भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 28-47

28

अद्राक्षीच् चन्दनः सार्थवाहस् तं चाण्डालकुमारकं दण्डखण्डशरावव्यग्रहस्तं लालाजलपरिक्लिन्नवदनं भिनिभिनायमानमक्षिकाशतनिपानभूतम् बाह्याध्यात्मिकमलोपहतगात्रं रथ्यारेणुविरूक्षितकतिपयशिरोरुहं प्रकृतिखरदर्भसंस्तरपरिवर्तनविलिखिततनुम् अकृतशौचसंस्कारविधानं विकृतनासिकाबिलागलितसिंहाणखण्डपर्यवनद्धबीभत्साननं वीथीमुखात् प्रविचित्य धान्यपुलाकान् रोमन्थायमानं पूतनारूपम् इवातिविरूपं मूर्तिमन्तं संवेगं साक्षाद् इव पाप्मानम् अलक्ष्मीपुञ्जम् इव संपिण्डितम् अपूर्वम् इव पिशाचनिर्माणं विपाकसर्वस्वम् इवाशुभस्य कर्मणः समाहारम् इव संसारदुःखानां राहुमु खान्यम् इव जगच्चक्षुषां रहस्यभूमिम् इवानादेयताया विग्रहवन्तम् इव परिभवम् उपनिघातम् इव नगरस्य प्रत्यादेशम् इवापकारिणां निलयम् इवाधन्यतायाः पदम् इव दौर्भाग्यस्य गृहद्वारैकदेशे निषण्णं दण्डेन काकान् निवारयन्तम् । दृष्ट्वा च पुनः पूर्ववैरानुशयोद्बोधितकोप इव सरभसो दौवारिकम् अब्रवीत् । अरे कापुरुष निर्वासयैनम् अमङ्गलम् अलक्ष्मीकम् अप्रेक्षणीयं चण्डालाधमम् । तथा चैनं निर्भर्त्सय यथा न पुनर् इहागच्छेद् इति ।
स तथेति प्रतिश्रुत्य तं चण्डालकुमारकम् ।
दण्डेन प्रेरयाम् आस परुषां गिरम् उद्गिरन्

29

यदि त्वां पुनर् आयातम् इह पश्यामि कश्मल ।
अस्मात् कष्टतरं ते ऽहं करिष्यामीति निग्रहम्

30

क्रौर्याभ्यासावलिप्तस्य मनसो वृत्तिवैकृतम् ।
न हि संकोचम् आयाति खलानां कृपणेष्व् अपि

31

पपात भूमौ कृपणः स बालो दण्डाभिघातक्षतपृष्ठवंशः ।
प्रकाशयन् कर्मफलं स्वम् एव कर्मातिरौद्रं नरकस्य तस्य

32

अथ स तपस्वी भग्नशिरःकपालभागो विकुञ्चितजानुमण्डलः पाषाणशकलकपालशर्करापरिक्षतक्षामजङ्घाबाहुदण्डकः समन्ततो विगलितरुधिरधारावसिच्यमानविग्रहो महीरजःकपालावरुद्धवदनविवरो विक्षिप्तदण्डकः संचूर्णितमल्लको धरणितलविकीर्णभिक्षाशेषस् तीव्रवेदनाभ्याहतशरीरो मत्स्य इव प्रतप्तसिकतामध्यगतः संपरिवर्तते स्म । अथास्य माता चिन्तयाम् आस । किं नु मे पुत्रकः प्रपाते पतितः स्याच् छुना वा भक्षित उत गवा जीविताद् व्यपरोपितः परिभूय वा बालदारकैर् विहेठितो मार्गप्रनष्टो वान्येन पथा गतः । किं वा नागच्छतीति सा पुत्रस्नेहाकृष्टहृदया पुत्र पुत्रेति क्रन्दती तं देशम् उपजगाम । स च बालदारको जनन्याः स्वरं प्रत्यभिज्ञाय भृशतरं विचुक्रोश ।
समानसुखदुःखानां सुहृदाम् अपि संगमे ।
नवीभवन्ति दुःखानि व्यतीतान्य् अपि देहिनाम्

33

मातेत्य् अपूर्वम् एवैतद् विश्रम्भायतनं भुवि ।
पुत्र इत्य् एव निष्यन्दः स्नेहस्यास्य दुरत्ययः

34

अम्बेति दीनां गिरम् ईरयन्तं सा तं परिष्वज्य तनुप्रलापम् ।
रुरोद तीव्रायतदीनकण्ठा निनादयन्ती पुरचत्वराणि

35

कस्य पुत्र दया नासीत् त्वयि दुःखैकभाजने ।
गर्वितः को न्व् असौ लक्ष्म्या गजकर्णाग्रलोलया

36

प्रकाशितम् इदं केन कृपणे त्वयि पौरुषम् ।
त्वयि प्रहरतः कस्य भूमौ न पतितः करः

37

हतस् त्वं केन मे वत्स निरनुक्रोशचेतसा ।
निहतः पूर्वकेणैव कटुपाकेन कर्मणा

38

इदम् अनार्यताचिह्नं केन त्वयि विदर्शितम् ।
को न्व् असौ मानुषाकारो रक्षसाम् अनुशिक्ष्यते

39

आयसं हृदयम् कस्य कस्य वज्रमयः करः ।
कस्य वाक् सविषा कस्य त्वयि नासीद् दयालुता

40

निहीनकुलजे बाले सुहृद्बन्धुविवर्जिते ।
जात्यन्धे परपिण्डाशे त्वयि किं रोषकारणम्

41

स बालभावात् कृपणो वराकः स्वभ्यस्तमात्सर्यतया तया च ।
शुशोच भैक्षं क्षितिविप्रकीर्णं न तु क्षरच्छोणितम् आत्मदेहम्

42

अथ वृद्धचण्डाली तं दारकं क्षतविक्षतशरीरं शनैः शनैः पाणिना परामृशन्ती प्रोवाच । केन ते पुत्रकेयम् अवस्था कृता निर्दयेन पापकर्मणा पुरुषाधमेनेति । स प्राह । अम्ब आर्यचन्दनेन पुरुषो ऽभिहितो निर्वासयैनम् अमङ्गलम् अलक्ष्मीकम् अप्रेक्षणीयं चण्डालाधमम् । तेनाहम् एवं पीडित इति । अथ सा वृद्धचण्डाली दीर्घम् उष्णं विनिश्वस्य पञ्चाङ्गुलम् अभिनिपीडयन्ती कोपपरुषाक्षरम् इत्य् अवोचत् ।
अल्पायुषि कुतस् तस्मिन्न् आर्यता पुरुषाधमे ।
व्यसनोपहते बाले त्वयीदं यस्य वैकृतम्

43

एवं तस्याः शोकवशम् उपगतायाः कृपणायाः समीपे महाजनकायः संनिपतितः । अत्रान्तरे
आकृष्यमाणहृदयः कृपया महत्या वैनेयकृत्यम् अवलम्ब्य विनायकाग्र्यः ।
प्राविक्षद् अक्षतमना भगवान् पुरीं तां बुद्धो विबुद्धनवपङ्कजसंक्रमेण

44

चामीकराद्रिम् इव जङ्गमम् आपतन्तं तं तायिनं स्वकिरणैः परिविष्टमूर्तिम् ।
पौराः प्रसादशिथिलावनतैः शिरोभिर् दूरात् प्रणेमुर् उपशान्तभवप्रपञ्चम्

45

सितभवनगतास् तं संभ्रमोद्भ्रान्तचेष्टास् तडित इव सुमेरोः शृङ्गपर्यन्तलग्नाः ।
उपशमम् इव साक्षाद् आपतन्तं तरुण्यो मणिगुणकुसुमौघैर् अर्चयाम् आसुर् आर्यम्

46

अपेतपाषाणकपालशर्करः समः स निम्नोन्नतवर्जितो ऽभवत् ।
भुवः प्रदेशो हरितार्द्रलेपनः प्रमुक्तपुष्पप्रकरोत्तरच्छदः

47

निबद्धजीमूतवितानम् अम्बरं समुद्गतेन्द्रायुधतोरणं बभौ ।
ववुः शनैः स्पर्शसुखाः समीरणाः सिरिन्ध्रिकापुष्परजोविकर्षिणः

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc