भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · अध्याय 3

3.1

नान्यत्र बोधिसत्त्वाद् अज्ञानतमोनिरस्तये योग्यः ।
कश् चित् सुभाषितमणिं चिक्राय प्राणमूल्येन ॥

3.2

यथा यथा संववृधे जगत्प्रियः शशीव भिन्दंस् तिमिरं मरीचिभिः
तथा तथा तन् महतीम् महाकुलं जलं पयोधेर् इव वृद्धिम् आययौ ॥

3.3

कश् चिद् एव महाभाग्यो जायते संमतःसताम्
तरुलतेव वंशश्रीर् यम् आलम्ब्य विवर्धते ॥

3.4

प्रायेण प्राणिनो लोके गुणिनो वा गुणस्य वा
नामापि पुण्यनिर्जातं प्रयाति रमणीयताम् ॥

3.5

सुभाषितं तस्य सुभाषितार्थिनः कुतश् चिद् आकर्णयतो विपश्चितः
नितान्तम् आनन्दथुचित्रकर्मकृच् चकार रोमोद्गमबिन्दुवर्तनाम् ॥

3.6

पूतेन लोकम् अवभासयता समन्तात् कान्तेन भिन्नतमसा प्रथितागमेन
शुद्धेन कस्य हृदयं शशलक्ष्मणेव न ह्लाद्यते सुपुरुषस्य सुभाषितेन ॥

3.7

शुश्राव भिन्नतिमिरं तिमिरान्तकारी यस्मात् सुभाषितम् अतीव सुभाषितज्ञः
प्रख्यातबुद्धिमहिमा महतां सदःसु प्रीतः परं शतसहस्रम् अदात् स तस्मै ॥

3.8

असंप्राप्यान्यतः पूजां गुणलभ्याम् असज्जनः
अन्यस्मै मान्यमानाय पण्डितायाभ्यसूयति ॥

3.9

श्रुतं मयातीव सुभाषितप्रियो भवान् किल ज्ञानविशेषवित्तगः
अतो ऽस्म्य् अवज्ञातजनस् त्वदन्तिकं सुभाषितप्राभृतवान् उपागतः ॥

3.10

परिभ्रमन् गन्धवतीः शिलीमुखो विहाय फुल्लाः सहकारमञ्जरीः
मदं पिपासुः समुपैति दन्तिनो गुणान्तरं तत्र स पश्यति ध्रुवम् ॥

3.11

श्रोष्यामीति सुभाषितानि भवतो जातं मुखं सस्मितं श्रुत्वा यास्यति साश्रु लोचनयुगं प्रीत्या श्रियं काम् अपि
अह्नश् छेदवशात् सुगन्धि कुमुदं मन्दं समुन्मीलति प्राप्येन्दोः किरणान् अपास्ततमसः शोभां परां पुष्यति ॥

3.12

सुभाषितं जगदुदयाय सज्जनान् महीरुहात् फलम् इव संचिनोम्य् अहं
गते मयि ज्वलनवतीम् महाखदाम् अयं जनः कथम् इव तद् ग्रहीष्यति ॥

3.13

अनवतीर्य चिराय दुरुत्तरं सुविपुलं व्यवसायमहोदधिम्
क्षपितमोहमहातिमिरः कथं जगति बोधिमणिः सुलभो भवेत् ॥

3.14

तद् अहम् एष सुभाषितलालसो जलम् इव प्रविशामि हुताशनम्
न मम धर्मकथाहृतचेतसो हुतवहो ऽपि करिष्यति वेदनाम् ॥

3.15

इति निगद्य सुखातम् अखानयद्दहनवच् च नृभिस् तद् अकारयत् ।
निरगमच् च बहिर्भवनान्तरात् सपदि तेन सह द्विजरक्षसा ॥

3.16

हुतभुजि ज्वलिते च महामतिर् निपतितुं कृतनिश्चयमानसः
सखिभिर् अश्रुपरीतविलोचनैः स रुरुधे परिरभ्य सुहृत्तया ॥

3.17

ये नाम वल्लभतरास् सततं जनस्य पुत्राद् अपीष्टफलदाद् दयिताज् जनाच् च
क्रीणासि तैर् असुभिर् आत्मसुखानपेक्षी कस्मात् सुभाषितम् अतीव सुभाषितज्ञः ॥

3.18

विज्ञानम् उज्ज्वलयति प्रतिभां तनोति तत्त्वं प्रकाशयति कापथम् उच्छिनत्ति
साधोः सुभाषितम् अहो परिचीयमानं कल्याणमित्रम् इव किं न हितं करोति ॥

3.19

यत्रोदिते विमलधाम्नि विवस्वतीव पुम्नां मतिः कमलिनीव विबोधम् एति
अत्यन्तभिन्नतिमिरं सुधिया परस्मात् तद् ग्राह्यम् आत्मनिमयेनकथं न सूक्तम् ॥

3.20

तस्माद् अहं दहनदाहम् अचिन्तयित्वा ताथागतीं गतिम् अनुप्रतिपत्तुम् इच्छन्
प्रज्ञागुरुं गुरुम् इवालघुसूक्तहेतोः प्रीतः शरीरगुरुदक्षिणयार्चयामि ॥

3.21

मानुष्यं देवभूयं वा प्राप्यते सुकृताश्रयात्
कदाचिल् लभ्यते पुम्भिः सुभाषितरसायनम् ॥

3.22

प्रदानपटुभिर् नित्यं शीले च विमले स्थितैः
अत्यन्तवीर्यसंनाहैः प्राप्यते पदम् अक्षयम् ॥

3.23

परं प्रमोदं जनयेत् पुनः पुनः तवैव सूक्तं कुशलावलम्बिनः
विषादहेतुत्वम् उपागतं यतो दुरुक्तम् अस्माकम् इदं ततो ननु ॥

3.24

सुगन्धिना वाङ्मधुनाधिवासितं परिस्फुरन्दन्तमरीचिकेसरम्
मुखाम्बुजं श्रीमद् इदं हुताशनः कथं न्व् अयं निष्करुणो ऽस्य धक्ष्यति ॥

3.25

विशुद्धचामीकरगौरम् अग्निना परीयमाणं परिकूणितेक्षणम्
शरीरम् अस्येदम् अहो भविष्यति प्रदग्धदारुप्रतिमं मलीमसम् ॥

3.26

उद्यत्सिमसिमाशब्दम् अनलान्तरवर्तिनः
श्यामीभवद् इदं गात्रं द्रष्टुं को ऽस्याद्य शक्ष्यति ॥

3.27

द्विधेव क्रियमाणानां वेणूनां पर्वनिःस्वनम्
बान्धवाः कथम् अस्यास्थ्नां श्रोष्यन्ति स्फुटतां ध्वनिम् ॥

3.28

अमी समीरणासङ्ग चलत्पल्लवपाणयः
मा धाक्षीरेनम् इत्य् अग्निं वारयन्तीव पादपाः ॥

3.29

बाष्पतोयाविलाक्षाणां विदारयति नो मनः
बन्धूनाम् अस्य दीनानां हा हेत्य् एकाक्षरं वचः ॥

3.30

इह गोष्ठी कृतानेन दत्तं धनम् इहार्थिने
इत्य् अस्य सुहृदः साधोर् देशयिष्यन्ति सास्रवः ॥

3.31

ज्ञातेयेन विनास्माकं दुःखं दहति मानसम्
सुहृदो ज्ञातयो वास्य धारयिष्यन्त्य् असून् कथम् ॥

3.32

न प्रार्थये पदम् अहं शुभलभ्यम् ऐन्द्रं विद्याधराधिपतितां न च नापि राज्यम्
भूयासम् अस्य जगतः सुगतत्वम् आप्य दुःखक्षयार्थम् अमुना कुशलोदयेन ॥

3.33

कृतार्थम् इव पद्मत्वं मन्यमाने कुशेशये
सो ऽपि च स्थितम् आत्मानम् अद्राक्षीद् धीमतां वरः ॥

3.34

पादोपान्तभ्रान्तमत्तद्विरेफः शान्तो धर्मं धर्मकामो ब्रुवाणः
शोभां गाढं पद्मपत्त्रायताक्षः पद्मासीनः पद्मयोनेर् दधार ॥

3.35

एष स्वप्नः स्याद् इयं किं नु माया वह्निः क्वायं क्वेदमम्भोरुहत्वम्
इत्य् आश्चर्यं विस्मयाक्षिप्तचित्ताः तं पश्यन्तस् ते जना वाचम् ऊचुः ॥

3.36

तेषां तम् आलोकयतां जनानाम् अम्भोजमध्यस्थितम् उन्नतेच्छम्
हर्षाश्रुणासंभवता क्षणेन रुषेव शोकाश्रुजलं निरस्तम् ॥

3.37

पतितम् अथ नभस्तः कीर्णकिञ्जल्कगन्धं समनुगतम् अलीनां पङ्क्तिभिः पुष्पवर्षम्
अभवद् अपि च मारः पौष्पम् आधायपार्श्वे धनुर् उपहितशोकःपाणिविन्यस्तवक्त्रः ॥

3.38

गम्भीरे क्षितिविवरे परिस्फुरन्तं पश्यामि ज्वलनम् इवाग्रतो महान्तम्
एषा च ज्वरपरितर्जितातिदुःखा मेदिन्यां मम विनिमज्जतीव मूर्तिः ॥

3.39

तीव्राग्निं नरकम् इमं पतिष्यतो मे त्वं भूयाः शरणम् इहाद्य धर्मकाम
तुङ्गेच्छाः परहितवेधसो महान्तस् त्वादृष्काः सुहृदि रिपौ च तुल्यभावाः ॥

3.40

येन सत्येन सत्त्वार्थं बोधिचर्यां चराम्य् अहम्
तेन मा स्म गमद् विप्रो नरकं ज्वलितानलम् ॥

3.41

कल्याणमित्रम् आगम्य जगदर्थविचक्षणम्
प्रयाति विलयं सद्यः पापं पापकृताम् अपि ॥

3.42

आगमतो ऽनुमानाच् च द्वयानिश्चयकारणात्
विशेषनिश्चयोत्पत्तेः प्रत्यक्षं बलवत्तरम् ॥

3.43

महापरित्यागम् इमं सविस्मयश् चिरं विलोक्येव मम स्फुरच्छिखः
कृशानुर् अन्वक्षम् अयं शरीरिणां प्रफुल्लपद्माकरताम् उपागतः ॥

3.44

ततः समालोक्य महान्तम् अद्भुतं प्रभावम् एनं विपुलस्य कर्मणः
शुभाशुभस्यास्ति फलं सुखासुखं विचिन्त्य चेदं विजहीत कापथम् ॥

3.45

प्रमादनिद्राविनिमीलितात्मनां शरीरिणां सौपायिकी प्रबोधना
विपश्चितां तु स्फुटबुद्धिचक्षुषां सति प्रबोधे किम् इव प्रबोध्यते ॥

3.46

हितोन्मुखानाम् अपि धर्म्यया गिरा भृशं प्रबोधं जनयन्ति साधवः
गतेर् विशेषो भवति प्रसर्पतां प्रतोदसंचोदनया हि वाजिनाम् ॥

3.47

बहुच्छलं पालयता गृहाश्रमं न धीमता विश्वसनीयम् अण्व् अपि
न युज्यते स्वप्तुम् अनाहिताङ्कुश प्रचण्डमत्तद्विरदाधिरोहिणः ॥

3.48

सुतप्रलापा भवनं समृद्धिमद् विलासलावण्यविभूषिताः स्त्रियः
प्रसङ्गिनां सर्वम् अमेधसाम् इदं शमानुकूलस्य निरोधकं पथः ॥

3.49

कथं चिद् अष्टाभिर् अपोढम् अक्षणैर् अवाप्य मानुष्यम् इदं सुदुर्लभम् ।
शमाय यो न त्वरते प्रमादभाग् नियोजनीयो ऽनडुहाम् असौ धुरि ॥

3.50

इदम् अवाप्तम् अवाप्यम् इदं पुनः कृतम् इदं करणीयम् इदं नृणाम्
इति मनोगृहचित्रणया क्षयं व्रजति नैव मनोरथवर्तिका ॥

3.51

विषयोपभोगम् अवसानदारुणं परिरभ्य चन्दनम् इवाहिवेष्टितम्
सुखम् इत्य् अभूतपरिकल्पनानुगा बहुदुःखजालम् अधिशेरते जनाः ॥

3.52

धिग् अहो तिरस्कृतम् अविद्यया जगत् सकलं कलङ्कितम् अनङ्गजैर् मलैः
यद् इदं समेत्य मरणारिगोचरं गजसुप्तिकाम् इव विधाय तिष्ठति ॥

3.53

हृतसत्पथं निवरणारिभिः शठैर् अविचिन्त्य संततम् अनित्यताभयम्
अनुशासनं प्लवम् अपास्य सौगतं विनिमज्जति व्यसनसागरे जगत् ॥

3.54

प्रतिक्षणं क्षयम् उपयातिजीवितं प्रशाम्यतो वपुर् इव कृष्णवर्त्मनः
अतः सदा विषयपराङ्मुखीम् इमां त्वरावतीं कुरुतमतिं हितं प्रति ॥

3.55

इति वचनम् अयुक्तन्यायम् उक्तम् मया चेद् अनुभवत यथेष्टं कामसौख्यानुबन्धम्
अथ तु गुणवद् एतत् साधवः चिन्तयित्वा श्रयत विषयतृष्णां रोधिनींशान्तिम् अग्र्याम् ॥

मूल पाठ: Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 · Edition: Michael Hahn: "How it all began: I. Haribhaṭṭa's Prabhāsajātaka", Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81 Hahn, Michael: Haribhaṭṭa in Nepal. Ten Legends from His Jātakamālā and the Anonymous Śākyasiṃhajātaka. Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22) Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta · Data entry Michael Hahn Klaus Wille (Jat. 1) · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc