भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · अध्याय 9

9.1

इत्य् अभिप्रशस्यैनं शक्रो देवेन्द्रः सद्यःक्षतरोहणसमर्थैर् दिव्यमानुष्यकैर् औषधविशेषैर् निर्वेदनं यथापौराणं शरीरं कृत्वा दाक्षिण्यविनयोपचारमधुरं प्रतिपूजितस् तेन राज्ञा स्वम् आवासं प्रतिजगाम ॥
तद् एवं परदुःखातुरा नात्मसुखम् अवेक्षन्ते महाकारुणिका इति
को नाम धनमात्रके ऽप्य् अवेक्षां नोत्स्रष्टुम् अर्हतीति दायकजनसमुत्तेजनायां वाच्यं करुणावर्णे ऽपि तथागतमाहात्म्ये सत्कृत्य धर्मश्रवणे च । यच् चोक्तं भगवता बहुकराः खल्व् एते पञ्चका भिक्षव इति स्याद् एतद् अभिसंधाय । तेन हि समयेन ते पञ्च यक्षा बभूवुः । तेषां भगवता यथाप्रतिज्ञातम् एव प्रथमं धर्मामृतसंविभागः कृत इति ॥
मैत्रीबलजातकम् अष्टमम् ॥
9. विश्वंतरजातकम्
न बोधिसत्त्वचरितं सुखम् अनुमोदितुम् अप्य् अल्पसत्त्वैः प्राग् एवाचरितुम् ॥
तद्यथानुश्रूयते । सात्मीभूतेन्द्रियजयः पराक्रमनयविनयसंपदा समधिगतविजयश्रीर् वृद्धोपासननियमात् त्रय्यान्वीक्षिक्योर् उपलब्धार्थतत्त्वः स्वधर्मकर्मानुरक्ताभिर् अनुद्विग्नसुखोचिताभिर् अनुरक्ताभिः प्रकृतिभिः प्रकाश्यमानदण्डनीतिशोभः सम्यक्प्रवृत्तवार्त्ताविधिः संजयो नाम शिबीनां राजा बभूव ।
गुणोदयैर् यस्य निबद्धभावा कुलाङ्गनेवास नराधिपश्रीः ।
अतर्कणीयान्यमहीपतीनां सिंहाभिगुप्तेव गुहा मृगाणाम्

9.2

तपःसु विद्यासु कलासु चैव कृतश्रमा यस्य सदो ऽभ्युपेताः ।
विशेषयुक्तं बहुमानम् ईयुः पूजाभिर् आविष्क्रियमाणसाराः

9.3

तस्य राज्ञो राज्यप्रतिपत्त्यनन्तरः प्रथितगुणगणनिरन्तरो विश्वंतरो नाम पुत्रो युवराजो बभूव । अयम् एव स भगवांस् छाक्यमुनिस् तेन समयेन ।
युवापि वृद्धोपशमाभिरामस् तेजस्व्य् अपि क्षान्तिसुखस्वभावः ।
विद्वान् अपि ज्ञानमदानभिज्ञः श्रिया समृद्धो ऽप्य् अवलेपशून्यः

9.4

दृष्टप्रयामासु च दिक्षु तस्य व्याप्ते च लोकत्रितये यशोभिः ।
बभूव नैवान्ययशोलवानां प्रसर्तुम् उत्साह इवावकाशः

9.5

अमृष्यमाणः स जगद्गतानां दुःखोदयानां प्रभुतावलेपम् ।
दानेषुवर्षी करुणोरुचापस् तैर् युद्धसंरम्भम् इवाजगाम

9.6

स प्रत्यहम् अभिगतम् अर्थिजनम् अभिलषिताधिकैर् अक्लिष्टैर् अर्थविसर्गैः प्रियवचनोपचारमनोहरैर् अतीव प्रह्लादयाम् आस । पर्वदिवसेषु च पोषधनियमप्रशमविभूषणः शिरःस्नातः शुक्लक्षौमवासा हिमगिरिशिखरसंनिकाशं मदलेखाभ्यलंकृतमुखं लक्षणविनयजवसत्त्वसंपन्नं गन्धहस्तिनं समाज्ञातम् औपवाह्यं द्विरदवरम् अभिरुह्य समन्ततो नगरस्याभिनिविष्टान्य् अर्थिजननिपानभूतानि स्वानि सत्त्रागाराणि प्रत्यवेक्षते स्म । तथा च प्रीतिविशेषम् अधिजगाम ।
न हि तां कुरुते प्रीतिं विभूतिर् भवनाश्रिता ।
संक्राम्यमाणार्थिजने सैव दानप्रियस्य याम्

9.7

अथ कदा चित् तस्यैवंविधं दानप्रसङ्गं प्रमुदितहृदयैर् अर्थिभिः समन्ततो विकीर्यमाणम् उपलभ्यान्यतमो भूम्यनन्तरस् तस्य राजा शक्यो ऽयम् अतिसंधातुं दानानुरागवशगत्वाद् इति प्रतर्क्य द्विरदवरापहरणार्थं ब्राह्मणांस् तत्र प्रणिदधे ॥ अथ ते ब्राह्मणा विश्वंतरस्य स्वानि सत्त्रागाराणि प्रत्यवेक्षमाणस्य प्रमोदाद् अधिकतरनयनवदनशोभस्य जयाशीर्वादमुखराः समुच्छ्रिताभिप्रसारितदक्षिणाग्रपाणयः पुरस्तात् समतिष्ठन्त । स तं विनिगृह्य द्विरदवरम् उपचारपुरःसरम् अभिगमनप्रयोजनम् एनान् पर्यपृच्छद् आज्ञाप्यतां केनार्थ इति ॥ ब्राह्मणा ऊचुः ।
अमुष्य तव नागस्य गतिलीलाविलम्बिनः ।
गुणैर् अर्थित्वम् आयाता दानशौर्याच् च ते वयम्

9.8

कैलासशिखराभस्य प्रदानाद् अस्य दन्तिनः ।
कुरुष्व तावल् लोकानां विस्मयैकरसं मनः

9.9

इत्य् उक्ते बोधिसत्त्वः प्रीत्या समापूर्यमाणहृदयश् चिन्ताम् आपेदे । चिरस्य खलूदारप्रणयसुमुखम् अर्थिजनं पश्यामि । कः पुनर् अर्थ एवंविधेन द्विरदपतिनैषां ब्राह्मणानाम् । व्यक्तम् अयं लोभेर्ष्यादोषपर्याकुलमनसः कस्यापि राज्ञः कार्पण्यप्रयोगः ।
आशाविघातदीनत्वं तन् मा भूद् अस्य भूपतेः ।
अनादृत्य यशोधर्मौ यो ऽस्मद्धित इवोद्यतः

9.10

इति विनिश्चित्य स महात्मा त्वरितम् अवतीर्य द्विरदवरात् प्रतिगृह्यताम् इति समुद्यतकाञ्चनभृङ्गारस् तेषां पुरतो ऽवतस्थे ॥
ततः स विद्वान् अपि राजशास्त्रम् अर्थानुवृत्त्या गतधर्ममार्गम् ।
धर्मानुरागेण ददौ गजेन्द्रं नीतिव्यलीकेन न संचकम्पे

9.11

तं हेमजालरुचिराभरणं गजेन्द्रं विद्युत्पिनद्धम् इव शारदम् अभ्रराशिम् ।
दत्त्वा परां मुदम् अवाप नरेन्द्रसूनुः संचुक्षुभे तु नगरं नयपक्षपातात्

9.12

अथ द्विरदपतिप्रदानश्रवणात् समुदीर्णक्रोधसंरम्भाः शिबयो ब्राह्मणवृद्धा मन्त्रिणो योधाः पौरमुख्याश् च कोलाहलं समुपजनयन्तः संजयं राजानम् अभिगम्य ससंभ्रमामर्षसंरम्भात् परिशिथिलोपचारयन्त्रणम् ऊचुः । किम् इयं देव राज्यश्रीर् विलुप्यमानैवम् अप्य् उपेक्ष्यते । नार्हति देवः स्वराज्योपप्लवम् एवम् अभिवर्धमानं मर्षयितुम् । किम् एतद् इति च सावेगम् उक्ता राज्ञा पुनर् एनम् ऊचुः । कस्माद् देवो न जानीते ।
निषेव्य मत्तभ्रमरोपगीतं यस्याननं दानसुगन्धि वायुः ।
मदावलेपं परवारणानाम् आयासदुःखेन विना प्रमार्ष्टि

9.13

यत्तेजसाक्रान्तबलप्रभावाः संसुप्तदर्पा इव विद्विषस् ते ।
विश्वंतरेणैष गजः स दत्तो रूपी जयस् ते ह्रियते ऽन्यदेशम्

9.14

गावः सुवर्णं वसनानि भोज्यम् इति द्विजेभ्यो नृप देयरूपम् ।
यस्मिञ् जयश्रीर् नियता द्विपेन्द्रे देयः स नामेत्य् अतिदानशौर्यम्

9.15

नयोत्पथेनैनम् इति व्रजन्तं कथं समन्वेष्यति राजलक्ष्मीः ।
नोपेक्षणं देव तवात्र युक्तं पुरायम् आनन्दयति द्विषस् ते

9.16

तच् छ्रुत्वा स राजा पुत्रप्रियत्वात् किं चित् तान् एव प्रत्य् अप्रीतमनाः कार्यानुरोधात् सावेगवद् एवम् इत्य् उक्त्वा समनुनेष्यञ् छिबीन् उवाच । जाने दानप्रसङ्गव्यसनितां नीतिक्रमानपेक्षां विश्वंतरस्य न चैष क्रमो राज्यधुरि संनियुक्तस्य । दत्तं त्व् अनेन स्वं हस्तिनं वान्तकल्पं कः प्रत्याहरिष्यति । अपि तु तथाहम् एनं करिष्ये यथा दाने मात्रां ज्ञास्यति । तद् अलम् अत्र वः संरम्भेणेति ॥ शिबय ऊचुः । न खलु महाराज परिभाषणामात्रसाध्यो ऽस्मिन्न् अर्थे विश्वंतर इति ॥ संजय उवाच । अथ किम् अन्यद् अत्र मया शक्यं कर्तुम् ।
दोषप्रवृत्तेर् विमुखस्य यस्य गुणप्रसङ्गा व्यसनीक्रियन्ते ।
बन्धो वधो वात्मसुतस्य तस्य किं निष्क्रयः स्याद् द्विरदस्य तस्य

9.17

तद् अलम् अत्र वः संरम्भेण । निवारयिष्याम्य् अहम् अतो विश्वंतरम् इति ॥ अथ शिबयः समुदीर्णमन्यवो राजानम् ऊचुः ।
को वा वधं बन्धनताडनं वा सुतस्य ते रोचयते नरेन्द्र ।
धर्मात्मकस् त्व् एष न राज्यभारक्षोभस्य सोढा करुणात्मकत्वात्

9.18

सिंहासनं तेजसि लब्धशब्दास् त्रिवर्गसेवानिपुणा भजन्ते ।
धर्मातिरागान् नयनिर्व्यपेक्षस् तपोवनाध्यासनयोग्य एषः

9.19

फलन्ति कामं वसुधाधिपानां दुर्नीतिदोषास् तदपाश्रितेषु ।
सह्यास् त एषां तु तथापि दृष्टा मूलोपरोधान् न तु पार्थिवानाम्

9.20

किम् अत्र वा बह्व् अभिधाय निश्चयस् त्व् अयं शिबीनां त्वदभूत्यमर्षिणाम् ।
प्रयातु वङ्कं तपसो ऽभिवृद्धये नृपात्मजः सिद्धनिषेवितं गिरिम्

9.21

अथ स राजा स्नेहप्रणयविश्रम्भवशाद् अनयापायदर्शिना हितोद्यतेन तेन जनेन परिनिष्ठुरम् इत्य् अभिधीयमानः प्रकृतिकोपाद् व्रीडावनतवदनः पुत्रवियोगचिन्तापरिगतहृदयः सायासम् अभिनिश्वस्य शिबीन् उवाच । यद्य् एष भवतां निर्बन्धस् तद् एकम् अपि तावद् अहोरात्रम् अस्य मृष्यताम् । प्रभातायां रजन्याम् अभिप्रेतं वो ऽनुष्ठाता विश्वंतर इति । एवम् अस्त्व् इति च प्रतिगृहीतानुनयः शिबिभिः स राजा क्षत्तारम् उवाच । गच्छेमं वृत्तान्तं विश्वंतराय निवेदयेति । स तथेति प्रतिश्रुत्य शोकाश्रुपरिषिक्तवदनो विश्वंतरं स्वभवनगतम् उपेत्य शोकदुःखावेगात् सस्वरं रुदन् पादयोर् अस्य न्यपतत् । अपि कुशलं राजकुलायेति च ससंभ्रमं विश्वंतरेणानुयुक्तः समवसीदन्न् अविशदपदाक्षरम् एनम् उवाच । कुशलं राजकुलायेति । अथ कस्माद् एवम् अधीरो ऽसीति च पुनर् अनुयुक्तो विश्वंतरेण क्षत्ता बाष्पवेगोपरुध्यमानगद्गदकण्ठः श्वासविस्खलितलुलिताक्षरं शनैर् इत्य् उवाच ।
सान्त्वगर्भाम् अनादृत्य नृपाज्ञाम् अप्य् अदक्षिणाः ।
राष्ट्रात् प्रव्राजयन्ति त्वां कुपिताः शिबयो नृप

9.22

विश्वंतर उवाच । मां शिबयः प्रव्राजयन्ति कुपिता इति कः संबन्धः ।
रमे न विनयोन्मार्गे द्वेष्मि चाहं प्रमादिताम् ।
कुत्र मे शिबयः क्रुद्धा यन् न पश्यामि दुष्कृतम्

9.23

क्षत्तोवाच । अत्युदारतायाम् ।
अलोभशुभ्रा त्वयि तुष्टिर् आसील् लोभाकुला याचकमानसेषु ।
दत्ते त्वया मानद वारणेन्द्रे धैर्याणि कोपस् त्व् अहरच् छिबीनाम्

9.24

इत्य् अतीताः स्वमर्यादां रभसाः शिबयस् त्वयि ।
येन प्रव्राजिता यान्ति पथा तेन किल व्रज

9.25

अथ बोधिसत्त्वः कृपाभ्यासरूढां याचनकजनवत्सलतां धैर्यातिशयसंपदं च स्वाम् उद्भावयन्न् उवाच । चपलस्वभावाः खलु शिबयो ऽनभिज्ञा इव चास्मत्स्वभावस्य ।
द्रव्येषु बाह्येषु क एव वादो दद्याम् अहं स्वे नयने शिरो वा ।
इमं हि लोकार्थम् अहं बिभर्मि समुच्छ्रयं किं बत वस्तु बाह्यम्

9.26

यस्य स्वगात्रैर् अपि याचकानां वचांसि संपूजयितुं मनीषा ।
भयान् न दद्यात् स इति प्रतर्कः प्रकाशना बालिशचापलस्य

9.27

अपि च । शिबयस् त्वयैवं वाच्या मद्वचनेन ।
नैवाहम् एतद् यशसे ददामि न भूतिम् इच्छञ् छिबयो न लोभात् ।
नीचैर् अनासेवित एष पन्था दातव्यम् इत्य् एव ततो ददामि ॥ 26ऽ ॥
कामं मां शिबयः सर्वे घ्नन्तु प्रव्राजयन्तु वा ।
न त्व् एवाहं न दास्यामि गच्छाम्य् एष तपोवनम्

9.28

अथ बोधिसत्त्वो विप्रियश्रवणविक्लवमुखीं पत्नीम् उवाच । श्रुतो ऽत्रभवत्या शिबीनां निश्चयः ॥ मद्र्य् उवाच । श्रुतो देव ॥ विश्वंतर उवाच ।
यद् यद् अस्ति धनं किं चिद् अस्मत्तो ऽधिगतं त्वया ।
निधेहि तद् अनिन्द्याङ्गि यच् च ते पैतृकं धनम्

9.29

मद्र्य् उवाच । कुत्रैतद् देव निदधामीति ॥ विश्वंतर उवाच ।
शीलवद्भ्यः सदा दद्या दानं सत्कारशीभरम् ।
तथा हि निहितं द्रव्यम् अहार्यम् अनुगामि च

9.30

प्रियं श्वशुरयोः कुर्याः पुत्रयोः परिपालनम् ।
धर्म एवाप्रमादं च शोकं मद्विरहात् तु मा

9.31

तच् छ्रुत्वा मद्री संतप्तहृदयापि भर्तुर् अधृतिपरिहारार्थम् अनादृत्य शोकदैन्यम् इत्य् उवाच ।
नैष धर्मो महाराज यद् याया वनम् एककः ।
तेनाहम् अपि यास्यामि येन क्षत्रिय यास्यसि

9.32

त्वदङ्कपरिवर्तिन्या मृत्युर् उत्सव एव मे ।
मृत्योर् दुःखतरं तत् स्याज् जीवेयं यत् त्वया विना

9.33

नैव च खलु मे देव वनवासो दुःख इति प्रतिभाति । तथा हि ।
निर्दुर्जनान्य् अनुपभुक्तसरित्तरूणि नानाविहंगविरुतानि मृगाकुलानि ।
वैडूर्यकुट्टिममनोहरशाद्वलानि क्रीडावनाधिकसुखानि तपोवनानि

9.34

अपि च देव ।
अलंक्र्ताव् इमौ पश्यन् कुमारौ मालभारिणौ ।
क्रीडन्तौ वनगुल्मेषु न राज्यस्य स्मरिष्यसि

9.35

ऋतुप्रयत्नरचिता वनशोभा नवा नवा ।
वने त्वां रमयिष्यन्ति सरित्कुञ्जाश् च सोदकाः

9.36

चित्रं विरुतवादित्रं पक्षिणां रतिकाङ्क्षिणाम् ।
मदाचार्योपदिष्टानि नृत्तानि च शिखण्डिनाम्

9.37

माधुर्यानवगीतं च गीतं मधुपयोषिताम् ।
वनेषु कृतसंगीतं हर्षयिष्यन्ति ते मनः

9.38

आस्तीर्यमाणानि च शर्वरीषु ज्योत्स्नादुकूलेन शिलातलानि ।
संबाहमानो वनमारुतश् च लब्धाधिवासः कुसुमद्रुमेभ्यः

9.39

चलोपलप्रस्खलितोदकानां कला विरावाश् च सरिद्वधूनाम् ।
विभूषणानाम् इव संनिनादाः प्रमोदयिष्यन्ति वने मनस् ते

9.40

इत्य् अनुनीयमानः स दयितया वनप्रयाणपर्युत्सुकमतिर् अर्थिजनावेक्षया महाप्रदानं दातुम् उपचक्रमे ॥ अथेमां विश्वंतरप्रव्राजनप्रवृत्तिम् उपलभ्य राजकुले तुमुल आक्रन्दशब्दः प्रादुरभूत् । शोकदुःखावेगान् मूर्छापरिगत इव चार्थिजनो मत्तोन्मत्त इव च तत् तद् बहुविधं विललाप।
छायातरोः स्वादुफलप्रदस्य च्छेदार्थम् आगूर्णपरश्वधानाम् ।
धात्री न लज्जां यद् उपैति भूमिर् व्यक्तं तद् अस्या हतचेतनत्वम्

9.41

शीतामलस्वादुजलं निपानं बिभित्सताम् अस्ति न चेन् निषेद्धा ।
व्यर्थाभिधाना बत लोकपाला विप्रोषिता वा श्रुतिमात्रकं वा

9.42

अधर्मो बत जागर्ति धर्मः सुप्तो ऽथवा मृतः ।
यत्र विश्वंतरो राजा स्वस्माद् राज्यान् निरस्यते

9.43

को ऽनर्थपटुसामर्थ्यो याच्ञानूर्जितवृत्तिषु ।
अस्मास्व् अनपराधेषु वधाभ्युद्यमनिष्ठुरः

9.44

अथ बोधिसत्त्वो नैकशतसहस्रसंख्यं मणिकनकरजतपरिपूर्णकोशं विविधधनधान्यनिचयवन्ति कोशकोष्ठागाराणि दासीदासयानवाहनवसनपरिच्छदादि च सर्वम् अर्थिभ्यो यथार्हम् अतिसृज्य शोकदुःखाभिभूतधैर्ययोर् मातापित्रोश् चरणान् अभिप्रणम्य सपुत्रदारः स्यन्दनवरम् अभिरुह्य पुण्याहघोषणयेव महतो जनकायस्याक्रन्दितशब्देन पुरवरान् निरगच्छत् । अनुरागवशगम् अनुयायिनं च जनं शोकाश्रुपरिक्लिन्नवदनं प्रयत्नाद् विनिवर्त्य स्वयम् एव प्रग्रहान् परिगृह्य येन वङ्कः पर्वतस् तेन प्रायात् । व्यतीत्य चाविक्लवमतिर् उद्यानवनरुचिरमालिनं पुरवरोपचारम् अनुपूर्वेण प्रविरलच्छायाद्रुमं विच्छिद्यमानजनसंपातं प्रविचरितमृगगणसंबाधम् असंबाधदिगालोकं चीरीविरावोन्नादितम् अरण्यं प्रत्यपद्यत ॥ अथैनं यदृच्छयाभिगता ब्राह्मणा रथवाहांस् तुरगान् अयाचन्त ॥
स वर्तमानो ऽध्वनि नैकयोजने सहायहीनो ऽपि कलत्रवान् अपि ।
प्रदानहर्षाद् अनपेक्षितायतिर् ददौ द्विजेभ्यश् चतुरस् तुरंगमान्

9.45

अथ बोधिसत्त्वस्य स्वयम् एव रथधुर्यताम् उपगन्तुकामस्य गाढतरं परिकरम् अभिसंयच्छमानस्य रोहितमृगरूपिणश् चत्वारो यक्षकुमाराः सुविनीता इव सदश्वाः स्वयम् एव रथयुगं स्कन्धप्रदेशैः प्रत्यपद्यन्त । तांस् तु दृष्ट्वा हर्षविस्मयविशालतराक्षीं मद्रीं बोधिसत्त्व उवाच ।
तपोधनाध्यासनसत्कृतानां पश्य प्रभावातिशयं वनानाम् ।
यत्रैवम् अभ्यागतवत्सलत्वं संरूढमूलं मृगपुंगवेषु

9.46

मद्र्य् उवाच ।
तवैवाहम् इमं मन्ये प्रभावम् अतिमानुषम् ।
रूढो ऽपि हि गुणाभ्यासः सर्वत्र न समः सताम्

9.47

तोयेषु ताराप्रतिबिम्बशोभा विशिष्यते यत् कुमुदप्रहासैः ।
कौतूहलाभिप्रसृता इवेन्दोर् हेतुत्वम् अत्राग्रकराः प्रयान्ति

9.48

इति तेषाम् अन्योन्यानुकूल्यात् परस्परं प्रियं वदताम् अध्वानं गच्छताम् अथापरो ब्राह्मणः समभिगम्य बोधिसत्त्वं रथवरम् अयाचत ।
ततः स्वसुखनिःसङ्गो याचकप्रियबान्धवः ।
पूरयाम् आस विप्रस्य स रथेन मनोरथम्

9.49

अथ बोधिसत्त्वः प्रीतमना रथाद् अवतार्य स्वजनं निर्यात्य रथवरं ब्राह्मणाय जालिनं कुमारम् अङ्केनादाय पद्भ्याम् एवाध्वानं प्रत्यपद्यत । अविमनस्कैव च मद्री कृष्णाजिनां कुमारीम् अङ्केन परिगृह्य पृष्ठतो ऽन्वगच्छद् एनम् ॥
निमन्त्रयाम् आसुर् इव द्रुमास् तं हृद्यैः फलैर् आनमिताग्रशाखाः ।
पुण्यानुभावाद् अभिवीक्षमाणाः शिष्या विनीता इव च प्रणेमुः

9.50

हंसांससंक्षोभितपङ्कजानि किञ्जल्करेणुस्फुटपिञ्जराणि प्रादुर्बभूवुश् च सरांसि तस्य तत्रैव यत्राभिचकाङ्क्ष वारि

9.51

वितानशोभां दधिरे पयोदाः सुखः सुगन्धिः प्रववौ नभस्वान् ।
परिश्रमक्लेशम् अमृष्यमाणा यक्षाश् च संचिक्षिपुर् अस्य मार्गम्

9.52

इति बोधिसत्त्व उद्यानवनगत इव पादचारविनोदनसुखम् अनुभवन् मार्गपरिखेदरसम् अनास्वाद्य सपुत्रदारः प्राप्त एव तु वङ्कपर्वतम् अपश्यत् । तत्र च पुष्पफलपल्लवालंकृतस्निग्धविविधरुचिरतरुवरनिचितं मदमुदितविहगविविधरुतनिनदं प्रवृत्तनृत्तबर्हिगणोपशोभितं प्रविचरितनैकमृगकुलं कृतपरिकरम् इव विमलनीलसलिलया सरिता कुसुमरजोऽरुणसुखपवनं तपोवनं वनचरकादेशितमार्गः प्रविश्य विश्वकर्मणा शक्रसंदेशात् स्वयम् अभिनिर्मितां मनोज्ञदर्शनां सर्वर्तुसुखां प्रविविक्तां पर्णशालाम् अध्यावसत् ।
तस्मिन् वने दयितया परिचर्यमाणः शृण्वन्न् अयत्नमधुरांश् च सुतप्रलापान् ।
उद्यानसंस्थ इव विस्मृतराज्यचिन्तः संवत्सरार्धम् अधिकं स तपश् चचार

9.53

अथ कदा चिन् मूलफलार्थं गतायां राजपुत्र्यां पुत्रयोः परिपालननिमित्तम् आश्रमपदम् अशून्यं कुर्वाणे राजपुत्रे मार्गरेणुपरुषीकृतचरणप्रजङ्घः परिश्रमक्षामनयनवदनो दण्डकाष्ठावबद्धस्कन्धावसक्तकमण्डलुर् ब्राह्मणः पत्न्या परिचारकानयनार्थं समर्पितदृढसंदेशस् तं देशम् अभिजगाम । अथ बोधिसत्त्वश् चिरस्यार्थिजनं दृष्ट्वाभिगतं मनःप्रहर्षात् संजायमाननयनवदनप्रसादः प्रत्युद्गम्य स्वागतादिप्रियवचनपुरःसरं प्रवेश्य चैनम् आश्रमपदं कृतातिथिसत्कारम् आगमनप्रयोजनम् अपृच्छत् । अथ स ब्राह्मणो भार्यानुरागाद् उत्सारितधैर्यलज्जः प्रतिग्रहमात्रसज्ज ईदृशम् अर्थम् उवाच ।
आलोको भवति यतः समश् च मार्गो लोको ऽयं व्रजति ततो न दुर्गमेण ।
प्रायो ऽस्मिञ् जगति तु मत्सरान्धकारे नान्येन प्रणयपदानि मे वहन्ति

9.54

प्रदानशौर्योर्जितया यशःश्रिया गतं च गन्तव्यम् अशेषतस् तव ।
अतो ऽस्मि याच्ञाश्रमम् अभ्युपेयिवान् प्रयच्छ तन् मे परिचारकौ सुतौ

9.55

इत्य् उक्ते बोधिसत्त्वो महासत्त्वः
दानप्रीतौ कृताभ्यासः प्रत्याख्यातुम् अशिक्षितः ।
ददामीत्य् अवदद् धृष्टं दयितौ तनयाव् अपि

9.56

स्वस्त्य् अस्तु । तत् किम् इदानीम् आस्यत इति च ब्राह्मणेनाभिहितः स महासत्त्वः प्रदानकथाश्रवणोत्पतितविषादविप्लुताक्षयोः सुतयोः स्नेहवेगेनावलम्ब्यमानहृदयो बोधिसत्त्व उवाच ।
दत्ताव् एतौ मया तुभ्यं किं तु मातानयोर् गता ।
वनं मूलफलस्यार्थे सायम् अद्यागमिष्यति

9.57

तया दृष्टाव् उपाघ्रातौ मालिनाव् अभ्यलंकृतौ ।
इहैकरात्रं विश्रम्य श्वो नेतासि सुतौ मम

9.58

ब्राह्मण उवाच । अलम् अनेनात्रभवतो निर्बन्धेन ।
गौणम् एतद् धि नारीणां नाम वामा इति स्थितम् ।
स्याच् चैवं दानविघ्नस् ते तेन वासं न रोचये

9.59

बोधिसत्त्व उवाच । अलं दानविघ्नाशङ्कया । सहधर्मचारिणी मम सा । यथा वात्रभवते रोचते । अपि च महाब्राह्मण
सुकुमारतया बाल्यात् परिचर्यास्व् अकौशलात् ।
कीदृशीं नाम कुर्यातां दासप्रीतिम् इमौ तव

9.60

दृष्ट्वा त्व् इत्थंगताव् एतौ शिबिराजः पितामहः ।
अद्धा दद्याद् यद् इष्टं ते धनं निष्क्रयम् एतयोः

9.61

यतस् तद्विषयं साधु त्वम् इमौ नेतुम् अर्हसि ।
एवं ह्य् अर्थेन महता धर्मेण च समेष्यसि

9.62

ब्राह्मण उवाच । न शक्ष्याम्य् अहम् आशीविषदुरासदं विप्रियोपायनेन राजानम् अभिगन्तुम् ।
आच्छिन्द्यान् मद् इमौ राजा दण्डं वा प्रणयेन् मयि ।
यतो नेष्याम्य् अहम् इमौ ब्राह्मण्याः परिचारकौ

9.63

अथ बोधिसत्त्वो यथेष्टम् इदानीम् इत्य् अपरिसमाप्तार्थम् उक्त्वा सानुनयम् अनुशिष्य तनयौ परिचर्यानुकूल्ये प्रतिग्रहार्थम् अभिप्रसारिते ब्राह्मणस्य पाणौ कमण्डलुम् आवर्जयाम् आस ।
तस्य यत्नानुरोधेन पपाताम्बु कमण्डलोः ।
पद्मपत्त्राभिताम्राभ्यां नेत्राभ्यां स्वयम् एव तु

9.64

अथ स ब्राह्मणो लाभातिहर्षात् ससंभ्रमाकुलितमतिर् बोधिसत्त्वतनयापहरणत्वरया संक्षिप्तपदम् आशीर्वचनम् उक्त्वा निर्गम्यताम् इत्य् आज्ञाकर्कशेन वचसा कुमाराव् आश्रमपदान् निष्क्रामयितुम् आरेभे ॥ अथ कुमारौ वियोगदुःखातिभारव्यथितहृदयौ पितरम् अभिप्रणम्य बाष्पोपरुध्यमाननयनाव् ऊचतुः ।
अम्बा च तात निष्क्रान्ता त्वं च नौ दातुम् इच्छसि ।
यावत् ताम् अपि पश्येव ततो दास्यति नौ भवान्

9.65

अथ स ब्राह्मणः पुरा मातानयोर् आगच्छत्य् अस्य वा पुत्रस्नेहात् पश्चात्तापः संभवतीति विचिन्त्य पद्मकलापम् इवानयोर् हस्तान् आबध्य लतया संतर्जयन् विचेष्टमानौ पितरं प्रति व्यावर्तितवदनौ प्रकृतिसुकुमारौ कुमारौ प्रचकर्ष ॥ अथ कृष्णाजिना कुमारी तत्पूर्वदुःखोपनिपातात् सस्वरं रुदती पितरम् उवाच ।
अयं मां ब्राह्मणस् तात लतया हन्ति निर्दयः ।
न चायं ब्राह्मणो व्यक्तं धार्मिका ब्राह्मणाः किल

9.66

यक्षो ऽयं ब्राह्मणच्छद्मा नूनं हरति खादितुम् ।
नीयमानौ पिशाचेन तात किं नाव् उपेक्षसे

9.67

अथ जाली कुमारो मातरम् अनुशोचन्न् उवाच ।
नैवेदं मे तथा दुःखं यद् अयं हन्ति मां द्विजः ।
नापश्यम् अम्बां यत् त्व् अद्य तद् विदारयतीव माम्

9.68

रोदिष्यति चिरं नूनम् अम्बा शून्ये तपोवने ।
पुत्रशोकेन कृपणा हतशावेव चातकी

9.69

अस्मदर्थं समाहृत्य वनान् मूलफलम् बहु ।
भविष्यति कथं न्व् अम्बा दृष्ट्वा शून्यं तपोवनम्

9.70

इमे नाव् अश्वकास् तात हस्तिका रथकाश् च ये ।
अतो ऽर्धं देयम् अम्बायै शोकं तेन विनेष्यति

9.71

वन्द्यास्मद्वचनाद् अम्बा वार्या शोकाच् च सर्वथा ।
दुर्लभं हि पुनस् तात तव तस्याश् च दर्शनम्

9.72

एहि कृष्णे मरिष्यावः को न्व् अर्थो जीवितेन नौ ।
दत्ताव् आवां जनित्रास्मै ब्राह्मणाय धनैषिणे

9.73

इत्य् उक्त्वा जग्मतुः ॥ अथ बोधिसत्त्वस् तेनातिकरुणेन तनयप्रलापेनाकम्पितमतिर् अपि क इदानीं दत्त्वानुतापं करिष्यतीति निष्प्रतीकारेण शोकाग्निना निर्दह्यमानहृदयो विषवेगमूर्छापरिगत इव समुपरुध्यमानचेतास् तत्रैव निषसाद । शीतानिलव्यजनप्रतिलब्धसंज्ञश् च निष्कूजम् इवाश्रमपदं तनयशून्यम् अभिवीक्ष्य बाष्पगद्गदसंनिरुध्यमानकण्ठ इत्य् आत्मगतम् उवाच ।
पुत्राभिधाने हृदये समक्षं प्रहरन् मम ।
नाशङ्कत कथं नाम धिग् अलज्जो बत द्विजः

9.74

पत्तिकाव् अनुपानत्कौ सौकुमार्यात् क्लमासहौ ।
यास्यतः कथम् अध्वानं तस्य च प्रेष्यतां गतौ

9.75

मार्गश्रमपरिम्लानौ को ऽद्य विश्रामयिष्यति ।
क्षुत्तर्षदुःकाभिहतौ याचिष्येते कम् एत्य वा

9.76

मम तावद् इदं दुःखं धीरतां कर्तुम् इच्छतः ।
का न्व् अवस्था मम तयोः सुतयोः सुखवृद्धयोः

9.77

अहो पुत्रवियोगाग्निर् निर्दहत्य् एव मे मनः ।
सतां तु धर्मं संस्मृत्य को ऽनुतापं करिष्यति

9.78

अथ मद्री विप्रियोपनिपाताशंसिभिर् अनिष्टैर् निमित्तैर् उपजनितवैमनस्या मूलफलान्य् आदाय क्षिप्रतरम् आगन्तुकामापि व्याडमृगोपरुध्यमानमार्गा चिरतरेणाश्रमपदम् उपजगाम । उचितायां च प्रत्युद्गमनभूमाव् आक्रीडस्थानेषु च तनयाव् अपश्यन्ती भृशतरम् अरतिवशम् अगात् ॥
अनीप्सिताशङ्कितजातसंभ्रमा ततः सुतान्वेषणचञ्चलेक्षणा ।
प्रसक्तम् आह्वानम् असंप्रतिग्रहं तयोर् विदित्वा व्यलपच् छुचातुरा

9.79

समाजवद् यत् प्रतिभाति मे पुरा सुतप्रलापप्रतिनादितं वनम् ।
अदर्शनाद् अद्य तयोस् तद् एव मे प्रयाति कान्तारम् इवाशरण्यताम्

9.80

किं नु खलु तौ कुमारौ
क्रीडाप्रसङ्गश्रमजातनिद्रौ सुप्तौ नु नष्टौ गहने वने वा ।
चिरान् मदभ्यागमनाद् अतुष्टौ स्यातां क्व चिद् बालतया निलीनौ

9.81

रुवन्ति कस्माच् च न पक्षिणो ऽप्य् अमी समाकुलास् तद्वधसाक्षिणो यदि ।
तरंगभङ्गैर् अविनीतकोपया हृतौ नु किं निम्नगयातिवेगया

9.82

अपीदानीं मे वितथा मिथ्याविकल्पा भवेयुः । अपि राजपुत्राय सपुत्राय स्वस्ति स्यात् । अप्य् अनिष्टनिवेदिनां निमित्तानां मच्छरीर एव विपाको भवेत् । किं नु खल्व् इदं अ निमित्तापवृत्तप्रहर्षम् अरतितमिस्रयावच्छाद्यमानं विद्रवतीव मे हृदयम् । विस्रस्यन्त इव मे गात्राणि । व्याकुला इव दिग्विभागाः । भ्रमतीव चेदं परिध्वस्तलक्ष्मीकं वनम् इति ॥ अथानुप्रविश्याश्रमपदम् एकान्ते निक्षिप्य मूलफलम् उपचारपुरःसरं भर्तारम् अभिगम्य क्व दारकाव् इति पप्रच्छ । अथ बोधिसत्त्वो जानानः स्नेहदुर्बलतां मातृहृदयस्य दुर्निवेद्यत्वाच् च विप्रियस्य नैनां किं चिद् वक्तुं शशाक ।
जनस्य हि प्रियार्हस्य विप्रियाख्यानवह्निना उपेत्य हि मनस्तापः सघृणेन सुदुष्करः

9.83

अथ मद्री व्यक्तम् अकुशलं मे पुत्रयोर् यद् अयम् एवं तूष्णींभूतः शोकदैन्यानुवृत्त्येत्य् अवधार्य समन्ततः क्षिप्तचित्तेव विचिन्त्याश्रमपदं तनयाव् अपश्यन्ती सबाष्पगद्गदं पुनर् उवाच ।
दारकौ च न पश्यामि त्वं च मां नाभिभाषसे ।
हता खल्व् अस्मि कृपणा विप्रियं हि न कथ्यते

9.84

इत्य् उक्त्वा शोकाग्निना परिगतहृदया छिन्नमूलेव लता निपपात । पतन्तीम् एव चैनां परिगृह्य बोधिसत्त्वस् तृणशयनम् आनीय शीताभिर् अद्भिः परिषिच्य प्रत्यागतप्राणां समाश्वासयन्न् उवाच ।
सहसैव न ते मद्रि दुःखम् आख्यातवान् अहम् ।
न हि संभाव्यते धैर्यं मनसि स्नेहदुर्बले

9.85

जरादारिद्र्यदुःखार्तो ब्राह्मणो माम् उपागमत् ।
तस्मै दत्तौ मया पुत्रौ समाश्वसिहि मा शुचः

9.86

मां पश्य मद्रि मा पुत्रौ परिदेवीश् च देवि मा ।
पुत्रशोकसशल्ये मे प्रहार्षीर् इव मा हृदि

9.87

याचितेन कथं शक्यं न दातुम् अपि जीवितम् ।
अनुमोदस्व तद् भद्रे पुत्रदानम् इदं मम

9.88

तच् छ्रुत्वा मद्री पुत्रविनाशशङ्काव्यथितहृदया पुत्रयोर् जीवितप्रवृत्तिश्रवणात् प्रतनूभूतशोका पत्युर् अधृतिपरिहारार्थं प्रमृज्य नयने सविस्मयम् उदीक्षमाणा भर्तारम् उवाच । आश्चर्यम् । किं बहुना ।
नूनं विस्मयवक्तव्यचेतसो ऽपि दिवौकसः ।
यद् इत्य् अलब्धप्रसरस् तव चेतसि मत्सरः

9.89

तथा हि दिक्षु प्रसृतप्रतिस्वनैः समन्ततो दैवतदुन्दुभिस्वनैः ।
प्रसक्तविस्पष्टपदाक्षरं नभस् तवैव कीर्तिप्रथनादराद् अभूत्

9.90

प्रकम्पिशैलेन्द्रपयोधरा धरा मदाद् इवाभूद् अभिवृद्धवेपथुः ।
दिवः पतद्भिः कुसुमैश् च काञ्चनैः सविद्युदुद्द्योतम् इवाभवन् नभः

9.91

तद् अलं शोकदैन्येन दत्त्वा चित्तं प्रसादय ।
निपानभूतो लोकानां दातैव च पुनर् भव

9.92

अथ शक्रो देवेन्द्रः क्षितितलचलनाद् आकम्पिते सुमेरौ पर्वतराजे किम् इदम् इति समुत्पन्नविमर्शो विस्मयोत्फुल्लनयनेभ्यो लोकपालेभ्यः पृथिवीकम्पकारणं विश्वंतरपुत्रदानम् उपलभ्य प्रहर्षविस्मयाघूर्णितमनाः प्रभातायां तस्यां रजन्यां ब्राह्मणरूपी विश्वंतरम् अर्थिवद् अभ्यगच्छत् । कृतातिथिसत्कारश् च बोधिसत्त्वेन केनार्थ इत्य् उपनिमन्त्रितो भार्याम् एनम् अयाचत ।
महाह्रदेष्व् अम्भ इवोपशोषं न दानधर्मः समुपैति सत्सु ।
याचे ततस् त्वां सुरसंनिभार्यां भार्याम् इमाम् अर्हसि नः प्रदातुम्

9.93

अविमना एव तु बोधिसत्त्वस् तथेत्य् अस्मै प्रतिशुश्राव ।
ततः स वामेन करेण मद्रीम् आदाय सव्येन कमण्डलुं च ।
न्यपातयत् तस्य जलं कराग्रे मनोभुवश् चेतसि शोकवह्निम्

9.94

चुकोप मद्री न तु नो रुरोद विवेद सा तस्य हि तं स्वभावम् ।
अपूर्वदुःखातिभरातुरा तु तं प्रेक्षमाणा लिखितेव तस्थौ

9.95

तद् दृष्ट्वा परमविस्मयाक्रान्तहृदयः शक्रो देवानाम् इन्द्रस् तं महासत्त्वम् अभिष्टुवन्न् उवाच ।
अहो विकृष्टान्तरता सदसद्धर्मयोर् यथा ।
श्रद्धातुम् अपि कर्मेदं का शक्तिर् अकृतात्मनाम्

9.96

अवीतरागेण सता पुत्रदारम् अतिप्रियम् ।
निःसङ्गम् इति दातव्यं का नामेयम् उदात्तता

9.97

असंशयं त्वद्गुणरक्तसंकथैः प्रकीर्यमाणेषु यशःसु दिक्षु ते ।
तिरोभविष्यन्त्य् अपरा यशःश्रियः पतंगतेजःसु यथान्यदीप्तयः

9.98

तस्य ते ऽभ्यनुमोदन्ते कर्मेदम् अतिमानुषम् ।
यक्षगन्धर्वभुजगास् त्रिदशाश् च सवासवाः

9.99

इत्य् उक्त्वा शक्रः स्वम् एव वपुर् अभिज्वलद् आस्थाय शक्रो ऽहम् अस्मीति च निवेद्यात्मानं बोधिसत्त्वम् उवाच ।
तुभ्यम् एव प्रयच्छामि मद्रीं भार्याम् इमाम् अहम् ।
व्यतीत्य न हि शीतांशुं चन्द्रिका स्थातुम् अर्हति

9.100

दत्तापि च शृगालस्य सिंहभार्या किम् अस्य सा ।
सिंहस्यैव हि सा भार्या धीरा यच्छन्ति याचिताः

9.101

विशिष्टमध्यहीनानां समचित्ता जिनाङ्कुराः ।
तस्माद् अनुमता लोके [......]न तु कर्मणा

9.102

तन् मा चिन्तां पुत्रयोर् विप्रयोगाद् राज्यभ्रंशान् मा च संतापम् आगाः ।
सार्धं ताभ्याम् अभ्युपेतः पिता ते कर्ता राज्यं त्वत्सनाथं सनाथम्

मूल पाठ: Jātakamālā 1-15 · Edition: Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1) · Data entry Albrecht Hanisch Mitsuyo Demoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc