जातकमाला · अध्याय 19
जानाति क्षान्तिफलं य एव रागादिशान्तिम् अन्विच्छन् ।
कुरुते स एव धीरः प्रहरत्य् अपि वैरिणि क्षान्तिम् ॥
रेजे स यूथपतिर् इन्दुमरीचिगौरो मुक्ताविपाण्डुरदनः पृथुपीनकुम्भः
पुञ्जीकृतः पशुपतेर् इव नृत्तकाले हासो महान् अपहृतक्षणदान्धकारः ॥
वाताहतानि कुसुमानि समुत्सृजन्तः किञ्जल्करेणुपरिपिञ्जरकेसराणि
तं शाखिनस् तुहिनशैलसितं गजेन्द्रं भक्त्याभितुष्टुवुर् इव भ्रमरस्वरेण ॥
विहाय दूरात् कुसुमानि शाखिनां हसत्पलाशानि कुशेशयानि च
कपोलयोस् तस्य मदाम्बुदिग्धयोः शनैर् अलीयन्त मुदा शिलीमुखाः ॥
निरन्तरं पीनकपोलशोभितं समन्ततो वासितदिङ्मुखान्तरम्
स यूथभर्ता पिबतः शनैर् मदं न कर्णतालैर् भ्रमरान् अवारयत् ॥
मनोहरम् अविच्छिन्नं प्राज्यं याचनका इव
जगृहुः षट्पदास् तस्माद् दानं दानपतेर् इव ॥
तस्य भद्रा सुभद्रा च प्रकृत्या भद्रचेतसः
दयिते दयितक्षान्तेर् द्वे करेणू बभूवतुः ॥
परिभ्रमद्भृङ्गकुलाकुलान्तरं सुगन्धिकिञ्जल्कविकीर्णकेसरम्
इदं हसच्चारुपलाशसंचयं मुदा प्रदास्यामि महाकुशेशयम् ॥
सा यत्र दृष्टम् अहनि द्विरदेन तेन दत्तं सुगन्धि विकचं कमलं सपत्न्यै
तत्रेर्ष्यया परिगता न तृणं जघास नाम्भः पपौ ग्लपितमूर्तिर् उदन्ययापि ॥
असद्विकल्पनाहुत्या को नाम समना जनः
ईर्ष्यावह्निशिखाम् इद्धाम् आत्मदाहाय वर्धयेत् ॥
ते सुखं शेरते धीरा नामार्गेण प्रयान्ति ते
न मनोगृहम् अध्यास्ते येषाम् ईर्ष्याभुजङ्गमी ॥
क्षिप्ताभिर् ऊर्ध्वम् अथ वाशितया स भास्वांस् ताभिर् मुनिः कुमुदपङ्क्तिभिर् आबभासे
उद्भासिनीभिर् अचिरद्युतिभासिताङ्गः संध्यापयोधर इवोपरि तारकाभिः ॥
उत्पेतुः प्रचलितचन्द्रका मयूराः शार्दूलो दृशम् उदमीलयत् प्रसुप्तः
संत्रासात् तृणकवलं विहाय दूराद् उत्कर्णं मृगकुलम् आकुलं बभूव ॥
नैष ज्वरो मे हरिचन्दनेन जीमूतशीतेन न मारुतेन
प्रयाति शान्तिं स्फटिकामलेन न चांशुजालेन निशाकरस्य ॥
विन्ध्याचले ऽस्ति द्विरदाधिराजः श्वेताम्बुदाभो गुरुषड्विषाणः
मृणालशुक्लेषु महत्सु तस्य दन्तेषु सन्ति क्षितिपाल मुक्ताः ॥
लिप्येत ताभिर् यदि मे शरीरं पिष्टाभिर् अम्भःकणनिर्मलाभिः
तद्दन्तशय्या यदि मे क्रियेत दाहज्वरस्यास्य ततः शमः स्यात् ॥
दृष्ट्वा प्रव्रजितं शान्तं काषायाम्बरधारिणम्
सुशिष्य इव मेधावी प्रणम्यार्चयति द्विपः ॥
परिधाय ततः सम्यक् काषाये वाससी त्वया
आहन्तव्यः शरेणासौ विषदिग्धेन मर्मणि ॥
काषायवसनः को ऽपि स्फुलिङ्गकपिलेक्षणः
लोहस्तम्भवपुः सत्त्वांस् त्रासयन्न् इव लक्ष्यते ॥
अपत्रपा शान्तिपथस्य सूचकं ध्वजो मुनीनां मदभङ्गकारणम्
कषायरक्तं यदि देहभूषणं जनस्य विश्रम्भनिमित्तम् अम्बरम् ॥
तं संदधानम् इभराजविनाशनाय ज्यायां शरं शितफलं तुचिसारमय्याम्
शाखाकरैः किसलयाङ्गुलिभिस् तरूणां विन्ध्यो न्यवारयद् इव श्वसनावधूतैः ॥
मदमुकुलितनेत्रं कर्णविन्यस्तहस्तं विटपिनि निकषन्तं दानदिग्धं कपोलम्
विदितकुशलमार्गं मार्गणेन द्विपेन्द्रं मृगरिपुर् उपकण्ठं वायुकुम्भे जघान ॥
अथ निपतितकार्मुकोत्तरीयं द्विरदगणेन रुषानुगम्यमानम्
गजपतिर् उपगूढवान् मृगारिं सुतम् इव तं परिसान्त्वयन् भयार्तम् ॥
क्व रिपुर् अयम् अहो कृतापकारो द्विरदपतेः करुणा क्व चेदृशीयम्
क्षितिधरगहनान्तदेवतानां ध्रुवम् इति चेतसि विस्मयो बभूव ॥
निशितशरविभिन्ने तत्र मातङ्गनाथे स्रुतरुधिरलवाङ्कं धूनयत्य् आस्यम् ईषत्
तद् अमुचद् इभयूथं शल्लकीनां सुगन्धीन् उपगतगुरुशोकं पल्लवान् अर्धदष्टान् ॥
तम् उज्जहाराथ शरं गृहीत्वा करेण किंचिन्नतपुष्करेण
बलात् सुभद्रा करिणः करेणुः कोपं पतेः क्षान्तिर् इव स्फुरन्तम् ॥
विषादिनी तस्य गजाधिपस्य बाणव्रणं शोणितलेशदिग्धम्
विच्छिन्नमुक्तागुणसंनिभेन सिषेच सा पुष्करशीकरेण ॥
विगाहमानः सलिलं पिपासया मदेन को मे सुरभीकरिष्यति
इति स्फुटावर्ततरङ्गनिस्वना भृशं विचुक्रोश शुचेव नर्मदा ॥
तवाद्य कच्चिद् विशिखक्षतोद्भवा तनुत्वम् आयाति गजेन्द्र वेदना
इति भ्रमन्त्यश् चटुलाः कपोलयोः शनैर् अपृच्छन्न् इव भृङ्गपङ्क्तयः ॥
विसारिकालागुरुधूमधूसरैर् विलोलविद्युद्वलयाङ्कितोदरैः
घनैर् ललाटंतपम् उष्णदीधितिं समावृणोत् तस्य सुखाय वासवः ॥
प्रसन्नरेवाजलसङ्गशीतलः प्रफुल्लनानाकुसुमाधिवासितः
समागतो बन्धुर् इव द्विपाधिपं शरेण विद्धं व्यजति स्म मारुतः ॥
अपकारिण्य् अपि प्रेम यथास्मिन् मृगलुब्धके
तथानेनाद्य सत्येन क्षयम् आयातु मे विषम् ॥
दन्तार्थं दन्तिनां नाथ क्रूरेणाक्रूरमानस
आहतो ऽसि हतद्वेष मयापात्रेण पत्त्रिणा ॥
इति श्रुत्वा वचस् तस्य व्याधस्य द्विरदाधिपः
उच्चखान विषाणानि करेणादाय निर्व्यथः ॥
बभार स करस् तस्य निबद्धरुधिरस्रुतिः
सक्तबन्धूकमालायाः पुण्डरीकस्रजः श्रियम् ॥
तेनैव सत्यवाक्येन तस्य नाथस्य दन्तिनाम्
उत्पेदिरे क्षणाद् दन्ताः शङ्खच्छेदार्जुनाः पुनः ॥
अथ पुनारदनोद्भवविस्मितः करिपतेः सितवारिधरत्विषः
स रदनान् उपगृह्य वनान्तरान् मृगरिपुः क्षितिपालगृहं ययौ ॥
अहो धिग् ईर्ष्यां गुणपक्षघातिनीं यया मया मोहितमन्दचित्तया
वने वसंस् तापसशान्तमानसः स यूथभर्ता गमितो यमक्षयम् ॥
महात्मना येन चिराय पालितं न शक्यते स्मान्यगजैः प्रबाधितुम्
समाकुलं तेन विनाद्य दन्तिना कथं नु तन् नागकुलं भविष्यति ॥
निरन्तरं यस्य मदं पिपासवः परिभ्रमन्ति स्म मुहुः कपोलयोः
समाकुलास् तेन विनाद्य षट्पदाश् चिराद् उपैष्यन्ति मृणालिनीवनम् ॥
अभून् मुहुस् तस्य गजाधिपस्य यः कपोलकाषेण परिस्फुरत्त्वचः
चिराय तं तन्मदलेशवासितं ध्रुवं सुभद्रा न जहाति शाखिनम् ॥
समुद्रवेलारशनाविभूषिते समुच्छ्वसत्कोमलशाद्वलांशुके
दधासि मां किं पतिमुख्यघातिनीं क्षिते विदारं न ददासि किं नु मे ॥
अथ वचनम् इदं निशम्य तस्मान् नृपमहिषी प्रमनाः पुनर् बभूव
क्षितिपतिर् अपि विस्मयं जगाम द्विरदपतेः करुणां मुहुर् विचिन्त्य ॥
मूल पाठ: Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 · Edition: Michael Hahn: "How it all began: I. Haribhaṭṭa's Prabhāsajātaka", Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81 Hahn, Michael: Haribhaṭṭa in Nepal. Ten Legends from His Jātakamālā and the Anonymous Śākyasiṃhajātaka. Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22) Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta · Data entry Michael Hahn Klaus Wille (Jat. 1) · GRETIL (Göttingen) · CC BY-NC-SA 4.0