जातकमाला · अध्याय 32
तृणम् अपि रक्षन्ति बुधा यत्नेन महीयसान्यनिक्षिप्तम् ।
प्रज्ञागुरवः किं पुनर् अश्रान्ताः प्राणिनिक्षेपम् ॥
अवेत्य तस्याथ निसर्गभद्रतां मुनेर् इव प्राणिषु भद्रचेतसः
स्वभावभद्राः कमनीयलोचना मुदा मृगा बन्धुम् इवैनम् अन्वयुः ॥
शमान्वितः केसरवल्कलाकुलो मृगानुयातो मृगराजतापसः
शनैः स निष्क्रम्य गुहोटजान्तराच् चखाद पक्वानि फलानि शाखिनाम् ॥
फलोपयोगाय वनान्तरे चरन् स खेलगामी चलचारुकेसरः
महागृहस्थैर् अतिथिप्रियैर् इव प्रतीक्ष्यते स्मातिथिवन् महीरुहैः ॥
गुहान्तरान् निष्पततो हिमात्यये प्रकाशतालोर् अतिमात्रजृम्भणात्
ततान तस्याङ्गसुखं पुरः शनैर् दिवाकरः प्राभृतवन् नवातपम् ॥
अयं मृगाणां पतिर् अत्र भूधरे पतत्रिणां तार्क्ष इवोरुविक्रमः
इतीव तस्योपरि जातसंभ्रमा निशाकरच्छत्त्रम् अधारयन् निशा ॥
पपौ स यस्यां सरिति क्षपाकर प्रसन्नम् अम्भः शिशिरं तटस्थितः
कृतार्थम् आत्मानम् अमन्यतेव सा स्फुटं जहासेव च फेनपङ्क्तिभिः ॥
हिमाचलस् तेन विशुद्धचेतसा महात्मना केसरिणा समाश्रितः
महान्तम् आत्मानम् अतीव भासतो मुदेव मेने कनकाचलाद् अपि ॥
क्व च भुवनभयंकरं हरित्वं क्व च करुणास्य गरीयसी मृगेषु
इति मुनिम् इव तं स्थितं हिमाद्रौ मृगरिपवो ऽपि मृगाधिपं प्रणेमुः ॥
अनिन्दितम् अहो कर्म तव वाक्कायचेतसाम्
अनिन्दिताङ्ग इत्य् एतत् त्वन्नामानुगुणं स्मृतम् ॥
अहो त्यागक्षमावीर्य गाम्भीर्यकरुणादयः
त्वद्गुणाः गुणिनां श्रेष्ठ मुनीन् अप्य् अतिशेरते ॥
अहो वृत्तेन शुद्धेन भवतः शुद्धचेतसः
परं मार्दवम् आनीतं क्रूराणाम् अपि मानसम् ॥
धन्यो ऽयं धन्यहिमवान् हिमच्छन्नशिलातलः
इति धीरस्वभावेन यस् त्वया समुपाश्रितः ॥
तस्माद् इमौ शिशू भीम व्यालदर्शनभीरुकौ
निक्षिप्य त्वयि गच्छावो वनम् आवां फलार्थिनौ ॥
उपादाय फलं यावद् आव्रजावो वनान्तरात्
रक्षणीयौ त्वया तावद् एतौ चपलगात्रकौ ॥
कापेयं चपलत्वं च तुल्यकालम् इदं द्वयम्
तस्माद् आभ्यां कृता बाधा सोढव्या भवता क्षणम् ॥
दुःखान्य् अपि गरीयांसि परार्थप्रतिपत्तये
सहन्त एव धीमन्त आत्मसौख्यानपेक्षिणः ॥
भयम् इच्छति यो हर्तुम् अत्यन्तम् भीरुचेतसाम्
मनःसंतापिनीं पीडां स कथं न सहिष्यते ॥
इति समभिहितः स तेन सिंहः कपिमिथुनेन सुताभिरक्षणाय
नृप इव पररक्षणक्षमो ऽपि क्षणम् इदम् आकुलतां गतः प्रदध्यौ ॥
तद् गच्छतं तुहिनशैलम् इमं विगाह्य तुङ्गैः स्नुभिर् गगनमध्यम् इवोल्लिखन्तम्
स्वादूनि शीघ्रतरम् आनयतं फलानि प्रेम्णा शिशुद्वयम् इदं परिपालयामि ॥
गुहाजिरोपान्तवने मनोहरे हरेः सुषुप्सोः सुखशीतमारुते
रुतेन तौ वानरशावकौ मुहुर् मुहूर्तनिद्रासुखम् अस्य जघ्नतुः ॥
निद्रानिमीलिते किंचित् पुनस् तस्य विलोचने
अङ्गुलिभ्यां तुतुदतुः स्फुलिङ्गापिङ्गतारके ॥
सुखं तस्योपविष्टस्य स्थित्वाचकितम् अन्तिके
प्रान्ते लाङ्गूलम् आदाय समाचकृषतुर् मुहुः ॥
सटां व्यालम्ब्य पृष्ठं च तस्यारुह्य पुनः पुनः
सहजाच् चापलाद् दूरम् उत्पत्योत्पत्य पेततुः ॥
विद्यमानेष्व् अपि पुरः प्रभूतेषु फलेषु तौ
जिघत्सोर् आननात् तस्य समाचिक्षिपतुः फलम् ॥
इति दुश्चेष्टितं तत् तत् तयोर् वानरशावयोः
करुणाभद्रचित्तत्वात् स सेहे पुत्रयोर् इव ॥
सर्वत्र समचित्तानां सुखदुःखानपेक्षिणाम्
सतां सर्वधुरीणानां न क्वचित् खिद्यते मनः ॥
अभिवर्धितवेदनाकुलाक्षं विरसव्याहृतिलक्ष्यतालुरन्ध्रम्
उदरस्रुतशोनितार्द्ररोम क्षुधितश्येनविलुप्यमानमांसम् ॥
अनेन गृध्रेण विलुप्तमांसके प्रकामम् अस्मिन् कपिशावकद्वये
फलान्य् उपादाय तयोर् उपेतयोः किम् अद्य शक्ष्याम्य् अभिधातुम् अग्रतः ॥
पातुं गतौ चपलकौ सरसो जलं नु वृक्षं फलार्थम् अभिरुह्य नु किं निविष्टौ
स्याताम् इमां किम् अथ वाद्रिगुहां प्रविष्टौ व्यालेन केनचिद् उतात्र विपादितौ तौ ॥
तूष्णीं स्थितो मृगपते किम् अधोमुखस् त्वम् आचक्ष्व ताव् इह शिशू क्व गतौ भवेताम्
इत्थं तयोः प्रवगयोः परिदीनदृष्ट्योः श्रोष्यामि विह्वलपदानि कथं वचांसि ॥
उपलभ्य चिरात् तयोर् अभावं सुतयोः कुन्दविपाण्डुदन्तपङ्क्त्योः
समुपेत्य शुचा करिष्यतस् तौ बडिशोत्तारितमीनवेपनानि ॥
यावद् व्याघ्रनखाङ्कुराकृतिभृता चञ्च्वा विभिद्योदरे गृध्रो ऽयं कपिशावयोर् भयवतोर् अन्त्राणि नाकर्षति
गत्वा तावद् अहं हिमाद्रिशिखरप्रान्तं निवेश्योन्मुखः सान्त्वेनैनम् उपायपूर्वकम् अहं नेष्यामि धर्म्यां स्थितिम् ॥
नूनं तवाप्य् अपत्यानि भूतपूर्वाणि सन्ति वा
यादृशो भवतस् तेषु स्नेहो ऽन्यस्यापि तादृशः ॥
इति कारुण्यम् आलम्ब्य मा वधीः कपिशावकौ
तृप्तिर् आत्यन्तिकी नास्ति भुक्त्वाप्य् एनौ तवातुरौ ॥
धिग् अहो जीवितं तस्य धिग् आत्मस्नेहम् ईदृशम्
यः शरीरकलेः पुष्टिं करोति परहिंसया ॥
अज्ञानाज् जायते स्नेहः सदोषे ऽपि शरीरके
तत्पुष्टये करोत्य् अज्ञो निमित्तकर्म दुर्गतेः ॥
आत्मात्मीयविनाभावाद् यः शून्यं सर्वम् ईक्षते
तस्याभूतविकल्पोत्थं न रुणद्धि मनस् तमः ॥
तमोऽभावाद् यदा तत्त्वम् आसादयति कोविदः
तदा भवति मोक्षाय शुभाशुभपराङ्मुखः ॥
सिंहान् नान्यो मांसभुक् कश्चिद् अस्ति क्रूरो वेति स्पष्टम् एतत् पृथिव्याम्
सैंहीं कष्टां योनिम् अप्य् आश्रितो ऽहं नेच्छाम्य् एतां प्राणिहिंसाम् अधर्म्याम् ॥
मृगम् इह गहने मृगेन्द्रजुष्टे मृगरिपुणाभिहतं स्वयं मृतं वा
खगवर नभसि भ्रमन् निरीक्ष्य द्रुतगतिर् अत्स्यसि तस्य मांसम् एत्य ॥
क्षुधम् अपि महतीं ततो ऽधिवास्य ज्वलनशिखाम् इव देहम् उत्तपन्तीम्
नरकनिपतनाय मा स्म कार्षीर् अकुशलम् ईदृशम् उज्झिताप्रमादः ॥
अन्तःसत्त्वास्थिसंधिस्फुटनतटतटाशब्दहुंकारभीमाः संतन्वन्तः स्फुलिङ्गानिकरम् उरुशिखालोहितध्यामभीमाः
लोलज्वालाकलापा नरकहुतभुजः सूरिभिः कथ्यमानाः कुर्वन्त्य् आधिं जनस्य श्रवणम् अपि गताः किं पुनः संस्पृशन्तः ॥
आयस्यां कूणिताक्षं ज्वलितहुतवहस्पर्शसंतापितायां कुम्भ्यां गाढं नदन्तं क्वथितपरिचलत्तैलपूर्णास्यकण्ठम्
आलोक्यालेख्यभित्तौ लिखितम् अपि नरं नारकं पच्यमानं हिंस्रो ऽपि क्रूरभावात् क इव न विरमेद् दुर्गतिप्राप्तिहेतोः ॥
श्रुत्वा दुर्गतिदुःखानि विरमत्य् अशुभान् न यः
सो ऽनद्धापुरुषाकारः पाषाणहृदयो ऽपि वा ॥
अलाभे लाभे वा सुहृदि हितवाचि द्विषति वा स्तुतौ निन्दायां वा महति विभवे वा विपदि वा
विकारं यो नायात्य् उपशमविशुद्धेन मनसा स्थितः स प्राज्ञानाम् उपरि सवितेव द्युतिमताम् ॥
त्वम् अद्धि मांसं पिब शोणितं च ममाक्षिणी चोद्धर निश्चलस्य
इतीदम् उक्त्वा विनिमीलितेक्षणश् चिरं विनिष्कम्पतनुर् बभूव सः ॥
दध्वान दुन्दुभिर् अथ ध्वनिना दिगन्तान् आपूरयन् सुरपतेः पुरमध्यवर्ती
गृध्राय दत्ततनुम् आनमितैः शिरोभिः सिंहं स्थिता नभसि तुष्टुविरे च सिद्धाः ॥
चचाल भूश् चलितसुवर्णभूधरा विसिस्मिये त्रिदशगणः सवासवः
उदीरितस्तुतिभिर् अहीश्वरैर् अपि प्रपातितास् तदुपरि पुष्पवृष्टयः ॥
अथ केसरिणो गुहान्तिके निदधौ वानरशावकौ खगः
नखभिन्नतनू विनिश्चलौ भयमूर्च्छाविनिमीलितेक्षणौ ॥
शनैर् उपागम्य च बोधिसत्त्वम् उत्थापयामास स गृध्रवर्यः
स्थितो ऽग्रतस् तस्य विनीतभावो जगाद भक्त्या स्तुतिम् ईदृशीं च ॥
दयालुता क्वेयम् अहो तवोच्छ्रिता क्व सिंहतेयं जगतो भयंकरी
चिराय केनापि विशेषहेतुना भवान् मुनिः को ऽपि मृगाधिपायते ॥
प्रज्ञावलम्बि यस्यैव समदुःखसुखं मनः
स एव प्राणमूल्येन क्रीणात्य् आपद्गतं परम् ॥
त्वादृशा न भवेयुश् चेत् स्थिराः सज्जनसेतवः
दुःखोदन्वति मज्जेयुर् अगाधे महति प्रजाः ॥
इमाम् आकर्ण्य कल्याणीं भवतो धर्मदेशनाम्
अद्यारभ्य करिष्यामि वैरिष्व् अपि दयाम् अहम् ॥
अनादिसंसारविवर्तनश्रम प्रबाधनादुःखपरंपराहतम्
जगत् समुद्धर्तुम् इदं भवोदधेस् तथागतत्वाय ममायम् आदरः ॥
गम्भीरैर् अदुरासदैः सदसतां विज्ञातृभिः कर्मणां शास्त्राविष्कृतबुद्धिभिः परहितव्यापारसक्तात्मभिः
साध्वीनाम् अवगन्तृभिर् भवभिदां ताथागतीनां गिरां मोहच्छेदि भवे भवे भवतु नो युष्मद्विधैः संगतम् ॥
गुहान्तिके मया तत्र स्थापितौ कपिशावकौ
तस्मान् माम् अधुना साधो विसर्जयितुम् अर्हसि ॥
बोध्यं बन्धुगिरा स्फुटीकृतम् अपि स्थूलं न गृह्णाति यः सूक्ष्मे वस्तुनि तस्य शास्त्रविषये व्यर्थं मतिः खिद्यते
द्रष्टुं यस्य न शक्तिर् अस्ति भवनद्वारं प्रकाशे सति च्छिद्रं सूक्ष्मतरं स जाततिमिरः सूच्याः कथं द्रक्ष्यति ॥
उपदेष्टरि सत्य् अपि प्रमादी न हि बालो मतिवामतां जहाति
ऋजुताम् उपनीतम् अप्य् अभीक्ष्णं पुनर् आगच्छति वक्रतां श्वपुच्छम् ॥
उपदिष्टपथः प्रसन्नशास्त्रैर् अनवाचीनमतिर् न यात्य् अमार्गम्
पटुभद्रमनाः परीतदेहः पटुभिर् वेणुधरैर् इव द्विपेन्द्रः ॥
अयम् अक्षगणः सुसंयतो न विकारं कुरुते विपश्चितः
सुगृहीतफणो भुजङ्गमो न हि शक्नोत्य् अपराद्धुम् अण्व् अपि ॥
अपकारफलं जनस्य गाढं पदम् ऐश्वर्यम् असज्जने तनोति
हरितालम् अहेर् निषिक्तम् अन्तर् वदने तीव्रतरं विषं करोति ॥
जितम् इन्द्रियवैरिभिः प्रमादाज् जनम् इच्छा विनिपातयत्य् अनर्थे
प्रविलीनसुवर्णदर्शनीया शलभं दीप्तिर् इव स्फुरन्तम् अग्नौ ॥
अविपश्चितम् इन्द्रियार्थसक्तिः पुरुषं पातयति स्वधर्ममार्गात्
श्लथबन्धनरुद्धनाभिमूलं फलम् अग्राद् इव पादपस्य पक्तिः ॥
न चेद् भवेयुः प्रकृतिप्रबाधना विषद्रुमाशीविषशस्त्रवह्नयः
असज्जनस्याविलतीक्ष्णचेतसः समा भवेत् केन पुनः सहोपमा ॥
अकारणक्रोधक उष्णभाषणः खलो भृकुट्या विषमीकृतेक्षणः
अनेकरन्ध्रोत्थितभीमपन्नगः करोति वल्मीक इवाधिकं भयम् ॥
निशातया रोषशिलातले दृढं परोपघाताय मुदाभ्युदीर्णया
दुनोति कं नाम न गोचरं गतं गतत्रपो वागसिधारया खलः ॥
शठत्वसंनाहभृतः खलाश् चिरं दुरावराश् चेन्द्रियसैन्यमध्यगाः
अरुंतुदाः साधुजने ऽपि निष्कृपाः कृपाणधाराम् इव पातयन्ति गाम् ॥
बुधो न विश्वासम् इयाद् असज्जने विनीतवेषे ऽपि मनोज्ञवाच्य् अपि
सुरूपदेहो ऽपि कलस्वनो ऽपि सन् न किं मयूरः स्फुरतो ऽत्ति पन्नगान् ॥
यदीष्यते चित्तकुटुम्बपोषणं चिराय वा धीमहिषीविवर्धनम्
अतो विपश्चिज्जलदोदये सति प्रकीर्यतां सद्गुणबीजम् आत्मनि ॥
चिराय सत्संगतशुद्धमानसो न यात्य् असत्संगतम् आत्मवान् नरः
मनोहरेन्दीवरपुष्पगोचरो न जातु भृङ्गः कुणपे निलीयते ॥
रणगतस्य यथा रतिर् उद्भवत्य् अनपराद्धशरस्य धनुष्मतः
गुणशरैर् अतिदूरनिपातिभिः प्रहतदोषरिपोः सुधियस् तथा ॥
अतिविशुद्धम् अहार्यम् अकृत्रिमं गुणविभूषणम् आर्यजनार्चितम्
समुपलभ्य नरस्य न जायते सुरवराभरणेष्व् अपि विस्मयः ॥
सुखम् अत्यन्तम् अन्विच्छन् गुणानां वा समुद्भवम्
असज्जनम् अतस् त्यक्त्वा कल्याणं मित्रम् आश्रयेत् ॥
न जातु प्रीतये साधोर् अनार्यजनसंगतम्
स्नातस्य तीर्थसलिलैः शुक्लेतरम् इवाम्बरम् ॥
संपर्केण तमोभिदाम् जगदघप्रध्वंसिनां धीमतां क्रूरो ऽपि प्रकृतिं विहाय मलिनाम् आलम्बते भद्रताम्
यत् तृष्णाग्लपितो ऽपि नेच्छति जनः पातुं तद् एव क्षणाद् उज्झत्य् अम्बुधरोदरस्थितम् अपां पत्युः पयः क्षारताम् ॥
शार्दूले प्रमनसि तत्र लब्धतृप्तौ संगत्या स्ववसतिम् आगते सलीलम्
वाराहं पलम् उपयुज्य बद्धमेदः श्येनो ऽपि स्वनिलयम् आजगाम तूर्णम् ॥
मृगपतिर् अपि भानौ किंशुकोत्तंसरागे स्थितवति कनकाद्रेर् मूर्ध्नि भास्वन्मयूखे
तरुविटपकुलायालीनचञ्चद्विहङ्ग चलितमृदुसटान्तः स्वं निवासं जगाम ॥
निरुद्धम् अम्भस्तटसेविभिर् विभिर् निरन्तरम् पल्लवविद्रुमैर् द्रुमैः
शनैर् उपेतालि कुशेशयाशया व्यगाहतापिञ्जरकेसरः सरः ॥
अवगाह्य च तत् सरो महद् द्रुतम् उत्तीर्य विलम्बिकेसरः
स गुहान्तिकम् आगमन् मुहुश् चरणन्यासविभुग्नशाद्वलम् ॥
शितगृध्रनखक्षताङ्गयोर् अथ शाखामृगशावयोस् तयोः
उपरि त्वरितं स केसरं सलिलस्रावि दुधाव केसरी ॥
हरिकेसरवारिसिच्यमानौ गुरुमूर्च्छापगमाद् उपेतसंज्ञौ
उदमीलयतां विलोचनानि स्फुरितोत्तानमुखौ प्रवङ्गशावौ ॥
गृध्रातिभीतपरिवेपितकातराङ्गौ तौ तस्थतुर् मृगपतेश् चरणान्तम् एत्य
आलोलपल्लवमनोहरयाथ सो ऽपि स्नेहेन तौ रसनया मुहुर् आलिलेह ॥
वृन्तच्युतं परिणतं फलम् आदयित्वा प्रेम्णा मुहुः स्वतनयाव् इव सान्त्वयित्वा
खद्योतदीपतरलां स्वगुहां प्रविश्य सुष्वाप तौ स परिरभ्य सुखं निशायाम् ॥
तपने तपनीयकुम्भवद् दिशम् आक्रामति शातमन्यवीम्
शनकैः कपिशावकान्वितः स्फुरितालम्बिसटो विनिर्ययौ ॥
अथ गृहीतफलं फललुब्धकौ स्वतनयाव् अवलोकयितुं मुदा
मृगपतेर् वसतिं द्रुतम् उत्सुकं प्रवगयोर् मिथुनं द्रुतम् आगमत् ॥
उपगतं गतमानमदोदयो मृदुपदं मृदुवाक् करुणान्वितम्
कृतनमस्कृति तन् मिथुनं हरिः कुशलपूर्वम् अभाषत लोकवित् ॥
कपिशावकयोः सर्वम् यथावृत्तम् अनुक्रमात्
ततश् चरमम् आचख्यौ गृध्रापहरणं तयोः ॥
अतिक्रान्ताम् अथ श्रुत्वा व्यापदं पुत्रयोः शुचा
गृध्रक्षतानि गात्राणि तयोः पस्पृशतुः कपी ॥
ऊचतुश् चेदम् आर्द्रार्द्रं स्तुतियुक्तं मृगाधिपम्
भवता रक्षता पुत्राव् आवाम् अपि सुरक्षितौ ॥
तन्वन् धर्मकथागङ्गां चिह्नितो गुणसानुभिः
यशस्तुहिनसंछन्नो जङ्गमस् त्वं हिमाचलः ॥
ये न मान्ति तनोर् अन्तर् असंख्या भवतो गुणाः
मन्ये केसरतां प्राप्य ते ऽमी बहिर् अवस्थिताः ॥
स्तिमितम् उदधेः क्षुभ्णात्य् अम्भः पतत्रिपतिः पतञ् जलदपटलच्छन्नस्येन्दोः प्रसर्पति न द्युतिः
तव पुनर् अघव्युच्छेदिन्यां स्थितौ स्थितम् अन्यतां न तु गमयितुं चेतः शुद्धं रजस्तमसी क्षमे ॥
पालयित्वा सुताव् एताव् आवयोर् यच् छुभं त्वया
प्राप्तं तेनातिमहता लभस्व प्रार्थितं फलम् ॥
तद् इमाव् उपगृह्य पुत्रकौ भवता यत्नवताभिपालितौ
बहुबन्धुपरीतगह्वरां वसतिं याव वनान्तरे निजाम् ॥
तेन प्रोक्तौ यातम् इत्य् उत्सुकौ तौ कृत्वा भक्त्या वन्दनां तस्य साधोः
शान्तस्थानात् पुत्रकारूढपृष्ठौ मन्दं मन्दं जग्मतुः काननान्तम् ॥
यातोः पित्रोः पृष्ठमध्याधिरूढौ लग्नौ गाढं स्कन्धरोम्णां समूहे
व्यावर्त्येषल् लोचनान्य् उत्सुकौ तौ भूयो भूयो दृष्टवन्तौ मृगेन्द्रम् ॥
तं निक्षेपं सर्वनिक्षेपसारं सारप्रज्ञागोचरः सो ऽर्पयित्वा
स्कन्धाद् भारं स्थापयित्वेव भूमौ खेदच्छेदाद् भूयसीं प्रीतिम् आप ॥
नान्यत् कष्टतरं किंचित् प्राणिनिक्षेपधारणात्
प्रत्यर्पणाच् च तस्यैव नान्यद् अस्ति सुखम् नृणाम् ॥
यस् तेन धर्मनिक्षेपो निक्षिप्तः साधु तायिना
पालनीयः स युष्माभिर् अत्यन्तं सुखम् इच्छुभिः ॥
मूल पाठ: Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 · Edition: Michael Hahn: "How it all began: I. Haribhaṭṭa's Prabhāsajātaka", Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81 Hahn, Michael: Haribhaṭṭa in Nepal. Ten Legends from His Jātakamālā and the Anonymous Śākyasiṃhajātaka. Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22) Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta · Data entry Michael Hahn Klaus Wille (Jat. 1) · GRETIL (Göttingen) · CC BY-NC-SA 4.0