भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · अध्याय 11

11.1

तृणम् इव जीवितम् इष्टं करुणानुगताः परार्थम् उज्झन्तः ।
कठिनमनसाम् अपि मनो नयन्ति मृदुतां महात्मानः ॥

11.2

क्षीरोदफेनधवलेन तनूदरेण पृष्ठेन च भ्रमरसंहतिमेचकेन
ताराविलासशबलस्फुरिताग्रपक्ष्मा रेजे कटाक्ष इव यो गहनान्तभूमेः ॥

11.3

ताभ्याम् अधिपतिभ्यां ते पालिते तृणम् अश्नती
शङ्कावियोगविश्रब्धं मृगयूथे विचेरतुः ॥

11.4

अथ विलोक्य चमूं धृतकार्मुकां चलखलीनसमुच्छ्रितनिस्वनाम्
अशरणाः परिभिन्नकदम्बका भयवशेन मृगाः परिदुद्रुवुः ॥

11.5

अवलोक्य समन्ततः परीतान् नृपसैन्येन मृगान् स बोधिसत्त्वः
शरधेः शरम् उद्धरन्तम् आराद् अवनीशं समुपेत्य संबभाषे ॥

11.6

युगपन् मृगसंक्षयाय कस्माद् धनुर् एतत् क्रियते त्वया सबाणम्
दिवसे दिवसे महानसं ते मृगम् एकैकम् अहं विसर्जयिष्ये ॥

11.7

निजगाद महीपतिस् ततस् तं यदि सत्यं मृग तत् तथा करिष्ये
न करिष्यसि चेद् इमां व्यवस्थां प्रहरिष्यामि ततो मृगेषु भूयः ॥

11.8

प्रतिपद्य गते ऽथ भूमिपाले धवलच्छत्त्रनिवारितार्कतापे
निजगाद समेत्य बोधिसत्त्वो हरिणांस् तान् पुनर् एकताम् उपेतान् ॥

11.9

युगपत् समुपागते विनाशे यदि लभ्येत पुनः क्रमः स साधुः
क्रमम् एत्य चिराय शान्तिहेतुं भविता नाम कदाचिद् अन्यद् एव ॥

11.10

गजकुम्भविभेदपण्डितानां बलिनां केसरिणाम् अपि द्विषन्तः
क्षपयन्ति शरैर् असून् नरेन्द्राः किम् उ दर्भाग्रभुजां वने मृगाणाम् ॥

11.11

सितमणिशुचिभिस् तमो विभिन्दञ् जगद् अवभास्य मरीचिभिः शशाङ्कः
पतति विगतकान्तिर् अस्तशैलात् क्षणविशरारव एव सर्वभावाः ॥

11.12

सलिलम् उरुतरङ्गं रंहसा क्षोभयित्वा हरति जलधिमध्यात् पन्नगं वैनतेयः
अतिपतति न कश्चित् कर्मणां कोविदो ऽपि प्रथितगुरुबलो ऽपि प्राक्तनानां विपाकम् ॥

11.13

इति कर्मगतिं ज्ञात्वा विज्ञानपटवो बुधाः
प्राणात्यये ऽपि नायान्ति विषादं धीरचेतसः ॥

11.14

मम यूथपते वारः प्राप्तो गन्तुं नृपालयम्
आसन्नप्रसवा चास्मि तद् एनं रक्ष शावकम् ॥

11.15

प्रसूतमात्रम् आलीनम् अवलिह्य च जिह्वया
स्तनं च पाययित्वाहं शावं चञ्चलनेत्रकम् ॥

11.16

वनान्ते शङ्खशकलच् छायैर् दशनकुड्मलैः
स्पृशन्तं शाद्वलशिखां विलोक्य च पुरःस्थितम् ॥

11.17

मम यूथपते यूथे भगिन्य् अस्ति कनीयसी
गमिष्यामि कृतार्थाहं तस्यां निक्षिप्य पुत्रकम् ॥

11.18

इति पुत्रलालसां तां हरिणीम् अभिधायिनीं समालोक्य ।
यूथपतेर् आरूढं सुतराम् अनुकम्पया हृदयम् ॥

11.19

अपरिचिते ऽप्य् अनुकम्पा दुःखिनि सुतरां विवर्धते साधोः ।
जलसिक्तमूलजाला लतेव वृक्षं समालम्ब्य ॥

11.20

यस्यैवास्त्य् अनुकम्पा दीनं शरणागतं समालोक्य
तद्व्यसनभङ्गहेतुं स एव कुरुते परं यत्नम् ॥

11.21

ताम् ऊचिवान् अथ मृगीं मृगयूथनाथो भद्रे परित्यज शुचं मनसि स्फुरन्तीम्
त्वं तिष्ठ निर्वृतिम् उपेत्य वने चरन्ती यास्याम्य् अहं नरपतेः स्वयम् एव वेश्म ॥

11.22

बालं शिरीषहरितं तृणम् आदशन्तं चन्द्रांशुजालविमलं सलिलं पिबन्तम्
संक्रीडमानम् इह पुत्रकम् एणशावैः सार्धं चिरं समवलोकय चञ्चलाक्षम् ॥

11.23

आश्वास्य ताम् इति मृगीं स जगाद धीरस् त्राता यथाद्य हरिणी मरणान् मयेयम्
दुःखात् पुनर्भवकृताज् जनतां तथैव त्रायेय मारजयिनीं समवाप्य बोधिम् ॥

11.24

विकोशपुष्पास् तम् अथाकुलाकुलाः कलैर् अलीनां विरुतैर् विसारिभिः
विधूतशाखाग्रकरा नभस्वता निवर्तयामासुर् इवाचलद्रुमाः ॥

11.25

विमुच्यमानं सुहृदेव तेन तन् मृगेण वाताहतलोलपल्लवम्
विसारिचीरीविरुतं समन्ततो वनं रुरोदेव समुत्सुकोत्सुकम् ॥

11.26

अथाभाषत तं राजा हरिणं हरिणेक्षणः
अपरिक्षीणयूथस् त्वं वद किं स्वयम् आगतः ॥

11.27

गर्भिणी हरिणी देव शरणं माम् उपागता
पुत्रदर्शनकाङ्क्षिण्यास् तस्या वारे ऽहम् आगतः ॥

11.28

पुत्रकं द्रष्टुम् इच्छन्त्याः पूरयित्वा मनोरथम्
एण्यास् तस्याः परं प्रीतो मन्ये ऽहं मृत्युम् उत्सवम् ॥

11.29

हरिणीं हरिणं चात्र यातुम् आलोक्य मृत्यवे
यन् मे समभवद् दुःखं तद् अद्य न भविष्यति ॥

11.30

तस्मात् प्रमापय नरेश्वर माम् इदानीम् औरभ्रिकैः कथय देव विलम्बसे किम्
अत्यायतेन करुणाकवचेन बद्धं चेतो भिनत्ति न विषादशरो ममेदम् ॥

11.31

परार्थनिष्पत्तिनिबद्धचेता मृगाकृतिस् त्वं पुरुषप्रधानः
परोपघाताय निबद्धयत्ना वयं खलु व्यालमृगैः समानाः ॥

11.32

शरणम् उपगतं कृतापराधं रिपुम् अपि पासि किल व्युदस्य कोपम्
कथय कथम् अनागसां मृगाणाम् उपरि पतन्ति तवेषवो निशाताः ॥

11.33

प्रहृतं न त्वया युद्धे द्विषत्य् अपि पराङ्मुखे
निहंसि भयवित्रस्तान् हरिणान् नश्यतः कथम् ॥

11.34

जहीहि मृगयाक्रीडाम् असत्संकल्पवर्धिताम्
नरकाग्नेः स्फुरद्दीप्तेर् भवित्री येयम् आहुतिः ॥

11.35

सुभाषितप्रीतिर् अनुन्नतिः श्रिया परार्थनिष्पत्तिपटीयसी क्रिया
गुणेष्व् अतृप्तिर् गुणवत्सु चादरो विरूढम् एतच् चरितं महात्मनाम् ॥

11.36

नितान्तम् आविष्कृततुङ्गतेजसी उभे मनुष्यस्य मनुष्यलक्ष्मणी
अदैन्यम् आपत्स्व् अपि चित्तगौरवाद् अपत्रपा चार्यपथप्रकाशिनी ॥

11.37

खलाः प्रकृत्यैव मलीमसाशया वृथा परेषाम् अयशःसु जाग्रति
स्वचित्तशुद्धौ विनिविष्टबुद्धयो बुधाः पुनस् तेषु भृशं दयालवः ॥

11.38

नरेषु तुल्योदयपौरुषेष्व् अपि क्रिया न सर्वस्य परोपकारिणी
परिस्फुरज्ज्योतिषि निर्घने नभस्य् अगस्त्य एवाम्बु करोति निर्विषम् ॥

11.39

विचिन्त्यमानो ऽपि करोति विस्मयं विसारिणा सच्चरितेन सज्जनः
यदा तु चक्षुःपथम् एति देहिनां तदामृतेनेव मनांसि सिञ्चति ॥

11.40

यस्यायामि परोपकारसलिलस्रोतो न विच्छिद्यते धीचक्षुश् च वियोगि यस्य तमसा द्वाव् एव तौ जाग्रतः
अन्येषां पशुधर्मणां परहितव्यापारदुर्मेधसां तुल्ये रात्र्यहनी प्रमत्तमनसाम् अज्ञाननिद्रावताम् ॥

11.41

संसारे भ्रमतो महान्धतमसे संतिष्ठमानस्य वा साधोः साधुफले नितान्तमहती द्वे एव ते मां प्रति
यत्र प्रोज्झ्य गृहं तपोवनम् अभिप्रस्थीयते श्रेयसे यस्मिन् वा क्रियते विवेकपटुभिः साकं कथा सूरिभिः ॥

11.42

भुज्यन्ते स्वगृहस्थिता इव सुखं यस्यार्थिभिः संपदः पट्वी यस्य च धीस् तमःप्रहतये द्वाव् एव तौ प्राणितः
यस् त्व् आत्मंभरिर् उन्नते ऽपि विभवे हीनश् च विद्वत्तया तस्यालेख्यमणेर् इवाकृतिभृतः सत्ताप्य् असत्ता ननु ॥

11.43

कृच्छ्राल् लब्धम् अपि क्रमेण भवति प्रभ्रंशि भूयः सुखं तद्भ्रंशे परितापम् एति पुरुषश् चित्तानलं ज्वालयन्
दुःखस्यास्य भवानुबन्धजननी हेतुः शठा जालिनी ते ऽत्यन्तं सुखिनो मनःसु निहिता यैः सम्यग् अल्पेच्छता ॥

11.44

मोहच्छेदि सुभाषितं विनयति द्रव्यं विनैव श्रमाद् अद्रव्ये तु भवन्त्य् अपि स्फुटपदा व्यर्थोपदेशा गिरः
कर्मारेण पटीयसापि विघनव्योमेन्द्रनीलच्छविः श्रीगर्भः क्रियते कलङ्कपरुषाद् घण्टीकृतान् नायसः ॥

11.45

उत्पादे सति लोक एष मरणव्याधिश्रमैर् बाध्यते तृष्णातन्तुनिबन्धनस्य जगतो भूयस् त एवाधयः
इत्य् अच्छिन्नपुनर्भवप्रतिभयः संसार आ निर्वृतेर् युष्मत्संगमहेतुर् इत्य् अवमतो नायं सदोषो ऽपि नः ॥

11.46

मया विना नृवर विषण्णमानसं समाकुलं हरिणकुलं भविष्यति
अकण्टकां चिरम् अनुशाधि मेदिनीं व्रजाम्य् अहं त्वरितपदं तदन्तिकम् ॥

11.47

अथ यूथपतिं विलोक्य दूरान् मुदितं तन् मृगयूथम् उत्सुकाक्षम्
दशनाग्रगृहीतशष्पदर्भं त्वरितं प्रत्युदियाय बद्धपङ्क्ति ॥

11.48

विनिमीलितलोचनेव यासीद् धरिणी यूथपतौ गते वनान्तात्
समुपेयुषि सैव तत्र धीरे पुनर् उन्मीलितलोचनेव जाता ॥

11.49

आगम्य साथ हरिणी हरिणप्रधानम् इत्थं जगाद मुदिता चलितायताक्षी
प्रह्लादयन् मम मनः शिशुर् एष दावे संक्रीडते हरिणनाथ तव प्रसादात् ॥

मूल पाठ: Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 · Edition: Michael Hahn: "How it all began: I. Haribhaṭṭa's Prabhāsajātaka", Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81 Hahn, Michael: Haribhaṭṭa in Nepal. Ten Legends from His Jātakamālā and the Anonymous Śākyasiṃhajātaka. Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22) Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta · Data entry Michael Hahn Klaus Wille (Jat. 1) · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc