जातकमाला · अध्याय 6
स्त्रीत्वे ऽपि बोधिसत्त्वश् छित्त्वा मांसं ददौ निजाद् देहात् ।
किम् उताधिकसत्त्वबले परार्थकुशले मनुष्यत्वे ॥
उपशान्ततया परोपकार प्रतिपत्त्या मनसश् च पाटवेन
अतिविस्मयकारिणी जनानां करुणा मूर्तिमतीव सा बभासे ॥
विनिमग्नमनोज्ञचूचुकाः शुचिचामीकरकुम्भसंनिभाः
कठिनत्वम् अनन्धसां जहुः प्रमदानां गुरवः पयोधराः ॥
परिहीनमृजासु बिभ्रतीष्व् अधिकं बाहुलतासु तानवम्
अगमन् परिदीनचक्षुषां शिथिलत्वं वलयानि योषिताम् ॥
परिरूक्षशिरोरुहाकुलानि क्षणदाभङ्गशशाङ्कधूसराणि
वदनानि बभूवुर् अङ्गनानां विगतभ्रूललितस्मितोदयानि ॥
उपलिप्य मृदा गृहान्तरालं शिशवे पर्युषितं प्रदाय भोज्यम्
गृहिणी न तथात्मनानुतेपे गृहिणं वीक्ष्य यथा क्षुधावसन्नम् ॥
मृतवत्सतया निरस्तचारी कवलव्याहृतिकम्पमानसास्ना
गृहिणीं गृहम् आगता वनाद् गौर् अधिकं साश्रुविलोचनां चकार ॥
परिदुर्बलतां क्रमाद् गतानाम् अतृणाहारतया शनैर्गतीनाम्
अधिकं शिथिलत्वम् आगतेषु क्षयम् ऊधःसु गवां पयो जगाम ॥
आदश्य किंचिद् अधरं परिदुर्बलेन लाङ्गूलमूलम् अवलम्ब्य समाकुलेन
उच्चिक्षिपे कथम् अपि प्रकटास्थिसंधिर् गोपालकेन जरती सुरभिः कृशाङ्गी ॥
क्षीणान्नपानो मृतगोधनो ऽपि पटच्चरप्रावृतपाण्डुगात्रः
जनो न तस्मिन् विषये विमोक्तुं गृहान् निवासोपहतः शशाक ॥
सुतम् अप्य् औरसं नाम द्विषन्तम् इव पश्यताम्
आत्मस्नेहो हि सत्त्वानां धर्माधर्मौ न पश्यति ॥
करुणरोदनमात्रविभावित व्यथम् इमं कुटिलाकुलकेशकम्
अकरुणे कथम् अत्स्यसि बालकं हरिणशावमनोहरनेत्रकम् ॥
द्रुतगतिप्रचलोच्चशिखण्डके क्षितिरजःपरुषेक्षणपक्ष्मणि
परसुते ऽपि शिशौ मृदुचेतसां भवति वत्सलता खलु योषिताम् ॥
हसितविस्फुरिताधरपल्लवं कृतविशेषकम् आयतलोचनम्
कथम् इदं स्खलिताकुलसंकथं सुतमुखं न निरीक्षितुम् इच्छसि ॥
कुर्वन्तम् अश्वगमनाभिनयं शिशुत्वाद् दण्डाश्वकस्थमलिनाकुलकाकपक्षम्
हासस्फुरद्दशनकुड्मलपङ्क्तिशोभं का योषिद् इच्छति विलोकयितुं न पुत्रम् ॥
व्याकोशतुण्डकम् उदाननवीक्षमाणम् आहारकाङ्क्षिणम् उदीरितरूक्षशब्दम्
पुष्णाति शावम् अनुगामिनम् आदरेण काकी क्षुधा परिगतापि सती किम् उ स्त्री ॥
मृगशावम् इव व्याघ्री भक्षयित्वेमम् अर्भकम्
कथं प्रज्वलितान् पापे भक्षयिष्यस्य् अयोगुडान् ॥
कालातीतं निष्फलं कर्म कुर्वन् मोहाल् लोकः केवलं खेदम् एति
वोढुं युक्तं तावद् एवातपत्रं तिग्मज्योतिर् यावद् अस्तं न याति ॥
असारात् सारम् आदेयं शरीरात् पातुकाद् इतः
स्रोतोभिन्नचलन्मूलात् फलं तटतरोर् इव ॥
छित्त्वा ततः स्तनयुगं निशितेन तेन शस्त्रेण हेमकलशाकृति वान्तरक्तम्
तस्यै ददौ युवतये क्षुदुपप्लुतायै रूप्यावती स्वतनुदुःखम् अचिन्तयन्ती ॥
हरन्ति प्राणिनां दुःखम् आत्मदुःखानपेक्षिणः
परदुःखेन बाध्यन्ते न स्वदुःखेन ते यतः ॥
स्तनद्वयच्छेदविसारिशोणित प्रदिग्धहाराम्बरमेखलागुणा
वपुष्मती लोहितचन्दनार्चिता बभूव हेमप्रतिमेव साङ्गना ॥
केनेदं तव कल्याणम् अकल्याणेन सुन्दरि
शरीरं राक्षसेनेव कृतं कृत्तपयोधरम् ॥
सुस्वादु सर्वपात्रीणं करुणापात्रभूतया
तयोक्तं प्राहिणोद् अन्नं तस्यै दुर्गतयोषिते ॥
अथ सा जनतालोक्य रूप्यावत्यास् तद् अद्भुतम्
विस्मयाच् चालयामास मुहुर् अङ्गुलिपल्लवान् ॥
इदं चाभिदधौ लोकस् तां तवानेन कर्मणा
त्यागे प्रोत्साहितं नूनं चेतो मत्सरिणाम् अपि ॥
दानपारमिता यासौ श्रूयते बोधिम् इच्छताम्
सा त्वं लोकोपकाराय ध्रुवं मूर्तिमती स्थिता ॥
स्त्रीत्वं क्वेदं बुद्धिर् एषा क्व तीक्ष्णा क्वायं त्यागः सौकुमार्यं क्व चेदम्
अस्याः साध्व्याः सर्वदानातिगेन त्यागेनान्ये ह्रेपितास् त्यागवन्तः ॥
यथा नान्यस्य पुंसो ऽपि श्रूयते दानम् ईदृशम्
तथा तेनाशु सत्येन स्तां मे पत्न्याः पयोधरौ ॥
इत्य् उक्ते गृहिणा तेन सत्याधिष्ठानकारिणा
स्तनभारालसं तस्या वक्षः पुनर् अजायत ॥
लोकस्य दानसलिलेन तृषं हरन्ती दन्तांशुकेसरमनोहरवक्त्रपद्मा
तस्मिन् पुरे गुरुपयोधरचक्रवाका रूप्यावतीकमलिनी पुनर् आबभासे ॥
तव स्तनपरित्याग संभूतेन विसारिणा
शङ्खच्छेदावदातेन यशसालंकृतं जगत् ॥
किम् ऐन्द्रम् अमुना स्थानं तपसा विजिगीषसे
कुतूहलवशाद् भद्रे पृच्छामि भवतीम् अहम् ॥
आचख्ये सुरपतये ऽथ सा यथावद् वाञ्छामि त्रिभुवनशान्तये जिनत्वम्
एतेन द्विज मम सूनृतेन सद्यः पुंभावो जगति गुणाश्रयस् तथास्तु ॥
इत्य् उक्ते वचसि जगाम सा नरत्वं शक्रो ऽपि स्वपुरम् अगात् प्रतीतचेताः
निर्वृत्तं जगति तद् अद्भुतं विदित्वा लोकश् च स्थिरतरनिश्चयो बभूव ॥
श्मश्रूद्गमं प्रविरलाञ्जनचूर्णनीलम् आविर्भवन्तम् अवलोक्य तदाननेन्दौ
सद्यः पयोधरयुगं गजकुम्भपीनम् अन्तर्दधे पृथुनि वक्षसि लज्जयेव ॥
तस्याभिषेकम् अथ चक्रुर् उदीर्णहर्षाः पौराः परोपकृतितत्परमानसस्य
सार्धं च चामरयुगेन मनोऽभिरामम् उच्चिक्षिपे परिजनेन सितातपत्रम् ॥
तच् चक्रिरे विपणितोरणबद्धमालं शैलालिनाम् अभिनयेन मनोऽभिरामम्
गन्धाम्बुसेकसुरभीकृतमार्गरथ्यं पौराः कुबेरभवनेन पुरं समानम् ॥
काले जलं जलधराः प्रददुः प्रकामम् ईतिः कदाचिद् अपि न व्यसनं चकार
तत्र प्रशासति नयेन महीं महीशे शुश्राव दुःखम् इति नैव जनः कदाचित् ॥
कृष्या विना बहुफलः कलमो बभूव वृक्षाः सदा कुसुमभूरिफला बभूवुः
तस्मिन् सुराजनि पृथाव् इव पाति राज्यम् उस्राः स्वयं दुदुहिरे ऽतनुदुग्धधाराः ॥
अच्छिन्नदानपरिपूर्णमनोरथेन शक्तित्रयोदयवता विजितेन्द्रियेण
नानागुणाभरणभूषितविग्रहेण राजन्वती क्षितिर् अभूत् क्षितिपेन तेन ॥
आरुह्य सो ‘थ मणिचारु नरेन्द्रसिंहः सिंहासनं नृपनमस्कृतपादपद्मः
पद्मानुकारिवदनः प्रविवेकधर्मो धर्मं दिदेश परमार्थफलं जनाय ॥
दानस्य पश्यत विपाकमहत्त्वम् एतद् अत्रैव मे युवतिताम् अपनीय येन
उद्भावितं प्रथितजन्मफलं त्रिवर्गं लोकाधिपत्यरमणीयम् इदं नरत्वम् ॥
दानद्रुमात् कुसुममात्रम् इदं प्रसूतम् अन्यद् भविष्यति फलं विपुलं परत्र
एतद् विचार्य बहुधार्थिवसुन्धरायां शीलामलान् अखिलदाननिधीन् निधत्त ॥
न स्युर् गुणपयःसिक्ता यद्य् अर्थिक्षेत्रभूमयः
दाता दानफलाकाङ्क्षी दानबीजं क्व रोपयेत् ॥
बन्धुभ्यो ये ऽतिरिच्यन्ते कीर्तिपुण्यप्रदायिनः
त्रासयेत् को ऽर्थिनः प्राज्ञो भ्रूभङ्गभुजगेन तान् ॥
एकः प्राह गिरं मुहुः स्तुतिमतीम् एकस् तु रूक्षाक्षराम् एकः सादरम् ईक्षते धनमदात् सावज्ञम् एवापरः
एकः साधु ददाति पुण्ययशसी वस्त्व् एकम् एवापरो दूरं मां प्रति याचिता विजयते दातारम् एभिर् गुणैः ॥
दिशः कर्तव्याश् चेद् गुणकुसुममालासुरभयः पुनर् भोक्तुं हृद्यं फलम् अतनु वाञ्छास्ति यदि वा
अतः संरोप्यन्तां प्रणयिजनभूमाव् उदयिनो महाकीर्तिच्छायाः प्रतिदिवसम् एवार्थतरवः ॥
वर्षाणि षष्टिम् अथ लोकम् अनुप्रविश्य कृत्वार्थिनां गुणवतां च सुखान्य् अभीक्ष्णम्
कीर्त्या दिशः कुमुदपाण्डुरयावभास्य जन्मान्तरं गुरुबलः स नृपो जगाम ॥
मूल पाठ: Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 · Edition: Michael Hahn: "How it all began: I. Haribhaṭṭa's Prabhāsajātaka", Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81 Hahn, Michael: Haribhaṭṭa in Nepal. Ten Legends from His Jātakamālā and the Anonymous Śākyasiṃhajātaka. Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22) Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta · Data entry Michael Hahn Klaus Wille (Jat. 1) · GRETIL (Göttingen) · CC BY-NC-SA 4.0