भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · अध्याय 2

2.1

यः परदुःखैर् दुःखी तद्विच्छित्त्यै कृतप्रतिज्ञश् च ।
जगदर्थम् ईहमानः स एव सहते स्वदुःखानि ॥

2.2

दातव्यम् इति सर्वेभ्यः सर्वदा सर्वम् एव च
प्रतिज्ञेयम् अभूत् तस्य सर्वसत्त्वानुकम्पिनः ॥

2.3

लोकव्यसनम् उच्छेत्तुम् अत्यन्तं कृतचेतसाम्
प्रतिज्ञा सत्त्वमहती महताम् एव जायते ॥

2.4

प्रह्लादितजनस् त्यागस् तस्य चेतसि पप्रथे
इन्दोर् इव शरत्काले ध्वान्तभेदी महोदयः ॥

2.5

अस्मदर्थम् अयं धत्ते भोगान् पुण्यबलार्जितान्
इत्य् अर्थेष्व् अर्थिनस् तस्य ममताम् आललम्बिरे ॥

2.6

अस्याम् अनेन सुधिया प्रणिधानबीजम् उप्तं मनोभुवि जिनत्वफलाय नूनम्
प्राग् दानपारमितयेति स पुण्यकर्मा सोत्कण्ठयेव सहसा घनम् आलिलिङ्गे ॥

2.7

न मोक्ष्यत्य् अयम् अह्नाय दानपारमिताम् इति
शेषाः पारमितास् तस्य तस्थुर् उत्कण्ठिता इव ॥

2.8

फुल्लातसीकुसुमसंस्तरसंनिकाशम् आकाशम् आगतम् इवोदकतां समन्तात्
भास्वद्भुजङ्गमणिदीपसहस्रम् अन्तर् गम्भीरदुर्गमजलं जलधिं जगाहे ॥

2.9

एतं समेत्य विमुखो न गतो ऽर्थिवर्गश् चेतो ऽस्य वैरिणि सुते च समानवृत्ति
एवं गुणान् अभिदधद् गुणलालसस्य सार्थं न तस्करगणो ऽपि मुमोष तस्य ॥

2.10

शुचिशीलविभूषणे जने जगदर्थप्रतिबद्धचेतसि
अपि धर्मपराङ्मुखो जनः सुहृदीवाभ्युपयाति भद्रताम् ॥

2.11

महात्मनस् तस्य परार्थसंपदः प्रयच्छतो दानम् उदारचेतसः
अवन्ध्यभूरिप्रणयैः समागतैर् अभूद् गृहद्वारम् अशून्यम् अर्थिभिः ॥

2.12

सर्वो जन्तुः काङ्क्षति ग्लानिकाले खेदार्तो वा चित्तसौख्याय निद्राम्
एषा दातुर् दानविघ्नं करोतीत्य् आसीत् साधोस् तस्य निद्रैव दुःखम् ॥

2.13

प्रयास्यतीयं तनुतां क्रमेण दानातिरागात् तव कोशसम्पत्
क्षपाक्षये क्षीणशशाङ्कशोभे निवर्तमानेव समुद्रवेला ॥

2.14

त्वयि प्रयास्यन्ति ततो गतोदये निपात्य दृष्टिं विमुखत्वम् अर्थिनः
अपास्तकेकाश् च्युतचारुचन्द्रिकाश् चिरं मयूरा इव शारदाम्बुदे ॥

2.15

क्षयं गतायाम् इति कोशसंपदि त्वम् अर्थिनः प्राप्य शुचं गमिष्यसि
इयं तु दित्सा भवतः प्रथीयसी कदाचिद् अप्य् एष्यति नैव विक्रियाम् ॥

2.16

गते क्षयं दारुणि चञ्चलार्चिषः क्षयं प्रयाति द्युतिर् आशुशुक्षणेः
प्रकामम् अभ्यासविवर्धितोदया न चैव दित्सा महतां विपत्स्व् अपि ॥

2.17

अयं परिक्षीणधनो ऽपि नार्थिनः करोति याच्ञाश्रयभङ्गकातरान्
इति प्रकाशीकृतनिश्चयो जनैर् जनो न कृच्छ्रे ऽपि जहात्य् उदारताम् ॥

2.18

इति तथ्यम् अहं ब्रुवे भवन्तं भवविच्छेदि पदं गवेषयन्तम्
व्यवसायतनुत्रम् आशु बद्ध्वा बदरद्वीपम् उपेहि लोकभूत्यै ॥

2.19

शृणु तत्र मयोपदिश्यमानं गमनं भूधरनागयक्षभीमम्
बहुभिश् च पयोधिभिर् निरुद्धं यद् अलं साधयितुं त्वम् एव शक्तः ॥

2.20

मलयाचलरोहिणी सुधेति स्थिरवीर्यौषधिर् अस्ति पुण्यगन्धा
हविषा परिपच्य ताम् अशान श्रमतृष्णाभिभवक्षुधाक्षयाय ॥

2.21

पञ्चद्वीपशतान्य् अतीत्य सरितस् तास् ताश् च भीमाम्भसस् तीर्त्वा च प्लवमध्यगो जलनिधीन् पुण्येन वीर्येण च
तुङ्गस्योपरि भूभृतो ऽस्ति महती नाम्ना महौघौषधिस् ताम् आदाय महाभुजङ्गमविषच्छेदाय यायास् ततः ॥

2.22

सुप्तस्य जाग्रत इव ज्वलिताग्निदीप्तेर् यस्याक्षिणी तपनमण्डलतुल्यतारे
आपिङ्गपक्ष्मपरिवेष्टितवर्त्मलेखे निद्राक्षये मुकुलिते इव चाप्रकम्पे ॥

2.23

सुप्तस्य तस्य घननिश्वसितानिलेन प्रम्लानपाण्डुकुसुमास् तरवो भवन्ति
जिह्वा विनिष्पतति चास्यपुटात् स्फुरन्ती विद्युल्लता जलधराद् इव भीमनादात् ॥

2.24

प्रेर्यमाणाः करुणया धीराः सत्त्वहितं प्रति
बद्ध्वोत्साहमयं वर्म साधयन्ति समीप्सितम् ॥

2.25

ततो निर्यास्यन्ति स्तनकलशभारेण गुरुणा प्रकामं क्लाम्यन्त्यः स्फुटदशनभासः स्मितवशात्
अरालभ्रूलेखाः कुवलयदलश्यामनयनाश् चतस्रः किन्नर्यस् तनुधवलदिव्यांशुकभृतः ॥

2.26

विचिन्तितं तेन च पुण्यकर्मणा परार्थनिष्पत्तिनिबद्धचेतसा
परिस्फुरन् राशिर् इवेन्दुरोचिषां स चाश्वराजस् त्वरितं समाययौ ॥

2.27

समेत्य चोवाच स मानुषीं गिरं दुकूलसूत्राकृतिसान्द्रकेसरः
इतः पुरात् सागरशैलदुर्गमान् नयामि कं त्वां विषयं विहायसा ॥

2.28

तं सुप्रियः प्रियगुणो गुणिनां प्रवेकः प्रोवाच वाजिवरम् इन्दुमरीचिशुभ्रम्
मत्तद्विरेफशबलोपवनान्तरालां वाराणसीं नयतु मां द्रुतम् अश्वराजः ॥

2.29

उक्तस् तुरङ्गपतिनाथ स धीरसत्त्वः पृष्ठं ममेदम् अधिरुह्य भव स्थिराङ्गः
रत्नं स्ववाससि निबध्य च शुद्धरश्मि तं पक्षिराजसमरङ्घसम् आरुरोह ॥

2.30

भिन्दन् खुरैः प्रविरलान् क्वचिद् अम्बुवाहान् सौदामनीसमवभासपिशङ्गिताङ्गः
उत्पत्य खं स्तिमितसागरवारिनीलं वाराणसीम् अवततार स वाजिराजः ॥

2.31

यद् यद् इच्छति यो द्रव्यम् इह मानुषदुर्लभम्
तत् तच् चिन्तामणिर् अयं सम्यक् तस्मै प्रयच्छतु ॥

2.32

क्वचित् तरुपलाशेषु स्खलता व्योमपातिना
धान्येन महता भूमिर् बभूव च निरन्तरा ॥

2.33

ततो विचित्रा मणयः स्फुरत्त्विषः शुचिद्युतीन्य् आभरणानि चासकृत्
विकम्पितान्य् आपतता नभस्वता तनूनि वासांसि च पेतुर् अम्बरात् ॥

2.34

अथो विचित्राभरणाम्बरस्रजः प्रवृत्तनानोत्सवतूर्यनिस्वनाः
सविस्मयास् तं जनतानुकम्पिनं पुरस्कृतं तुष्टुवुर् इत्थम् अर्थिनः ॥

2.35

अहो बतात्यद्भुतम् एतद् ईहितं परोपकाराय गृहीतजन्मनः
अहो यशोभिस् तव कुन्दपाण्डुभिस् तिरस्कृतेयं हसतीव मेदिनी ॥

2.36

अवश्यम् अस्त्य् एव जनस्य तादृशी स्वभाग्यसंपत् कुशलावलम्बिनः
भवादृशानां जगदर्थकारिणां यद् एवम् उत्पत्तिर् अवन्ध्यजन्मनाम् ॥

2.37

निर्वासितमहादुःखो दत्ताक्लिष्टमहाफलः
विपाक इव धर्मस्य सुखहेतुस् त्वम् अर्थिनाम् ॥

मूल पाठ: Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 · Edition: Michael Hahn: "How it all began: I. Haribhaṭṭa's Prabhāsajātaka", Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81 Hahn, Michael: Haribhaṭṭa in Nepal. Ten Legends from His Jātakamālā and the Anonymous Śākyasiṃhajātaka. Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22) Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta · Data entry Michael Hahn Klaus Wille (Jat. 1) · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc