जातकमाला · अध्याय 12
शीलं परिपालयता त्राताः सत्त्वा मयूरभूतेन ।
प्राणभयाद् येन पुरा कस् तत्र न रोपयेद् भक्तिम् ॥
मयूरवरम् उत्पाद्य तं विचित्रतनूरुहम्
विस्मिता इव पश्यन्तो बभूवुः कर्मशिल्पिनः ॥
मेघारम्भे जातनृत्यानुरागं पश्यन्तीनां तं मयूराधिराजम्
स्तोकोद्द्योता ह्रीमतीनाम् इवासन् मन्दा विद्युल्लासिकानां विलासाः ॥
मृदङ्गवद् ध्वानिनि वारिनिर्झरे द्विरेफवीणासु कलस्वनासु च
लतावनान्तर्गृहके मनोहरे ननर्त चित्रं स मयूरलासकः ॥
परिस्फुरच्चन्द्रकरत्नमण्डलस् तटान्तम् आरुह्य यदा ननर्त सः
समीरणाधूतवनो हिमाचलस् तदा विभाति स्म किरीटवान् इव ॥
कान्तं वितन्वति कलापम् अनङ्गवध्वा चित्रे विशेषक इवालिखिते धरित्र्याम्
तत्र स्थिता शिखिनि सिद्धविलासिनीनां गाढं कुतूहलवशान् न ततर्प दृष्टिः ॥
आपाण्डुमेघपटलावृतदिङ्मुखान्ते मुक्तामलाम्भसि शरत्समये ऽभ्युपेते
यस्यां स चन्द्रकमणीन् असृजत् कलापी भूर् इन्द्रनीलशकलैर् इव सा बभासे ॥
कान्ते विचेरुषि शनैर् अपुलाकपक्षे यूथानुयातगमने कुशलैकपक्षे
तस्मिन् महीधरवरस्य मयूरराज इन्द्रायुधैः शबलितेव मही रराज ॥
वद कस्य ध्वनिर् अयं तारस् ताराधिपानन
येन प्रतार्यमाणेन मम प्रह्लादितं मनः ॥
पुरुषाणां तिरश्चां वा गुणा एव प्रकाशकाः
भिन्नान्धकारनिवहा मणीनाम् इव रश्मयः ॥
मयूराकृतिम् आस्थाय को ऽपि केनापि हेतुना
नयनोत्सवभूतो ऽसौ स्थितो गौरीगुरोर् वने ॥
शिखियूथाधिपतिना तेनालंकृतगह्वरः
नाथवन्तम् इवात्मानं मन्यते तुहिनाचलः ॥
गर्जितेन प्रयच्छन्तः साधुवादम् इवाम्बुदाः
बद्धनृत्तं तम् ईक्षन्ते स्फुरद्भिस् तडिदीक्षणैः ॥
घनसमयनाटकादाव् आहूता बर्हिसूत्रधारेण ।
सहसा तडिद् आत्मानं दर्शयति नटीव सविलासम् ॥
अन्तःपुरमध्यगतस्फुट चन्द्रकधारिणा मयूरेण
विविधमणिकर्णपूरेव तेन नो गृहमही भवतु ॥
सृजतः सुरभीन् मदाम्बुबिन्दून् बलिनो ऽपि द्विरदान् वशं नयन्ति
पुरुषाः पटुवीर्यबुद्ध्युपायाः किम् उत स्वल्पबलोदयान् विहङ्गान् ॥
ह्रियते बडिशेन वारिमध्यात् पृथुरोमा नयनाध्वनश् च्युतो ऽपि
किम् उपायवताम् असाध्यम् अस्ति व्यवसाये हि सति क्रियाः फलन्ति ॥
भवतो ऽस्ति मतिर् विशेषपट्वी बहवः सन्ति विपश्चितः सहायाः
सफलीक्रियते न चेन् ममेच्छा भवता स्नेहपराङ्मुखो ऽसि नूनम् ॥
शावान् कुलायकगतान् परिपातुकामा नद्याः प्रगृह्य तनुपक्षपुटेन तोयम्
दावानलं किल सिषेच मुहुः कपोती स्निग्धो जनो न खलु चिन्तयति स्वपीडाम् ॥
विलासिनीनां मदनानुकर्षिणा विलासपाशेन निबद्धमानसः
शुभाशुभान्वेषणसुप्तचेतनः प्रयात्य् अनिघ्नो ऽपि हि निघ्नतां जनः ॥
अमर्त्यतेजोऽवयवान् अवाप्य या तिलोत्तमेति प्रथिता सुराङ्गना
त्रिलोकनाथो ऽपि तयात्मशोभया चतुर्मुखत्वं गमितस् त्रिलोचनः ॥
तपोनिधिं गाधिसुतं तपोवने महाधियं मेनकया हृतेन्द्रियम्
अवज्ञयाकृष्य मृणालकार्मुकं शरेण विव्याध हसन् मनोभवः ॥
यद् एधते लाघवहेतुर् अर्थिता पतन्ति यन् मूर्ध्नि निकारपांसवः
स्पृशन्त्य् अधिक्षेपशराश् च यन् मनस् तद् अङ्गनाभिः क्रियते शरीरिणाम् ॥
आबध्य व्यवसायवर्म पुरतो विन्यस्य तृष्णाचमूम् आरोप्य प्रसभं नितान्तकठिनं निर्व्रीडताकार्मुकम्
अर्थित्वाहवमध्यम् एत्य विवशाः सीमन्तिनीभिः कृता नीचेभ्यो ऽपि सहन्त एव पुरुषा भ्रूभङ्गबाणव्रणम् ॥
प्रालेयाद्रेस् तुङ्गसानोर् उपघ्ने न्यस्तं यद् यत् तेन शाकुन्तिकेन
तेनात्यर्थं बर्हिणा दृष्टमात्रं तत् तद् दूराच् चिच्छिदे पाशजालम् ॥
दृष्ट्यानेन श्रीमता पुण्यधाम्ना छिन्नाः पाशा गाढबन्धा यथेमे
साधोर् अस्य प्राप्तबोधेस् तथैव प्रज्ञाशस्त्रं छेत्स्यति क्लेशपाशान् ॥
प्राणविच्छेदभीतानां शरण्य शरणार्थिनाम्
श्वेतापाङ्गपते भूयास् त्वम् एव शरणं हि नः ॥
दृष्ट्या च्छिन्नास् त्वया पाशाः शङ्खच्छेदसितान्तया
स त्वम् ईदृक्प्रभावः सन् कथम् अस्मान् न पास्यसि ॥
तम् आलोकयतो दीनं मग्नं बन्धुम् इवापदि
आपुपूरे मनस् तस्य दुःखेन करुणात्मनः ॥
न त्रास्यते कथं सत्त्वान् धीरो ऽयं व्यसनाद् इति
शीलपारमिता तस्मिन् निःसंदिग्धेव तस्थुषी ॥
मां चेन् न संत्यजसि बोधिम् अवाप्तुकाम एतान् मयूरवर पाहि नरेन्द्रदण्डात्
तं शीलपारमितया जनितप्रसादम् इत्थं कृपा शिखिनम् उक्तवतीव साध्वी ॥
मधुरस्वरः सुरुचिराङ्गरुहो यदि नाभविष्यम् अहम् अत्र वने
न नरेश्वराद् अकरुणप्रकृतेर् भयम् आगमिष्यद् इति शाकुनिकान् ॥
इति मन्निमित्तम् अयम् आर्तमना व्यसनं न यावद् उपयाति जनः
परिचोदितः क्षितिभुजा मरणात् परिपालयामि खलु तावद् इमम् ॥
अकारणे वा सति वापि कारणे समेत्य यन् नाम परो विनश्यति
अनेकधिग्वादशरक्षतात्मना किम् ईदृशा तस्य जनस्य जन्मना ॥
अथ जालगवाक्षवर्तिनीनाम् अबलानां वदनैर् विशालनेत्रैः
शिखिदर्शनजातसंभ्रमाणां बहुचन्द्रेव भृशं पुरी रराज ॥
कौतूहलाद् अनिलवेल्लितकाकपक्षा रंहस्विनो हरिणशावमनोहराक्षाः
आलोकिताः प्रमनसा जननीजनेन निर्जग्मुर् उन्नतमुखाः शिशवो गृहेभ्यः ॥
क्रीडां विहाय च मनोहरकन्दुकोत्थां स्वेदावबद्धकणचारुललाटदेशाः
किंचित्कुचोद्गमसमुन्नमितोत्तरीया निश्चक्रमुः प्रतनुबाहुलताः कुमार्यः ॥
अयम् अयम् इति बर्ही दर्शनप्रोन्नताभिः स्फुटनखमणिभाभिः पद्मपत्त्रारुणाभिः
स्मितरुचिरमुखीनां राजसीमन्तिनीनां किसलयितम् इवासीद् अङ्गुलीभिः पुरं तत् ॥
युगपद् अथ जनानां विद्रुमाकारतुण्डे शिखिनि गुरुकलापे दृष्टयस् तत्र पेतुः
ददति धनम् उदारे क्षिप्रम् आशाः समन्ताद् अभिलषितफलानाम् अर्थिनां दातरीव ॥
राजा च राजमहिषी च मयूरराजम् आलोक्य तं तुतुषतुः समवाप्य कामम्
लोकस्य दुर्लभम् अवाप्य हि वस्तु किंचित् खिन्नं प्रमोदमुदम् उद्वहतीव चेतः ॥
जित्वेन्द्रियाणि बलवन्ति बलेन बुद्धेर् युञ्जन् मुहुः प्रणयिनां प्रणयं फलेन
एतां समुद्रवसनां व्यसनान्य् अपास्य भुपाल पालय चिरं पृथिवीं नयेन ॥
तव धर्ममयाः कच्चिद् एधन्ते धर्मसेतवः
अगाधं दुःखजलधिं यान् आलम्ब्योत्तरिष्यसि ॥
रन्ध्रावलोकिभिः क्रूरैर् दुर्गृहीतैर् इवाहिभिः
कच्चिद् दृष्टमहादोषैर् विषयैर् नातिबाध्यसे ॥
भृत्येषु च विनीतेषु कलत्रेषु सुतेषु च
कच्चित् ते कुशलं राजन् देहे चात्र यशोनिधौ ॥
भवत्य् अकुशलं तावन् मयूराधिप देहिनाम्
परार्थपटुना यावत् संगमो न भवादृशा ॥
संचरन्मुरजमेघनिस्वनं नर्तकीतडिदलंकृतान्तरम्
त्वाम् अवाप्य शिखिराज मन्दिरं वारिवाहसमयायते मम ॥
कान्तामुखस्य तिलको नभसः शशाङ्कः स्वच्छप्रभस्य मणिर् आभरणस्य शुद्धः
जातश् चिराभिलषितो ऽस्य मयूरनाथ मद्वेश्मनश् च महतस् त्वम् अलंकरिष्णुः ॥
साथ क्षितीशमहिषी महिषीविषाण धूम्रालकाकुलमुखी परिपाण्डुराङ्गी
वातायनप्रसृतम् आयतपक्ष्मलेखं चक्षुश् चिरं व्रजति धूर्तविटे बबन्ध ॥
दृष्ट्वा च तां सुनयनां नयनाभिरामां भित्तेः समीपम् अगमद् विटपुङ्गवो ऽसौ
पार्श्वानि वीक्ष्य चकिता च पुनः पुनः सा कर्णोत्पलं सुरभि तस्य मुमोच गात्रे ॥
आदाय तत् कुवलयं विकसत्पलाशम् आघ्राय मूर्ध्नि च निवेश्य स जृम्भमाणः
अस्तं विवस्वति गते विवशः कथंचित् तस्याः क्रमेण नयनानुगतः प्रतस्थे ॥
गत्वा ततः स गणिकाभवनं विलासी गाढं वितानहृदयः शयने निविश्य
निश्वाससूचितमनोभवबाणपातस् तस्याः प्रकामम् उदकण्ठत वीतधैर्यः ॥
ऊचे विटो गणिकया परिहासपूर्वं पश्यामि शून्यम् इव सांप्रतम् आर्यपुत्रम्
धूर्तस् ततः स निजगाद निगूढभावो द्यूते जितो ऽहम् इति तेन वितानता मे ॥
वातायनं समवलम्ब्य विलासवत्या हासस्फुरद्दशनरत्नमयूखभासा
नाम्ना तयानुपमयोत्पलम् उत्पलाक्ष्या रूपेण चानुपमयोपरि मे विमुक्तम् ॥
सा वातयानमुखसंगतचन्द्रवक्त्रा चन्द्रप्रभां दशनरत्नरुचा हरन्ती
भ्रूकार्मुकेण सविलासम् उदीरितेन चक्षुःशरं मयि विमुक्तवती कृशाङ्गी ॥
विनीतनिद्राकुललोचनोत्पला प्रवेपिताङ्गी जघनच्युताम्बरा
ससाध्वसा को ऽयम् इति प्रभाषिणी भविष्यति व्याघ्रभयान् मृगीव सा ॥
पुष्पायुधप्रतिनिधे भवनान्तगामी दृष्टो यदानुपमयासि नरेन्द्रपत्न्या
सा मे सखी करतलार्पितवक्त्रपद्मा कार्श्यं तदाप्रभृति पाण्डुरतां च धत्ते ॥
तनुतरम् अमृणालपङ्कपाण्डु च्युतधृति सांप्रतम् अङ्गम् उद्वहन्त्याः
मनसि मनसिजः शरान् अशेषान् अविरतम् अस्यति मे वयस्य सख्याः ॥
कुसुमशयनम् ऊष्मणाङ्गजेन प्रतिदिवसं वितपत्य् अनङ्गतन्वी
उपवनम् अपि चारु वीक्षमाणा न च रमते हरिणीव यूथमुक्ता ॥
इति कुसुमधनुःशराहताङ्गीम् अविरतनिश्वसितस्फुरत्कपोलाम्
अवनमितमुखीं ह्रिया सुगात्रां रमय सखीं वचसापि तावद् अद्य ॥
उपरि ममोत्पलम् असितं कर्णाद् आदाय यत् त्वया मुक्तम् ।
जीवितम् इव तद् दयितं म्लानम् अपि न संत्यजाम्य् एतत् ॥
शिखिने विषसंपृक्तम् आहारम् उदकं च सा
ददाव् अस्ववशीभूता रागेण च भयेन च ॥
अपेतकौलीनभयः सुखाशया विमोहितः पुण्यसपत्नभूतया
अनात्मवान् किं न करोत्य् असांप्रतं गतत्रपो रागपरायणो जनः ॥
एतौ स्त्रीपुंसौ जातरागान्धबुद्धी यावद् वाधूक्यं सांप्रतं नोपयातः
धर्म्यां कुर्वाणः संकथां कापथघ्नीं तावद् वैराग्यं नेतुम् एनौ यतिष्ये ॥
अहो हास्यज्योत्स्नापरिचयमनोज्ञो मुखशशी सलीलप्रस्थानं स्तनयुगलम् उच्छ्रायि सुभगम्
नरस्येत्थं मोहात् परयुवतिरूपं कलयतः प्रसंख्यानाभावात् कुसुमधनुर् अन्तः प्रविशति ॥
निरुन्धाना हस्तं मम रहसि नीवीशिथिलिनं भविष्यत्य् एवं सा प्रथमतरलज्जानतमुखी
इति स्त्रीसङ्गार्थं बहुविधविकल्पान्धमनसः शरीरं रन्ध्रेक्षी प्रतिदिनम् अनङ्गः क्रशयति ॥
आगच्छेत् पुनर् अद्य सा गुरुभयात् तस्याः कुतो ऽभ्यागमः शर्वर्याम् अथवाहम् एव चकितं गच्छामि सुप्ते जने
दूत्याप्य् अद्य चिरं कृतं किम् उ मनस् तस्या निवृत्तं भवेद् इत्य् आरूढविकल्पनाकुलधियः किं तत् सुखं कामिनः ॥
प्रभवत्य् अनङ्गदहनस् तापस् ततो जायते संतापाद् अरतिः स्मृतेः प्रमथनी स्मृत्या विना ह्रीः कुतः
ह्रीभङ्गाद् वचनीयतापरिभवः क्लेशेषुविद्धात्मनोः स्याताम् आधिमतोः कदा नु सुखिनी स्त्रीपुंसयोश् चेतसी ॥
अक्षाणां वशम् आगतः सुखम् इति व्यामोहितश् चिन्तया कामार्तः परयोषिते स्पृहयति व्रीडाविहीनो जनः
श्लिष्यन्तीं स्त्रियम् आयसीं हुतवहज्वालास्फुलिङ्गाकुलां सोढुं शक्ष्यति तां कथं नु नरके प्रादुर्भवद्वेपथुः ॥
इति परदारासङ्गं बहुदोषम् अवेत्य धैर्यम् आलम्ब्य ।
भगिनीसंज्ञां कृत्वा तस्मात् प्राज्ञो निवर्तेत ॥
अहो त्वद् एनां नरकोपवर्णनां प्रकामम् आकर्ण्य मुहुर् भयंकरीम्
उदर्चिषं नारकजातवेदसं विलोकयामीव समुत्थितध्वनिम् ॥
तद् अद्यारभ्य रागान्ध जनचित्तापहारिणे
नमो ऽस्तु परदाराय सुगतिद्वाररोधिने ॥
शुभाशुभपथाख्यान व्यक्तीकृतविनिश्चयः
आचार्यम् इव पश्यामि भवन्तम् अनुशासकम् ॥
इमां च राजमहिषीम् अखण्डितपतिव्रताम्
अपेतरागतिमिरो मन्ये ऽहं भगिनीम् इव ॥
मैत्रीमन्त्रेण मे नित्यं शरीरम् अभिमन्त्रितम्
नैव हालाहलेनापि विषेनायाति विक्रियाम् ॥
देवि मा स्म गमः शङ्कां मदपायकृताम् इति
न चाहं कथयिष्यामि किंचिद् ईदृङ् महीभुजे ॥
मम विरहविषाददीनचित्तं न पिबति वारि फलं न चापि भुङ्क्ते
जलधरसमये ऽपि वीतनृत्तं शिखिकुलम् आकुलतां ध्रुवं प्रयातम् ॥
इति नरवर पालय त्वम् एनां भुवम् अखिलां विजितेन्द्रियारिवर्गः
अहम् अपि हिमवन्तम् इन्दुगौरं त्वदनुमतः शिखिपालनाय यामि ॥
इति तम् अभिदधानम् इन्द्रनील च्छविगलम् आयतचारुबर्हभारम्
कथम् अपि गमनाय यूथनाथं नगरवराद् अनुमन्यते स्म राजा ॥
नृपतिनाथ समुत्सुकचेतसा पुरजनेन च तेन विलोकितः
अभजताम्बरम् अम्बुदसंवृतं शिखिवरः शिखिनां हितकाम्यया ॥
अथ विलोक्य मनोहरम् अम्बरे शिखिनम् आयतबर्हभरालसम्
अमुचद् उत्सुकतां समुपागतं नयनवारिकणान् अवरोधनम् ॥
तीव्रे मनोधृतिभिदि प्रियविप्रयोगे रूढं यद् अश्रु मतिलोचनसंनिरोधे
तन् मूर्तिमन् नियतम् आधिहुताशतापाद् दुःखं द्रवीभवति सङ्गवतो जनस्य ॥
दृष्ट्वा ततश् चलकलापशिरोधरं तं दूरान् मयूरवृषभं नभसा व्रजन्तम्
प्रत्युद्ययुश् चलितपक्षपुटाः प्रतीताः केकाः कलाः कलगिरः शिखिनः सृजन्तः ॥
अथ शिखिनि समेते तत्र भूपालपार्श्वाद् गुणवति सुहृदीव प्राप्तसर्वाभिलाषे
तुहिनगिरिर् उदग्रं प्रीतिम् आविश्चकार प्रविसृतहिमहासः शष्परोमोद्गमेन ॥
मूल पाठ: Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 · Edition: Michael Hahn: "How it all began: I. Haribhaṭṭa's Prabhāsajātaka", Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81 Hahn, Michael: Haribhaṭṭa in Nepal. Ten Legends from His Jātakamālā and the Anonymous Śākyasiṃhajātaka. Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22) Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta · Data entry Michael Hahn Klaus Wille (Jat. 1) · GRETIL (Göttingen) · CC BY-NC-SA 4.0