जातकमाला · अध्याय 8
तत्याज बोधिसत्त्वस् तृणम् इव देहं परार्थसंसिद्ध्यै ।
स्वसुखन् नापेक्षन्ते परसुखसंपादिनो धीराः ॥
कान्त्या च रूपेण च तेजसा च प्रह्लादसंमोहनतापहेतून्
अवज्ञया यो युगपज् जिगाय शशाङ्कपुष्पायुधघर्मरश्मीन् ॥
विहङ्गमानां फलिनीव पादपे शिलीमुखानाम् इव पद्मिनीवने
वनीपकानां जगदेकबान्धवे बभूव यस्मिन् सुहृदीव निर्वृतिः ॥
जगदर्थसाधनसमुद्यतात्मनः करुणापरिग्रहविशुद्धमेधसः
प्रविवेश यस्य हृदयं न मत्सरः कृतमन्त्ररक्षम् इव वेश्म पन्नगः ॥
त्यागेन सत्त्वमहता प्रथितेन यस्य व्याप्तासु दिक्षु विनिवारितमत्सरेण
शुश्राव याचकजनस्य न जातु लोको देहीति लाघवकराणि पुनर् वचांसि ॥
हृदयतुहिनशैलात् त्यागसानोः प्रवृत्तां समुपहतरजस्कां स्नापिताशेषलोकाम्
सकलभुवनवन्द्यो यः परार्थैककार्यः शशिकिरणविशुद्धां कीर्तिगङ्गां जगाह ॥
कस्यापद् अपनेयाद्य प्रीणनीयो धनेन कः
को निधेयः शिवे मार्गे यस्याभूद् ईदृशी स्थितिः ॥
आत्मानं भवविच्छित्त्यै सुवर्त्मनि निधित्सताम्
न परार्थाद् ऋते कश् चिद् व्यापारो ऽन्यो महात्मनाम् ॥
भुजवीर्यपराजितं जितारेः परदेशं बलिनो बलानि यस्य
अभिसस्रुर् उदीर्णतुङ्गवृद्धेः सलिलानीव तटान्तम् अम्बुराशेः ॥
अपरस्परदिण्डिमैः स्वनद्भिः करिणो (17अ) यस्य वितन्यमानकोपाः
वशगाः परितः प्रयाणकाले कथम् अप्य् अङ्कुशधारिणां बभूवुः ॥
भयवशाद् उपशान्तमदोदयाः शिथिलितासिशरासनमुष्टयः
मृगपतेर् इव दर्पम् अरातयो युधि गजा इव यस्य न सेहिरे ॥
प्रथिततेजसि यत्र परस्परं प्रणयसौख्यविवर्धितसंपदः
विटपिनीव खगाः फलदे प्रजाः सततम् एव सुखाय विशश्रमुः ॥
ततः कदा चित् स बहिर् विनिर्ययौ मतङ्गजस्कन्धगतः क्षितीश्वरः
सितातपत्रप्रतिवारितातपः प्रकीर्णकभ्रान्तिविकम्पितांशुकः ॥
नोल्लाघिनस् तम् अथ भृत्यजनानुयातं स्कन्धस्थितं गजपतेः क्षितिपं विलोक्य
उत्क्षिप्य दीनवदनाः सहसैव हस्तांस् त्रायस्व नो नृप गदाद् इति वाचम् ऊचुः ॥
नवयौवनकर्कशे शरीरे द्विषतां भङ्गकरे पराक्रमे च
सति चाभ्युदये परार्थहेतौ किम् अकाले भवतो वनं यियासा ॥
अथ समुच्छ्रितकाञ्चनतोरणे गृहवरे वरतूर्यपटुध्वनौ
अभिषिषेच सुतं सुतवत्सलः क्षितिपतिः क्षितिपालनमस्कृतः ॥
निन्दाहेतुः सद्गतीनां निरोद्धा शून्यागारं जालिनीयातुधान्याः
श्रेयःसेतुध्वंसनो ऽम्भःप्रवाहो लोभान्धानां मत्सरो वैरिभूतः ॥
पूर्वं नीचाः स्वापतेयप्रसक्ता दग्ध्वात्मा(17ब्)नं मत्सराज्याशनेन
भ्रूभङ्गार्चिर्ज्वालरूक्षैर् वचोभिर् नास्तीत्य् अन्ते याचितारं दहन्ते ॥
ते धीमन्तस् ते सुजन्मान ऽ; जन्मान्यत्वे ते न पश्यन्त्य् अपायान्
नीतो नात्मा यैर् अयं दुःखहेतोर् वल्मीकत्वं मत्सराशीविषस्य ॥
इभ्यो ऽपि प्रतिषेधपांसुमलिनां यो वक्ति दैन्यां गिरं दूरात् तं जनम् अर्थिनः परिहरन्त्य् आशाविसंवादकम्
तृष्णाशोषिततालवो ऽपि पथिका न स्नानपानक्रियाः कुर्वन्त्य् अप्य् अमले जनङ्गमगृहद्वारोदपानाम्भसि ॥
दीर्घैः श्मश्रुभिर् अन्धकारवदना दूरप्रविष्टेक्षणाः वार्यन्ते पुरुषैर् उपात्तलगुडैः प्रेता यद् अम्भोऽर्थिनः
तत्त्वज्ञस् तद् उवाच मत्सरफलं बन्धुः प्रजानाम् जिनः संचिन्त्येति परोपकारविमुखी पुंसा न क्ऽ; मतिः ॥
गुणीयन्तः शान्ता जगदहितविच्छेदपटवो विरूढप्रेमाणो गुणिषु सुधियः सूनृतगिरः
परिष्वक्ता लक्ष्म्या न च मदकलङ्केन मलिना निलीयन्ते पुम्भिः पुरुषगणनादौ सुपुरुषाः ॥
धुरां ये वोढारः सकलजगदाधिश्रमनुदो धियो येषां स्वच्छा रुच इव मणीनां वितमसः
प्रियं कर्तुं वाञ्छन्त्य् असुभिर् अपि ये च प्रणयिनां कथं ते नाधेयाः प्रथमगणनायां गुणवताम् ॥
अनुष्णांशुं दृष्ट्वा गुणिनम् इव संप्राप्तम् अतिथिं पयोवृद्ध्या सिन्धुः प्रथयति मुहुः संभ्रमम् इव
न वर्धन्ते तोयान्य् उदयवति तत्रैव सरसां प्रमोदाविर्भावो महति महताम् एव भवति ॥
अस्यां नद्यां महाकायः सितरत्नामलाम्भसि
रोहीतः स्याम् अहं मत्स्यो लोकस्य व्याधिशान्तये ॥
इति प्रजार्थं परिवर्धितोदयां दयाविशेषानुगतां गुणातनुम्
तनुं मुमोच स्फुरिताकुलाम्बरां वराणसायां सरिति क्षितीश्वरः ॥
अथ भूपतिः स विरराज पयसि निपतन् स्वमन्दिरात्
कल्पतरुर् इव सुमेरुतटात् त्रिदशेश्वरद्विप[महा]विषाणघट्टितः ॥
पतिते ऽथ भूभुजि समीर लुलितधवलाकुलाम्बरे
वारि चलितशफरीनिवहं (18अ) चलचक्रवाकमुदलङ्घयत् तटं ॥
तस्यां स नद्यां पतितः क्षणेन समुत्थिताम्बुध्वनिभीषणायाम्
हिमाद्रिसानोर् अनुरूपकायो रोहीतमत्स्यः समभून् नरेन्द्रः ॥
आतङ्कदुःखविच्छित्त्यै जनस्यास्य स भूपतिः
मुक्त्वात्मानं नदीतोये गतो रोहीतमत्स्यताम् ॥
उपलभ्य च वृत्तान्तम् अमात्येभ्यस् तम् आकुला
देवी प्रस्रुतबाष्पाक्षी व्यलपत् तस्य भूपतेः ॥
श्रुते ऽपि नाम त्वयि लोकबान्धवे स्वयं गतो ऽसाव् इति भूपतिर् दिवम्
तथापि चानिष्ठितिदुःखभागिनीं जिजीविषा मां न विहातुम् इच्छति ॥
तवानुकम्पासुकुमारचेतसो न जातु रूक्षं हृदयं द्विषत्य् अपि
इमं विहायानुगतं विनागसा गतो ऽसि कस्माद् अनुरागिणं जनम् ॥
विमुञ्च हे चण्डि रुषं महीयसीम् इति ब्रुवाणः प्रमदाजनाग्रहः
अकारणेर्ष्याकुपिताम् अधोमुखीं प्रसादयिष्यत्य् उपगम्य को ऽद्य माम् ॥
विधाय कर्णे विकचम् नवोत्पलं निवेश्य चारून् अलकांस् तरङ्गिणः
मनोहरम् मण्डनभूमिकास्थितः क्रमेण को मे तिलकं करिष्यति ॥
अकारि येनाङ्कनिवेशलालिता प्रियेव या रागवती प्रियेण मे
चिराय सा तेन विनाद्य वल्लकी भविष्यति ध्यानवतीव कुक्कुहा ॥
य ऊढवांस् तस्य मुखेन्दुशोभया स्थितैकपद्मस्य जलस्य तुल्यताम्
स एव शोकाद् इव हा भविष्यति प्रभातचन्द्राकृतिर् एस दर्पणः ॥
मनोहरं पञ्जरमध्यवर्तिने प्रदाय तुभ्यं परिणामि जाम्बवम्
शिरीषनिर्यूहनिभं प्रियेण मे विनाद्य कस् त्वां शुक पाठयिष्यति ॥
अपेतसख्यः स गतो मम प्रियो न केशपाशेन पुनः प्रयोजनम्
चिराय वैधव्यविधानशंसिनी ममाद्य वेणी किम् इयं न बध्यते ॥
क्षणाद् अथान्तःपुरसुन्दरीजनो निशम्य देव्याः परिदेवनाम् इति
विसर्जितादर्शविलोकनादरो मनोहरां मण्डन(18ब्)रसिकां जहौ ॥
विहाय का चिन् नयनान्तसङ्गिनीं द्रुतं शलाकां नयनाञ्जनोत्सुका
विषादवत्य् अर्धसमाप्तम् अङ्गना व्यनीनिजद् बाष्पवती विशेषकम् ॥
विकासिनीं केसरपुष्पमालिकां शिरोरुहेभ्यः परिमुच्य विक्लवा
सुगन्धिम् अन्या कणभेदपिञ्जरां व्ययुक्त का चित् सहकारमञ्जरीम् ॥
विलोलमालाभरणाकुलांशुका निपेतुर् अन्याः कुटिलाकुलालकाः
भ्रमद्द्विरेफाः प्रलयानिलाहता मनोहराः कल्पलता इव स्त्रियः ॥
निशम्य काश् चित् परिचारिकाजनात् सबाष्पनेत्राः क्षितिपस्य पञ्चताम्
प्रदोषपद्मिन्य इवा*निलाकुला निपत्य भूमाउ निमिमीलुर् अङ्गनाः ॥
अन्या शनैः परिजनेन विलोक्यमानम् आलिख्य तं नरपतिं विजितेन्दुकीर्तिम्
उत्सङ्गसंस्थम् अबला रुदती विषादात् तत्याज चित्रफलकं सह वर्तकाभिः ॥
केशान् विलुच्य सुरभीन् परिलूनसूत्रैः फुल्लैः क्व चित् प्रविरलैः कुसुमैः परीतान्
काश् चिद् विभिन्नवलयैः कमलाभिताम्रैर् आजघ्निरे मुहुर् उरांसि करैस् तरुण्यः ॥
मूल पाठ: Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 · Edition: Michael Hahn: "How it all began: I. Haribhaṭṭa's Prabhāsajātaka", Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81 Hahn, Michael: Haribhaṭṭa in Nepal. Ten Legends from His Jātakamālā and the Anonymous Śākyasiṃhajātaka. Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22) Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta · Data entry Michael Hahn Klaus Wille (Jat. 1) · GRETIL (Göttingen) · CC BY-NC-SA 4.0