भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · अध्याय 26

26.1

ध्यानप्रदीपभासा लब्धालोको ऽपि नैति निर्वाणम् ।
यद् बोधिं प्राप्तुमनास् तत् सत्त्वहितानुबन्धाय ॥

26.2

विभवे सति जायते मदः सति तस्मिन् प्रशमः कुतो भवेत्
असति प्रशमे गतत्रपो मलिनं कर्म समीहते जनः ॥

26.3

मुहुर् अप्रियसंप्रयोगदुःखं मुहुर् आधिः प्रियविप्रयोगकाले
द्रविणार्जनखिन्नमानसानां यदि वाञ्छा विफला ततो विषादः ॥

26.4

गृहिणाम् इति नित्यम् आकुलानां स्वजनस्नेहनिबद्धमानसानाम्
सुखम् इत्य् अफलाभिमानभाजां तनुर् अप्य् अस्ति न निर्वृतिर् गृहेषु ॥

26.5

गृहसंज्ञकम् इत्य् अपास्य कष्टं त्वरितं बन्धनम् एतद् आत्मकामः
तपसाम् अभिवृद्धये वनान्तं प्रशमस्थानम् अहं ततः श्रयिष्ये ॥

26.6

ध्यानैकतानमनसा विजितेन्द्रियेण संतोषलाभसुखिना करुणान्वितेन
यस् तेन संश्रित उदारधिया द्विजेन मेने मुदेव स तरुस् तरुतां कृतार्थाम् ॥

26.7

तृणास्तरणम् आस्तीर्य नासाप्राहितलोचनः
दध्यौ स ध्यायिनाम् अग्र्यो ध्येयम् एकाग्रमानसः ॥

26.8

वीर्यपारमितामार्ग वाहनोपचितश्रमम्
ध्यानपारमिता धीरं व्यशिश्रमद् इवाथ तम् ॥

26.9

कामेभ्यो ऽकुशलेभ्यश् च धर्मेभ्यो ऽवस्थितं पृथक्
सवितर्कविचारं च विशुद्धात्मा विवेकजम् ॥

26.10

कृतप्रीतिसुखास्वादम् आस्वादितशमामृतः
स लेभे प्रथमं ध्यानं ध्याता मार्गस्य लब्धये ॥

26.11

अवितर्काविचारं च विचारकुशलस् ततः
सो ऽध्यात्मसंप्रसादाच् च द्वितीयं ध्यानम् आददे ॥

26.12

विरज्य च शनैः प्रीतेः स्मृतिमान् समुपेक्षकः
धीरः कायसुखास्वादी तृतीयं ध्यानम् आप सः ॥

26.13

उपेक्षापरिशुद्धं च प्रहाणात् सुखदुःखयोः
विरागाच् च ततः प्रीतेश् चतुर्थं ध्यानम् आययौ ॥

26.14

मृगाः कपोताः शिखिनश् चकोराः भद्राशया व्यालमृगाश् च ते ते
विहृत्य शिष्या इव काननान्ते विशश्रमुस् तस्य समीपम् एत्य ॥

26.15

ततः कपोतीतनुपिञ्छसंकुले तदङ्गसंपीडनसंभृतोष्मणि
कुलायके ऽण्डानि विपाटलाङ्गकाः कपोतपोताः परिभिद्य निर्ययुः ॥

26.16

विलोक्य शावान् अथ तान् कपोतिका मुहुर् जिघत्साविवृताग्रतुण्डकान्
अचिन्तयित्वा महतीं निजां क्षुधं प्रियङ्गुनीवारफलैः पुपोष सा ॥

26.17

कपोतकास् ते प्रभवत्तनूरुहा गृहीतबीजाम् अवलोक्य मातरम्
मुहुर् मुखानि प्रच(2)लाग्रपक्षकाः प्रसारयाम् आसुर् उदीरितस्वराः ॥

26.18

ध्यानावसानसमये ऽथ समित्फलार्थं शान्तेन्द्रियो जिगमिषुः स मुनिर् वनान्तम्
दृष्ट्वा गृहीततृणवृक्षफलां कपोतीं तस्थौ कुलायवति मूर्ध्नि निलीयमानाम् ॥

26.19

अनीक्षमाणाद्य कपोतपोतकान् इमान् प्रकाशीकृतताम्रतालुकान्
निलीय वृक्षेषु शुचा मुहुर् मुहुर् नभः समुत्पत्य परिभ्रमिष्यति ॥

26.20

अहो जन्मशतभ्रान्ति वासनैषानुवर्तते
तिरश्चाम् अप्य् अपत्येषु संरूढो यद् अपह्नवः ॥

26.21

यदि न स्युर् अपत्यानि मित्रं वा बन्धुर् एव वा
स्वताक्षः स्यात् स्वताभावान् निर्बीजो ऽपह्नवः कुतः ॥

26.22

असत्य् अपह्नवे चेतः परिवृण्वन्ति नाधयः
असत्स्व् आधिषु निःसङ्गः सुखम् आस्ते शमान्वितः ॥

26.23

उत्पाद्यापत्यसंज्ञानि दुःखानि क्लेशमोहितः
खेदम् एति जनो मूढः पश्चात्तापेन तापितः ॥

26.24

अनस्य् अनिच्छन्न् अपि गौर् बलीयसा यथा बलाच् छाकटिकेन योज्यते
शुभाशुभेनैष कुबुद्धिर् अस्यते तथा भवोदन्वति कर्मणा जनः ॥

26.25

तस्मात् कपोतशिशवो न भवन्ति यावद् अस्मज्जटालयगताः प्रविरूढपक्षाः
ध्यानामृतोपचितचित्तशरीरतुष्टिः तिष्ठामि तावद् इह निश्चलमूर्तिर् एव ॥

26.26

विकीर्णम् अन्तः क्व चिद् अण्डखण्डैः सा तं कुलायं मुनिसत्तमस्य
शनैः शनैः पल्लवकोमलेन करद्वयेनापनिनाय मूर्ध्नः ॥

26.27

प्ररूढपक्षेषु कपोतकेषु गतेषु मात्रा सह काननान्तम्
केनापि भक्तिप्रवणेन नूनं तदालयो मे शिरसो ऽपनीतः ॥

26.28

हुत्वाग्निं स्फुरदुदितार्चिषं दिनार्धे व्यापङ्कं फलम् उपयुज्य बद्धगन्धम्
नासाग्रस्थितनयनस् तरोर् अधस्ताद् आरेभे पुनर् अपि योगम् एकचित्तः ॥

मूल पाठ: Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 · Edition: Michael Hahn: "How it all began: I. Haribhaṭṭa's Prabhāsajātaka", Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81 Hahn, Michael: Haribhaṭṭa in Nepal. Ten Legends from His Jātakamālā and the Anonymous Śākyasiṃhajātaka. Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22) Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta · Data entry Michael Hahn Klaus Wille (Jat. 1) · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc