । अध्यात्मः परिशुद्धिः, बहिर्धाप्रचारो विमलम्, अध्यात्मबहिर्धा चानुपलब्धिर् अनङ्गणम् । स्कन्धपरिज्ञा शुद्धिः, धातुस्वभावो विमलम्, आयतनानाम् अपकर्षो ऽनङ्गणम् । अतीते क्षयज्ञानं शुद्धिः, अनागते ऽनुत्पादज्ञानं विमलम्, प्रत्युत्पन्ने धर्मधातुस्थितिज्ञानम् अनङ्गणम् ।
इति हि मञ्जुश्रीः शुद्धिर् विमलम् अनङ्गणम् इत्य् एकपदेस्मिन् समवसरन्ति । यदुत शान्तपदे । यच् छान्तं तत् प्रशान्तम् । यत् प्रशान्तं तद् उपशान्तम् । यद् उपशान्तं स उपशमः । यश् चोपशमः स मुनिर् इत्य् उच्यते । इति हि मञ्जुश्रीर् यथाकाशं तथा बोधिः । यथा बोधिस् तथा धर्माः । यथा धर्मास् तथा सत्त्वाः । यथा सत्त्वास् तथा क्षेत्राणि । यथा क्षेत्राणि तथा निर्वाणम् । तेनोच्यते मञ्जुश्रीर् निर्वाणसमाः सर्वधर्माः । निष्ठापर्यन्तकारणे ऽप्रतिपक्षः । निःप्रतिपक्षकारणेनादिशुद्धाः, आदिविमलाः, आद्यनङ्गणाः । तत्र मञ्जुश्रीस् तथागतस्यैवंरूपान् सर्वधर्मान् अभिसंबुद्धस्य सत्त्वानां ( जाअ 67 ) च धातुं व्यवलोकयतः, शुद्धा विमला अनङ्गणा विक्रीडिता नाम सत्त्वेषु महाकरुणाः प्रवर्तते ॥
§36 म्स्. 24अ6-25अ6, प्. 326ब्1-327ब्1, द्. 298अ7-299अ6, त्. 357 247ब्11-247च्12, त्. 358 253अ17-253ब्1, त्. 359(w) 262अ6-262ब्5.
कथं मञ्जुश्रीर् बोधिसत्त्वश् चरति बोधिसत्त्वचर्यायाम् । यदा मञ्जुश्रीर् बोधिसत्त्वो न क्षयाय नोत्पादाय नाक्षयाय नानुत्पादाय नान्यत्क्षीणक्षयाय च मन्यते, अत्यन्तानुत्पादं च न विकोपयति । एवं च मञ्जुश्रीश् चरति बोधिसत्त्वचर्यायाम् । पुनर् अपरं मञ्जुश्रीर् बोधिसत्त्वो ऽतीतं चित्तं क्षीणम् इति न चरति । अनागतं चित्तम् असंप्राप्तम् इति न चरति । प्रत्युत्पन्नं चित्तं स्थितम् इति न चरति । न चातीतानागतप्रत्युत्पन्नेषु चित्तेषु सजति । एवं चरन् मञ्जुश्रीर् बोधिसत्त्वश् चरति बोधिसत्त्वचर्यायाम् । दानं मञ्जुश्रीर् बोधिः सत्त्वाश् च तथागतश् चाद्वयम् एतद् अद्वैधीकारम् । एवं चरन् बोधिसत्त्वश् चरति बोधिसत्त्वचर्यायाम् । शीलं मञ्जुश्रीर् बोधिः सत्त्वाश् च तथागतश् चाद्वयम् एतद् अद्वैधीकारम् । एवं चरन् बोधिसत्त्वश् चरति बोधिसत्त्वचर्यायाम् । एवं क्षान्तिर् बोधिः सत्त्वाश् च तथागतश् च, वीर्यं बोधिः सत्त्वाश् च तथागतश् च, ( जाअ 68 ) ध्यानं बोधिः सत्त्वाश् च तथागतश् च, एवं प्रज्ञा बोधिस् तथागतश् च सत्त्वाश् चाद्वयम् एतद् अद्वैधीकारम् । एवं चरन् मञ्जुश्रीर् बोधिसत्त्वश् चरति बोधिसत्त्वचर्यायाम् । सचेन् मञ्जुश्रीर् बोधिसत्त्वो न रूपं शून्यम् इति चरति नाशून्यम् इति । एवं चरन् मञ्जुश्रीर् बोधिसत्त्वश् चरति बोधिसत्त्वचर्यायाम् । तत् कस्माद् धेतोः । रूपम् एव शून्यं रूपस्वभावेन । एवं वेदनासंज्ञासंस्कारविज्ञानं शून्यम् इति चरति नाशून्यम् इति । एवं चरन् मञ्जुश्रीर् बोधिसत्त्वश् चरति बोधिसत्त्वचर्यायाम् । तत् कस्माद् धेतोः । चित्तमनोविज्ञानानुपलब्धित्वात् । स न कश्चिन् मञ्जुश्रीर् धर्मो विद्यते, यस्य परिज्ञानं वा प्रहाणं वा भावना वा साक्षात्क्रिया वा भवेत् । यो सा मञ्जुश्रीर् बुध्यते । क्षय इत्य् अन्तक्षय एवासौ, यश् चात्यन्ततत्क्षीणो न स क्षपयितव्यः । अक्षेयक्षीयत्वाद् अक्षयः । तत् कस्माद् धेतोः । यथा च क्षयः सः । यश् च यथावत् क्षयः स न कस्यचित् क्षयः । यस्य न कस्यचित् क्षयस् तद् असंस्कृतम् । यद् असंस्कृतं तत्र नोत्पादो न निरोधः । तेनोच्यते । उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा स्थितैवैषा धर्मता धर्मस्थितिता धर्मधातुः । यथा धर्मधातुस्थितिस् तथागतज्ञानं न प्रवृत्तं न निवृत्तम् । ईदृशेन धर्मनयप्रवेशेन आस्रवा नोत्पद्यन्ते न निरुध्यन्ते । आस्रवक्षय इति मञ्जुश्रीर् व्यवहाररुताक्षरसंकेतप्रज्ञप्तिर् एषा नात्र कश्चिद् धर्म उत्पद्यते वा निरुध्यते वा ॥
इव्
§37 म्स्. 25अ6-27अ2, प्. 327ब्1-329अ6, द्. 299अ6-300ब्7, त्. 357 247च्12-248अ6, त्. 358 ö, त्. 359(w) 262ब्6-263ब्2.
अथ खलु मञ्जुश्रीः कुमारभूत उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य गाथाभिर् भगवतम् अभ्यष्टावीत् ।
अवर्णलिङ्गसंस्थान अनिरोध असंभव ।
अमूल अप्रतिष्ठान निरालम्ब नमो ऽस्तु ते
अप्रतिष्ठ अनायूह अनियूहानवस्थित ।
षडायतनविनिर्मुक्त निरालम्ब नमो ऽस्तु ते
अस्थित सर्वधर्मेषु भावाभावविवर्जित ।
संस्कारसमताप्राप्त निरालम्ब नमो ऽस्तु ते
त्रैधातुकविनिर्मुक्त आकाशसमतां गतः ।
नोपलेप्यसि कामेषु निरालम्ब नमो ऽस्तु ते
सदा समाहितश् चासि गच्छंस् तिष्ठं शयन्न् अपि ।
ईर्यापथेषु सर्वेषु निरालम्ब नमो ऽस्तु ते
समं क्षेषि समं यासि समतायां प्रतिष्ठितः ।
समतां न विकोपेसि निरालम्ब नमो ऽस्तु ते
समतां च समापन्नः सर्वधर्मसमाहितः ।
आनिमित्तसमापन्न निरालम्ब नमो ऽस्तु ते
अप्रतिष्ठित निरालम्ब प्रज्ञाकूटसमाहित ।
धर्मैश्वर्यम् अनुप्राप्त निरालम्ब नमो ऽस्तु ते
सर्वसत्त्वान ये रूपा रुतघोषास् तथैर्यताः ।
एकक्षणेन देशेषि निरालम्ब नमो ऽस्तु ते
नामरूपविनिर्मुक्त स्कन्धहेतुसमुच्छिदः ।
अनाकारप्रवेशो ऽसि निरालम्ब नमो ऽस्तु ते
निमित्तापगतश् चासि निमित्तकारवर्जितः ।
आनिमित्तप्रवेशो ऽसि निरालम्ब नमो ऽस्तु ते
अविकल्पितसंकल्प अप्रतिष्ठितमानस ।
अस्मृत्य् अमनसीकार निरालम्ब नमो ऽस्तु ते
अनालयं यथाकाशं निःप्रपञ्चं निरञ्जनम् ।
आकाशसमचित्तो ऽसि निरालम्ब नमो ऽस्तु ते
अनन्तमध्यम् आकाशं बुद्धानां चैव धर्मता ।
त्र्यध्वसमतिक्रान्त निरालम्ब नमो ऽस्तु ते
आकाशलक्षणा बुद्धा आकाशं चाप्य् अलक्षणम् ।
कार्यकारणनिर्मुक्त निरालम्ब नमो ऽस्तु ते
दकचन्द्रवद् अग्राह्य सर्वधर्मेष्व् अनिश्रितः ।
अनहंकार अनिर्घोष निरालम्ब नमो ऽस्तु ते
अनिश्रितो ऽसि स्कन्धेषु धातुष्व् आयतनेषु च ।
विपर्यासविनिर्मुक्त निरालम्ब नमो ऽस्तु ते
अन्तद्वयविनिर्मुक्त आत्मदृष्टिसमुच्छिदः ।
धर्मधातुसमताप्राप्त निरालम्ब नमो ऽस्तु ते
रूपसंख्याविनिर्मुक्त असद्धर्मविवर्जितः ।
अनुपादान अत्याग निरालम्ब नमो ऽस्तु ते
मारदोषसमतिक्रान्तो धर्मधातुं गतिंगतः ।
अनावरणधर्मो ऽसि निरालम्ब नमो ऽस्तु ते
अस्तीति नोच्यते ऽर्थज्ञैः नास्तीत्य् अपि तु नोच्यते ।
अवाक्पथ अनादान निरालम्ब नमो ऽस्तु ते
द्वयधर्म अनिश्रित्य मानध्वजसमुच्छिदः ।
द्वयाद्वयविनिर्मुक्त निरालम्ब नमो ऽस्तु ते
जितास् ते मानसा दोषाः शारीराश् च चतुर्विधाः ।
अचिन्त्य विगतौपम्य निरालम्ब नमो ऽस्तु ते
अनाभोगप्रवृत्तो ऽसि सर्वदोषविवर्जितः ।
ज्ञानपूर्वङ्गमा चेष्ता निरालम्ब नमो ऽस्तु ते
अनास्रवा ते स्मृतिः सूक्ष्मा भूताभूतेषु तन्मया ।
अनिकेत असंकल्प निरालम्ब नमो ऽस्तु ते
अनारम्बणेन चित्तेन सर्वचित्तं प्रजानसि ।
न चात्मपरसंज्ञा ते निरालम्ब नमो ऽस्तु ते
अनारम्बण अनालम्ब सर्वचित्तान मोहन ।
अनारम्बणधर्मो ऽसि निरालम्ब नमो ऽस्तु ते
अनारम्बणं च तच्चित्तं स्वभावेन न विद्यते ।
अचिन्त्य समताप्राप्त निरालम्ब नमो ऽस्तु ते
अनिश्रितेन ज्ञानेन सर्वक्षेत्राणि पश्यसि ।
सर्वसत्त्वचरिं चैव निरालम्ब नमो ऽस्तु ते
चित्तं न लब्धं बुद्धेहि अत्यन्ताय कदाचन ।
सर्वधर्मा च सर्वज्ञ निरालम्ब नमो ऽस्तु ते
मायोपमाः सर्वधर्मा माया चैव न विद्यते ।
मायाधर्मविनिर्मुक्त निरालम्ब नमो ऽस्तु ते
लोके चरसि संबुद्ध लोकधर्मैर् अनिश्रितः ।
लोकं न च विकल्पेषि निरालम्ब नमो ऽस्तु ते
शून्ये चरसि शून्यत्वाच् छून्यत्वाच् छून्यगोचरः ।
शून्यं च शून्यम् आख्यासि निरालम्ब नमो ऽस्तु ते
विकुर्वसि महारिद्ध्या मायोपमसमाधिना ।
निर्नानात्वं समापन्न निरालम्ब नमो ऽस्तु ते
अनेकत्व अनानात्व दूरासन्ने न वर्तसे ।
अनुत्क्षेप अनिक्षेप निरालम्ब नमो ऽस्तु ते
एकक्षणे ऽभिसंबुद्ध वज्रोपमसमाधिना ।
निराभाससमापन्न निरालम्ब नमो ऽस्तु ते
अचलं वेत्सि निर्वाणं सर्वत्र्यध्वसु नायक ।
विविधोपायसम्पन्न निरालम्ब नमो ऽस्तु ते
पारंपर्येण सत्त्वानाम् उपायज्ञानकोविदः ।
अचलं वेत्सि निर्वाणं निरालम्ब नमो ऽस्तु ते
निर्निमित्त निराभोग निःप्रपञ्च निरामय ।
निराभास निरात्मैक निरालम्ब नमो ऽस्तु ते
निर्विकल्पो निरात्मीय यथैवात्मानम् आत्मना ।
वेत्सि सर्वज्ञ सर्वत्र निरालम्ब नमो ऽस्तु ते
मूल पाठ: Jñānālokālaṃkārasūtra [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtra] = JĀA · Edition: : Takayasu Kimura, Nobuo Otsuka, Hideaki Kimura, Hisao Takahashi, "Bonbun kotei 'Chikomyoshogon-kyo'; - Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtra", In: Kūkai no shiso to bunka [*A Felicitation Volume Presented to Prof. Kicho Onozuka on his seventieth birthday], Tokyo 2004, pp. 1(596)-89(508). · Data entry Study Group on Buddhist Sanskrit Literature, Taisho University · GRETIL (Göttingen) · CC BY-NC-SA 4.0