भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 132-7

132

बोधिसत्त्वः प्राह ।
एतद् भासुरवह्निपिङ्गलशिखाज्वालाकलापोज्ज्वलं
को ऽन्यो ऽवभ्रमितं प्रयास्यति समं छित्त्वा परः चैष्यति ।
पुरुषः प्राह ।
यो मातर्य् अपकारकार्यम् अपरः कृत्वा समायास्यति
तस्येदं शिरसि भ्रमिष्यति पुनर् मूर्ध्ना [!] तव प्रच्युतः

133

अथ बोधिसत्त्वस् तेन मूर्ध्ना [!] प्रविदाहजेन तीव्रेण दुःखेन समाकुलहृदयो ऽपि सत्त्वेष्व् अनन्तेषु समुत्पादिततीव्रकारुण्याशयस् तं पुरुषम् आबभाषे ।
क्षपितसकलरागक्लेशजालान्धकारा गगनतलनिलीना योगिनो ये नमस्याः ।
स्फुरितकटकहाराः प्रज्वलन्मौलयो ये पुनर् अमरसमूहास् ते ऽपि शृण्वन्तु सन्तः

134

कृत्वा दुश्चरितं स्वमातरि जगत् कृत्स्नं यदि प्रोद्वहेद्
एतत्प्रज्वलिताग्निरागकपिलं चक्रं बृहन् मूर्धनि ।
कल्पान् कल्पसमैर् अहोभिर् अयुतान् वोढुं चिरायोत्सहे
सत्त्वार्थं प्रतिपद्य मानव हि मे चित्तं न संखिद्यते

135

अथ तस्य सर्वसत्त्वप्रियस्य मैत्रकन्यकस्य बोधिसत्त्वस्य वचनानन्तरम् एव मूर्ध्ना [!] समुत्पत्योत्क्षिप्तम् इव तच् चक्रं सप्ततालोच्छ्रयाच् चाक्रं नभस्तलं समुत्पत्यावतस्थे ।
रेजे तच् चपलानिलाहतचलज्ज्वालाकलापोज्ज्वलं
चक्रं खे परिवर्तमानम् असकृत्प्रोन्मुक्तभीमस्वनम् ।
उद्यन् [!] बिम्बम् इवारुणस्य सकलं प्रोन्मुक्तरश्म्युत्करं
रत्नाद्यैः प्रविलम्बमानम् अमलैर् वैडूर्यभित्त्याश्रयैः

136

ततः स्रवन्निर्झरवारिचालिनः समीरणोल्लासितपुष्पशाखिनः ।
नभोविचुम्ब्यायतशृङ्गबाहवश् चकम्पिरे भूमिभृतो हता इव

137

भुजंगविक्षोभसमुद्गतोर्मयः पयोधरध्वानगभीरनादिनः ।
जलालया रत्नशिखानिवासिनस् तदातिवेलासलिलैर् ललङ्घिरे

138

प्रमुक्तनिःशेषमयूखभासुरं रराज खे मण्डलम् अंशुमालिनः ।
रवेर् मयूखाङ्कुरदन्तुरान्तराद् दिशः समन्ताद् ददृशुः स्फुटश्रियः

139

स्फुरत्तडिद्दामविराजितोरसः सुरेन्द्रचापप्रतिबद्धकङ्कणाः ।
पयोमुचः किंचिदवाश्रुताम्भसो वितानवद् व्योमनि ते विरेजिरे

140

स्रजो विचित्रा विनिपेतुर् अम्बराद् वितुष्टुवुर् हर्षतरा दिवौकसः ।
चिरप्रगाढव्यसना हतार्तयः क्षणाद् अभूवन् बहवो निरामयाः

141

ज्वलति विषमचक्रे प्रान्तदीर्णोर्ध्वकायो
गलितरुधिरधारासिक्तसर्वाङ्गकायः ।
भगवति गुणराशौ संप्रसाद्य स्वचित्तं
स्वगृहम् इव स साधुर् द्याम् अयात् तत्क्षणेन

142

दानोदकमहत्तीर्थे शीलशौचसुनिर्मले ।
क्षमासुरभिशीताच्छे वीर्यागाधप्रवाहके

143

ध्यानस्तिमितगम्भीरे प्रज्ञापद्मप्रबोधके ।
तस्मिन् बोधिमहातीर्थे स्थित्वा बोधिपुरोत्सुकः

144

प्रक्षालयञ् छेषपापं तुषिते ऽसौ ययौ मुदा ।
तत्रस्थो ऽप्य् अचिरं रेमे दृष्ट्वा लोकं कृपान्वितः

1

तत् किम् इदम् उपनीतम् । एवं हि मातर्य् अपकारिणः प्राणिन इहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानमानसैः सत्पुरुषैर् मातरः शुश्रूषणीया इति ॥
इति श्रीदिव्यावदाने मैत्रकन्यकावदानं समाप्तम् ॥
7. मत्सरनन्द
स्वयंकृतः सर्वसुखोपरोधी मात्सर्यतुल्यो ऽस्ति कलिर् न लोके ।
यत्राभिरूढा व्यसनौघमग्ना भवन्ति निश्वासपरा मनुष्याः

2

एवम् इदम् उच्यमानम् अलं संवेगाय । तद्यथानुश्रूयते ।
श्रावस्त्यां नन्दो नाम सार्थवाः प्रतिवसति स्म । तस्य जन्मान्तरे पात्रातिशयप्रतिपादितत्वात् तद्दानबीजस्यापरिमाणो भोगस्कन्धः प्रादुर् बभूव । मात्सर्याभ्यासात् तु नोत्सहते स्म किं चिद् अपि कस्मै चित् प्रदातुम् ।
तस्य क्षेत्रातिशयपतितं दानबीजं पुराणं
नैकाकारं विभवनिचयं स्फीतम् आविश् चकार ।
पूर्वं दानाकृतपरिचयाध्याशयत्वात् तु नासौ
दातुं किं चित् प्रभवति तदा मत्सराक्रान्तचेताः

3

त्यागस्यैव फलानुबन्धमधुरां चित्रां विपाकश्रियं
संप्राप्य प्रहरन्त्य् अनर्थरुचयो मूलेषु ये संपदाम् ।
ते संत्यज्य निदाघकालसुभगान् इन्दोः कराञ् शीकरान्
ह्लादायानुपतन्ति दावदहनांश् चञ्चच्छिखासंचयान्

4

नैवात्मनासौ बुभुजे कदर्यो भोगान् ददौ नापि सुहृज्जनेभ्यः ।
मात्सर्यभूतग्रहलुब्धचेता द्रव्यार्जनं केवलम् एव चक्रे

5

प्रविष्टपूर्वा न गृहं कदा चिद् द्विजातयस् तस्य कपालहस्ताः ।
शुश्राव स प्रव्रजिताननेभ्यो न दक्षिणादेशनमङ्गलानि

6

वनीयकास् तस्य गृहाजिरेभ्यो व्रजन्ति निश्वस्य विशुष्कवक्त्राः ।
बलिं न काका अपि नाम तस्य स्मरन्ति सिक्थप्रकरोपहारम्

7

विवाहकालेष्व् अपि नाम तस्य वादित्रशब्दो न समुच्चचार ।
आवाहकालेष्व् अपि तस्य गेहे सुहृज्जना दीनमुखा बभूवुः

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc