जातकमाला · अध्याय 4
तिर्यग्योनिगतैर् अपि सद्भिः प्राणाः परार्थम् उत्सृष्टाः ।
को नाम पुरुषभूतः सक्तिं धनमात्रके कुर्यात् ॥
शान्तौ समानधर्माणौ समदुःखसुखोदयौ
ताव् अन्योन्यम् अपश्यन्तौ न रेमाते सुहृत्तमौ ॥
बाल्ये शशेन रहितः कंचित् कालं भवत्य् अनुष्णांशुः ।
न तु तेन शशाकृतिना कदाचिद् अपि स व्रती सुहृदा ॥
साप्तपदीनं सख्यं भवति सतां प्रकृतिशुद्धचित्तानाम् ।
किम् उतान्योन्यगुणकथाविश्रम्भनिबद्धभावानाम् ॥
भवति शमाभिरतानां पुंसां धर्माय पाटवं बुद्धेः ।
प्रतनुमनसां तिरश्चां धर्मारम्भे कुतः संज्ञा ॥
शशजातिर् अहो क्वेयं क्वेदं वाक्सौष्ठवं क्व च शमो ऽयम् ।
अभवद् इति देवतानां शश एव सविस्मयं चेतः ॥
आसारेण विभिन्नचन्द्रकमणिं तन्वन् कलापं मुदा लास्यं लासकवत् पुरा विरचयन् स्तौतीव यं केकया
तस्मिन्न् एव शिखी निरम्भसि घने चक्षुःप्रदानालसः प्रायेणोदयवन्तम् एव भजते स्वार्थप्रवीणो जनः ॥
निस्तोया विरलीभवन्ति जलदा विच्छिन्नम् ऐन्द्रं धनुः श्रूयन्ते न कलापिनां गिरिगुहासंसर्गदीर्घा गिरः
सर्वं वस्तु निसर्गभङ्गुरम् इति ध्यात्वेव शोकाच् चिरं विद्युल्लासिकया विलासमधुरं लास्यं परित्यज्यते ॥
जातं क्षीणफलं फलद्रुमवनं शोषं गता वीरुधः प्रम्लानानि शनैर् बिसानि बिसिनीपङ्के खरत्वं गते
यो ऽप्य् आसीद् बदरेङ्गुदीफलचयः स्वल्पो ममात्रोटजे क्षीणः सो ऽपि सुदुष्कराय तपसे यात्रां करिष्ये कथम् ॥
आहारेण विना प्रतिक्षणम् अयं देहः क्लमं गच्छति क्लान्त्या चेतसि योगिनः प्रतिहते स्थैर्यं समाधेः कुतः
प्राज्ञस्यापि समाधिहीनमनसस् तत्त्वाभिमुख्यं कुतस् तत्त्वादर्शनबद्धमोहतिमिरः पश्चाद् वृथा श्राम्यति ॥
त्यक्त्वा ततो ऽजिनकमण्डलुवल्कलानि स्थास्यामि बान्धवजनेन सह स्वगेहे
दुर्भिक्षदोषम् अपवाह्य पुनर् वनान्ते वत्स्यामि वत्सल चिरं भवता सहात्र ॥
आलानम् उन्मूल्य सुखाभिकाङ्क्षी यातः कथंचिद् द्विरदो वनान्तम्
विस्मृत्य भूयो ऽङ्कुशपातदुःखं जनान्तम् एवेच्छति गन्तुम् अज्ञः ॥
शमेन मेधावितया तपोगुणैः श्रुतेन च ज्ञेयपथानुगामिना
मुनींस् त्वम् अन्यान् अभिभूय वर्तसे रविः प्रदीपान् इव दूरम् अंशुभिः ॥
इति त्वम् आलोकितशास्त्रनिश्चयो ऽप्य् अनन्धकारेण विवेकचक्षुषा
प्रवेष्टुकामो विषयारिगोचरं कथं प्रमाद्यन्न् इव नाम लक्ष्यसे ॥
तमोविनिर्भेदि पथां प्रकाशकं मनःप्रसादं जनयच् छरीरिणाम्
न वेत्ति धन्धः सुधियां सुभाषितं प्रसादि जात्यन्ध इवेन्दुमण्डलम् ॥
स्वबुद्धिदीपेन विना तमस्विनीं सुखानुषक्तिं त्यजतीति का कथा
गृहस्थतायां रमयन्ति यन् मनो विशुद्धसत्त्वास् तद् असांप्रतं महत् ॥
द्विसन्ध्यम् आज्याहुतिगन्धवासितैर् निवेशितान्तर्बदरेङ्गुदीफलैः
जलाशयालीनशरारिसारसैस् तरूपगूढैर् उटजैर् अलंकृताः ॥
तपस्विकन्योद्धृतकुम्भवारिणा प्रसिच्यमानोद्गतबालपादपाः
तटद्रुमच्छायनिरुद्धसिन्धवः समुच्छ्वसत्पुष्पसुगन्धिवायवः ॥
परिभ्रमत्तापसपुत्रकानुगैः क्वचिन् मृगैः खण्डितवीरणाङ्कुराः
जपाच् चलच्छ्मश्रुनिरुद्धकन्धरैस् तपोधनैर् आश्रितशैलगह्वराः ॥
अहो दृढस्नेहनिबद्धचेतसाम् असत्सुखास्वादलवानुषङ्गिणाम्
न नाम पर्युत्सुकयन्ति रागिणाम् अमेधसां चित्तम् उपत्यका भुवः ॥
अकुशलजनसेव्यं कापथं प्राप्य मोहात् स्खलति नियतम् अज्ञः स्नेहपाशान् अमुक्त्वा
सुकृतिभिर् अनुयाते संविदानो ऽपि मार्गे यद् अरजसि न तिष्ठत्य् एतद् अप्राप्तम् अत्र ॥
इन्द्रियार्थवशगस्य कामिनीः पश्यतः स्मितविलासभूषणाः
अप्य् अखण्डफलदे तपोवने रागिकस्य हृदयं निवेक्ष्यते ॥
मृगो मृगयुगीतेन नीयते शरगोचरम्
विषयास्वादलुब्धानां भवन्त्य् एव विपत्तयः ॥
शलभः प्रयाति पतितो विभावसौ गुरुदाहदुःखम् उपगम्य पञ्चताम्
कमनीयरूपहृतचेतसां कथं न भविष्यति व्यसनम् अङ्गिनां पुनः ॥
यदि नाददीत बडिशस्थम् आमिषं शकली क एनम् उदकात् समुद्धरेत्
सुखलुब्धबुद्धिर् अनुबद्धम् अग्रतो न भयं विलोकयति बालिशो जनः ॥
कमले निमीलति शिलीमुखः स्थितः समुपैति कृच्छ्रम् अतिगन्धलालसः
गजबन्धकीम् अनुसरन् वनात् करी सहते प्रतोदनिशिताङ्कुशव्यथाम् ॥
विपदां पदं तनुधियां विमोहनं स्थिरबुद्धिभिः परिहृतं महात्मभिः
यदि वः सनातनसुखस्पृहास्त्य् अतो विषवज् जहीत विषयाहिगोचरम् ॥
शश सुहृत्तम शीलयशोनिधेर् भवत एव गुणा ननु तादृशाः
मम भविष्यति यैर् हृतचेतसः पुनर् इहागमनं शमम् इच्छतः ॥
जम्बूवनं क्वचिद् अनेन फलाभिरामं दृष्टं भवेत् किम् अथवा फलितो ऽत्र चूतः
पाकाभिताम्रसुकुमारफलाधिवासो शैलान्तरे क्वचिद् उदुम्बरपादपो वा ॥
अस्मिन्न् अभुक्तवति सक्षुधि दुर्बलाङ्गे शान्ते मुनौ समसुखव्यसने सुसख्यौ
भोक्ष्ये तृणं कथम् अहं हरितं वनान्ते पास्यामि शीतविमलं सलिलं कथं वा ॥
यथार्थिनः क्षुदुपशमाय निर्व्यथस् त्यजाम्य् असून् हुतभुजि चञ्चलार्चिषि
तथा जगद्व्यसननिरस्तिकारिणीं सुदुर्लभां दशबलताम् अवाप्नुयाम् ॥
मुक्तः स्वात्मा परार्थे प्रमुदितमनसा चिन्तयित्वेति तेन क्लेशच्छेदाय शान्तं पदम् अभिलषता प्राणिनां बान्धवेन
शान्तज्वालाकलापः स च वनदहनस् तस्य पुण्यानुभावात् प्रेङ्खत्तोयोर्मिलेखं प्रचलदलिकुलं प्राप पद्माकरत्वम् ॥
अधिष्ठितं तेन भृशं शशेन रराज तद् वारिणि पुण्डरीकम्
शरत्प्रसन्ने नभसि प्रसन्नं प्रकाशलक्ष्मेव शशाङ्कबिम्बम् ॥
अहो परार्थप्रतिपत्तिदक्षिणं यशोनिधेः कर्म तवेदम् अद्भुतम्
अचिन्त्यमाहात्म्यविशेषसंश्रयो महामतिः को ऽपि शशायते भवान् ॥
अयं प्रदीप्तः क्व समीरसारथिः क्व चात्र राजीववनत्वम् ईदृशम्
महात्मनां पुण्यबलैर् अधिष्ठितो विषद्रुमो ऽप्य् ओषधिवृक्षताम् इयात् ॥
ततो ववुः प्रचलितवारिशीकराः समन्ततः कुटजभिदः समीरणाः
विरेजिरे समुदितपङ्क्तिभिः फलैः शुकाश्रिता गिरिसहकारपादपाः ॥
समुद्गते मधुकरवेणुनिस्वने मृदङ्गवद् ध्वनति च वारिनिर्झरे
ननर्त खं नवजलदं विलोकयन् स्थितो गिरेर् उपरि मयूरलासकः ॥
मनोहरं धनुर् अवतत्य वज्रिणो निपातितस्फुटबहुशीकरेषवः
वितेनिरे स्फुरदचिरप्रभासयः पयोधराः क्षपितनिदाघविद्विषः ॥
परिभ्रमद्भ्रमरनिपातकोपितः समुच्छ्वसत्प्रतरुणकेतकाश्रितः
श्वसन्न् अयोवलयसरूपविग्रहः पुनः पुनः फणम् अतनोद् भुजङ्गमः ॥
दयिताविरहोत्सुकोत्सुकैः पथिकैः शैलपथद्रुमाश्रितैः
परिशुश्रुविरे ऽल्पयाचिनां जलधारान्तरचारिणां गिरः ॥
ददृशुः पथिकाङ्गनाः स्फुरन्तीं तडितं वारिमुचि प्रवेपिताक्ष्यः
उपरि द्विरदस्य वायुनुन्नां ध्वजबद्धाम् इव कौङ्कुमीं पताकाम् ॥
शिखिचन्द्रकमिश्रकाशवंशं क्वचिद् आवर्तपरिभ्रमच्छिलीन्ध्रम्
अभवज् जलम् आविलं नदीनां तटजम्बूफलपातभिन्नफेनम् ॥
जम्बूफलैः शबलितानि सरित्तटानि पश्यन् भुवश् च मृदुशाद्वलरम्यशोभाः
पर्णोटजे क्वणति वारिकणाभिघातात् तिष्ठन् सह प्रमुमुदे स मुनिः शशेन ॥
पप्रच्छ तम् अथानेन व्यवसायेन भूयसा
स्थानं दिव्यसुखाकाङ्क्षी किम् ऐन्द्रं विजिगीषसे ॥
आचचक्षे शशस् तस्मै धीरचेतास् तपस्विने
बुद्धत्वम् अहम् इच्छामि प्राणिनां दुःखशान्तये ॥
स मुनिस् तम् उवाचाथ यदा बुद्धो भविष्यसि
तदा स्यां तव शिष्यो ऽहं स चास्मै प्रत्यपद्यत ॥
मूल पाठ: Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 · Edition: Michael Hahn: "How it all began: I. Haribhaṭṭa's Prabhāsajātaka", Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81 Hahn, Michael: Haribhaṭṭa in Nepal. Ten Legends from His Jātakamālā and the Anonymous Śākyasiṃhajātaka. Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22) Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta · Data entry Michael Hahn Klaus Wille (Jat. 1) · GRETIL (Göttingen) · CC BY-NC-SA 4.0