भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · अध्याय 5

5.1

को विस्मयं न नीतः शिरसस् त्यागेन बोधिसत्त्वस्य ।
अथवा फलानुरूपाः प्रायो महतां समारम्भाः ॥

5.2

श्रियम् अरिपुरनारीपद्मिनीनां हरन्ती सखिजनकुमुदानां ह्लादम् उत्पादयन्ती
निशि मनुजपतीन्दोस् तस्य देहप्रभैव क्षपिततिमिरजाला दीपकार्यं चकार ॥

5.3

यदि मां मृगयेत कश्चिद् अर्थी नयने प्राणनिबन्धनं शिरो वा
भवभङ्गकरं पदं यियासुः प्रणयच्छेदम् अहं न तस्य कुर्याम् ॥

5.4

परस्परगुणालापौ परस्परहितोन्मुखौ
न कदाचिद् अभूतां तौ परस्परवियोगिनौ ॥

5.5

भूपालः पृथिवीम् एनां पालयन् पालितेन्द्रियः
कृतात्मा सुचिरं जीवञ् जीवयत्व् अखिलं जनम् ॥

5.6

विचचाल ततः सभूधरा मुहुराघूर्णितसागरा धरा
सरितो जलम् उद्धुराविलं चलपाठीनविकम्पितान्तरम् ॥

5.7

न विरेजतुर् इन्दुभास्करौ रजसा धूसरदर्पणाकृती
अभवन् ककुभः समन्ततो मलिनाः प्रोषितभर्तृका इव ॥

5.8

अनृताव् अपि शाखिनाम् अभूत् कुसुमं पाण्डुपलाशकेसरम्
ववुर् उद्धतपांसुसंचयाः शिखिलेशानुगता इवानिलाः ॥

5.9

अभवत् सचराचरा धरा मलिनक्षामजनाकुलाकुला
क्षणदा परिधूम्रतारका शशिनीवास्तसमीपम् आगते ॥

5.10

वने ऽश्नतीनाम् अपि कोमलं तृणं क्षणाद् गवां क्षीरम् अगात् परिक्षयम्
धवित्रधूतो ऽपि निवेशिताङ्गतिर् मखेषु जज्वाल न यज्वनां शिखी ॥

5.11

उत्पातजनितं कृच्छ्रं मा भूद् अस्य महीभुजः
यस्याश्रित्य भुजच्छायां देहिनः शेरते सुखम् ॥

5.12

भवति तनुधनाद् अपीष्टलाभो यदि पुरुषात् किम् अतो महाधनेन
यदि गजपदमात्रखाततोयं हरति तृषं वद सागरेण को ऽर्थः ॥

5.13

न स्थूलक्षीरधाराः सितजलदरुचः प्रार्थये गाः सवत्साः किंचित्कर्णावधूतभ्रमदलिनिवहान् नैव मत्तद्विपेन्द्रान्
नालंकारान् प्रसन्नस्फुटकिरणमणीन् नापि वासोविशेषान् याचे मूर्धानम् अस्माद् अहम् अवनिभुजः सर्वदो ऽयं किलेति ॥

5.14

अमूनि ते रत्नमयानि साधो ददामि भक्तिप्रवणः शिरांसि
न चेद् अमीभिस् तव कृत्यम् अस्ति मदीयम् अद्यैव शिरो गृहाण ॥

5.15

स्वाम्यर्थं बिभ्रतः प्राणान् भृत्यस्य स्थिरचेतसः
तद्धेतोः साधनीभूतास् ते चेन् ननु कृतार्थता ॥

5.16

उत्तितीर्षोर् उदन्वन्तं दूरपारं दुरुत्तरम्
यो भिनत्ति प्लवं बद्धं कथं स सुहृद् उच्यताम् ॥

5.17

तस्माद् धर्मसहायेन पुंसा धर्मानुवर्तिनः
उत्साह एव कर्तव्यो धर्मविघ्नो न युज्यते ॥

5.18

ईदृशो न भवेद् अर्थी यदि मोक्षस्य कारणम्
बोधिसत्त्वस्य पूर्येत दानपारमिता कथम् ॥

5.19

इत्य् उक्त्वा खड्गम् आकृष्य ब्राह्मणस्यार्पयन् नृपः
मम च्छिन्धि शिरो विप्र प्रोक्तवान् इति चाव्यथः ॥

5.20

क्व ब्राह्मणः क्व हृदयं करुणापरोक्षं चण्डालसंगतम् इवाहम् अनेन मन्ये
यज्ञोपवीतम् इति तस्य चिरं विचिन्त्य विप्रस्य वक्षसि सलज्जम् इवावतस्थे ॥

5.21

अपगतशिरसं निरीक्षितुं मनुजपतिं बत को ऽद्य शक्ष्यति
उपहतयजमानसत्क्रियं क्रतुम् इव पुण्यजनैर् उपप्लुतम् ॥

5.22

इदम् अवनिभुजा विनाधुना पुरम् अतिदीनजनं न भास्यति
भ्रमदलिकुलसंकुलं गजैः सलिलम् इवोद्धृतफुल्लपुष्करम् ॥

5.23

तद् यावद् अस्य नृपतेर् न शृणोमि मृत्युं प्राणान् अहं प्रथमम् एव जहामि तावत्
एवं विचिन्त्य स समाधिबलेन धीमान् स्वायंभुवीं गतिम् अगात् स्वतनुं विहाय ॥

5.24

धन्यः स एव पुरुषः समवाप्य सौख्यं वृत्तं प्रकाश्य जगतीन्दुमरीचिशुभ्रम्
प्राप्ताम् अवेक्ष्य सुहृदां महतीं विपत्तिं प्राप्नोति यः प्रथमम् एव शरीरभङ्गम् ॥

5.25

निशितं वसुधाभर्तुर् असिं कथम् अनागसः
अस्य नाम जगद्बन्धोस् त्वं कण्ठे पातयिष्यसि ॥

5.26

अकारणक्रौर्यविरूक्षमानसः शिरो यदि च्छेत्स्यति भूपतेर् भवान्
तवाप्य् अशन्या स्फुरितस्फुलिङ्गया शिरः करिष्याम इदं विजर्जरम् ॥

5.27

अर्थिभ्यो याचमानेभ्यो दत्तानां शिरसां मया
अमुना शिरसाद्येदं सहस्रं परिपूर्यते ॥

5.28

शिरःप्रदानात् कुशलं यद् अस्माच् चिराय विस्मापितसर्वलोकात्
अवाप्य बोधिं मम तेन शान्तौ भवेयुर् अस्थीनि तिलाणुकानि ॥

5.29

अस्मिन् पुरे भद्रशिलाभिधाने शिरांसि दत्तानि मया च यस्मिन्
स्थाने भवेत् तत्र मनोऽभिरामे स्तूपो महान् देहभृतां हिताय ॥

5.30

इति कृतप्रणिधेर् वसुधापतेर् अकरुणः करुणामृदुचेतसः
स भुजगद्युतिना सहसासिना कमलवन् मुखपङ्कजम् अच्छिनत् ॥

5.31

छिन्ने ततः शिरसि भूमिपतेः क्षणेन निर्मुक्तफुल्लकुसुमाश्रुकणानुबद्धाः
जघ्नुः स्वपल्लवकरैर् अनिलावधूतैर् आत्मानम् उत्सुकतयेव लतातरुण्यः ॥

5.32

निर्भिन्नफेनवलयं पवनेन वाता व्यालोलवीचिभुजकम्पितपद्मवक्त्रम्
तस्मिन्न् अभूद् उपवने नलिनीवधूनां वृन्दं सशोकम् इव षट्पदकूजितेन ॥

5.33

दिष्टान्तं गतवति राज्ञि राजधानी निःश्रीकप्रचुरजनाकुला न रेजे
निःशब्दस्तिमितशरारिचक्रवाका याते ऽस्तं दिवसकरे मृणालिनीव ॥

5.34

अथ गतवति तस्मिन् भूभुजि ब्रह्मभूयं चलति जलधिवेला निस्वनाक्रन्दवत्याः
रुदितम् इव पृथिव्या दूरम् उत्क्षिप्य तुङ्गौ कपिलधवलभासौ मेरुकैलासबाहू ॥

5.35

सिंहासनस्थस्य नृपस्य भृत्यैर् यद् उन्मुखैर् दृष्टम् उदीर्णहर्षैः
तन् नीयते म्लानसरोरुहाभं द्विजेन केशेषु शिरो गृहीतम् ॥

5.36

यः पूर्वाचलसंस्थितस्य शशिनः शोभां वहन् भूयसीं दृष्टः सादरम् उन्मुखैः करिवरस्कन्धस्थितो राजभिः
कण्ठच्छेदविसारिसान्द्ररुधिरव्यादिग्धवक्षःस्थलः श्येनैः सो ऽयम् अधोमुखैः क्षितिपतिर् भ्राम्यद्भिर् आलोक्यते ॥

5.37

दीनाश् चितां सुमहतीं सचिवा रुदन्तः कर्पूरचन्दनतुरुष्कवतीं विधाय
तस्मिन् निवेश्य नृपतिं व्यजनानिलेन मन्त्रैर् हुतं हुतवहं ज्वलयां बभूवुः ॥

5.38

मन्दं दत्तविलेपना शशभृतः कान्तिं हरन्ती पुरा या स्पृष्टा प्रमदाङ्गुलीकिसलयैर् गोरोचनाधारिभिः
सेयं पातितवासवध्वजनिभा राज्ञः शमालम्बिनी लोलाभिः परिमृश्यते हुतवहज्वालाङ्गुलीभिस् तनुः ॥

5.39

आचख्यौ भगवांश् चेदम् अर्हताम् अर्हतां वरः
जातकं जितसंसार महादुःखपरंपरः ॥

5.40

तदा चन्द्रप्रभो नाम बभूवाहं महीपतिः
अमात्यः शारिपुत्रो ऽभूद् देवदत्तश् च स द्विजः ॥

मूल पाठ: Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 · Edition: Michael Hahn: "How it all began: I. Haribhaṭṭa's Prabhāsajātaka", Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81 Hahn, Michael: Haribhaṭṭa in Nepal. Ten Legends from His Jātakamālā and the Anonymous Śākyasiṃhajātaka. Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22) Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta · Data entry Michael Hahn Klaus Wille (Jat. 1) · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc