भाषा

ENहिગુ
ग्रंथ पाठ

ज्ञानालोकालंकारसूत्र · अध्याय 3

3.1

§6 म्स्. 4अ2-5ब्5, प्. 304ब्5-306ब्4, द्. 278ब्3-280ब्1, त्. 357 240अ27-241अ3, त्. 358 251अ6-251अ23, त्. 359(द्) 254च्28-255ब्23.
एवम् उक्ते भगवान् मञ्जुश्रियं कुमारभूतम् एतद् अवोचत् । साधु साधु मञ्जुश्रीः, साधु खलु पुनस् त्वं मञ्जुश्रीस् तथागतम् एतम् अर्थं परिप्रष्टव्यं मन्यसे । बहुजनहिताय त्वं मञ्जुश्रीः प्रतिपन्नो बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां चैतर्ह्य् आगतानां च बोधिसत्त्वानां महासत्त्वानां बुद्धभूमिप्रापणार्थम् । अनुत्त्रासस् ते मञ्जुश्रीर् अस्मिन् स्थाने योगः करणीयो न ( जाअ 26 ) भयं न स्तम्भितत्वम् । ज्ञानप्रतिसरणेन च ते मञ्जुश्रीर् भवितव्यम् । तथागतस्यैतम् अर्थं निर्देशतः । अनुत्पादो ऽनिरोध इति मञ्जुश्रीस् तथागतस्यैतद् अधिवचनम् । तद्यथा मञ्जुश्रीर् इयं महापृथिवी महावैडूर्यमयी संस्थिता भवेत् । एवं च संस्थिता भवेद् यथा तस्यां वैडूर्यमयां महापृथिव्यां त्रयस्त्रिंशद्भवनस्य, शक्रस्य देवानाम् इन्द्रस्य, वैजयन्तस्य च प्रासादस्य प्रतिभासः संदृश्येत् । शक्रश् च देवानाम् इन्द्रस् तत्र दिव्यैः पञ्चभिः कामगुणैः क्रीडन् रममाणः परिचारयन् संदृश्येत् ।
अथ तस्मिन् समये देवाः सर्वजम्बूद्वीपकाः स्त्रीपुरुषदारकदारिकाः संचोदयेयुः । आगच्छथ भो नरनार्यः । पश्यतेमं शक्रं देवानाम् इन्द्रं वैजयन्ते प्रासादे दिव्यैः पञ्चभिः कामगुणैः क्रीडन्तं रमन्तं परिचारयन्तम् । आगच्छथ भो नरनारिगणाः । दानानि ददत पुण्यानि कुरुत । शीलं च समादाय वर्तयत । ईदृशेषु वैजयन्तेषु प्रासादेषु क्रीडिष्यथ रमिष्यथ परिचारयिष्यथ शक्रत्वानि च करिष्यथ । ईदृश्या च रिद्ध्या समन्वागता भविष्यथ । यादृश्या च शक्रो देवानाम् इन्द्रो दिव्यैः परिभोगैः समर्पितः समन्वङ्गीभूत इति ।
अथ मञ्जुश्रीस् ते स्त्रीपुरुषदारकदारिकास् तस्यां वैडूर्यमयां महापृथिव्यां त्रयस्त्रिंशद्भवनस्य, वैजयन्तस्य प्रासादस्य, शक्रस्य देवानाम् इन्द्रस्य प्रतिभासं दृष्ट्वाञ्जलिप्रगृहं कुर्युः । पुष्पाणि च क्षिपेरन् ( जाअ 27 ) गन्धांश् च क्षिपेरन्न् एवं वाचं भाषन्ते । वयम् अप्य् एवंरूपा भवेम यादृशः शक्रो देवानाम् इन्द्रः, वयम् अप्य् एवं वैजयन्ते प्रासादे क्रीडेम रमेम परिवारयेम यथायं शक्रो देवानाम् इन्द्र इति ।
न च ते सत्त्वा एवं संजानन्ति स्म । प्रतिभासो ऽयं वैडूर्यमयां महापृथिव्यां यत्र त्रयस्त्रिंशद्भवनम्, वैजयन्तश् च प्रासादः, शक्रश् च देवानाम् इन्द्रः परिशुद्धत्वाद् महावैडूर्यस्य प्रतिभासः संदृश्यत इति । ते शक्रत्वम् अभिनन्दन्तो दानानि च ददति, पुण्यानि च कुर्वन्ति, शीलं च समादाय वर्तन्ते । तत्र च त्रयस्त्रिंशद्भवने प्रतिभास उपपत्तये कुशलमूलानि च परिणामयन्ति ।
यथा मञ्जुश्रीः तत्र च वैडूर्यमयां महापृथिव्यां नास्ति तत्र त्रयस्त्रिंशद्भवनम्, न वैजयन्तश् च प्रासादः, न च शक्रो देवानाम् इन्द्रः । अपि तु परिशुद्धत्वाद् महावैडूर्यस्य संदृश्यते त्रयस्त्रिंशद्भवनम्, वैजयन्तश् च प्रासादः, शक्रस्य देवानाम् इन्द्रः । स चासन् नोत्पन्नो न निरुद्धः परिशुद्धत्वाद् महावैडूर्यस्य प्रतिभासः संदृश्यते ।
एवम् एव मञ्जुश्रीः परिशुद्धत्वाच् चित्तस्य सुभावितत्वाद् भावनायाः सत्त्वानां तथागतात्मभावदर्शनं भवति । तथागतानुभावेन मञ्जुश्रीः सत्त्वास् तथागतं पश्यन्ति । स चाभूतो ऽनुत्पन्नो ऽनिरुद्धो न भावो नाभावो न दृश्यो नादृश्यो न लोक्यो नालोक्यो न चैत्यो नाचैत्यो न सन् नासन् ।
अथ च मञ्जुश्रीः सत्त्वास् तथागतप्रतिभासम् आरम्बणीकृत्वा पुष्पाणि क्षिपन्ति, गन्धान् वस्त्राणि रत्नानि च क्षिपन्ति । एवं च वाचं भाषन्ते । वयम् अप्य् एवंरूपा भवेम यादृशस् तथागतो ऽर्हन् सम्यक्संबुद्ध इति । ते बुद्धज्ञानाभिलाषिणो दानानि च ददति, पुण्यानि च कुर्वन्ति, शीलं च समादाय वर्तन्ते । तच् च कुशलमूलं तथागतज्ञानप्रतिलम्भाय ( जाअ 28 ) परिणामयन्ति । तद्यथा मञ्जुश्रीस् तत्र महावैडूर्यमयां महापृथिव्यां शक्रस्य देवानाम् इन्द्रस्य प्रतिभासो नेञ्जति, न मन्यते, न प्रपञ्चयति, न कल्पयति, न विकल्पयति । अकल्पो ऽविकल्पो ऽचिन्त्यो ऽमनसिकारः शान्तः शीतीभूतो ऽनुत्पादो ऽनिरोधो ऽदृष्टो ऽश्रुतो ऽनाघ्रातो ऽनास्वादितो ऽस्पृष्टो ऽनिमित्तो ऽविज्ञप्तिको ऽविज्ञापनीयः ।
एवम् एव मञ्जुश्रीस् तथागतो ऽर्हन् सम्यक्सम्बुद्धो नेञ्जति, न मन्यते, न प्रपञ्चयति, न कल्पयति, न विकल्पयति । अकल्पो ऽविकल्पो ऽचिन्त्यो ऽमनसिकारः शान्तः शीतीभूतो ऽनुत्पादो ऽनिरोधो ऽदृष्टो ऽश्रुतो ऽनाघ्रातो ऽनास्वादितो ऽस्पृष्टो ऽनिमित्तो ऽविज्ञप्तिको ऽविज्ञापनीयः । अनुत्पादगतिको हि मञ्जुश्रीस् तथागतः । अथ च प्रतिबिम्ब इव लोकेषु दृश्यते । यथाधिमुक्तिकानां च सत्त्वानां दर्शनवैमात्रतया, आयुःप्रमाणवैमात्रतां दर्शयति । परिपाचनाधिमुक्तिबलाधानतया बोधिभाजनेषु सत्त्वेषु प्रतिभासप्राप्तो भवति । यथाशयाधिमुक्त्या च सत्त्वा धर्मं शृण्वन्ति । यथाशयेन त्रियानम् इति संजानन्ति, यथाशयेन चाधिमुच्यन्ते ॥
§7 म्स्. 5ब्5-7ब्2, प्. 306ब्4-308ब्1, द्. 280ब्1-282अ4, त्. 357 241अ4-241ब्21, त्. 358 ö, त्. 359(द्) 255ब्23-256अ9
तद्यथा मञ्जुश्रीर् देवानां त्रयस्त्रिंशानां पुण्यबलपरिनिष्पन्नानां धर्मशब्दानां महाधर्मदुन्दुभिर् उपरि वैजयन्तस्य प्रसादस्यान्तरीक्षगता चक्षुःपथसमतिक्रान्ता, अदृश्या, अनालोक्या सर्वदेवपुत्रैः ।
अथ च पुनर् मञ्जुश्रीः सा महाधर्मदुन्दुभिः । यस्मिन् ( जाअ 29 ) समये देवास् त्रयस्त्रिंशत्कायिका तीव्रसततसमितं दिव्यैः कामक्रीडारतिपरिभोगैः प्रमत्ता भवन्ति, न भूयः सुधर्मायां देवसभायां प्रविश्य धर्मं संगायन्ति, शक्रश् च यदा देवानाम् इन्द्रो दिव्यैः कामक्रीडरतिपरिभोगैः प्रमत्तो भवति, न धर्मासने निषद्य धर्मं भाषते ।
तस्मिन् समये मञ्जुश्रीः सा महाधर्मदुन्दुभिर् अदृष्या चानालोक्या चक्षुःपथसमतिक्रान्तान्तरीक्षगता तादृशं धर्मशब्दं निश्चारयति । येन च धर्मशब्देन सर्वान् त्रयस्त्रिंशत्कायिकान् देवान् स्वरेण विज्ञपयति । अनित्या मार्षा रूपशब्दगन्धरसस्पर्शा मा प्रमत्तचारिणो भवथ । मा क्षिप्रम् अस्माद् भवनाच् च्यविष्यथ । दुःखा मार्षाः सर्वसंस्काराः, अनात्मनो मार्षाः सर्वसंस्काराः, शून्या मार्षाः सर्वसंस्कारा मा प्रमादम् आपद्यथ । दुःखम् इतश् च्यवितानां पुनर् अत्रोपपत्तिर् भविष्यति । संगायत मार्षा धर्मम्, धर्मारामरतिरता भवथ धर्मसाराः, धर्मनिम्नाः, धर्मप्रवणाः, धर्मानुस्मृतिमनसिकाराः । मार्षा विहरथ यूयं पुनर् एभिर् एवं दिव्यैः कामक्रीडारतिपरिभोगैः, अविरहिता भविष्यथेति ।

तेन खलु पुनर् मञ्जुश्रीः समयेन तस्या अदृश्या अरूपिण्या अकल्प्याया अविकल्पायाश् चक्षुःपथसमतिक्रान्ताया अनुत्पन्नानिरुद्धाया वाक्पथसमतिक्रान्तायाश् चित्तमनोविज्ञानापगताया महाधर्मदुन्दुभेः शब्देन सर्वे त्रयस्त्रिंशत्कायिका देवाः संचोदिता भीतास् त्रस्ता उद्विग्नोद्विग्नाः ( जाअ 30 ) सुधर्मायां देवसभायां प्रविश्य धर्मारामरतिरता विहरन्ति । धर्मसाराः, धर्मनिम्नाः, धर्मप्रवणाः, धर्मानुस्मृतिमनसिकारा भवन्ति । ते ततश् च्युता विशेषगामिनो भवन्ति । शक्रश् च देवानाम् इन्द्रस् तस्मिन् समये सुधर्मायां देवसभायां प्रविश्य धर्मासने निषद्य धर्मं देशयति ।
यदा च मञ्जुश्रीर् असुरा देवैः सार्धं संग्रामयन्ति । तत्र यदा त्रयस्त्रिंशा देवाः पराभवं गच्छन्ति । तदा सा धर्मदुन्दुभी तादृशशब्दं निश्चारयति । येन शब्देनासुरा भीतास् त्रस्ता उद्विग्नोद्विग्नाः पलायन्ति ।
न च मञ्जुश्रीस् तस्या महाधर्मदुन्दुभेः कश्चित् संपादयिता वात्मभावो वा संविद्यते । अदृश्या मञ्जुश्रीः सा महाधर्मदुन्दुभिर् अनालोक्यासत्याभूताचित्ताचेतनानिमित्तारूपिण्यरुतानात्मभावाद्वया चक्षुःपथसमतिक्रान्ता ।
अथ च मञ्जुश्रीस् त्रयस्त्रिंशत्कायिकानां देवपुत्राणां पूर्वपरिकर्मकृतानां महाधर्मदुन्दुभेः शब्दो निश्चरति । त्रायस्त्रिंशानां देवपुत्राणां सर्वोपद्रवोपायासोपक्लेशोपशान्तये संवर्तते ।
यथा मञ्जुश्रीस् तस्या महादुन्दुभेर् अदृश्यो ऽनात्मभावो ऽनालोक्यो ऽसन्न् अभूतो ऽचिन्तो ऽचेतनो ऽनिमित्तो ( जाअ 31 ) ऽरूप्य् अरुतो ऽभावो ऽद्वयश् चक्षुःपथसमतिक्रान्तः, पूर्वकर्मविपाकेन त्रयस्त्रिंशत्कायिकानां देवपुत्राणां सर्वोपद्रवोपायासोपक्लेशोपशान्तये शब्दो निश्चरति । प्रमत्तांश् च देवपुत्रान् धर्मशब्देन संचोदयति । स च धर्मशब्दस् त्रयस्त्रिंशत्कायिकानां देवपुत्राणां सर्वोपद्रवोपायासोपक्लेशोपशान्तये संवर्तते ।
एवम् एव मञ्जुश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धो ऽदृश्यो ऽनालोक्यो ऽनात्मभावो ऽसन्न् अभूतो ऽचित्तो ऽचेतनो ऽनिमित्तो ऽरूप्य् अरुतो ऽद्वयो ऽभावश् चक्षुःपथसमतिक्रान्तः ।
अथ च मञ्जुश्रीः सत्त्वाः पूर्वकर्मविपाकेन यथाशयाधिमुक्त्या धर्मशब्दं निश्चरन्तं संजानन्ति । स च धर्मशब्दः सर्वसत्त्वानां सर्वोपद्रवोपायासोपक्लेशोपशान्तये संवर्तते । धर्मस्वरनिर्घोषेण तथागतघोषस्वर इति लोके संख्यां गच्छति ।
नास्ति च मञ्जुश्रीस् तथागतः, अथ च धर्मस्वरघोषेण तथागत इति प्रज्ञप्तिर् लोके संभवति । सत्त्वानाम् एव पूर्वकुशलकर्मविपाकेन तथागतशब्दं निश्चरन्तं सत्त्वाः संजानन्ति । सर्वसत्त्वानां सर्वसुखजननार्थं प्रमत्तानां च संचोदनार्थं शब्दो निश्चरति । ते मञ्जुश्रीः सत्त्वाः शब्दं श्रुत्वा तथागतं संकल्पयन्ति । अयं तथागतस्यात्मभाव इति ।
आदिकर्मिकाणां च बोधिसत्त्वानां सर्वबालपृथग्जनानां च तथागतारम्बणकुशलमूलसंजननार्थं तथागतवाक् श्रूयते । अपि त्व् अनुत्पन्नो ऽनिरुद्धो मञ्जुश्रीस् तथागतो वेदितव्यः ॥
§8 म्स्. 7ब्2-8ब्4, प्. 308ब्2-309ब्6, द्. 282अ4-283अ5, त्. 357 241ब्21-242अ2, त्. 358 ö, त्. 359(द्) 256अ18-ब्21.
तद्यथा मञ्जुश्रीर् निदाघकालावसाने वर्षाणां प्रथमे मास्य् आगते सत्त्वानां पूर्वकर्मविपाकेन पृथिवीगतानां बीजग्रामभूतग्रामस्य सर्वतृणगुल्मौषधिवनस्पतीनां संजननार्थम् उपरि वैहायस्य् आन्तरीक्ष आकाशे तादृशा वायवो वान्ति । येनोदकं संभवति । संभूतं च महापृथिव्यां प्रपतति । तेन च सर्वी महापृथिवी संतर्पिता भवति । सर्वे जम्बूद्वीपकाश् च सत्त्वास् तस्मिन् समये प्रमुदिता भवन्ति । सौमनस्यजातास् तस्य मेघ इति । संज्ञा लोके संभवति ।
यस्मिन् खलु पुनर् मञ्जुश्रीः समय उपर्य् अन्तरीक्षाद् महान् उदकस्कन्धो न निपतति, तस्मिन् समये सर्वजम्बूद्वीपकाः सत्त्वा एवं चिन्तयन्ति । नात्र मेघः संभवति । यदा तु मञ्जुश्रीर् उपर्य् अन्तरीक्षाद् महान् वारिस्कन्धो महापृथिव्यां निपतति, सत्त्वा एवं वदन्ति । अहो महामेघो वारि प्रमुञ्चति संतर्पयति महापृथिवीम् इति । न पुनर् अत्र मञ्जुश्रीर् मेघो वा मेघप्रज्ञप्तिर् वा विद्यते । वातसंजनितो मञ्जुश्रीर् उपर्य् अन्तरीक्षाद् महान् उदकस्कन्धो निपतति । सो ऽप्स्कन्धो मञ्जुश्रीस् तत्रैवान्तरीक्षे ऽन्तर्धीयते । सत्त्वानां पूर्वकर्मविपाकेन ।
यथा मञ्जुश्रीस् तस्य वारिस्कन्धस्योपर्य् अन्तरीक्षे वातसंक्षोभेण संवार्यमाणस्य मुञ्चतो वारि मेघ इति प्रज्ञप्तिर् भवति । सत्त्वानां पूर्वकर्मविपाकेन । न पुनर् अत्र मञ्जुश्रीर् मेघः संविद्यते, न मेघप्रज्ञप्तिः । ( जाअ 33 ) अनुत्पन्नो ऽनिरुद्धो मञ्जुश्रीर् मेघश् चित्तगत्यनवतार आगतिगतिविनिर्मुक्तः ।
एवम् एव मञ्जुश्रीः पूर्वकुशलमूलसंभारोपचितानां बोधिसत्त्वानां महासत्त्वानां चान्येषां च सत्त्वानां श्रावकप्रत्येकबुद्धज्ञानाभिप्रायाणाम् अवरोपितकुशलमूलानां च सत्त्वानां निर्वाणमार्गसंदर्शनहेतुकानाम् आसंगप्रतिभानस् तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उत्पन्न इति संख्यां गच्छति । स यद् भाषते तत् सर्वं तथावितथानन्यथा, तस्य देवमनुष्येषु तथागत इति नाम कृतम् । अथ च मञ्जुश्रीः शब्दो निश्चरति देवमनुष्येषु यदुत तथागत इति । न पुनर् मञ्जुश्रीस् तथागतः संविद्यते । अनिमित्तो मञ्जुश्रीस् तथागतो निमित्तापगतो न देशस्थो न विदेशस्थः, अभूतो ऽनुत्पन्नो ऽनिरुद्धः । तत् खलु पुनर् मञ्जुश्रीस् तथागतप्रतिभासः सदेवकं लोकं धर्मेण संतर्पयित्वा संप्रवारयित्वा, आदिकर्मिकाणां च बोधिसत्त्वानां चान्येषां च सर्वबालपृथग्जनानां निर्वाणवैनयिकानां पूर्वकर्मविपाकेनादर्शनाभासो भवति । तेषाम् एवं भवति । परिनिर्वृतस् तथागत इति । न मञ्जुश्रीस् तथागत उत्पद्यते वा निरुध्यते वा ।
अनुत्पन्नो ऽनिरुद्धो मञ्जुश्रीस् तथागतः । आदिपरिनिर्वृतो मञ्जुश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धः । यथा मञ्जुश्रीर् ( जाअ 34 ) उदकारम्बणेनाभूतस्य मेघस्यानुत्पन्नानिरुद्धस्यासतो मेघप्रज्ञप्तिः स्थिता लोके मेघ इति । एवम् एव मञ्जुश्रीर् धर्मदेशनारम्बणेनाभूतस्य तथागतस्यानुत्पन्नानिरुद्धस्यासत आदित एवाजातस्य नामप्रज्ञप्तिः स्थिता लोके तथागतो ऽर्हन् सम्यक्संबुद्ध इति ॥
§9 म्स्. 8ब्4-10अ4 प्. 309ब्6-311अ6, द्. 283अ5-284ब्3, त्. 357 242अ3-ब्15, त्. 358 ö, त्. 359(द्) 256ब्21-257अ2.

तद्यथापि मञ्जुश्रीर् महाब्रह्मानभिभूर् दशत्रिसाहस्रमहासाहस्रवशवर्ती दिवसे दिवसे सर्वदेवनिकायान् व्यवलोकयति, यावच् चातुर्महाराजिकदेवनिकायपर्यन्तान् । तेन खलु पुनर् मञ्जुश्रीः समयेन तस्य महाब्रह्मणो दशत्रिसाहस्रमहासाहस्रवशवर्तिनः सर्वदेवनिकायान् व्यवलोकयतः, सर्वदेवनिकायेषु सर्वदेवपुत्राः स्वकस्वकान् कामक्रीडारतिपरिभोगांस् त्यक्त्वा सर्वतूर्यताडावचरसंगीतिं शमयित्वा, कामक्रीडारतिमनसिकारोत्सृष्टाः सगौरवा अञ्जलिं प्रगृह्य महाब्रह्माणम् अनिमिषं व्यवलोकयन्ति । स च महाब्रह्मा सर्वदेवनिकायेषु मुहूर्तं दर्शनं ददाति । ते च देवपुत्रास् तस्मिन् समये महाब्रह्मलोकोपपत्तिम् आकाङ्क्षन्ति, महाब्रह्मलोकोपपत्तये च कुशलमूलानि परिणामयन्ति ।
स च मञ्जुश्रीर् महाब्रह्माच्यवमानस् ततो ब्रह्मविमानाद् अन्यम् अधितिष्ठति महाब्रह्माणं दशत्रिसाहस्रमहासाहस्रवशवर्तिनं पूर्वप्रणिधानाधिष्ठानेन तेषां च देवपुत्राणां पूर्वकुशलमूलोपचयेन ।
स च मञ्जुश्रीर् निर्मितो महाब्रह्मा दिवसे दिवसे सर्वदेवनिकायान् व्यवलोकयति, यावच् चातुर्महाराजकायिकदेवनिकायान् । तेन खलु पुनर् मञ्जुश्रीः समयेन सर्वेषु देवनिकायेषु सर्वदेवपुत्राः स्वकस्वकान् कामक्रीडारतिपरिभोगांस् त्यक्त्वा सर्वतूर्यताडावचरसंगीतिं प्रशमयित्वा, कामक्रीडारतिमनसिकारोत्सृष्टाः सगौरवा अञ्जलिं प्रगृह्य महाब्रह्माणम् अनिमिषं व्यवलोकयन्ति स्म । स च महाब्रह्मा सर्वदेवनिकायेषु मुहूर्तं दर्शनं ददाति, न च स्थानाच् चलति । ते च देवपुत्रास् तस्मिन् समये महाब्रह्मलोकोपपत्तिम् आकाङ्क्षन्ति, ब्रह्मलोकोपपत्तये च कुशलमूलानि परिणामयन्ति ।
न चात्र मञ्जुश्रीर् ब्रह्मा संविद्यते । शून्यो ऽयं मञ्जुश्रीर् ब्रह्मा वशिको ऽभूतो ऽनक्षरो ऽघोषो ऽदेशो ऽभावो ऽचिन्त्यो ऽनिमित्तश् चित्तमनोविज्ञानापगतो ऽनुत्पन्नो ऽनिरुद्धः । अथ च मञ्जुश्रीः सर्वदेवनिकायेषु दर्शनाभासो भवति, तस्यैव महाब्रह्मणः पूर्वकुशलमूलप्रणिधानाधिष्ठानेन तेषां च देवपुत्राणां पूर्वकुशलमूलोपचयेन । न च मञ्जुश्रीस् तेषां देवपुत्राणाम् एवं भवति । निर्मितो ऽयं ब्रह्मा, शून्यो वशिको ऽभूतो ऽनक्षरो ऽघोषो ऽदेशो ऽभावो ऽचिन्त्यो ऽनिमित्तश् चित्तमनोविज्ञानापगतो ऽनुत्पन्नो ऽनिरुद्धो वेति ।
एवम् एव मञ्जुश्रीस् तथागतो ऽप्य् अर्हन् सम्यक्संबुद्धः शून्यो वशिको ऽभूतो ऽनक्षरो ऽघोषो ऽदेशो ऽभावो ऽचिन्त्यो ऽनिमित्तश् चित्तमनोविज्ञानापगतो ऽनुत्पन्नो ऽनिरुद्धः । अथ च पुनर् मञ्जुश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धः पूर्वबोधिसत्त्वचर्याप्रणिधानाधिष्ठानेन, ( जाअ 36 ) आदिकर्मिणां च बोधिसत्त्वानां सर्वश्रावकप्रत्येकबुद्धयानसंप्रस्थितानां च सर्वबालपृथग्जनानां सर्वकुशलमूलाधिष्ठानेन लक्षणशतसहस्रालंकृतस् तथागतः प्रतिबिम्बम् इव लोके संदृश्यते, न च स्थानाच् चलति ।
न च मञ्जुश्रीर् आदिकर्मिकाणां च बोधिसत्त्वानां सर्वश्रावकप्रत्येकबुद्धयानिकानां सर्वबालपृथग्जनानां चैवं भवति । शून्यस् तथागतो वशिको ऽभूतो ऽनक्षरो ऽघोषो ऽदेशो ऽभावो ऽचिन्त्यो ऽनिमित्तश् चित्तमनोविज्ञानापगतो ऽनुत्पन्नो ऽनिरुद्धो चेति । अथ च मञ्जुश्रीस् तथागतात्मभावाल् लक्षणशतसहस्रालंकृतात् सर्वतथागतेर्यापथेषु शून्येषु नानाविधिविचित्राणां नानाधिमुक्तानां सत्त्वानां महाधर्मदेशना निश्चरति । सा च धर्मदेशना सर्वसत्त्वानां सर्वोपद्रवोपायासोपक्लेशोपशान्तये संवर्तते । तत्र च तथागतः समयः सर्वत्रोपेक्षको निर्विकल्पो निर्विशेषः । तद् अनेनापि ते मञ्जुश्रीः पर्यायेणैवं वेदितव्यम्, अनुत्पादो ऽनिरोध इति तथागतस्यैतद् अधिवचनम् इति ॥
§10 म्स्. 10अ4-6, प्. 311अ6-ब्1, द्. 284ब्3-5, त्. 357 242ब्15-19, त्. 358 251अ24-28, त्. 359(द्) 257अ3-7.
अथ खलु भगवांस् तस्यां वेलायाम् इमे गाथे अभाषत् ।
अनुत्पादधर्मः सततं तथागतः सर्वे च धर्माः सुगतेन सादृशाः ।
निमित्तग्राहेण तु बालबुद्धयो असत्सु धर्मेषु चरन्ति लोके

3.2

तथागतो हि प्रतिबिम्बभूतः कुशलस्य धर्मस्य अनास्रवस्य ।
न चात्र तथता न तथागतो ऽस्ति बिम्बं च संदृश्यति सर्वलोके

मूल पाठ: Jñānālokālaṃkārasūtra [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtra] = JĀA · Edition: : Takayasu Kimura, Nobuo Otsuka, Hideaki Kimura, Hisao Takahashi, "Bonbun kotei 'Chikomyoshogon-kyo'; - Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtra", In: Kūkai no shiso to bunka [*A Felicitation Volume Presented to Prof. Kicho Onozuka on his seventieth birthday], Tokyo 2004, pp. 1(596)-89(508). · Data entry Study Group on Buddhist Sanskrit Literature, Taisho University · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc