भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 112-131

112

ततो मैत्रकन्यको बोधिसत्त्वः पश्यति स्म तम् अतिदारुणाकारप्रमाणं क्रूरज्वलनमालालिङ्गितम् उदारेण पटुपवनविकीर्यमाणधूमपटलान्धकारदुर्दिनेन स्फुरत्स्फुलिङ्गावलिकरालदर्शनेनायसेन महता भ्रमता चक्रेण दार्व् इव प्रविदार्यमाणमूर्धानं स्वशिरःप्रविगलितशोणितवसारसाहारमात्रविधृतप्राणशेषं समीपं चोपगम्यैनं पर्यपृच्छत् ।
किं नागो ऽसि सुरो ऽसि किन्नरवरो यक्षो ऽसि किं मानुषः
किं विद्याधरसैनिकः किम् असि वा दैत्यः पिशाचो ऽसि वा ।
किं वाकारि भवान्तरेषु भवता कर्मातिरौद्रं स्वयं
यस्यास्तिव्यसनं दुरुत्तरम् इदं भुज्यं फलं क्रन्दयत्

113

पुरुषः प्राह ।
नाहं नागो नैव यक्षो न देवो दैत्यो नाहं नापि गन्धर्वराजा [!] ।
रक्षो नाहं नापि विद्याधरो ऽपि जातिस् तुल्या संप्रतीहि त्वया नः

114

बोधिसत्त्वः प्राह ।
किं कर्म भ्रमता त्वया कुमतिना संसारदुर्गे कृतं
येनेदं ज्वलितानलं शिरसि ते चक्रं भ्रमत्य् आयसम् ।
पुरुषः प्राह ।
नानादुष्करकारिका भगवती संसारसंदर्शिका
तत्र श्रेयःसुखोपपादनपरा मत्स्नेहबद्धाशया

115

यां लोके प्रवदन्ति साधुमतयः क्षेत्रं परं प्राणिनां
दैवावेशवशाद् अकार्यगुरुकस् तस्यां जनन्याम् अहम् ।
साधो प्रास्खलयं शिरःप्रहरणं पादेन पापाशयस्
तेनेदं ज्वलितानलं शिरसि मे चक्रं भ्रमत्य् आयसम्

116

अथ बोधिसत्त्वस् तस्य पुरुषस्य प्रवचनप्रतोदेन संचोदितहृदयस् तां परजुगुप्साम् आत्मन्य् अनुपश्यन्न् आह ।
अन्यं जुगुप्साम्य् अहम् अल्पबुद्धिर् आत्मानम् एवाद्य निनिन्द अज्ञः ।
येषु स्वयं दोषगणेषु मग्नस् तैर् एव लोकं कथम् अङ्कयामि

117

मयापि यन् मातरि दक्षिणीये [!] कृतो ऽपराधः पुरुषाधमेन ।
तस्यैव पापस्य फलानि भोक्तुम् उल्लङ्घ्य तोयावलिम् आगतो ऽस्मि

118

इत्य् अथ तस्य वचनानन्तरम् एव प्रभिन्ननवकुवलयदलनिर्मलान् नभस्तलात् सजलजलदनिनादगम्भीरधीरोध्वनिर् उच्चचार ।
किं न पश्यति कर्माणि बलवन्ति शरीरिणाम् ।
लोकालोकान्तरस्थायी पाशेनेव विकृष्यते

119

ये बद्धा विषयेण दुःखनिगडे ऽनायासकर्मोत्कटे
ये त्यक्त्वा गुरुवाक्यम् अन्धमतयः पापाश्रयं कुर्वते ।
मुक्ताः कर्मभिर् एव दुःखनिगडप्रच्छेदशूरैः शुभैर्
मानुष्यं यद् अवाप्य मूढमतयो दूरे स्थिता कर्मिणः

120

अथ तस्य वचनानन्तरम् एव कर्मानिलवेगोत्क्षिप्तम् इव तच् चक्रं चिटिचिटायमानदहनकणचयोद्गाररौद्रं तस्य मूर्ध्नः समभ्युद्गम्य मैत्रकन्यकस्य बोधिसत्त्वस्य शिरः प्रविदारयं [!] भ्रमितुम् आरब्धम् ।
क्षणात् स रेजे रुधिरप्रवाहैर् मूर्ध्ना [!] च्युतैः स्नातसमस्तमूर्तिः ।
प्रभिन्नचक्राग्रविभिन्नमूर्ध्न ऐरावणस्येव तनुः पतन्ती

121

ततः स पुरुषो हा हेति मूर्ध्ना [!] प्रविदाहजेन तीव्रेण दुःखेन समाक्रम्यमाणशरीरकं मैत्रकन्यकं बोधिसत्त्वम् आह ।
दिव्याङ्गनागीतमनोहराणि चित्तप्रमोदोदयसाधनानि ।
संत्यज्य कस्माद् उ पुराणि तानि प्राप्तस् त्व् इदं स्थानम् अनन्तदुःखम्

122

देवालयं दिव्यसुखोपभोगं को नाम संप्राप्य शुभैर् अतुल्यैः ।
नित्यज्वलद्वह्निशिखाकरेण संप्रार्थयेद् भीमम् अपायगर्तम्

123

बोधिसत्त्वः प्राह ।
मत्तालिकोलाहलसंकुलानि वनानि पुष्पोज्ज्वलमस्तकानि ।
संत्यज्य नागा व्यसनं सहन्ते यया तयेच्छालतयागतो ऽहम्

124

राज्यानि विस्तीर्णधनोज्ज्वलानि विहाय नारीमुखपङ्कजानि ।
युद्धे म्रियन्ते बहवो नरेन्द्रा यया तयेच्छालतयागतो ऽहम्

125

समुत्पतत्तुङ्गतरङ्गरौद्रे भ्रमज्जलावर्तविमुक्तनादे ।
महोदधौ यान्ति नराः प्रणाशं यया तयेच्छालतयागतो ऽहम्

126

निरत्ययात्यन्तिकसौख्यसाधनं नरामरश्रीसुखसिद्धिमार्गम् ।
मुनीश्वराणां व्रतम् उत्सृजन्ति यया तयेच्छालतयागतो ऽहम्

127

तेषां मुनीनां विगतव्यथानां देयं कथं पादरजो न मूर्ध्नि ।
यैर् लङ्घितास् तीव्रविषप्रचण्डा आशाप्रपाता बहुदुःखभीमाः

128

किं तद् भवेद् दुःखम् अतीवतीव्रं का वा विपत्तिर् बहुदुःखयोनिः ।
तृष्णाविषाग्निक्षतचित्तवृत्तेर् या दूरतः संपरिवर्तिनी स्यात्

129

अपि च हे साधो
कर्मणा परिकृष्टो ऽस्मि वर्तमानो ऽपि दूरतः ।
कर्षति प्राणिनस् तत्र फलं यत्र प्रयच्छति

130

अपि च
कति वर्षसहस्राणि कति वर्षशतानि च ।
प्रदीप्तम् आयसं चक्रं मम मूर्ध्नि भ्रमिष्यति

131

पुरुषः प्राह ।
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
प्रदीप्तम् आयसं चक्रं तव मूर्ध्नि भ्रमिष्यति

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc