भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 107-11

107

न्यायोपरोधि परिपेशलवर्णशोभम् अक्षूणकालमधुरं स्वपरोपकारि ।
वाक्यं सुहृज्जनमुखोच्चरितं कथं न स्याद् अप्रतिग्रहविपातितकान्तिशोभं

108

अम्लायमानकरुणारसशीभराणि स्वान्तान्य् अनाकुलपदक्रमयोगिकानि ।
वाक्यानि सज्जनमुखाम्बुरुहच्युतानि प्रद्वेषरूक्षम् अपि मानसम् आक्षिपन्ति

109

नीचेष्व् अपि प्रणतिनम्रशिरोधराणां क्रूराशयेष्व् अपि कृपामृदुमानसानां ।
आद्यन्तमध्यमधुराणि जिनात्मजानां वाक्यानि को भुवे विमानयितुं समर्थः

110

तान् अभ्यर्थ्य स पार्थिवो भगवतः प्रत्येकबुद्धान् अथ
प्रीत्युत्कर्षपरम्पराम् अनुभवन् काम् अप्य् अनायासिनीं ।
आवासं स्वम् उपोह्य सौगतभवास् ते ऽपि क्षणेनाययुः
स्वर्द्ध्यैवाप्रतिघं विगाह्य विघनं खं राजहंसा इव

111

स भूपतिः षष्टिसहस्रसंख्या गुहा विविक्ता जलयंत्रशीताः ।
संस्कार्य तेभ्यः प्रददौ प्रसन्नः प्रत्येकशो दग्धपुनर्भवेभ्यः

112

शरत्सहस्राणि सषष्टिर् एव चकार तेषां विगतज्वराणां ।
पूजां परां दृष्टपरायणानां संचारिणाम् पुण्यवनस्पतीनां

113

तं बोधौ स परिणमय्य पुण्यराशिं संत्यज्य प्रकृतिविनाशिनं स्वदेहं ।
त्रैलोक्यप्रथितपराक्रमप्रभावो मान्धाता किल वसुधाधिपो बभूव

114

संकल्पानुविधायिन्यस् तस्याभूवन् विभूतयः ।
सर्वलोकातिशायिन्यो निरुपायासपेशलाः

115

पुण्यान्य् एवम् असौ चकार भगवान् यस्माज् जगद्भूतये
त्यक्त्वा राज्यविभूतिविस्तरसुखान्य् अम्लायमानोद्यमः ।
तस्मात् तत्र मनः प्रसाद्य भगवत्य् आश्चर्यरत्नाकरे
पातव्यं स्व प रोपकारमधुरं तस्यैव वाक्यामृतं

1

इति श्रीमेघजातकं चत्वारिंशत्तमं ॥ ॥
9. नाग
सहस्रशो ऽपि संत्यक्तुम् उत्सहन्ते स्वजीवितम् ।
साधवः साधुमर्यादां न मुहूर्तम् अपि क्षमाः

2

तद् यथानुश्रूयते।
बोधिसत्त्वभूतः किलाहं भगवान् अपरिम्लायमानकरुणासौम्यदर्शनो नागराजो बभूव ।
क्रोधेन तस्य सह शाश्वतसंविरोधः क्रोधोत्तर ं निगदितं समुपागतस्य ।
इच्छानुकूलमधुरा प्रतिसन्धिलीला साधोः सुयोनिविधुरैव बभूव तस्य

3

संप्राप्तकर्मवशितातिशयस्य यस्य लोका हृदीव निवसन्ति कृपाविशाले ।
रोषस् ततः कथम् उदेरति शुद्धसत्त्वात् पद्माकराद् विकसिताद् इव चित्रभानुः

4

कुवलयदलमालाकोमलं भोगचक्रं स्वमणिकिरणजालश्रीकरालं स बिभ्रत् ।
घनसमय इवासील् लोचनानन्दबन्धुः सुरवरपतिचापोद्भासितो वाम्बुगर्भः

5

अथ स महासत्त्वः क्रोधबहुलतां नागयोनेर् अवेत्य तत्प्रतिपक्षक्षमाकथाम् उद्भावयाम् आस स्वपर्षदि ॥
न हेममाला मणिदीप्तिशीभराः स्रजो न चित्रा मकरन्दपिञ्जराः ।
तथाभ्यलंकर्तुम् अलं शरीरिणां यथा क्षमा सर्वगुणैकरत्नका

6

मनोज्ञरूपा अपि नाम रोषिणो विषाद य न्त्य् एव मनांसि देहिनाम् ।
विमुक्तकोशा इव पुष्पपादपाः स्वमूलसंसर्पिभुजङ्गकङ्कणाः

7

असंस्तुतानाम् अपि नाम सूरता भवन्ति विश्रम्भविशेषभाजनम् ।
इति क्षमां को न भजेत बुद्धिमान् अशेषलोकाश्रयसंग्रहक्षमाम्

8

इमाम् अवस्थां गमिता विदाहिनामुना वयं रोषमयेन पाप्मना ।
निवृत्तवैरान् अपि यद् विशङ्कते महाजनो ऽस्मान् अनिमित्तकाहतः

9

एवम् अन्यथा च स्वयूथ्यान् संज्ञापयाम् आस ॥ अपि च ॥
दृष्टीविषानलमुचां स्वमणिप्रभाद्भिः पातालरन्ध्रगहनान्तविसर्पिणीभिः ।
तेसां स पन्नगवरः शमयां बभूव वागम्बुभिश् च हृदयानि भुजङ्गमानाम्

10

स च महा त्मा जन्मान्तराभ्यस्तप्रशमरतिविहारसाधनः सर्वलोकोत्तरोत्कृष्टैर् तैर् अपि विषयैर् अनाकलितमानसो विड म्ब नाम् इव ताम् ऐश्वर्यलक्ष्मीम् अभि मन्य मानः प्रविवेकसुखविहारोपरोधिनं चाधिपत्यपरिश्रमम् आर्यन्यायमार्गकण्टकस्थानीयांश् च स्निग्धजनसमागमान् प्रकृतिधीरमानसः सन् गृहे ऽप्य् अरण्यसंज्ञाभावनासमर्थः सशङ्को गार्हस्थदोषम् एवोद्भावयन् स्वभवनाद् अभ्युद्गम्य विविक्तेष्व् अरण्यायतनेषु पोषधनियमालंकृतशरीरः कालम् अतिनामयाम् आस ॥
त्यक्त्वा गेहं विभवकलिलं ये विविक्ते वसन्ति
प्रायस् तेषु प्रशमविमुखो विस्मयं याति लोकः ।
चित्रं मन्ये क्षणम् अपि गृहे यद् रमन्ते विदग्धा
नानातङ्कप्रचयगहने बोधिसत्त्वप्रतिज्ञाः

11

अथ कदा चित् स महात्मा प्रत्यरण्यनिविष्टतरुणतरुमण्डलैकदेशावस्थितो भुजगविषोपघातयोग्यविद्याधरेण ब्राह्मणेनोपलक्षितः । स तस्य तेन नियमविशेषरमणीयेनाश्वासदेन तेजस्विभावेन विस्मितमना नास्मात् प्रत्यवायो ऽस्तीति निश्चित्य स्वजीविकोपायं च तद्ग्रहणसाहसम् अवेत्य तं भुजगपतिं विश्रम्भमुकुलितफणचक्रम् आसीनं सहसा महता दण्डेन शिरस्य् अभिजघान तप्तपांसुपूगैश् चास्य नयनानि पूरयाम् आस महत्या चैनं वररज्ज्वा गाढं ग्रीवायाम् आमर्दयां बभूव मूलागदसंमिश्रेण चैनं श्लेष्मणा वदनविवरेषु संसिक्तवान् विवृत्य चास्य वदनपुटम् अयःसंदंशेन दंष्ट्राः समुदाजहार ॥ लोभपर्याकुलमानसश् चास्य तीक्ष्णेन शस्त्रेण घनकोशोपगूढमूलां चूडामणिम् उत्पाटयां चक्रे प्रतिनकुलचलवलयराशिकोमले चास्य भोगकुण्डले बिम्बोपधान इव निषद्य विशश्राम ॥
यः केलीकलहेष्व् अपि प्रणयिनीकर्णोत्पलाताडितो
लज्जामन्थरकोमलालसफणच्छत्त्रो ययौ संभ्रमम् ।
मेने सो ऽविकृताशयः फणिवरो दण्डप्रहारान् खरान्
क्षान्त्यभ्यासवशात् समीरणचलत्तूलांशुपातोपमान्

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc