जातकमाला · श्लोक 8-27
दूरात् श्मशानम् इव तस्य विवर्ज्य गेहं अन्येन याचकजनस् त्वरितं जगाम ।
नामापि तस्य परिकीर्त्य किल प्रभाते लेभे न कश् चिद् अशनं दिवसावसाने
श्रुत्वापि दाननियतां स कथां चकम्पे दृष्ट्वापि याचनकम् उद्विजते कदर्यः ।
त्यागप्रियैः सह चकार न लोकयात्रां नन्दो जहास किल दायकम् ईक्षमाणः
दृष्ट्वा परस्यापि स देयधर्मान् ईर्ष्याकषायाक्षिपुटो बभूव ।
त्यागात्मभिः सार्धम् अनार्यकर्मा चकार नैव क्रयविक्रयं सः
अथ नन्दः कदा चिन् निष्प्रतीकारपरुषवेदनाक्रान्तदेहो नियतम् अहं मरिष्यामीत्य् उत्पन्नभयविषादशोकदैन्यमानसः पुत्रं चन्दनम् आहूयाब्रवीत् । वत्स चन्दन मया हि महता परिश्रमेण द्रव्यम् उपार्जितं परिपालितं च । तत् पुत्र मम प्रियम् अनुस्मरता न त्वया कस्मै किं चिद् अपि प्रदेयम् इति ।
चण्डालशालां व्रजत प्रगल्भान् पश्यामि युष्मान् न पुनर् यथाहम् ।
स याचकान् नित्यसमीक्ष्यकारी प्रोवाच रोषस्फुरिताक्षिकोशः
कृत्वा स कर्माणि निकृष्टकर्मा मृतस् तपस्वी मृत एव पूर्वम् ।
चण्डालनार्याः प्रतिसन्धिबन्धं चकार कुक्षौ क्षतलोचनायाः
सत्त्वानां चरितं चित्रम् अचिन्त्या कर्मणां गतिः ।
मलिना बत कामानां वृत्तिः पर्यन्तदारुणा
अन्धा वृद्धा दरिद्रा च चण्डाली दीर्घरोगिणी ।
संरागायतनं याता धिक् फलत्वं प्रसङ्गिनाम्
अथ सा वृद्धचण्डाली क्रमेण दारकं प्रसूता । तस्या एतद् अभूत् । नूनम् अहं देवताभिर् अनुकम्पिता येन मे पुत्रको जातः । नियतम् अयम् आयुष्मान् अभिवर्धमानो ममान्धाया यष्टिभूतो भविष्यतीति । सा प्रहर्षाक्षिप्तहृदया समीपपरिवर्तनीं चण्डालीम् अब्रवीत् । ज्ञायतां तावद् भगिनी कीदृशो ऽयं दारक इति । सा तम् आलोक्याब्रवीत् । ईदृशो मा भूत् कश् चिद् इति । कथं कथम् इति च । तत्र पर्यनुयुक्ता प्रोवाच ।
निशान्ताङ्गारसंकाशः कुब्जश् चिपिटनासिकः ।
अन्धः संकुचिताङ्गश् च तव पुत्रो ऽयम् ईदृशः
सा नैराश्योपहतसंताना आह । हा हा हताहम् अधन्येत्य् एवं परं वैकल्यम्
आजगाम । आह च ।
न तथानागताः पीडां कुर्वन्त्य् अर्थाः शरीरिणाम् ।
संप्राप्ता ध्वंसमानास् तु जनयन्ति यथा व्यथाम्
अथ सा जर्जरचण्डाली व्यसनविकृतहृदया सस्वरं रुरोद ।
पतिताहम् अनर्थकर्दमे छलिता पूर्वकृतेन कर्मणा ।
किम् इयं मृतमारिता कृता विधिना निष्करुणेन मे पुनः
व्यसनं निरुपायदारुणं व्यसनस्यैव ममोपरि स्थितम् ।
अनिमित्तखरेव लक्ष्यते मयि दैवस्य गतिर् गरीयसी
अहम् एव खलूरिका कृता कृपणा किं नु विपत्तिपत्त्रिणा ।
विधिना कृपणप्रमाथिना कुपितेनेव विहीनकर्मणा
अपयुक्तविलोचनां सतीम् अशनप्र स्र वणादिवर्जिताम् ।
जरतीम् उपहत्य को गुणो वद मां निर्घृणचित्त दैव हे
एवम् अन्यथा च सा तपस्विनी बहुप्रकारं विरुरोद ।
अथ गर्भमलोपलिप्तदेहं तनयं तं तरुण ं व्रणायमानम् ।
कुपितेव खरे महीतले सा विनिचिक्षेप रुजाहतं रुदन्तम्
कर्माणि तीव्रपरितापफलानि कृत्वा किं रोदिषि त्वम् अधुना हतभागधेय ।
दुःखं मया सह सहस्व बहुप्रकारं त्वं पुत्रकेति विललाप तपस्विनी सा
मिथ्याविकल्पपरिणामसुखानुपाती स्नेहो विवृद्धिम् उपयाति सुखे स्थितानाम् ।
दुःखोपतप्तमनसां शिथिलीभवन्ति पाशास् त्व् अमी प्रियविकल्पमया जनानाम्
अथ स तपस्वी चाण्डालदारको गर्भमलाक्लेदोपलिप्तबीभत्साश्रयस् तीव्रामगन्धः कृमिमक्षिकाशतनिपानभूतः पिपीलकगणाहृतकष्टाविस्पष्टचेष्टकरचरणवदनो मांसपिण्ड इव प्रत्यग्रः क्षितितलोपनिक्षिप्तो वायसैर् अप्य् अभिभूयमानो नारक इव स्वकर्मावधूतजीवितशेषः परं कृच्छ्रम् उद्वहति स्म ।
तस्य कर्मापराधेन मातुः स्तन्यं क्षयं गतम् ।
उचिताम् अपि सा भिक्षां न लेभे दुःखभागिनी
सा प्रसूतिपरिक्लेशपरिक्षामतराश्रया ।
जरारुजापरिक्लिष्टा प्रेतीवाभूद् भयंकरी
आचाममात्राम् अपि नाम नासौ लेभे शुनाम् अप्य् अनिवारणीयाम् ।
तस्यैव वा कर्मभिर् आत्मजस्य स्वकर्मभिर् वा परिणामतिक्तैः
अथ स चाण्डालदारको दैवसामार्थ्यात् क्रमेण यदा चङ्क्रमणक्षमः संवृत्तस् तदास्य मात्रा दण्डः खण्डमल्लकं चार्पितं गच्छेदानीम् अधन्यानुभवाशुभानां कर्मणां फलविपाकम् इति । अथ स चण्डालशिशुर् भिक्षाहेतोश् चन्दनस्यैव गृहम् उपजगाम ।
पूर्वाभ्यासेन तेनैव जगामासौ स्वम् आलयम् ।
कर्मैवात्यर्थम् अभ्यस्तं देहिनां देशिकायते
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0