भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · अध्याय 7

7.1

बहिरङ्गम् अपि द्रव्यं कृच्छ्राद् गुणिने ऽपि दीयते नीचैः ।
प्रियम् अपि देहं सन्तस् तिर्यग्भ्यो पि प्रयच्छन्ति ॥

7.2

श्रेष्ठ्यात्मजस्य प्रभया हिमांशोर् अहारि कान्तिः परितः स्फुरन्त्या
यतस् ततो ऽस्य स्वजनो ऽनुरूपं चकार चन्द्रप्रभ एव नाम ॥

7.3

तदन्तेवासिनो सो ऽथ मेधया च श्रुतेन च
नाचिरेणैव कालेन विजिग्ये विजितेन्द्रियः ॥

7.4

तस्य मेधां समालोक्य सर्वशिष्यातिशायिनीम्
साधुवादपरः प्रश्ने गुरुर् आसीत् सविस्मयः ॥

7.5

भिन्नान्धकारपटला प्रकाशितपथापथा
विद्या तत्राधिकं रेजे ज्योत्स्नेव कुमुदाकरे ॥

7.6

दिव्येन चक्षुषा दृष्ट्वा यं यं निधिम् अवाप सः
प्रायच्छत् प्राप्तकल्याणो निःशेषं तं तम् अर्थिने ॥

7.7

स्वसत्त्वसदृशं तेन तथा दानम् अदीयत
नाश्रूयन्त यथा वाचो देहीति पुनर् अर्थिनाम् ॥

7.8

पात्रीकृत्य य आत्मानं दातृश्रेयोविधित्सया
सहते प्रार्थनादुःखं तादृङ् नास्त्य् अनुकम्पकः ॥

7.9

कीर्तिम् अत्र फलं प्रेत्य द्वयम् अर्थी प्रयच्छति
धनमात्रम् अदात् तस्मात् प्रदातुः स विशिष्यते ॥

7.10

देहीति निगदन्न् अर्थी लघुर् इत्य् अभिधीयते
नास्तीति निगदन् दाता ततो लघुतरो ननु ॥

7.11

यात्यन्तम् उपकाराय दातुः कल्पलतायते
प्रकाशितफलश्लाघ्या सा लघ्वी कथम् अर्थिता ॥

7.12

यदि न स्युर् अमी जगद्विभूत्यै परितः पुण्यपयःसृजो ऽर्थिमेघाः
न हि दातृपयोधयो भवेयुर् गुणमुक्तागुरुकीर्तिकुक्षिभाजः ॥

7.13

यद् यद् भवपटमध्ये रूपं संस्कारशिल्पिभिः क्रियते ।
उन्मार्ष्टि तत् तद् एषा क्रुद्धेवानित्यता चपला ॥

7.14

अध्यासितं सुकृतिभिः कामद्वेषपराङ्मुखैः
भवाग्रम् अपि नागम्यं कृतान्तस्य दुरात्मनः ॥

7.15

क्षीयते पाल्यमानापि प्राणिनाम् आयुषः स्थितिः
चित्रकर्मणि विन्यस्ता वर्तिकेव क्षणे क्षणे ॥

7.16

नचिरं दीप्यते लक्ष्मीः प्राप्य क्रूराम् अनित्यताम्
चतुष्पथप्रदीपस्य शिखेव पवनाहता ॥

7.17

मूढाः सिंहीम् इवोद्विग्नाः के चित् पश्यन्त्य् अनित्यताम्
ताम् एवान्ये कृतधियः सृगालीम् इव निर्भयाः ॥

7.18

न दुनोति मनो मृत्युः कृतपुण्यस्य धीमतः
वितपत्य् अध्वगं नार्कश् छत्रच्छायातिरस्कृतम् ॥

7.19

मदमानतमोनिमित्तम् एते कुपितव्यालदुरासदाः सदैव
विभवाः क्षणवर्तिनः प्रजानाम् अनुबन्धा इव शब्दशास्त्रभाजः ॥

7.20

जगद् इति सचराचरं विदित्वा सलिलरयाहतफेनराशिकं तु
अपगतमदमानमोहजालाः सपदि घटध्वम् अजन्मने पुमांसः ॥

7.21

भ्रूमध्यस्थं स्फुरितकिरणं बिभ्रद् ऊर्णाशशाङ्कं संतन्वानं विजिततमसाम् मण्डलं दीधितीनाम्
उत्पश्यामस् तव गुणमहत् सौगतं भावि रूपं हेमच्छेदद्युति तनुभृतां मुक्तिमार्गप्रकाशि ॥

7.22

अरण्यानीं बहुव्यालां निस्तितीर्षन् प्रयत्नवान्
गन्तुकामः शिवं स्थानं को वा नेच्छत्य् अनुप्लवान् ॥

7.23

मनोहरे यत्र विनिश्चलेक्षणे प्रियेण सिन्दूरविशेषकः कृतः
इहाद्य तत्रैव विलासिनीमुखे मुहुः शृगालेन पदं निधीयते ॥

7.24

स्मितेन ये किं चिद् उदीरितत्विषो मनो हरन्ति स्म जनस्य रागिणः
श्ववायसालुप्तविजर्जराधरास् त एव दन्ता विकृतत्वम् आगताः ॥

7.25

अगान् मुदं ये दयितो विलोकयन् सषट्पदाम्भोजपलाशचारुणी
कृते खगैस् ते हृतमांसशोणिते विलोचने व्यालबिलानुकारिणी ॥

7.26

चिराय यौ पल्लवकोमलच्छवी सपत्त्रलेखाव् अकरोत् सखीजनः
कपोलयोर् अस्थ्यवशेषयोस् तयोः क्व सा गताद्यैव मधूकपाण्डुता ॥

7.27

स्पृष्टं प्रियेण सुखकुञ्चितलोचनायाः संजातरोमपिटकं यद् अभूत् तरुण्याः
एतत्(?)पयोधरयुगं रुधिराभिताम्रैस् तत् सारमेयदशनैः परिभिद्यते ऽद्य ॥

7.28

कान्तो ऽंसदेशगलिताकुलकेशपुष्पाम् आलिङ्ग्य यां सुखम् अशेत निमीलिताक्षीम्
किं तां श्मशानवसुधाशयने शयानां नाश्लिष्यति प्रियतमां सहसा समेत्य ॥

7.29

स्नाय्वस्थिमांसरुधिरान्त्रमये कुपिण्डे (?) स्त्रीसंज्ञके प्रचुरदोषभुजङ्गकीर्णे
अस्मिन्न् अभूतपरिकल्पहतो जनो ऽयं वैराग्यवस्तुनि वृथा खलु रागम् एति ॥

7.30

ते तीक्ष्णदुर्जननिकारशरैर् न विद्धा धीरास् त एव शमसौख्यभुजस् त एव
सीमन्तिनीविषलतागहनं व्युदस्य ये ऽवस्थिताः शमफलेषु तपोवनेषु ॥

7.31

स्रवत्कीलालधारार्द्रं भुज्यमानं पिपीलिकैः
आत्मानम् आत्मनैवासौ निनाय पशुतां प्रभुः ॥

7.32

स्कन्धं स तस्य विहगः सहसाधिरुह्य स्थाणोर् इवाचलसमुच्छ्रितविग्रहस्य
आकृष्य नेत्रम् अरविन्दपलाशतुल्यं भूयो मुमोच रुधिराकुलपक्ष्मलेखम् ॥

7.33

स्नेहेन शावम् अनुपालयितुं कृतास्था शार्दूलम् अप्य् अभिमुखं प्रयाति
स्निग्धापि नाम करुणाजननी परार्थ निष्पत्तये कथम् अबाधत बोधिसत्त्वम् ॥

7.34

यदि शरीरम् इदं व्यसनास्पदं व्रजति साधनतां मुहुर् अङ्गिनाम्
बहुमतं महताम् इति रत्नवद् भुजगवद् बहुदोषम् अतो ऽन्यथा ॥

7.35

समुपागतैर् अथ वयोभिर् अविततविरावभैरवैः
तस्य पिशितम् असकृत् क्षपितं न तु चित्तधैर्यम् अभवत् पराङ्मुखम् ॥

7.36

असवः शरीरम् अथ तस्य गुणकुसुमगन्धवासितम्
वासतरुम् इव खगाः पतितं विजहुः कथं चिद् उदितव्यथाकुलाः ॥

7.37

निशि किम् अहिना दष्टः स्यान् मे सुतः स परिभ्रमन्न् उत विकरुणैर् भूषां हृत्वा हतः प्रतिरोधकैः
रदनपरिघक्षुण्णोरस्कः क्षितीश्वरदन्तिना किम् अथ गमित[ः] स्तम्भं भङ्क्त्वा पुरं समवर्तिनः ॥

7.38

विलोक्य गृध्रैर् इमम् इत्थम् आत्मजं विलुप्यमानं शिथिलास्थिबन्धनम्
अहो विधेर् दुश्चरितेन भूयसा तथापि च प्राणिमि कर्कशाशयः ॥

7.39

दया तिरश्चाम् उपरीयम् ईदृशी स्वदेहदानेन यदि प्रकाशिता
समुज्झता मां पितरं निरागसं कथं त्वया निष्करुणत्वम् ईहितम् ॥

7.40

मृदूपधाने शयने मनोहरे सुखं शयित्वा धवलोत्तरच्छदे
इहाद्य शेषे कथम् अस्थिसंकुले चिताधरित्रीशयने सभस्मनि ॥

7.41

याते ऽत्र पुत्रक दिवं करुणासहाये त्वय्य् उत्सुकीकृतजने स्वसुखानपेक्षे
गोष्ठीषु सद्गुणकथाकुसुमार्चितासु श्रोष्यामि कस्य वचनानि मनोहराणि ॥

7.42

त्वं मे निवापसलिलाञ्जलिम् अश्रुमिश्रम् उत्कः प्रदास्यसि किलेति विचिन्तितो यः
स्नेहार्द्रशुद्धमनसापि स नाम भूत्वा भग्नस् त्वया किम् इति वत्स मनोरथो मे ॥

7.43

प्रतिदिशम् अथ मेरोः कुञ्जविस्तीर्णशब्दाः कनकपटहभेरीदुन्दुभीस् ताडयित्वा
अमुचद् अमरसंघस् तत्र निर्वाणवह्नौ सुरभिकुसुमवर्षं बोधिसत्त्वास्थिराशौ ॥

मूल पाठ: Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 · Edition: Michael Hahn: "How it all began: I. Haribhaṭṭa's Prabhāsajātaka", Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81 Hahn, Michael: Haribhaṭṭa in Nepal. Ten Legends from His Jātakamālā and the Anonymous Śākyasiṃhajātaka. Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22) Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta · Data entry Michael Hahn Klaus Wille (Jat. 1) · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc