जातकमाला · श्लोक 52-9
मयि स्नेहो ऽस्ति यदि ते दुःखं मे यदि नेच्छसि ।
अदृष्टम् अद्य मां कृत्वा तद् गच्छ त्वं स्वम् आलयम्
अथ सा तैर् बोधिसत्त्ववचोऽद्भिर् आक्लेदितहृदया दुःखदौर्मनस्यपर्याकुलमानसा निशीथे काशिकाराजम् उपेत्य करुणाकुलतराक्षरेण वचसा कृताञ्जलिर् अवोचत् ॥
आपद्गतानां व्यसनक्षयाय त्वं पञ्चमः पार्थिव लोकपालः ।
त्रायस्व माम् आपदि वर्तमानां दीनाम् अनाथां जगदेकनाथ
अथ स राजा तद् अतिभासुरं वपुर् अवलोक्य किम् इदं कथं चेत्य् उत्पन्नजातसंभ्रमः सादरम् उत्थाय पर्यङ्कपृष्ठात् तां नागयोषितम् एतद् अवोचत् ॥
ध्यामीकृत्य मणिप्रदीपकिरणान् एतद् वपुस् ते स्थितं
व्याहारस्फुटचित्रवर्णकरणो दिव्यप्रभावश् च ते ।
का नु त्वं करवाणि किं भवति ते ब्रूहि त्वदाज्ञाम् इमां
मालां फुल्लदलाम् इवाद्य शिरसा सम्यक् प्रतीच्छाम्य् अहम्
अथासौ भुजगवधूस् तेन तस्य राज्ञो ऽभिजात्यपेशलेन वचसा समानन्दितमनसा प्रोवाच ॥
आशावशानां नरदेव को ऽन्यो मनोरथं पूरयितुं समर्थः ।
त्यक्त्वा भवन्तं जगतो हिताय प्रजापतेर् वंशम् इवावतीर्णम्
नागाङ्गनां माम् अवगच्छ राजंस् त्वद्देशपर्यन्तकृताधिवासाम् ।
आपद्गतं मानद पन्नगेन्द्रं त्रायस्व कृत्यं मम तद् गरीय ः
राजोवाच ॥ भगिनि कस् तवासौ भुजगवरः ॥ सा प्रोवाच ॥
भर्ता मम प्राणधनेश्वरो ऽसौ न्यायोप्रदेष्टा च गुरुर् गरीयान् ।
पितेव नित्यं हितसंविधातासुखे च विश्रम्भनिरत्ययश् च
अथ स भूपतिस् तेन तस्याः स्वाम्यनुरागशीभरेण चरितेनाभिप्रसादितः ॥ प्रोवाच चैनाम् ॥
भक्तिर् भर्तरि दर्शिता घनरसा दाक्षिण्यम् उन्मीलितं
प्रेमोद्भावितम् आपदि स्थिरतरं प्रोद्घाटिता भद्रता ।
धर्मो न्यायपरिग्रहेण परमां वृद्धिं त्वयापादितो
लोके साधुपतिव्रतत्वम् इति ते ख्यातिः स्थिता शाश्वती
त्यक्त्वा प्रियं जीवितम् अप्य् अतो ऽहं पुण्यप्रभावोपनतं च राज्यम् ।
संपूरयिष्यामि मनोरथं ते पश्याद्य भद्रे दयितं विमुक्तम्
अथ स राजा तस्य ब्राह्मणस्यान्तिकात् तं नागराजानं महता मूल्येन निष्क्रीय परमेण .............. सपत्नीकं स्वभवनं प्रवेश्य महार्हसिंहासनोपविष्टम् अभ्यर्चयाम् आस ॥ अथ बोधिसत्त्वस् तेन तस्य राज्ञो ऽत्यद्भुतेन निष्कारणोपकारसंभ्रमेणाकृष्टमनाः प्रोवाचैनम् ॥
असंस्तुते नाम तवायम् आदरो मयि प्रसादस्थिरभक्तिपेशलः ।
कृतोपकारेष्व् अपि यो न दृश्यते पृथग्जनेषु सुखानुबुद्धिषु
प्रकाशितेयं गुणपक्षपातिता प्रजानुरागो बहुलीकृतस् त्वया ।
गुणे विवर्धस्व तद् उत्तरोत्तरैर् गुणेषु भद्रं जगतां अवस्थितम्
इति संराध्य राजानं तम् असौ भुजगेश्वरः ।
अनुबद्धो दयितया कृपयेव गृहान् ययौ
इति श्रीनागजातकं चत्वारिंशत्तमम् ॥ ः ॥
10. पुण्यराशि
अथाशोको महाराज उपगुप्तं यतिं गुरुम् ।
कृताञ्जलिपुटो नत्वा प्रार्थयच् च तथादरात्
भदन्त श्रोतुम् इच्छामि पुनर् अन्यत् सुभाषितम् ।
तद् यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति
इति तेन नरेन्द्रेण प्रार्थिते स जिनात्मजः ।
उपगुप्तो नरेन्द्रं तं समालोक्यैवम् आदिशत्
शृणु साधु महाराज यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि श्रुत्वा चैवं शुभे चर
नास्ति विपाकपर्यन्त उपकारापकारयोः ।
संबुद्धे सद्गुरौ तस्मात् कर्तव्यम् उपकारकम्
तद् यथास्तां महासत्त्वौ संबुद्धोपासकौ पुरा ।
कदा चित् ताव् उभौ ग्रामं गच्छन्तौ संगतौ पथि
संबुद्धप्रतिमां तत्र पुण्यराशिम् इवोत्तमाम् ।
तां समीक्ष्य तयोर् एकः प्रणत्वैवं तम् अब्रवीत्
अहो बत महापुण्यराशिर् अयं विराजते ।
भाग्येन दृश्यते ऽस्माभिर् अद्य मित्र प्रणम्यताम्
इति तेनोदितं श्रुत्वा दृष्ट्वापरस् तम् अब्रवीत् ।
अहो बत महान् मित्र पापराशिर् अयं न्व् इति
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0