भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · अध्याय 35

35.1

विजहति दिव्यम् अपि सुखं त्रिभुवनहितकाम्यया महात्मानः ।
परदुःखं हि गरीयो दुःखयति दयावतां चेतः ॥

35.2

कृत्वा हिमाद्रिधवलं गुरुषड्विषाणं दानाधिवासितमुखं द्विरदस्य रूपम्
शुद्धोदनस्य वसुधाधिपतेर् महिष्याः कुक्षिं विवेश स जगद्व्यसनक्षयाय ॥

35.3

सान्तःपुरजना देवी कदाचिद् अथ लुम्बिनीम्
जगामानुमते राज्ञः संभूतोत्तमदोहदा ॥

35.4

शाखाम् आलम्बमानायाः पुष्पभारावलम्बिनीम्
देव्याः कुक्षिं विभिद्याशु बोधिसत्त्वो विनिर्ययौ ॥

35.5

तं जातमात्रम् अथ काञ्चनयूपगौरः प्रीतः सहस्रनयनः शनकैर् अगृह्णात्
मान्दारपुष्पनिकरैः सह तस्य मूर्ध्नि खान् निर्मले च विनिपेततुर् अम्बुधारे ॥

35.6

संस्थापितो बलभिदा जगदेकनाथो धीरः क्रमेण भुवि सप्तपदानि गत्वा
अत्यद्भुतां गिरम् इमां निजगाद शान्तां जन्मेदम् अन्त्यम् इति मे तमसाम् अभावात् ॥

35.7

तस्य प्रभाथ मुषिताशिशिरांशुदीप्तिः शान्तात्मनो वसुमतीम् अवभासयन्ती
इद्धैः पतङ्गशशिनोः किरणैर् अभेद्यं भीमान्धकारनरकेषु तमो बिभेद ॥

35.8

शबलहरिणकृत्तिच्छादितस्कन्धदेशं निचयम् अनलभासाम् उद्वहन्तम् जटानाम्
असितम् अनसितानां कर्मणाम् संनिधानं क्षितिपतिर् अशृणोत् खाद् आपतन्तं जनेभ्यः ॥

35.9

यथायं लक्षणैः स्पष्टैर् भूषणैर् इव भूषितः
जगद्दुःखापनोदाय तथा बुद्धो भविष्यति ॥

35.10

यदायं भविता बुद्धो यास्यामि मरणं तदा
श्रोष्यन्त्य् अस्मात् कथां धर्म्यां ये ते धन्याः शरीरिणः ॥

35.11

इति चिन्तयतस् तस्य महर्षेः शुद्धचेतसः
नयने नतपक्ष्माग्रे बभूवतुर् उदश्रुणी ॥

35.12

श्रुत्वाथ तं परिजनान् नयनाभिरामं साक्षान् मनोभवम् इव श्रवणायताक्षम्
तद्दर्शनं प्रति समुत्सुकमानसानां चेष्टा बभूव विविधा नगराङ्गनानाम् ॥

35.13

कुमारं द्रष्टुकामानां तासाम् इति विसर्पणात्
मेखलानूपुरध्वानो भवनेषु व्यतन्यत ॥

35.14

गच्छन् नरेन्द्रतनयो ऽथ पथि क्रमेण दण्डार्पितप्रचलपाणिम् अपेतकान्तिम्
वृद्धं व्यलोकयद् अतीव सितोत्तमाङ्गं शुद्धाधिवासपरिनिर्मितम् आनताङ्गम् ॥

35.15

त्रिभिर् इमैर् अनुबद्धम् अहो जगन् मरणरोगजरारिभिर् अन्वहम्
महति नाम भये सति दारुणे कथम् इदम् विषयैकपरायणम् ॥

35.16

इति निवर्तय सूत रथं लघु व्रज गृहाय पुनः किम् इहास्यते
मरणरोगजरापरिशङ्किनो मम भविष्यति नोपवने रतिः ॥

35.17

किंचित् किंचित् कुसुमहसितव्यक्तिशोभावतीनां मन्दं मन्दं मलयमरुता सर्पता नर्तितानाम्
आभान्त्य् आसाम् उपवनलताकन्यकानां विजिह्माः पर्यन्तेषु भ्रमदलिकुलश्रेणिवेण्यः क्वणन्त्यः ॥

35.18

तनुधियाम् विरसावसानाः शान्तात्मभिः परिहृता भुजगा इवोग्राः
यूनो ऽपि मन्मथपरस्य जगत्सपत्नाः पर्याकुलं न हि मनो विषया हरन्ति ॥

35.19

एते मलयानिलाः सुरभयः पुष्पद्रुमाकम्पिनश् चूतस्य भ्रमरः प्रदक्षिणयति प्रोद्भेदिनीं मञ्जरीम्
चापारोपणदीर्घसूत्रकम् इमं स्वस्थं त्वया स्थीयते शङ्के चोदयतीति पुष्पधनुषं तारध्वनिः कोकिलः ॥

35.20

स्वरजःकृताङ्गरागा बाला सहकारमञ्जरीकन्या ।
भ्रमरवरेण भ्रमता क्षणम् इव परिहीयते तन्वी ॥

35.21

शिलीमुखं भुक्तलतावधूजनं विलोक्य तत्पुष्परजोविधूसरम्
समीरणाकम्पितबालपङ्कजा मुहुर् मुहुस् तर्जयतीव पद्मिनी ॥

35.22

गच्छाम्य् अहं तव कृते कुसुमानि यावद् एतानि सूक्ष्ममकरन्दनिरन्तराणि
मद्दृष्टिबाधिनम् अशान्तगतिद्विरेफं दूरात् कुमार विनिवारय तावद् एव ॥

35.23

आधूतं बकुलज्यया मधुकरव्याधूतकिञ्जल्कया विन्यस्योरसि शङ्खभङ्गधवलच्छायं धनुः कौसुमम्
गाम्भीर्याद् अवधीरयन्तम् अबलास् त्वाम् आजिघांसुः स्मरः पौष्पं बाणम् ऋजूकरोति नियतं संमीलितैकेक्षणः ॥

35.24

भगिन्य इति तत् तस्य निशम्य वचनं स्त्रियः
मुखानि नमयामासुस् त्रपया त्यक्तविभ्रमाः ॥

35.25

ह्रीतं तद् युवतिकदम्बकं विदित्वा संविग्नं नृपतनयं च शुद्धबुद्धिम्
तूणीरे नियतम् इषून् निधाय पौष्पान् सव्रीडं धनुर् अवतारितं स्मरेण ॥

35.26

इमं समुत्तर्तुमना भवार्णवं तपोवनं गन्तुम् अहं समुद्यतः
अतस् त्वम् अस्मद्व्यवसायसिद्धये महाजवं कन्थकम् अश्वम् आनय ॥

35.27

अथ व्युदस्याभरणानि विग्रहात् स भासितानि स्फुटरत्नतेजसा
तरङ्गिनः कोकिलकण्ठमेचकांश् चकर्त खड्गेन शनैः शिरोरुहान् ॥

35.28

तं छन्दकः समवलोक्य निरस्तभूषं स्वच्छं जलाशयम् इवापहृतारविन्दम्
संतापितः प्रबलशोकहुताशनेन मुक्तानिभान् नयनवारिकणान् मुमोच ॥

35.29

अथवेयम् तनुः क्षीणा तीव्रेण तपसा मम
मया वा तत् पदं लब्धं यद् दृष्टं तत्त्वदर्शिभिः ॥

35.30

कीदृशो भवताम् धर्मः कथम् वा सो ऽधिगम्यते
तत्त्वं मे द्रष्टुकामाय वक्तुम् अर्हति सत्तमः ॥

35.31

त्यक्त्वादितो भवनिबन्धनम् आदिबीजम् आदाय लिङ्गम् अपवृत्तसुखाभिलाषः
संतोषवान् पदम् अनुत्तमम् आप्तुकामः शीलं विशुद्धम् उपगृह्य वसेद् वनान्ते ॥

35.32

यदि चेतयितास्त्य् एव कुतो मुक्तिर् भविष्यति
तस्मिन् सति प्रवर्तन्ते कुशलाकुशलक्रियाः ॥

35.33

अराडस्याश्रमात् तस्मान् निष्क्रम्य स महामतिः
तपोभिर् दुष्करैस् तीव्रैः शोषयामास विग्रहम् ॥

35.34

स चाषपङ्क्त्याततनीलपक्षया परीतदेहः परिपाटलाङ्गया
सरोरुहाणां प्रचलत्पलाशया स्रजेव नीलोत्पलपत्त्रमिश्रया ॥

35.35

अथ मन्दपदं गत्वा धीमान् हेमाचलद्युतिः
अधस्ताद् बोधिवृक्षस्य निषसाद स बोधये ॥

35.36

ततो दुहितृभिः सार्धं चापम् आदाय कौसुमम्
आजगाम मनोयोनिस् तस्य क्षोभयितुं मनः ॥

35.37

आजिघ्रन्ती पुरस् तस्य मालतीकुसुमं नवम्
काचिन् न्यमीलयत् कांचिद् दृष्टिम् आलोलतारकाम् ॥

35.38

सखीकर्णे ऽभिधायान्या किम् अपि स्मितपूर्वकम्
तत्र लीलावती रामा काशयन्ती मुखं ययौ ॥

35.39

सकामा दर्शयन्त्य् अन्या जगादेति जिनर्षभम्
रामायाः श्लथकाञ्चीकं नितम्बस्रस्तम् अंशुकम् ॥

35.40

क्व च यौवनम् एतद् इन्दुकान्तं क्व च ते तपसे मनोऽभिलाषः
भज कामम् अतो निवर्तयस्व वद किं तपसः फलं त्वयाप्तुम् ॥

35.41

हितकाम्यतया ब्रुवे भवन्तं किम् अतः परम् आप्तुम् इच्छसि त्वम्
गृहिधर्मम् अबाधिनं महान्तं न विहाय किम् अन्यद् अस्ति पुण्यम् ॥

35.42

त्वदधिगमसमुत्सुकासु धीमन् किम् इयम् अदयिता मनोहरास्व् अपीति
मुखलवदन्ती कामिनी कामुकां वदनकमलानि नखेन खण्डयन्ती ॥

35.43

ततः सिंहमुखः कश्चित् फूत्कारेण पुनः पुनः
बोधिसत्त्वस्य त्रासार्थं वह्नेः कणान् व्यसर्जयत् ॥

35.44

ते कृशानुकणास् तस्य किंकरस्य मुखोज्झिताः
निपतन्तः क्षणाज् जग्मुः प्रफुल्लपुष्पताम् मुनेः ॥

35.45

शतवक्त्रेण तीक्ष्णाग्रां क्षेप्ता शक्तिं यदाक्षिपत्
विकसत्केसरव्यूहो बभूवोत्पलशेखरः ॥

35.46

दंष्ट्राधरेण चान्येन विद्युदापिङ्गलत्विषा
क्षिप्तान्य् अयोगुडोष्णानि पुष्पाणि ब भू वुः क्षणात् ॥

35.47

अन्येनाभ्युद्यतो बाहुः सखड्गः पिङ्गचक्षुषा
लोहस्तम्भसमुच्छ्रायः क्षणान् निश्चलतां ययौ ॥

35.48

अथ मदनविजेतुः सिद्धमन्त्रानिलेन जलधितटगवह्निः किंकराणां समूहः
असितगतिसखेन प्रेर्यमाणः समन्ताद् इव विरसविकीर्णः क्षीणरोचिःशतो ऽभूत् ॥

35.49

आत्मनश् चेत् सुखाद् दुःखात् पुण्यं पापं प्रसूयते
कथं न भद्रता नित्यं धर्माभावे च देहिनाम् ॥

35.50

रूपसौभाग्यभाग्यादि भेदः कथम् इहेष्यते
यदि पूर्वकृतं नास्ति कथम् अत्र शुभाशुभौ ॥

35.51

कर्मणां हेतुकं कर्म चेत् सारादि न कल्पयेत्
अहेतुकं जगत् स्याच् चेत् कः कर्मस्वकतां वदेत् ॥

35.52

सुखहेतुः सुखम् स्याच् चेद् दुःखं दुःखस्य हेतुकम्
तपसा दुष्करेणैवं कथं मुक्तिर् भविष्यति ॥

35.53

ईश्वरः कारणं केचिद् अबुधाः संप्रचक्षते
कथं न समता लोके समवर्तीश्वरो हि सः ॥

35.54

इत्य् एवम् अबुधाः केचिद् अस्तिनास्तिप्रवादिनः
कुदृष्टिकर्मतो हीना जायन्ते नरकेष्व् अपि ॥

35.55

सुदृष्टिकर्मतो भद्रा आर्यज्ञानप्रवेदिनः
स्वर्गलोकं गताः केचित् कायवाक्चित्तसंयमात् ॥

35.56

अहो भवरतो लोकः क्लेशसंघैर् विहन्यते
जराव्याधिविपन्नश् च मृतः पुनः प्रजायते ॥

35.57

अथासौ भगवान् बुद्धः प्रज्ञालोकप्रकाशकः
वैहायसं समुद्गम्य सिंहनादं ननाद च ॥

35.58

सिंहो ऽहं वादिजन्तूनां विरजस्को निरास्रवः
दुःखस्यान्तं करिष्यामि सत्त्वानां निरहंकृतिः ॥

35.59

ततश् चकम्पे सधराधरा धरा वेलाम् व्यतीत्य प्रससार सागरः
संसक्तमन्द्राशयसौम्यनिस्वनाः दिवौकसां दुन्दुभयः प्रसस्वनुः ॥

35.60

दिशः प्रसन्नाभरणाश् चकाशिरे मार्तण्डचन्द्रौ शरदीव रेजतुः
परिभ्रमच् चन्दनचूर्णरञ्जितं पपात पुष्पं नभसः सुगन्धिमत् ॥

35.61

समाययुर् विस्मयफुल्ललोचना दिवौकसस् तत्र सहाप्सरोगणैः
ववौ मनोज्ञात्मगुणः समीरणो मनःसु हर्षो जगतां व्यजृम्भत ॥

35.62

उदीरिता हर्षपरीतमानसैर् महद्भिर् भूतगणैः सविस्मयैः
बुद्धस्य धर्मातिशयस्तवाश्रयाः समन्ततः शुश्रुविरे गिरः शुभाः ॥

35.63

अहो बतौदार्यम् अहो सुबुद्धिता विशुद्धिताम् पश्य यथास्य चेतसः
अहो स्वसौख्येषु निसङ्गता मतेर् नमो ऽस्तु ते ऽत्यद्भुतधैर्यविक्रम ॥

35.64

सनाथतां साधु जगद् गतं त्वया पुनर्विबुद्धेक्षणपङ्कजश्रिया
अमोघरूपा बत पुण्यसंचयाश् चिरस्य धर्मेण खलूर्जितं जितम् ॥

35.65

सर्वबुद्धाश् च बुद्धाय वदन्तः साधु साध्व् इति
सौवर्णरत्नच्छत्त्राणि प्रयच्छन्ति स्म सुश्रिये ॥

35.66

नाथोद्य जगतां धीर मारहन्तर् जिनर्षभ
अन्धभूते जगत्य् एवं प्रज्ञादीपं प्रकाशय ॥

35.67

क्षुत्पिपासाहते लोके दुर्दृष्टिविकलाशये
सर्वपारमितामेघैर् धर्मामृतं प्रवर्षय ॥

35.68

ततो ऽत्र कामावचराः सुवक्त्राः सुगन्धपुष्पाक्षतलाजतोयैः
सौवर्णकुम्भैश् च सगीतवाद्यैस् तस्याभिषेकं सफलं प्रचक्रुः ॥

35.69

परिनिर्वातु बुद्धः संश् चित्तसंकल्पवर्जितः
महान्तो मुनयः प्राज्ञा निर्वाणं हि ययुर् व्रतैः ॥

35.70

एवम् उक्ते ऽथ मारे ऽस्मिन् भगवांस् तम् उवाच सः
अहं तावन् न पापीयन्न् आगमिष्यामि निर्वृतिम् ॥

35.71

यावन् न भिक्षवो धीरा दान्ताः प्राज्ञा विशारदाः
आर्यज्ञानप्रसंबोधा भविष्यन्ति बहुश्रुताः ॥

35.72

यावन् न त्रीणि रत्नानि लोके संप्रथितानि च
दानपारादिभिः शक्ता बोधिसत्त्वा जितार्थिनः ॥

35.73

भविष्यन्ति न मे यावद् बोधिप्राप्ता जितारयः
तावत् पापिष्ठ यास्यामि निर्वाणं न क्षयान्तकृत् ॥

35.74

एवम् उक्ते ऽथ शाक्येन्द्रे ऽधोमुखः कुसुमायुधः
हतो ऽहम् इति काष्ठेन विषसाद महीं लिखन् ॥

35.75

दुर्मनासि कथं तात प्रोच्यतां यद्य् असौ नरः
रागपाशेन तं बद्ध्वा कुञ्जरं वानयामहे ॥

35.76

आनयित्वा च तं शीघ्रं करिष्यामि वशं तव
तात मा गा विषादं तं नरो ऽयं किम् अतो भयम् ॥

35.77

अर्हन् स सुगतो लोके न रागस्य वशं व्रजेत्
विषयं मे व्यतिक्रान्तं तस्माच् छोचाम्य् अहं भृशम् ॥

35.78

बभाष शक्येन्द्रम् अनिन्दिताधरा विलासिनी तं मधुरप्रलापिनी
स्तनौ प्रकाश्य द्विपकुम्भनिर्जितौ मुखेन चन्द्रं कमलं च हासिनी ॥

35.79

एकातपत्रं जगतः प्रभुत्वं नवं वयः सौम्यवपुश् च कान्तम्
एतांश् च हित्वा तपसा किमर्थं रमस्व कामं मम काम्यदेहे ॥

35.80

अन्या सुरामा मृगशावकाक्षी शनैः शनैस् तं मदविह्वलाङ्गी
गत्या जयन्ती गजराजहंसौ किंचिद् विहस्याथ मुनिं बभाषे ॥

35.81

सौवर्णमुक्ताभरणाङ्गभूषं त्वदर्थम् एवेह बिभर्मि राजन्
प्रभुङ्क्ष्व कामं तपसः फलं तत् कामे प्रसक्ता मुनयो ह्य् अटन्ते ॥

35.82

आच्छाद्य वस्त्रेण मुखार्धभागं निबध्य दृष्टिं मुनिवंशकेतौ
तस्थौ तदग्रे किम् अपि प्रवक्तुं विकाशयन्ती कमलं सलीला ॥

35.83

लोकानुकम्पा तव चेन् मतं स्याद् विहाय मातापितरौ च मित्रान्
वने वसंस् त्वं कम् इवोद्धरिष्येर् इति प्रगल्भं मनसीव तस्याः ॥

35.84

कुर्वन्ति भावानि मुनिं विजेतुं यथा यथा ताः स्म विलासवत्यः
तस्थौ निरीहे निरहंकृतौ च तथा तथासौ स्तिमितायताक्षः ॥

35.85

एता मुनेर् भावविदर्शयन्त्यो मनो ऽथ हर्तुं न च शक्नुवन्त्यः
तपोऽपराधाज् जरसा निपीतं वपुर् विरूपं तमसाभिजग्मुः ॥

35.86

सत्यं वदसि नस् तात न रागेण स नीयते
विषयं नो व्यतिक्रान्तं वयं शोचामहे ऽपि तत् ॥

35.87

नाहं पश्यामि तं लोके पुरुषं सचराचरे
बुद्धस्य यो ह्य् अधिष्ठानं शक्नुयात् कर्तुम् अन्यथा ॥

35.88

तं गत्वा त्वरितं यूयं प्रार्थयध्वं गुणाम्बुधिम्
स वः पौराणकं कायं करिष्यति यथामतम् ॥

35.89

सुखं विवेकतुष्टस्य सदा शान्तौ स्थितस्य च
सुखं विरागतो लोके पापानां समतिक्रमात् ॥

35.90

श्रीर् वो ऽस्तु दक्षिणे हस्ते श्रीर् वो वामकरे स्थिता
श्रीर् वो ऽस्तु सर्वलोकेषु मालेव शिरसि स्थिता ॥

35.91

स्वस्ति कुर्वन्तु वो देवास् तिष्ठतां गच्छतां पथि
मतिर् धर्मे सदा भूयात् पापे म भूत् कदा चन ॥

35.92

लब्धार्थाः सततं यूयं नीरोगाः परमायुषः
अनेन कर्मणा बौद्धा भवन्तु सुगतात्मजाः ॥

35.93

इति श्रुत्वा मुनेर् वाक्यं चित्तपद्मप्रकाशिकाः
बुद्धे धर्मे च संघे च ते नित्यम् शरणं ययुः ॥

35.94

दुष्करेण मया बोधिः प्राप्तेयं परमार्थतः
देशयेयं परेभ्यश् चेन् न ते जानन्त्य् अलं ततः ॥

35.95

इति निश्चित्य सारज्ञस् तूष्णीभावं ययौ मुनिः
मूर्खानां मण्डले संस्थो मौनत्वाद् विप्रशोभते ॥

35.96

मोहान्धे भगवांल् लोके प्रज्ञादीपं प्रदीपय
क्षुत्पिपासाहते लोके धर्मामृतं प्रवर्षय ॥

35.97

यतो बोधिं समासाद्य दुष्करेणैव तापसा
ध्यानसुखेषु लीनो ऽसि लोको ऽयम् प्रलयं व्रजेत् ॥

35.98

भगवन् मगधे देशे महोत्पातसमाकुलाः
भवन्ति विकला लोका भूतयक्षैर् उपद्रुताः ॥

35.99

तेषां पापाग्निशान्तये धर्मामृतं प्रवर्षय
यथापूर्वं प्रतिज्ञातं साफल्यं कुरु सांप्रतम् ॥

35.100

काशी पुण्यवती भूमिः सुभिक्षा सुजनाश्रया
यत्र देवाः सदा सन्त्य् अप्य् अमरा मर्तुम् इच्छया ॥

35.101

तत्र प्रवर्तितं चक्रं पूर्वबुद्धैस् तथागतैः
अनागताश् च तत्रैव वर्तयिष्यन्ति धर्मकम् ॥

35.102

वाराणसीं गमिष्यामि गत्वा वै योगिनां पुरिम्
अन्धभूतस्य लोकस्य धर्मोल्कां संप्रकाशये ॥

35.103

मानुषं दुर्लभं प्राप्य क्षणसंपत् सुदुर्लभा
तथागतस्य चोत्पत्तिर् उदुम्बरसुदुर्लभा ॥

35.104

अद्य काशीं गतो बुद्धो लोकानां दुःखशान्तये
तद् वो धर्मे मतिः कार्या समायातात्र सत्वरम् ॥

35.105

भगवन् मुनिशार्दूल जितमार जिनर्षभ
पूरय धर्मशङ्खां च कुतीर्थमृगभीतये ॥

35.106

यस् त्वं पूर्वादिभिः पूर्वं प्रणिधिं कृतवान् इति
बुद्धो भवेयं लोकेषु सत्त्वदुःखप्रशान्तये ॥

35.107

तत् कुरु भगवन् नाथ प्रतिज्ञायाश् च पूरणम्
नो चेद् भगवांश् छास्ता भवदुःखाकुलं जगत् ॥

35.108

दीपंकरप्रसादेन बुद्धो भवसि सांप्रतम्
दुःखाग्निदीपितं लोकं दृष्ट्वामृतं प्रवर्षय ॥

35.109

ब्रह्माद्या लोकपालाश् च श्रोतुकामाः समागताः
दुःखमूलप्रहाणाय धर्मचक्रं प्रवर्तय ॥

35.110

अथावोचन् महाबौद्धः शाक्यसिंहो दयोदधिः
पर्षदं च समालोक्य भिक्षून् आलभ्य पञ्चकान् ॥

35.111

अविद्याबीजसंभूतः स्कन्धाङ्कुरः प्ररोहति
पुण्यपापरसं पीत्वा भववृक्षो महान् भवेत् ॥

35.112

तस्य फलं महत् स्वादु परिणामं विषायते
तद् एवं विषफलं ज्ञात्वा त्यक्तव्यं दूरतो बुधैः ॥

35.113

विषवृक्षाङ्कुरं दग्धुं बीजम् एव प्रदह्यताम्
अविद्याबीज दग्धेन भवान् मुक्तिर् भवेद् ध्रुवम् ॥

35.114

इत्य् एवं भगवान् बुद्धः पुरुषदम्यसारथिः
धर्मचक्रं प्रवर्त्याथ पुनर् धर्मं दिदेश सः ॥

35.115

श्रावकाणां चतुःसत्यम् आर्यम् अष्टाङ्गमार्गिकम्
आदाव् अन्ते च मध्ये च कल्याणं ब्रह्मचर्यकम् ॥

35.116

ततः प्रहर्षाद् इव साचलाचला मही चकम्पे निभृतार्णवांशुका
वितस्तनुः खे सुरदुन्दुभिस्वना दिशः प्रसादाभरणाश् चकाशिरे ॥

35.117

प्रसक्तमन्दस्तनिताः प्रहासिनस् तडित्पिनद्धाश् च घनाः समन्ततः
परस्पराश्लेषविकीर्णरेणुभिः प्रसक्तम् एनं कुसुमैर् अवाकिरन् ॥

35.118

समुद्वहन् धीरगतिः समीरणः सुगन्धि नानाद्रुमपुष्पजं रजः
मुदा प्रवृत्तैर् अविभक्तभक्तिभिस् तम् अर्चयामास कृशांशुकैर् इव ॥

35.119

अथ सर्वावते धातौ बभूवुर् ब्रह्मचारिणः
बुद्धस्य वचनं श्रुत्वा बुद्धधर्मपरायणाः ॥

35.120

ततः सर्वे समुत्थाय पुजां कृत्वा जगद्गुरोः
सनाथं स्याज् जगच् चाद्य इति प्रोक्ता ययुर् मुदा ॥

मूल पाठ: Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 · Edition: Michael Hahn: "How it all began: I. Haribhaṭṭa's Prabhāsajātaka", Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81 Hahn, Michael: Haribhaṭṭa in Nepal. Ten Legends from His Jātakamālā and the Anonymous Śākyasiṃhajātaka. Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22) Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta · Data entry Michael Hahn Klaus Wille (Jat. 1) · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc