भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · अध्याय 22

22.1

न विना वीर्यात् तन्व् अपि फलम् ईप्सितम् आप्यते जगद्भूत्यै ।
इति खेदम् अगणयित्वा व्यायच्छन्ते महाभागाः ॥

22.2

हरिणं हरकण्ठनीलपृष्ठं हरिसत्त्वं हरितं तृणं दशन्तम्
सदसत्पथवेदिनं मृगास् ते तम् उपाध्यायम् इवान्वगुः सुशिष्याः ॥

22.3

विहाय रोमन्थनम् उन्मुखस्थिरः स कृष्णसारः शरपातशङ्कितान्
मृगान् निनीषुं शरगोचरं नृपं विलोकयामास चमूपुरःसरम् ॥

22.4

विलोक्य संभूतखलीननिस्वनं जिघांसु तत् सैन्यम् अधिज्यकार्मुकम्
मृगैः परीतो भयलोलदृष्टिभिः स यूथभर्तेदम् अचिन्तयद् ध्रुवम् ॥

22.5

महीपतिः पाति सुखं सुखार्थिनीं प्रजाम् अनुत्पन्नभयां शुभाश्रयात्
अचिन्तयित्वात्मगतं परिश्रमं स रक्षिता यो व्यसने ऽपि रक्षति ॥

22.6

अमून् भयभ्रान्तविलोललोचनान् परिस्रवच्छोणितसिक्तभूतलान्
मृगान् पुरस्तात् पततः स्फुरत्तनून् विलोकयिष्यामि कथं शराहतान् ॥

22.7

मृगांस् तद् एनान् मृगयाविनोदिनो न यावद् आघ्नन्ति शितैः शिलीमुखैः
बलेन तावद् भयलोलचक्षुषां प्रयत्नम् एषां करवाणि रक्षणे ॥

22.8

परिप्लुत्य तटाद् अस्माद् दत्त्वा पृष्ठे क्रमं मम
यात यातभयाः शीघ्रं स्वयूथ्याः संकटाद् इतः ॥

22.9

शरीरं विशरारुत्वाद् धर्माभावाच् च फल्गु मे
युष्मन्निर्वाहणात् सारं लप्स्यते सुचिराद् इदम् ॥

22.10

परोपकारविमुखो यदा कायः कलिस् तदा
यदा त्व् अन्यद्धितालम्बी कायरत्नम् इदं तदा ॥

22.11

परिपातुम् अहं भयात् समर्थो यदि युष्मान् नृपसैनिकानुबद्धान्
सफलो ऽद्य भवेत् ततः पृथिव्यां मम यूथाधिपतित्वशब्द एषः ॥

22.12

आगम्यतां तद् अधुना ननु तावद् एव युष्मासु यावद् इषवो न पतन्ति शाताः
पृष्ठं ममाचलसरिज्जलसेतुभूतम् आरुह्य निस्तरत सैन्यभयाद् अमुष्मात् ॥

22.13

यथा यथा तस्य भृशं निपेतुः पृष्ठे मृगास् त्रासविलोलनेत्राः
तथा तथासौ मृगयूथभर्ता खुरान् स्थिरत्वं प्रसभं निनाय ॥

22.14

रुधिरम् अथ मृगाणां पत्युर् उत्खातमांसात् खुरपुटपरिभिन्नात् तस्य चक्षार पृष्ठात्
मृगकुलम् अचलान्तं गच्छद् आलोक्य चारात् स रुजम् अगणयित्वा प्रीतिम् एवाललम्बे ॥

22.15

परिपालितसत्त्वानाम् उपायेन बलेन वा
रुणद्धि महतां दुःखं अन्तःप्रीतिपरम्परा ॥

22.16

अथाववादम् आकर्ण्य स जनस् तस्य भूपतेः
बाणविश्लेषिणः सद्यश् चकार धनुषो गुणान् ॥

22.17

जहीहि शङ्कां न हि बोधिसत्त्वो भवन्तम् उत्स्रक्ष्यति बालम् एकम्
द्विरेफशब्दैर् इति पुष्पवन्त आश्वासयामासुर् इव द्रुमास् तम् ॥

22.18

अङ्गाधिरुह्य मत्पृष्ठं विमुञ्च मरणव्यथाम्
भवन्तं सरितः पारं नेष्याम्य् अहम् इतस् तटात् ॥

22.19

उद्धर्तुं वीर्यम् आरब्धं येन लोकं भवार्णवात्
स त्वां नोत्तारयिष्यामि कथम् एकं नदीजलात् ॥

22.20

अथ तेनाधिरूढो ऽसौ मृगशावेन वीर्यवान्
जगाहे करुणालम्बी सरितं वीचिमालिनीम् ॥

22.21

अमूनि पृष्ठे तव विक्षतानि रुजं न गाढां जनयन्ति कच्चित्
इति ब्रुवाणेव समुत्तरन्तं परामृशत् तम् सरिद् ऊर्मिहस्तैः ॥

22.22

कृत्वाथ जानुनी भूमौ मृगशावः पिपासितः
जग्राह त्वरितं मातुः संभूतप्रस्रुती स्तनौ ॥

22.23

सा चैनं परिवृत्तास्या स्तन्यपानचलाननम्
आलिलेह मुहुः स्नेहाज् जिह्वया चलिताग्रया ॥

22.24

कथंचिद् अन्विष्य खुराङ्कशाद्वलां शनैर् मृगाणां पदवीं समाकुलः
निविश्य मन्दं रुधिरोक्षितः क्षितौ क्षणं विशश्राम स संभृतश्रमः ॥

22.25

इमां दशां निर्घृणयाद्य वत्स सत्या जनन्यापि मयासि नीतः
इति क्षताङ्गं करुणानुतापाद् भृशं रुरोदेव तम् ईक्षमाणा ॥

22.26

अभ्युत्थानार्हम् आलोक्य यत् त्वां नाहं समुत्थितः
नादाक्षिण्यं तद् एतन् मे श्रमेणास्म्य् अवसादितः ॥

22.27

निर्व्रीडैः परम् उपहन्तुम् उद्यतास्त्रैर् भोगेच्छातिमिरनिरुद्धबुद्धिनेत्रैः
धर्मज्ञो हरिणमुनिः कृपासहायो मादृक्षैर् नरपशुभिस् त्वम् अर्चनीयः ॥

22.28

बिभर्ति भृत्यान् नृप आत्मरक्षणं विधित्सुर् आयोधनकालनिर्भयान्
स्वयूथरक्षापटुना तु सर्वथा नयेन ते भूमिभुजां जितो नयः ॥

22.29

चित्रं किम् अत्र बहवो यदि भूमिपालं भृत्या रणान्तरगतं परिपालयन्ति
एकेन नाम हरिणा बहवस् त्वयामी यत् पालिताः खलु तद् अद्भुतम् एतद् अत्र ॥

22.30

बहुगुणकरुणान्विता तवेयं गुणविकलां करुणावियोगलघ्वीम्
हरिण हरिणता विशेषलाभाद् अवहसतीव मनुष्यतां ममैताम् ॥

22.31

बुद्धत्वम् अधिगन्तुं मे वीर्यं वीर्यवतां वर
यथाशक्ति मृगत्वे ऽपि सतीदं नावसीदति ॥

22.32

यथा मयामी हरिणा भयाकुलाः प्रतारिता भीमरयान् नदीजलात्
तथा बहुक्लेशसमाकुलं जगत् प्रतारयेयं भवदुःखतोयधेः ॥

22.33

आलस्यात् ससहायो ऽपि न गच्छत्य् उदयं जनः
हस्ताग्रात् स्खलितो भूमौ तोयार्द्र इव कन्दुकः ॥

22.34

विपश्चिताप्य् अलसधिया सुखाश्रयं न शक्यते पदम् अभिगन्तुम् उच्छ्रितम्
अवाहितं वहनम् अरित्रधारिभिश् चिराद् अपि व्रजति न पारम् अम्बुधेः ॥

22.35

जातस्यापि कुले विशुद्धयशसि प्रख्यातभोगोदये प्राप्तस्यापि सभासु पण्डितधुराम् अग्र्यां विपश्चित्तया
आलस्यान् न मनोरथः सकृद् अपि प्राप्नोति पुंसः फलं लक्ष्यं नैति गुणार्पितो ऽपि विशिखः क्षेप्तुः प्रयत्नाद् विना ॥

22.36

ये शान्तं पदम् आरुरुक्षव इह क्लेशैर् अभिन्नाशयास् त्वत्तः प्राक् कृतिनः कृतप्रणिधयो बोधौ घटन्ते जनाः
तेषां वर्त्मनि वाजिनाम् इव परिश्रान्त्या शनैर् धावताम् आजानेय इवोज्झितश्रमभयो भावी भवान् अग्रिमः ॥

22.37

बिभ्राणं परिवेषिणीं वितमसां देहत्विषां संहतिं धर्मं धर्मकथाभिलाषिणि मुहुः प्रख्यापयन्तं जने
छिन्नक्लेशनिबन्धनं गुणधनैर् अभ्यर्चितं सूरिभिस् त्वां बुद्धत्वम् उपागतं गतभवं द्रक्ष्यन्ति धन्या जनाः ॥

22.38

तद् आचक्ष्व महाबुद्धे धर्मं धर्मविदां वर
सेव्यमानेन शुद्धेन येन यायां न दुर्गतिम् ॥

22.39

अवद्याद् विनिवृत्तिश् च प्रवृत्तिश् च शुभाश्रये
धर्मतत्त्वम् इदं सम्यग् आख्यातं ख्यातबुद्धिभिः ॥

22.40

स्फुटीकृते ऽपि तत्त्वे ऽस्मिन् प्रकाशितशुभाशुभे
यो गच्छति विमार्गेण सो ऽन्धः सत्य् अपि चक्षुषि ॥

22.41

इति प्रज्ञाप्रदीपेन विलोकितमहापथः
भजस्व भजमानानि कर्माणि क्लेशहानये ॥

22.42

क्षितीश क्षपिताज्ञान क्षितिं धर्मेण पालय
तीक्ष्णदण्डाद् भूमिपालान् नित्यम् उद्विजते जनः ॥

22.43

यदि यशसि मृणालभङ्गशुक्ले जगदवभासिनि ते ऽस्ति काचिद् इच्छा
फलम् अभिमतम् आप्तुकामता वा बिभृहि गुणाभरणं ततो विशुद्धम् ॥

22.44

ततो यूथपतेस् तस्य खुरक्षतसमुत्थया
आविष्टस्य रुजा गुर्व्या निमिमीलतुर् अक्षिणी ॥

22.45

तस्याथ नृपतिः कृत्वा -चितां चन्दनदारुभिः
अग्निसंस्कारम् अकरोत् कृतिनः पुण्यजन्मनः ॥

22.46

अथ तत्र गते सुहृदीव दिवं हरिणे करुणाविमलप्रकृतौ
अनुशोच्य चिरं वसुधाधिपतिः पुरम् आगमद् आशु वितानमनाः ॥

22.47

तस्मिन् मृगे मृगवधूसदृशेक्षणाभिः सत्त्वोपकारकुशले कुशलान्विताभिः
ज्ञाताव् इव व्युपरते विरतक्रियाभिर् अच्छिन्नम् अश्रु मुमुचे वनदेवताभिः ॥

22.48

प्रावेपताथ वसुधा चलिताद्रिशृङ्गा वातानिलेन परिवर्धितसागरोर्मिः
भ्रान्तद्विरेफशबलश् च विकीर्णगन्धो मन्दारपुष्पनिकरो नभसः पपात ॥

22.49

मृगयूथाधिपस् तत्र वने ऽभूवम् अहं तदा
परिव्राट् च सुभद्रो ऽयं बभूव मृगशावकः ॥

22.50

काश्यपो नाम बुद्धो ऽभूज् ज्ञेयसागरपारगः
नाम्नाशोको ऽभवद् भिक्षुः स्वस्रीयस् तस्य तायिनः ॥

22.51

सुलभं मे परं ज्योतिर् मातुले सुगते सति
अशोकः परिचिन्त्येति न व्यायच्छत मुक्तये ॥

22.52

देशान्तरम् अशोके ऽथ गते गतपुनर्भवः
काश्यपो निर्वृतौ चेतः कृतवान् कृतिणां वरः ॥

22.53

ततः स्थिते ऽशोकतरोर् अधस्ताद् अशोकभिक्षौ विनिबद्धशोका
महीरुहे तत्र कृताधिवासा मुमोच मुक्ताद्युति देवताश्रु ॥

22.54

भविष्यतीत्य् अद्य विचिन्तयन्त्या जिनस्य निर्वाणम् अनिर्वृतायाः
पपात पाराशरिणः शरीरे तस्यास्रम् उष्णं वनदेवतायाः ॥

22.55

निरभ्रम् एतद् गगनं कुतो नु ममेदम् अम्भः पतितं शरीरे
इति ब्रुवन्न् उन्मुखम् ईक्षमाणः स देवतां तां रुदतीम् अपश्यत् ॥

22.56

पप्रच्छ चैनां परिदीनदीनां किं देवते रोदिषि जातशोका
सा चास्य कण्ठस्खलिताभिधाना भिक्षोः कथंचित् कथयां बभूव ॥

22.57

महामुनिः कारुणिको जगद्धितं विहाय दग्धानुशयेन्धनो वशी
प्रदाय निर्वास्यति काश्यपो ऽधुना जनाय शोकं कृपणेति रोदिमि ॥

22.58

अकम्पिते वादिवचःपतङ्गकैः परिप्रकाशीकृतसत्पथापथे
मुनिप्रदीपे परिनिर्वृतिं गते जगत्त्रयव्यापि तमो भविष्यति ॥

22.59

निशम्य चेदं वनदेवतावचः स मर्मणीवाभिहतः शितेषुणा
पपात भूमौ विनिमीलितेक्षणश् चिरात् समुत्थाय च पर्यदेवत ॥

22.60

अपृच्छद् एनं वनदेवतोत्सुका प्रचक्ष्व भिक्षो किम् इति प्ररुद्यते
स मातुलो मे भगवान् इति व्यथां कथं न यास्यामि स चेदम् अब्रवीत् ॥

22.61

मनोहरं वाक्कुसुमं जिनद्रुमाद् गृहीतम् अत्यल्पम् इदं प्रमादिना
जगत्त्रयक्लेशपरंपराहरं मया न लब्धं फलम् अल्पबुद्धिना ॥

22.62

इदम् मनःसद्मनि मे कृताश्रयं निरोधकं मुक्तिपथस्य दारुणम्
विभिद्य कस्मान् न गतो ऽसि निर्वृतिं तथागतेन्दोर् वचनांशुभिस् तमः ॥

22.63

अथान्वगात् तां नभसा स देवताम् अशोकपुष्पाञ्जलिबद्धलोचनः
क्षणेन चागम्य तथागतान्तिकं जगाद बाष्पं विसृजन् मुहुर् मुहुः ॥

22.64

प्रमादिनं बालम् अपेतधीप्लवं निमग्नम् अज्ञानमहापयोनिधौ
मुनीन्द्र मां दुःखमहोर्मिपीडितं क्षणाद् अनुत्तार्य कथं नु गच्छसि ॥

22.65

इति ब्रुवाणं परिगद्गदाक्षरं क्षरन्तम् अस्रं कलुषीकृतेक्षणम्
क्षणाद् विमोक्षाय निवर्त्य कापथात् पथा विशुद्धेन निनाय तं जिनः ॥

22.66

सिंहासनोपविष्टस्य वाक्पुष्पानि विमुञ्चतः
कस्य श्रोष्यति लोको ऽयं धर्मार्थी धर्मदेशनाम् ॥

22.67

त्वयि नाथ परं ज्योतिः प्राप्ते ऽस्तम् इव भास्करे
तमसा दुर्निवारेण निमीलितम् इदं जगत् ॥

22.68

अद्य त्वयि गते शान्तिम् अशान्तेन मनोभुवा
जगन् मोहयितुं नूनं पुनर् आरोपितं धनुः ॥

22.69

गते मुनौ शान्तिम् अनाश्रया वयं क्व विश्रमिष्याम उदीर्णमन्यवः
गुणैर् इति ज्ञेयपथानुगामिना मुनीन्द्र विक्रुष्टम् इव त्वया विना ॥

22.70

भवन्तं बोधाय प्रणिधिम् अवलम्ब्य त्रिभुवने भ्रमन्तं सत्त्वार्थं स्थिरधियम् अहं नोज्झितवती
परित्यज्य त्वं मां किम् इति जननीं वत्सल गतः प्रयाते त्वय्य् एवं रुदितम् इव दीनं करुणया ॥

22.71

माम् आगम्य यथानेन भिक्षुणासादितं फलम्
तथा शाक्यमुनेः शिष्यः पश्चिमः स्याम् अहं तदा ॥

22.72

अर्हत्फलं समासाद्य निर्वाणसमये मुनेः
तस्मात् प्राक् परिनिर्वायां सोढुं शोकम् अशक्नुवन् ॥

22.73

यासाव् अशोकनिलया बभूव वनदेवता
स परिव्राट् सुभद्रो ऽयं भद्रचेता महामतिः ॥

22.74

प्रणिधानवशाद् एष मम श्रावकतां गतः
प्रथमं मम निर्वाणात् तस्माद् एव च निर्वृतः ॥

22.75

इति जातकम् एतद् अद्भुतं विधिवच् छाक्यमुनिप्रकाशितम्
विदुषां मनसः प्रशान्तये प्रथनीयं मधुराभिधायिना ॥

22.76

परहितकरणार्थं ख्यापितातिप्रतिज्ञैर् अपि विपदि न मुक्तो वीर्यसंनाहबन्धः
इति परिविगणय्य प्राप्तुम् अत्यन्तनिष्ठां भुवनहितविधाने मा स्म गातालसत्वम् ॥

मूल पाठ: Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 · Edition: Michael Hahn: "How it all began: I. Haribhaṭṭa's Prabhāsajātaka", Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81 Hahn, Michael: Haribhaṭṭa in Nepal. Ten Legends from His Jātakamālā and the Anonymous Śākyasiṃhajātaka. Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22) Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta · Data entry Michael Hahn Klaus Wille (Jat. 1) · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc