जातकमाला · श्लोक 12-31
यो बिभ्रन् दयिताजनेन रचितां कण्ठेगुणां कोमलां
खेदं नागवरः सुखोचितमयां [?] भेजे क्रियां चायताम् [?] ।
रज्ज्वा कर्कशपाशया पशुर् इव ग्रीवोपबद्धो भृशं
तेनाकारणदारुणेन रिपुणा सो ऽभून् निरास्थो वशी
यं प्रत्यग्र त मालचन्दनरसप्रश्लेषशीतैः करैर्
ग्रीष्मे प्राणसमाः सरत्नवलयैर् नागोत्तमं पस्पृशुः ।
पादेनाभिहतः खलेन पटुना स क्षान्तिगुप्तव्रतो
लेभे संततवर्तिनीं घनरसां मैत्रीं तदालम्बनाम्
दंष्ट्रा बिसाङ्कुरसिता विनिगूढमूलास् तस्योच्चखान स यदा भुजगेश्वरस्य ।
शल्यापहारिणि तदा भिषजीव तस्मिन् विप्रे चकार स पराम् उपकारिसंज्ञाम्
आर्तीयते स्म सहजान्य् अपि यानि चित्र ं साधुः शिरोमणिमयानि विभूषणानि ।
तेषूद्धृतेषु स कृतार्थतया प्रमोदं निक्षिप्तभार इव भोगपतिर् जगाम
श्वासानिलैः स्फुटविषाग्निकराकरालैर् उच्छोषयेत् समकरान् अपि यः समुद्रान् ।
क्षान्तिं प्रियाम् इव सखीम् उपगुह्य तस्थौ स्वस्थस् तम् एव च रिपुं करुणायमानः
स्याद् भस्मसाच् छिखरकोटिविपाटिताभ्रः शैलो ऽपि दृष्टिविषयं समुपेत्य यस्य ।
पापात्मना कुमुदनालम् इवोरगेन्द्रो नासौ चुकोप मृ दितो ऽपि परानुरक्षी
तीव्रप्रकारम् उपकारम् इवाविकारः सेहे कृपापरिगतः स यथा यथार्यः ।
क्रौर्यावलेपपरुषः स तथा तथा तं चिक्लेश पन्नगवरं विविधैर् उपायैः
करुणाद्रवम् एव दुर्जनः सुतरां सत्पुरुषं प्रबाधते ।
मृदम् एव भिनत्ति कण्टकः कठिने कुण्ठक एव जायते
स पीड्यमानः पुरुषेण तेन भुजङ्गराजो विगतव्यथेन ।
तम् एव रक्षन् गुणपक्षसाक्षी मुमोच न श्वासविषं विषादी
यथा यथा पीडयति स्म नाम तम् आर्यकर्माणम् असाव् अनार्यः ।
तथा तथासौ तदपायशङ्की न चक्षुर् उन्मीलयितुं विषेहे
परापकारप्रतिपत्तिमारुता दुराचरास् तस्य विशुद्धकर्मणः ।
क्षमाशिलाधारपरिग्रहस्थिरं न कम्पयन्ति स्म मनो मनस्विनः
अम्भोजरेणुकणिका इव संप्रतीच्छन् नागोत्तमः क्षितिरजो ऽर्ककरोपतप्तम् ।
नेत्रोपघातपटुना पटुना विमुक्तं तस्मिन् बभूव सुतरां स परानुकम्पः
यः स्नातो जलयन्त्रमन्दिरगतो राजा जलैः शीतलैर्
नानापुष्परजोऽधिवासशुचिभिश् चन्द्रप्रभानिर्मलैः ।
सिक्तः श्लेष्मलवैर् अनार्यमतिना दुर्गन्धिभिस् तेन सः
प्रीत्यैवापचकार तं परिभवं क्षान्त्याम्भसेवोक्षितः
एवम् अन्यथा चासौ ब्राह्मणाधमस् तं बोधिसत्त्वम् परिक्लिश्य महति करण्डे प्रक्षिप्य तेन तेन परिभ्रमन् वाराणसीं नगरीम् अनुप्राप्तः ॥ अथ तस्य भुजगपतेस् तां रूपसंपदम् आलोक्य महाजनः परमविस्मितमनास् तं ब्राह्मणं महत्या पूजया पूजयाम् आस ॥
अथ तस्य महात्मनः सुमनानामान्तःपुराग्रचरा भुजगयोषिद् अतीतायाम् उचितायां तदागमनवेलायां तं भोगिपतिम् अपश्यन्ती जानाना तस्य प्रकृतिभद्रताम् अनार्यकर्मारामतां च मानुषहृदयानां तदत्ययाशङ्किनी तीव्रशोकायासव्यथितहृदया तत् तद् विकल्प्य सत्वरं रुरोद ॥
तमसा निरन्तरविसारिणैव मे परिवर्यते नयनगोचरं बलात् ।
अनिरूपितात्ययविकल्पकातरं द्रवतीव मानसम् इदं प्रियं विना
स्फुटमल्लिकावनविलासलासका जलयन्त्रमन्दिरनिरोधशीतलाः ।
सुतरां दहन्ति मम चलमारुता दयितप्रवासपरितापिनीं तनुम्
प्रतिभात्य् अपूर्वम् इव सर्वम् अद्य मे न च वेद्मि काहम् इति तेन वर्जिता ।
व्यसने स एव शरणं मम प्रियो विरहे तु तस्य मरणं परायणम्
मणिवेदिकाकिरणपाटलोर्मयो गृहदीर्घिका न रमयन्ति मे मनः ।
प्रियविप्रवासपरितापविप्लुतं स्फुटपद्मकोशमकरन्दवासिताः
दिशतूत्तमानि जगदुत्तमद्युतिर् मम मङ्गलानि भगवान् स एव तु ।
न भवान्तरे ऽपि विरहो यथा भवेद् दयितेन तेन निरवद्यकर्मणा
विरहानुबन्धविरसाः समागमा जगतो ऽरपर्वपरिणामिनी स्थितिः ।
इति यज् जगाद मनसो ऽतिवल्लभः समुपस्थितं तद् इदम् अद्य वैशसम्
विकसत्स्फुलिङ्गम् अनिलाकुलार्चिषं दहनं विशामि बहुदुःखभागिनी ।
तनुम् उत्सृजामि शिखराद् गिरेर् इमाम् अवशिष्यते किम् अपरं ममायुषः
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0