जातकमाला · अध्याय 1
विविधक्लेशभुजङ्गाज् जगद् उद्धर्तुं भवौघपातालात् ।
बुद्धत्वाय विशालो न भवत्य् अमहात्मनां प्रणिधिः ॥
यस्यामलस्फटिकभित्तिषु मन्दिरान्तः कर्णावतंसतिलकप्रविलोकिनीनाम् ।
हस्ताः प्रसाधनविधौ मृदवो ऽङ्गनानां नादर्शधारणपरिश्रमदुःखम् ऊहुः ॥
विश्राणनाम्बुपरिवर्धितपुण्यबीजं यं बान्धवा ददृशुर् अम्बुधरायमाणम् ।
यस्यासहन्त बलिनो ऽप्य् अरयो न कोपम् अह्नाय वैद्युतम् इव ज्वलनं पतन्तम् ॥
अस्माभिर् अद्रिगहने करिणां समूहे दृष्टः करी कुमुदराशिर् इवावदातः
मूले नवाम्बुधरवृन्दतिरस्कृतस्य प्रालेयशैलशिखरस्य सरूपमूर्तिः ॥
अथ गजपतिम् आरात् तं स्थितं यूथमध्ये सुरभिविशदगन्धां शल्लकीं खण्डयन्तम् ।
अवनिपतिर् अपश्यद् दानलेखोपकण्ठभ्रमदलिकुलम् ईषत् कर्णतालैः क्षिपन्तम् ॥
अन्योन्यप्रतिघातभिन्नमुखयोर् उद्वृत्तपिङ्गाक्षयोर् आक्षेपेण विकल्पितश्रवणयोः श्वेतासिताभ्रत्विषोः ।
क्रोधाद् उत्क्षिपतोः करौ द्विरदयोः स्थूलौ चलत्पुष्करौ किं चित् पल्लवपाटले गतवती व्यक्तिं तयोस् तालुनी ॥
श्वेतद्विपाधिपविषाणविघट्टनेन संभूतवह्निकणिकाशबलीकृतानि
तस्याथ राजकरिणो रदनाश्रयाणि जातानि लोहवलयानि परिश्लथानि ॥
भग्ने च क्षितिपगजे गजेन तेन व्रीडावान् अभवद् अधोमुखः स यन्ता
तद्यूथं पुनर् अधिगम्य कुञ्जरेन्द्रो गम्भीरो ऽप्य् अवनिपतिः सविस्मयो ऽभूत् ॥
स हस्तिदमको यां यां शिक्षां समुपदिष्टवान्
स्वशिष्य इव मेधावी तां तां जग्राह कुञ्जरः ॥
ततः समानीय महामतङ्गजं मतङ्गजानां मददर्पहारिणम्
विनम्रमूर्धा विनयात् कृताञ्जलिः क्षितीशम् आधोरण ऊचिवान् इदम् ॥
अयं स दान्तः क्षितिपाल वारणः प्रकामम् अन्यक्षितिपालवारणः
गजेन्द्रशिक्षां समुपेत्य सांप्रतं मदो ऽपि नैनं गमयत्य् असांप्रतम् ॥
विनाङ्कुशेनापि विनापि वेणुना न विक्रियां याति विनापि सादिना
मया गृहाणेति पुनः प्रचोदितो गजो ऽयम् अद्याज् ज्वलितान् अयोगुडान् ॥
ततः समारुह्य पराभवन्मदं गजेन्द्रम् एनं तुहिनाचलोपमं
ननु स्वयं रत्नपरीक्षणक्षमः परीक्षतां जातकुतूहलो भवान् ॥
अथ सरसि सलीलं तोयम् अङ्गे क्षिपन्तीं विशदनिगडभङ्गं खण्डयन्तीं मृणालम्
स मृदुगतिर् अपश्यद् दन्तिनीं दन्तिराजः स्फुटितं अभिमृशन्तीं पुष्करं पुष्करेण ॥
कमलगहनमध्ये तां स दृष्ट्वा करेणुं गजपतिर् अभिजघ्ने रागशल्येन चित्ते ।
स्खलितपरुषवाचा वार्यमाणो ऽपि यन्त्रा त्वरिततरम् अधावत् सापि भीता प्रतस्थे ॥
करिणम् अनुपतन्तं प्रस्थितां तां करेणुं विदधतम् इव लेखां पाण्डरां विग्रहेण ।
त्वरितम् अनुपतन्तः सप्तिभिर् वायुनुन्नं वहनम् इव तटस्थाः किं चिद् ऐक्ष्यन्त भृत्याः ॥
न कदा चिद् अहं त्वया निरस्ता किम् इदं निष्करुणत्वम् ईदृशं ते ।
इति षट्चरणावली मुहूर्तं रुदतीवानुजगाम तस्य मार्गम् ॥
गजम् अङ्कुशपातभिन्नकुम्भं स नियन्ता न शशाक तं निरोद्धुम्
पुरुषो ऽपि न शक्यते नियन्तुं किम् उ तिर्यग् मदनान्धमन्दबुद्धिः ॥
पक्वोदुम्बररागपाटलमुखच्छायैः क्षणं निश्चलैर् घण्टाशब्दकुतूहलात् तरुगतैः शाखामृगैर् वीक्षितः ।
मातङ्गः पतिताङ्कुशः कुशचयश्यामां विहाय स्थलीम् उद्ग्रीवैश् च गृहीतशष्पकवलैर् दृष्टो मुहूर्तं मृगैः ॥
यातस्य द्विरदपतेर् अनोकहानां शाखाग्रैर् विलुलितकर्णचामरस्य
दूरत्वान् नयनपथातिगस्य तारं तं घण्टाध्वनिम् अशृणोन् न भूमिपालः ॥
पतितः क्व चित् क्षितिरजःपरुषे गिरिगह्वरे पृथुशिलाविषमे
स निरायुधो ऽद्य वसुधाधिपतिः कथम् आगमिष्यति वनात् सभयात् ॥
विनिपातभग्नशिथिलांसभुजः स तृषाथवा प्रबलया ग्लपितः
कुशसूचिभिन्नमृदुपादतलः कथम् अद्य पास्यति पिपासुर् अपः ॥
अवितर्कितां स गमितः करिणा कथम् आपदं परिवृतो ऽपि जनैः
अथवा सुखासुखफलस्य विधेर् अतिवर्तते क इव नाम पथः ॥
यदि तस्य किं चिद् अशिवं नृपतेर् वयम् अप्य् अभीष्टमरणा नियतम्
हतयूथपं न खलु केसरिणा करिणीकुलं गिरिवने रमते ॥
आधोरणः समुपगम्य स नाम दिष्ट्या स प्राणितीति कथयेद् वसुधातलेन्द्रः
भूयो ऽपि तं स्मितमनोहरवक्त्रचन्द्रं पश्येम नाम नृपतिं श्रियम् उद्वहन्तम् ॥
लुलितविलूनसूत्रनिचयच्युतगुरुतरलं परिमलपाण्डुमौक्तिकगुणस्थगितमृदुतृणम्
उपगिरि हारम् ऐक्षत ततः स नरपतिजनः स्थितचकितातिशुक्लभुजगद्युतिमुषम् अभितः ॥
दृष्ट्वा ततस् तस्य नराधिपस्य त्रासान् नियन्तारम् उदीर्णकम्पम्
कोपाद् अभूतां नयने क्षणेन विकोशरक्तोत्पलरक्तरागे ॥
अथाभिनवघर्मांशु संनिभाद् दन्तिनः पुरः
आकृष्य हुतभुङ्मध्यान् न्यवेशयद् अयोगुडान् ॥
बभाषे च महामात्रं मन्त्रिभिश् चकितैर् वृतः
अवतीर्य गजं दीप्तान् आदयैनान् अयोगुडान् ॥
स तथेति प्रतिश्रुत्य गृहीत्वा वेणुम् अग्रतः
गृहाणेत्य् अवदन् नागं न चासौ वामतां ययौ ॥
तम् अयोगुडम् आदित्सुम् आलोक्य च मतङ्गजम्
संयातम् अब्रवीद् राजा वार्यताम् इति कुञ्जरः ॥
तेन हस्तिदमकेन कुञ्जरे वारिते ऽथ पुनर् ऊचिवान् नृपः
देहमात्रकविनिग्रहे क्षमो न त्व् अयं चपलचित्तनिग्रहे ॥
कृशीकृताङ्गास् तपसा फलाशिनः स्मरेण नीता मुनयो ऽपि विक्रियाम्
मनोदमस् तैर् अपि चेन् न शक्यते प्रकर्तुम् अन्येन कथं करिष्यते ॥
बुद्धा नाम जगन्नाथा भूता भाविन एव च
ते हि स्वपरचेतांसि शक्ता दमयितुं ननु ॥
तस्य बुद्ध इति श्रुत्वा वाक्यं तस्मान् निषादिनः
बहुत्वम् इव संप्राप्तः प्रसादः पुलकोद्गमैः ॥
अविद्यातिमिरान्धानां पुनर्भवनिवृत्तये
यत् तद्बोध्यं पदं शान्तं तद् बुद्धं तैस् तथागतैः ॥
दानशीलक्षमावीर्य ध्यानप्रज्ञासमन्वितैः
घटमानैः प्रयत्नेन बुद्धत्वं प्राप्यते नृभिः ॥
ततो ऽहम् आशु भूयासं भूयोभिः सत्त्वशान्तये
गुणैर् दानादिभिर् युक्तो बुद्धो बोद्धव्यकोविदः ॥
प्रणिधिम् इति महान्तं बोधिसत्त्वे विशुद्धे कृतवति कृतबुद्धौ बुद्धिमन्तो ननन्दुः ।
स्वबलविलयचिन्तावागुरामध्यवर्ती मृग इव शरविद्धो विव्यथे पुष्पकेतुः ॥
मनःक्षेत्रे रूढं प्रणिधितरुम् आनन्दितजनं समुद्भूतप्रायप्रथमकरुणापुष्पसमयम् ।
क्रमेणाच्छिन्नेच्छाविभवमहता दानपयसा फलार्थी भूपालः प्रतिदिनम् असिञ्चत् तरुम् इव ॥
अलंकुर्वाणस्य क्षितिपचरितं व्योमविपुलं बिभित्सोर् दुर्भेदं पिहितजगदज्ञानतिमिरम् ।
वितेने राजेन्दोः प्रणिधिशरदारम्भविमला भृशं दानज्योत्स्ना प्रणयिकुमुदानन्दजननी ॥
भृत्यान् भृशं च कलभान् इव पालयन्तं लक्ष्मीं चिराय करिणीम् इव रञ्जयन्तम्
दानार्थिनः प्रणयिनः परिवव्रुर् एत्य तं नृपतिं मधुकरा इव वारणेन्द्रम् ॥
दुरासदो वह्निर् इवाभवत् पुरा य एव संरम्भविजिह्मितेक्षणः
स एव बोधौ विनिबद्धनिश्चयो जनस्य जज्ञे ह्रदवन् नराधिपः ॥
अपेतमात्सर्यतमः शरीरिणां क्रमात् स्वभावान्तरम् एति मानसम्
य एव धूमो नयनप्रबाधनः स एव मेघत्वम् उपैति संचितः ॥
अतिदानपरायणस्य राज्ञः प्रददौ भृत्यजनो ऽपि तस्य दानम्
ऋतुर् एव स तादृशो हि कश् चित् तरवो भूरिफला भवन्ति यत्र ॥
अवलोक्य नृपं गुणानुरक्तं प्रकृतीनाम् अपि जायते गुणेच्छा
शशिनः प्रभयानुविध्यमानो विमलं वारि ददाति चन्द्रकान्तः ॥
सगुणेन जनेन युज्यमानः सुमनाः को न भवेद् गुणानुरागी
मुनिगोचरम् एत्य मन्दबुद्धिस् त्यजति व्यालमृगो ऽपि रौद्रभावम् ॥
इति बुद्धगुणानुरूपवर्णां गिरम् आकर्ण्य मनोहरां नियन्तुः
अभवद् भवबन्धभङ्गहेतुः प्रणिधिः प्राक्तन एष शाक्यसूनोः ॥
मूल पाठ: Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 · Edition: Michael Hahn: "How it all began: I. Haribhaṭṭa's Prabhāsajātaka", Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81 Hahn, Michael: Haribhaṭṭa in Nepal. Ten Legends from His Jātakamālā and the Anonymous Śākyasiṃhajātaka. Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22) Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta · Data entry Michael Hahn Klaus Wille (Jat. 1) · GRETIL (Göttingen) · CC BY-NC-SA 4.0