जातकमाला · अध्याय 20
अपहृतदंष्ट्र इवाहिःक्षाम्यति शक्त्या विना सरोषो ऽपि ।
सति सामर्थ्ये नोज्झति यः क्षान्तिं स क्षमी ज्ञेयः ॥
भुजवीर्यपराजितं जितारेः परदेशं बलिनो बलानि यस्य
अभिसस्रुर् उदीर्णतुङ्गवृद्धेः सलिलानीव तटान्तम् अम्बुराशेः ॥
अपरस्परडिण्डिमैः स्वनद्भिः करिणो यस्य वितन्यमानकोपाः
वशगाः परितः प्रयाणकाले कथम् अप्य् अङ्कुशधारिणां बभूवुः ॥
मनोहराव् आर्द्रमधूकपाण्डू समुद्गिरन्ताव् इव कान्तिम् इन्दोः
कस्याश्चिद् आदर्शनिबद्धदृष्टेः सपत्त्रलेखाव् अकरोत् कपोलौ ॥
अपश्यद् अन्यां स्तिमितायताक्षीं स्मितेन किंचिच्चलिताधराग्राम्
नवोत्पलावस्थितम् उत्पलेन तिरोदधानां चकितं द्विरेफम् ॥
पराङ्मुखीं कांचिद् अधिष्ठितासनां मनोहरालेख्यपटावलोकिनीम्
उपेत्य निःशब्दपदं स भूपतिश् चकार हस्तद्वयसंवृतेक्षणाम् ॥
विधुन्वतीं पाणिम् अलं मयेति भियास्वनाम् अस्फुरिताभिधानाम्
स्तनौ दुकूलेन तिरोदधानां जग्राह दूतीम् अपि वेपिताङ्गीम् ॥
त्वम् एव मे भाविनि जीवितं परं निधेहि दृष्टिं मयि वल्गुहासिनि
इति ब्रुवन् कांचिद् अवाङ्मुखीं स्थितां प्रसादयामास कथंचिद् अङ्गनाम् ॥
किंचिच्चलन्मुखरनूपुरभूषणेन पादेन कुट्टिमतलं लिखतीं सलीलम्
कर्णे जगाद किम् अपि प्रमदां हसन्तीं लक्ष्यीकृतो ऽन्यवनितानयनेषुपातैः ॥
परिहासकालचलितोन्नतभ्रुवः स्मितचन्द्रिकापरिगताननेन्दवः
त्रिवलीविजिह्मतनुरोमराजयो न मनो हरन्ति वद कस्य योषितः ॥
स्फुरितप्रकाशदशनावलीरुचः परितः क्षरन्त्य इव कान्तिम् ऐन्दवीम्
न हरन्ति कं नु लवलीसुगन्धयः प्रमदाजनस्य मदमण्डना गिरः ॥
वदनेन्दवः श्रवणरुद्धदृष्टयः परपुष्टकण्ठरुचयः शिरोरुहाः
परिणामितालफलसंनिभाः स्तना न मनोहरं किम् इव नाम योषिताम् ॥
न गतास् त एव लघुतां जगत्त्रये सुखिनस् त एव सुधियस् त एव च
बहुदोषसर्पनिचितानि संश्रिता न विलासिनीविषलतावनानि ये ॥
तस्या गुणनिधौ वृद्धिं याते गर्भे दिने दिने
अग्रयोः संभृतक्षीरौ जग्मतुः श्यामतां स्तनौ ॥
जानुनोर् उपरि न्यस्य पाणी पल्लवकोमलौ
दृष्ट्वा भर्तारम् उत्तस्थौ सा कथंचिद् इवासनात् ॥
अद्य प्रसविनी स्यान् नु श्वो वेति सकुतूहलः
पुत्रार्थी भूपतिः स्निग्धं ताम् अपश्यत् पुनः पुनः ॥
शरीरप्रभया चान्द्रीं स जहार यतः प्रभाम्
तस्याकारि ततो नाम चन्द्र इत्य् एव बन्धुभिः ॥
जायन्ते गुणबान्धवाः सुमतयः श्लाघ्यं गरिम्णां पदं रूढं लाघवदोष एव महतां केषांचिद् आ जन्मनः
दृश्यन्ते हि नरा महत्य् अपि कुले जाताः समानाः शुना किं नोदन्वत इद्धरत्ननिचयाच् छम्बूक उत्पद्यते ॥
समाना नीलता सत्यं शिखिचन्द्रेन्द्रनीलयोः
सा तु रत्नगता श्लाघ्या कल्याणं हि सदाश्रयः ॥
विद्यन्ते न गुणाः पुंसि क्वचिद् आकृतिमत्य् अपि
इन्द्रनीलाकृतिं काचो वहन्न् अपि न तद्गुणः ॥
लघीयः प्राज्यं वा फलम् अभिमतं प्राप्तुमनसा निरीहेण स्थातुं क्षणम् अपि न युक्तं मतिमता
कुलालो दण्डेन भ्रमयति न चेच् चक्रम् अनिशं शरावः कुम्भो वा न हि भवति सत्याम् अपि मृदि ॥
स्वप्ने किलाद्य पुरम् एतद् अशेषम् अन्त्रैर् आवेष्टितं परिविधूसरदीनलोकम्
बद्ध्वा निपीडिततनुः कुनयेन चाहं क्षिप्तश् चिताभुवि कडेवरसंकुलायाम् ॥
राज्याद् वा महतो भ्रंशं स्वप्नस् तत् सूचयत्य् अयम्
मासद्वयेन गन्तव्यं दिष्टान्तम् अथवा त्वया ॥
श्रुत्वा वचस् तस्य स भूमिपालो विप्रस्य विप्रोषितकान्तिशोभः
मर्तव्यम् इत्य् आगतसाध्वसत्वान् नोद्यानभूमौ न गृहे ऽभिरेमे ॥
विचिन्त्यमानं मरणं प्रकृत्या करोति दूरे ऽपि मनोविषादम्
समुत्फणाशीविषदुर्निरीक्ष्यं शरीरिणां किं पुनर् अत्युपोढम् ॥
तल्लोहितस्य शुकतुण्डविलोहितस्य पूर्णां वितानभुवि पुष्करिणीं विशालाम्
भूपाल यद्य् अवतरिष्यसि तन् न राज्याद् भ्रंशं गमिष्यसि परेतपतेर् वशं वा ॥
ततः कुमारेषु भृशं विषादिषु प्रवर्तिते कर्मणि साप्ततन्तवे
महीभुजो ज्येष्ठसुताद् विनाकुलः स मन्त्रिधूर्तो निजगाद पार्थिवम् ॥
नृचन्द्र चन्द्रः स भवच्छरीरजो बलावलिप्तो यदि नागमिष्यति
तदा शुभध्वंसि विधानम् आध्वरं भविष्यतीदं न फलाय भूयसे ॥
प्रशान्तवेषे ऽपि विरूक्षमानसे न दुर्जने विश्वसनीयम् अण्व् अपि
बको हि तिष्ठन्न् अपि निश्चलस् तटे परिस्फुरन्तीं शफरीं न हन्ति किम् ॥
उपनयति विषादं धैर्यम् अप्य् आश्रितानां जनयति परिमोहं तापम् अन्तर् विधत्ते
अहिविषम् इव दंशप्राप्तम् एकान्ततीव्रं चरितम् अभजनीयं दुःसहं दुर्जनस्य ॥
उत्तिष्ठन्तं यस्य वैरिक्षयाय क्रोधव्यालं क्षान्तिविद्या रुणद्धि
श्रेयःप्राप्तो बद्धशुद्धाशयानां लब्धालोकः सो ऽग्रणीः क्षान्तिभाजाम् ॥
त्यक्तो ऽस्मि यदि तातेन स्वजीवितगवेषिणा
मम देहम् इमं यज्ञ पशुताम् उपकल्पय ॥
मया त्यक्तो ऽसि पुत्रेति ब्रुवाणस्य महीपतेः
चन्द्रस्योपरि दुःखेन निपेतुर् बाष्पबिन्दवः ॥
यदा चिरम् अपि स्थित्वा गन्तव्यं मृत्युगोचरम्
तदा परविनाशेन को वाञ्छेद् आयुषः स्थितिम् ॥
इति ब्रुवाणम् उद्ग्रीवाः खण्डधारं व्यलोकयन्
कुमाराः सुकुमाराङ्गाः शार्दूलं हरिणा इव ॥
त्वयि स्थिते भ्रातरि लोकवत्सले महात्मनि ज्यायसि तुङ्गचेतसि
पशून् इवास्मान् कथम् एष निर्घृणो यमक्षयं नेष्यति खण्दधारकः ॥
समाधिना तस्य विशुद्धचेतसः समाहतानाम् च समाहितात्मनः
भुजङ्गनीलानि सविस्मयात्मनां नृपात्मजानां निगडानि पुस्फुटुः ॥
उदियाय पयोगुरुः पयोदः पिदधद् द्यां शितिकण्ठकण्ठनीलः
स्फुरितप्रभया तडिद्भृकुट्या कुपितो राक्षसवज् जगर्ज चोच्चैः ॥
खगमुक्तविभग्नपादपानि ध्वनिमन्ति प्रचलच्छिलातलानि
शिखराणि निपातयन् गिरीणां प्रववौ वह्निसखः प्रचण्डवेगः ॥
प्रमुमोच ततो घनाघनं तद् घनजालं घनम् अश्मनां समूहम्
भृशम् आकुलचेतसां द्विजानां मखमध्ये प्रणवध्वनिः शशाम ॥
परिपाटलयन् पयोधराणाम् उदराणि प्रभया पयोगुरूणि
द्रुतम् अस्तम् इयाय पार्थिवस्य व्यसनं द्रष्टुम् अशक्नुवन्न् इवार्कः ॥
कुपितैर् इव शातकुम्भकुम्भाः क्रतुभूमौ निहिताः प्रताड्यमानाः
उपलैस् त्वरितं दिवः पतद्भिः कृतभङ्गाः परिचक्वणुश् चलन्तः ॥
प्रशशाम भयाद् इवाध्वराग्निः परितः प्रस्फुरिताकुलस्फुलिङ्गः
गलितश्लथपाण्डुधूमजालो गगनाद् अश्मभिर् आहतः पतद्भिः ॥
करिणां गुरुलोहकोशबद्धा रदनाः श्लिष्टमृदस् तटाभिघातात्
उपलाभिहताः परिक्वणन्तो मुमुचुः प्रस्फुरितत्विषः स्फुलिङ्गान् ॥
निपपात शिखी निवासयष्टेः कृकवाकुर् विरसं ररास भीतः
उपलाभिहताश् च लोलनेत्रा विविशुश् छेकमृगा गृहोदराणि ॥
शिशिरं जलदानिलं पिपासुः पृथुवल्मीकविनिर्गतार्धभोगः
फणम् आशु सफूत्कृतं वितन्य प्रविवेशाश्मभिर् आहतो भुजङ्गः ॥
परिहृत्य तु बोधिसत्त्वम् आरात् सकुमारं निपतत्सु वेगवत्सु
उपलेषु नृपः सखण्डधारो भवनं भीतजनाकुलं प्रतस्थे ॥
सचिवस्य महीपतेश् च यातोस् तडिदुद्द्योतविभाविते ऽर्धमार्गे
अशनिः शिरसी बिभेद भेद च्युतमस्तिष्कलवोपदिग्धकेशे ॥
मृतम् अश्रुमती जनान् निशम्य क्षितिपालं क्षितिपालपूजिताज्ञम्
मृदुचित्ततयातिदुःखभारात् सहसा जीवितम् उत्ससर्ज देवी ॥
अथ भीतजनोज्झितान्तरालं भवनं भूमिपतेः स्फुटत्कपाटम्
उपलाभिहतं पपात सद्यः कनकस्तम्भविभङ्गजातनादम् ॥
मृतौ भवेताम् अथ किं नु जीवितौ शठाशयौ पार्थिवखण्डधारकौ
इति स्फुरद्भिः परितः पयोधरा रुषेव विद्युन्नयनैर् व्यलोकयन् ॥
मां पुत्रवृक्षं संवृद्ध्यै सा सिक्त्वा स्नेहवारिणा
अनवाप्तफला मत्तः क्व याता जननी मम ॥
पृथिवीं पृथिवीपालः पालयित्वा पिता मम
क्व यातः खण्डधारेण सह खण्डितधर्मणा ॥
स्मरणीयविभूतीदं पतितस्तम्भतोरणम्
शोचन्तीव गुरोः सद्म विच्युताः शालभञ्जिकाः ॥
इमा विषमसंपात स्फुटिता गलितेष्टकाः
आत्मानम् इव शोचन्ति धूसराश् चित्रभित्तयः ॥
किं नु संगीतशालेयम् उत वासगृहं भवेत्
कृच्छ्राद् इत्य् अनुमीयन्ते भागा भग्नस्य वेश्मनः ॥
आसीद् इह गृहं स्थाने श्रीमत् तस्य महीपतेः
इत्य् उत्सुको जनः शोकाद् अन्येभ्यः कथयिष्यति ॥
निःश्रीकम् उपलाघात परेतशुककोकिलम्
इदं च भवनोद्यानं ध्यायतीव महीपतेः ॥
अनिष्ठितसुखाशानां विपत्तिं प्रतिपालयन्
इतिशब्दः समाप्त्यर्थः सोत्कण्ठ इव तिष्ठति ॥
पुंसाम् अच्छिन्नकृत्यानां करिष्यति करोति च
चकार च समाप्त्यर्थम् इतिशब्दम् अनित्यता ॥
स्थितायां मय्य् अपि व्योम नित्यम् इत्य् अभिधीयते
इत्य् ऊर्ध्वम् इव पश्यन्ती क्रोधात् तिष्ठत्य् अनित्यता ॥
अपराधीनवृत्तित्वाद् उपलब्धमनःशमाः
अपास्तबान्धवस्नेहा निःसङ्गाः सुखम् आसते ॥
संकल्पाद् विषयाभिलाषिणि जने तृष्णा करोत्य् आस्पदं तृष्णाबद्धमना निकारमलिनं बध्नाति सेवाञ्जलिम्
सेवार्तः परम् आरिराधयिषया निघ्नो भवत्य् अन्धवन् निघ्नो दुःखपरम्परापरिभवक्लेशैर् अधिष्ठीयते ॥
कृच्छ्राल् लब्धम् अपि क्रमेण भवति प्रभ्रंशि भूयः सुखं तद्भ्रंशे परितापम् एति पुरुषश् चित्तानलं ज्वालयन्
दुःखस्यास्य भवानुबन्धजननी हेतुः शठा जालिनी ते ऽत्यन्तं सुखिनो मनःसु निहिता यैः सम्यग् अल्पेच्छता ॥
ततो ऽहं राज्यम् उत्सृज्य बहुव्यसनकण्टकम्
शान्त्यै शान्तिपथस्थानं गमिष्यामि तपोवनम् ॥
अथाभिषिच्यानुजम् आहितक्रियं द्विजातिभिर् भ्रातरम् उद्यताशिषम्
विहाय लक्ष्मीं तपसो विवृद्धये वनाय वव्राज स धीरमानसः ॥
मूल पाठ: Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 · Edition: Michael Hahn: "How it all began: I. Haribhaṭṭa's Prabhāsajātaka", Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81 Hahn, Michael: Haribhaṭṭa in Nepal. Ten Legends from His Jātakamālā and the Anonymous Śākyasiṃhajātaka. Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22) Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta · Data entry Michael Hahn Klaus Wille (Jat. 1) · GRETIL (Göttingen) · CC BY-NC-SA 4.0