जातकमाला · अध्याय 24
रिपुम् अपि नोपेक्षन्ते करुणामृदुचेतसो गदग्रस्तम् ।
लोकस्य बन्धुभूताः किं पुनर् अच्छिन्नजन्मानम् ॥
आलोकयन्न् अथ भुजङ्गमवेष्टितानि सान्द्राणि चन्दनवनानि निदाघकाले
शृङ्गाग्रविस्खलनजर्जरिताग्रजालं बभ्राम सिद्धनिलयं मलयं कदा चित् ॥
हारीततुण्डपरिखण्डितविद्युतानि पश्यन् नवानि मरिचानि दरीमुखेषु
जिघ्रन् समीरचलितं कुसुमाधिवासम् अध्यास्त खेदविगमाय शिलां स धीरः ॥
आलोक्य शान्तम् अथ तं विनयावलम्बी स्कन्धान् महान्तम् अवतार्य स मूलभारम्
भक्तिप्रसादभरम् उद्गिरतेव दूराद् आलग्नभूमिरजसा शिरसा ववन्दे ॥
स ब्राह्मणश् चैनम् अपृच्छद् एवं पश्याम्य् अहं ग्लानशरीरम् आर्यम्
आरूढरोगाभिभवप्रतन्व्या प्रत्येकबुद्धस् तम् उवाच वाचा ॥
इदं च वल्मीकसमं शरीरं उत्पादितं कर्मपरंपराभिः
कुर्व्वद्भिर् आधिं जगताम् अनेकैर् अध्यासितं व्याधिभुजङ्गमैश् च ॥
इयं जराकेशरिणी यदा च शरीरम् आक्रामति मानकस्य
मदं विषादाद् विगतेन्द्रियार्थस् तदास्य चित्तद्विरदो जहाति ॥
ततो परो मृत्युर् अकारणारिः कुटीरकं देहमयं भनक्ति
भग्ने हि यस्मिन् भवति क्षणेन सर्वक्रियाणां विरतिर् जनस्य ॥
इमैस् त्रिभिर् मृत्युजरागदारिभिः प्रबाध्यते कर्मसमीरितैर् जनः
अनन्तरक्लेशहुताशसम्भवो भवो यम् आर्यैर् अत एव नेष्यते ॥
इति विचार्य विचारपटुर् भवान् प्रतिभयान् भुजगप्रतिमान् भवान्
शमपथे विनिवेश्य मनोरथं समधिरोहतु वीर्यमयं रथं ॥
सुभाषितमणेः प्राप्तिर् अविद्यातिमिरच्छिदः
नान्यत्र स्वच्छगम्भीर धीतोयान् साधुसागरात् ॥
सुपुरुषपरिचोदितस्य धर्मे पटुतरतां पुरुषस्य याति वीर्यं
वहनम् इव समीरणप्रणुन्नं सलिलनिधौ स्थितदक्षकर्णधारं ॥
स पलाशैः पलाशस्य महद् आतपवारणम्
कृत्वा प्रत्येकबुद्धस्य दधारातपशान्तये ॥
न चिन्तयति यः खेदम् उपायकुशलो वणिक्
लभते विपुलं लाभं चतस्रः संभ्रमन् दिशः ॥
बोधिसत्त्वो विचिन्त्येति तस्य कर्तुम् उपासनाम्
न क्षुधं नातपं तीव्रं न च खेदम् अजीगणत् ॥
बुधान् उपासीत न चेज् जगद्गुरून् आवाप्नुयान् नैव जनः सुभाषितम्
धनाय यो गच्छति रत्नमेदिनीं स युज्यते रत्नविशेषसम्पदा ॥
इति स परिचरंस् तम् आर्यवृत्तं कुशलफलोपचयाय धीरसत्त्वः
प्रतिदिवसम् उपाचितप्रसादः सफलम् अमन्यत साध्व् अजन्मलाभम् ॥
परिविस्फुरदङ्शुपरीततनुः पयसीव ततान नभस्य् अमले
शुशुभे च सुवर्णगिरिप्रतिमः कमलासनमध्यगतः स वशी ॥
प्रविवेश मुहुः परिभिद्य महीम् उदियाय शनैः सवितेव पुनः
अनयच् च स योगबलाद् बहुतां युगपद् भुजयोः सलिलज्वलनौ ॥
स्पृशति स्म विलोलनखद्युतिना कमलप्रतिमेन करेण रविम्
बहुताम् अगमद् गतजन्मभयस् सलिलेष्व् इव शुद्धवपुस् तपनः ॥
तम् इति प्रसमीक्ष्य महर्द्धिबलं द्युतिमन्तम् अनुष्णमरीचिम् इव
सुचिरं स्तिमितीकृतनेत्रयुगो द्विजमुख्यतमः स जगाद मुदम् ॥
तं प्रातिहार्यरमणीयतरप्रभावं प्रत्येकबुद्धम् अवलोक्य दृढप्रसादैः
विद्याधरैर् मुमुचिरे नभसा व्रजद्भिः पुष्पाणि केशररजःकपिशोदराणि ॥
इमाम् आलोक्य भवतः प्रातिहार्यवतीं तनुम्
ब्रह्मापि विस्मयं यायान् मादृक् किम् उ पृथग्जनः ॥
दर्शितप्रातिहार्येण भवता दीप्ततेजसा
इदम् अध्यासितं व्योम द्विसूर्यम् इव लक्ष्यते ॥
योगिनां त्वादृशाम् एतद् ऋद्धिमाहात्म्यम् अद्भुतम्
परानुग्रहनिष्पत्ति पटूनां व्यक्तिम् अर्छति ॥
आत्मार्थं भासते नेन्दुः प्राचीमुखविशेषकः
परार्था एव महताम् उदयाः शुद्धचेतसाम् ॥
यदि नाहम् उपागमिष्यम् एनं मलयं चन्दनपादपान्धकारम्
न भवत्समुपासनासमुत्थं कुशलं मुक्तिपथस्य बीजम् आप्स्यम् ॥
मदनुग्रहकाम्यया दधानस् तनुम् एताम् अतनुप्रभावगुर्व्वीम्
मलयाद्रिवनान्तरे स्थितो ऽसि क्षपितक्लेश गदच्छलेन नूनम् ॥
दधतीद्धरुचो मणिं समुद्राः स्फटिकच्छेदसितं पयः पयोदाः
महतीं फलसम्पदं च वृक्षाश् चिरम् आयुश् च भवादृशाः परार्थम् ॥
वाक्तन्तुभिस् तव गुणस्तुतिपुष्पमालां संग्रन्थ्य यत् कुशलमूलफलं मयाप्तम्
प्रज्ञास्पदं दशबलत्वम् अवाप्य तेन भूयासम् अस्य जगतो भवभङ्गहेतुः ॥
प्रत्येकबुद्धपदपांसुम् असौ निवेश्य मूर्ध्नि प्रसादसमुदीरितरोमकूपः
आत्तौषधिर् मलयशैलवनान्तरालाल् लोकस्य रोगम् अपनेतुम् अगाज् जनान्तम् ॥
मूल पाठ: Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 · Edition: Michael Hahn: "How it all began: I. Haribhaṭṭa's Prabhāsajātaka", Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81 Hahn, Michael: Haribhaṭṭa in Nepal. Ten Legends from His Jātakamālā and the Anonymous Śākyasiṃhajātaka. Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22) Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta · Data entry Michael Hahn Klaus Wille (Jat. 1) · GRETIL (Göttingen) · CC BY-NC-SA 4.0