भाषा

ENहिગુ
ग्रंथ पाठ

ज्ञानालोकालंकारसूत्र · अध्याय 5

5.1

§38 म्स्. 27अ2-6, प्. 329अ6-ब्2, द्.301अ1-4, त्. 357 -, त्. 358 -, त्. 359(w) 263ब्3-16.
वन्दामि त्वां दशबल ओघतीर्णं वन्दामि त्वां अभयददं विशारदम् ।
धर्मेषु आवेणिकनिश्चयं गतं वन्दामि त्वां सर्वजगस्य नायकम्

5.2

वन्दामि संयोजनबन्धनच्छिदं वन्दामि त्वां पारगतं स्थुले स्थितम् ।
वन्दामि त्वां खिन्नजगस्य नायकं वन्दामि संसारगत-ं-अनिश्रितम्

5.3

वन्दामि सत्त्वसमाधानविगतं {गतीषु} सर्वासु जातीसु विमुक्तमानसम् ।
जले रुहं वा सलिलैर् न लिप्यसे निषेविता ते मुनिर् बुद्ध शून्यता

5.4

विवेकता शास्तृपदं निरुत्तरं वन्दे निरालम्ब महौघतीर्णम् ।
विभाविता सर्वनिमित्त सर्वशो न ते कहिंचित् प्रणिधानु विद्यते

5.5

अचिन्तियं बुद्ध महानुभावं वन्दामि आकाशसमम् अनिश्रितम् ।
वन्दामि ते सर्वगुणाग्रधारि वन्दामि त्वां मेरुम् इवोद्गतश्रियम्

मूल पाठ: Jñānālokālaṃkārasūtra [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtra] = JĀA · Edition: : Takayasu Kimura, Nobuo Otsuka, Hideaki Kimura, Hisao Takahashi, "Bonbun kotei 'Chikomyoshogon-kyo'; - Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtra", In: Kūkai no shiso to bunka [*A Felicitation Volume Presented to Prof. Kicho Onozuka on his seventieth birthday], Tokyo 2004, pp. 1(596)-89(508). · Data entry Study Group on Buddhist Sanskrit Literature, Taisho University · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc