भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · अध्याय 10

10.1

इत्य् उक्त्वा शक्रस् तत्रैवान्तर्दधे । शक्रानुभावाच् च स ब्राह्मणो बोधिसत्त्वतनयौ शिबिविषयम् एव संप्रापयाम् आस । अथ शिबयः संजयश् च शिबिराजस् तद् अतिकरुणम् अतिदुष्करं बोधिसत्त्वस्य कर्म श्रुत्वा समाक्लेदितहृदया ब्राह्मणहस्तान् निष्क्रीय बोधिसत्त्वतनयौ प्रसाद्यानीय च विश्वंतरं राज्य एव प्रतिष्ठापयाम् आसुः ॥
तद् एवम् अत्यद्भुता बोधिसत्त्वचर्येति तदुन्मुखेषु सत्त्वविशेषेषु नावज्ञा प्रतीघातो वा करणीयः । तथागतवर्णे सत्कृत्य धर्मश्रवणे चोपनेयम् ॥
विश्वंतरजातकं नवमम् ॥
10. यज्ञजातकम्
न कल्याणाशयाः पापप्रतारणाम् अनुविधीयन्त इत्य् आशयशुद्धौ यतितव्यम् ॥
तद्यथानुश्रूयते । बोधिसत्त्वः किल स्वपुण्यप्रभावोपनताम् आनतसर्वसामन्तां प्रशान्तस्वपरचक्राद्युपद्रवत्वाद् अकण्टकाम् असपत्नाम् एकातपत्रां दायाद्यक्रमागतां पृथिवीं पालयाम् आस ।
नाथः पृथिव्याः स जितेन्द्रियारिर् भुक्तावगीतेषु फलेष्व् असक्तः ।
प्रजाहितेष्व् आहितसर्वभावो धर्मैककार्यो मुनिवद् बभूव

10.2

विवेद लोकस्य हि स स्वभावं प्रधानचर्यानुकृतिप्रधानम् ।
श्रेयः समाधित्सुर् अतः प्रजासु विशेषतो धर्मविधौ ससञ्जे

10.3

ददौ धनं शीलविधिं समाददे क्षमां सिषेवे जगदर्थम् ऐहत ।
प्रजाहिताध्याशयसौम्यदर्शनः स मूर्तिमान् धर्म इव व्यरोचत

10.4

अथ कदा चित् तद्भुजाभिगुप्तम् अपि तं विषयं सत्त्वानां कर्मवैगुण्यात् प्रमादवशगत्वाच् च वर्षकर्माधिकृतानां देवपुत्राणां दुर्वृष्टिपर्याकुलता क्व चित् क्व चिद् अभिदुद्राव ॥ अथ स राजा व्यक्तम् अयं मम प्रजानां वा धर्मापचारात् समुपनतो ऽनर्थ इति निश्चितमतिः संरूढहिताध्याशयत्वात् प्रजासु तद्दुःखम् अमृष्यमाणो धर्मतत्त्वज्ञसंमतान् पुरोहितप्रमुखान् ब्राह्मणवृद्धान् मतिसचिवांश् च तदुद्धरणोपायं पप्रच्छ । अथ ते वेदविहितम् अनेकप्राणिशतवधारम्भभीषणं यज्ञविधिं सुवृष्टिहेतुं मन्यमानास् तम् अस्मै संवर्णयाम् आसुः । विदितवृत्तान्तस् तु स राजा यज्ञविहितानां प्राणिवैशसानां करुणात्मकत्वान् न तेषां तद् वचनं भावेनाभ्यनन्दत् । विनयानुवृत्त्या चैनान् प्रत्याख्यानरूक्षाक्षरम् अनुक्त्वा प्रस्तावान्तरेणैषां तां कथां तिरश्चकार । ते पुनर् अपि तं राजानं धर्मसंकथाप्रस्तावलब्धावसरा गाम्भीर्यगूढं तस्य भावम् अजानाना यज्ञप्रवृत्तये समनुशशासुः ।
कार्याणि राज्ञां नियतानि यानि लाभे पृथिव्याः परिपालने च ।
नात्येति कालस् तव तानि नित्यं तेषां क्रमो धर्मसुखानि यद्वत्

10.5

त्रिवर्गसेवानिपुणस्य तस्य प्रजाहितार्थं धृतकार्मुकस्य ।
यज्ञाभिधाने सुरलोकसेतौ प्रमादतन्त्रेव कथं मतिस् ते

10.6

भृत्यैर् इवाज्ञा बहुमन्यते ते साक्षाद् इयं सिद्धिर् इति क्षितीशैः ।
श्रेयांसि कीर्तिज्वलितानि चेतुं यज्ञैर् अयं ते रिपुकाल कालः

10.7

कामं सदा दीक्षित एव च त्वं दानप्रसङ्गान् नियमादराच् च ।
वेदप्रसिद्धैः क्रतुभिस् तथापि युक्तं भवेन् मोक्तुम् ऋणं सुराणाम्

10.8

स्विष्ट्याभितुष्टानि हि दैवतानि भूतानि वृष्ट्या प्रतिमानयन्ति ।
इति प्रजानां हितम् आत्मनश् च यशस्करं यज्ञविधिं जुषस्व

10.9

तस्य चिन्ता प्रादुरभवत् । अतिदुर्न्यस्तो बतायं परप्रत्ययहार्यपेलवमतिर् अमीमांसको धर्मप्रियश्रद्दधानो जनो यत्र हि नाम
य एव लोकेषु शरण्यसंमतास् त एव हिंसाम् अपि धर्मतो गताः ।
विवर्तते कष्टम् अपायसंकटे जनस् तदादेशितकापथानुगः

10.10

को हि नामाभिसंबन्धो धर्मस्य पशुहिंसया ।
सुरलोकाधिवासस्य दैवतप्रीणनस्य वा

10.11

विशस्यमानः किल मन्त्रशक्तिभिः पशुर् दिवं गच्छति तेन तद्वधः ।
उपैति धर्मत्वम् इतीदम् अप्य् असत् परैः कृतं को हि परत्र लप्स्यते

10.12

असत्प्रवृत्तेर् अनिवृत्तमानसः शुभेषु कर्मस्व् अविरूढनिश्चयः ।
पशुर् दिवं यास्यति केन हेतुना हतो ऽपि यज्ञे स्वकृताश्रयं विना

10.13

हतश् च यज्ञे त्रिदिवं यदि व्रजेन् ननु व्रजेयुः पशुतां स्वयं द्विजाः ।
यतस् तु नायं विधिर् ईक्ष्यते क्व चिद् वचस् तद् एषां क इव ग्रहीष्यति

10.14

अतुल्यगन्धर्द्धिरसौजसं शुभां सुधां किलोत्सृज्य वराप्सरोधृताम् ।
मुदं प्रयास्यन्ति वपादिकारणाद् वधेन शोच्यस्य पशोर् दिवौकसः

10.15

तद् इदम् अत्र प्राप्तकालम् इति विनिश्चित्य स राजा यज्ञारम्भसमुत्सुक इव नाम तत् तेषां वचनं प्रतिगृह्यावोचद् एनान् । सनाथः खल्व् अहम् अनुग्रहवांश् च यद् एवं मे हितावहितमनसो ऽत्रभवन्तः । तद् इच्छामि पुरुषमेधसहस्रेण यष्टुम् । अनुशिष्यन्तां तदुपयोग्यसंभारसमुदानयनार्थं यथाधिकारम् अमात्याः । परीक्ष्यतां सत्त्रागारनिवेशयोग्यो भूमिप्रदेशस् तदनुगुणश् च तिथिकरणमुहूर्तनक्षत्रयोग इति ॥ अथैनं पुरोहित उवाच । ईप्सितार्थसंपत्तये स्नातु तावन् महाराज एकस्य यज्ञस्यावभृथे । अथोत्तरेषाम् आरम्भः करिष्यते क्रमेण । युगपत् पुरुषपशवः सहस्रशो हि परिगृह्यमाणा व्यक्तम् उद्वेगदोषाय प्रजानां ते स्युर् इति ॥ अस्त्य् एतद् इति च ब्राह्मणैर् उक्तः स राजा तान् उवाच । अलम् अत्रभवतां प्रकृतिकोपाशङ्कया । तथाहं संविधास्ये यथोद्वेगं मे प्रजा न प्रयास्यन्तीति ॥ अथ स राजा पौरजानपदान् संनिपात्याब्रवीत् । इच्छामि पुरुषमेधसहस्रेण यष्टुम् । न च मया शक्यः कश् चिद् अकामः पशुत्वे नियोक्तुम् अदुष्टः । तद् यं यम् अहम् इतः प्रभृति वो द्रक्ष्यामि व्यवधूतप्रमादनिद्रेण विमलेन चारचक्षुषा शीलमर्यादातिवर्तिनम् अस्मदाज्ञां परिभवन्तं तं तं स्वकुलपंसकं देशकण्टकम् अहं पशुनिमित्तम् आदास्यामीत्य् एतद् वो विदितम् अस्त्व् इति ॥ अथ तेषां मुख्यतमाः प्राञ्जलय एनम् ऊचुः ।
सर्वाः क्रियास् तव हितप्रवणाः प्रजानां तत्रावमाननविधेर् नरदेव को ऽर्थः ।
ब्रह्मापि ते चरितम् अभ्यनुमन्तुम् अर्हः साधुप्रमाणपरम् अत्रभवान् प्रमाणम्

10.16

प्रियं यद् एव देवस्य तद् अस्माकम् अपि प्रियम् ।
अस्मत्प्रियहिताद् अन्यद् दृश्यते न हि ते प्रियम्

10.17

इति प्रतिगृहीतवचनः पौरजानपदैः स राजा महता जनप्रकाशेनाडम्बरेण प्रत्ययितान् अमात्यान् पापजनोपग्रहणार्थं जनपदं नगराणि च प्रेषयाम् आस । समन्ततश् च प्रत्यहम् इति घोषणां कारयाम् आस ।
अभयम् अभयदो ददाति राजा स्थिरशुचिशीलधनाय सज्जनाय ।
अविनयनिरतैः प्रजाहितार्थं नरपशुभिस् तु सहस्रशो यियक्षुः

10.18

तद् यः कश् चिद् इतः प्रभृत्य् अविनयश्लाघानुवृत्त्युद्धवात् सामन्तक्षितिपार्चिताम् अपि नृपस्याज्ञाम् अवज्ञास्यति ।
स स्वैर् एव विषह्य यज्ञपशुताम् आपादितः कर्मभिर् यूपाबद्धतनुर् विषादकृपणः शुष्यञ् जनैर् द्रक्ष्यते

10.19

अथ तद्विषयनिवासिनः पुरुषा यज्ञपशुनिमित्तं दुःशीलपुरुषान्वेषणादरम् अवेक्ष्य राज्ञस् तां च घोषणाम् अतिभीषणां प्रत्यहम् उपशृण्वन्तः पापजनोपग्रहावहितांश् च राजपुरुषान् समन्ततः समापततो ऽभिवीक्ष्य त्यक्तदौःशील्यानुरागाः शीलसंवरसमादानपरा वैरप्रसङ्गपराङ्मुखाः परस्परप्रेमगौरवसुमुखाः प्रशान्तविग्रहविवादा गुरुजनवचनानुवर्तिनः संविभागविशारदाः प्रियातिथयो विनयनैभृत्यश्लाघिनः कृतयुग इव बभूवुः ।
भयेन मृत्योः परलोकचिन्तया कुलाभिमानेन यशोऽनुरक्षया ।
सुशुक्लभावाच् च विरूढया ह्रिया जनः स्वशीलामलभूषणो ऽभवत्

10.20

यथा यथा धर्मपरो ऽभवज् जनस् तथा तथा रक्षिजनो विशेषतः ।
चकार दुःशीलजनाभिमार्गणाम् अतश् च धर्मान् न चचाल कश् च न

10.21

स्वदेशवृत्तान्तम् अथोपशुश्रुवान् इमं नृपः प्रीतिविशेषभूषणः ।
चरान् प्रियाख्यानकदानविस्तरैः स तर्पयित्वा सचिवान् समन्वशात्

10.22

परा मनीषा मम रक्षितुं प्रजा गताश् च ताः संप्रति दक्षिणीयताम् ।
इदं च यज्ञाय धनं प्रकल्पितं यियक्षुर् अस्मीति यथाप्रतर्कितम्

10.23

यद् ईप्सितं यस्य सुखेन्धनं धनं प्रकामम् आप्नोतु स तन् मदन्तिकात् ।
इतीयम् अस्मद्विषयोपतापिनी दरिद्रता निर्विषयी भवेद् यथा

10.24

मयि प्रजारक्षणनिश्चयस्थिते सहायसंपत्परिवृद्धसाधने ।
इयं जनार्तिर् मदमर्षदीपनी मुहुर् मुहुर् मे ज्वलतीव चेतसि

10.25

अथ ते तस्य राज्ञः सचिवाः परम् इति प्रतिगृह्य तद्वचनं सर्वेषु ग्रामनगरनिगमेषु मार्गविश्रामप्रदेशेषु च दानशालाः कारयित्वा यथासंदिष्टं राज्ञा प्रत्यहम् अर्थिजनम् अभिलषितैर् अर्थैः संतर्पयाम् आसुः ।
अथ विहाय जनः स दरिद्रतां समम् अवाप्तवसुर् वसुधाधिपात् ।
विविधचित्रपरिच्छदभूषणः प्रविततोत्सवशोभ इवाभवत्

10.26

प्रमुदितार्थिजनस्तुतिविस्तृतं प्रविततान नृपस्य दिशो यशः ।
तनुतरंगविवर्धितविस्तरं सर इवाम्बुजकेसरजं रजः

10.27

इति नृपस्य सुनीतिगुणाश्रयात् सुचरिताभिमुखे निखिले जने समभिभूतबलाः कुशलोच्छ्रयैर् विलयम् ईयुर् असङ्गम् उपद्रवाः

10.28

अविषमत्वसुखा ऋतवो ऽभवन् नवनृपा इव धर्मपरायणाः ।
विविधसस्यधरा च वसुंधरा सकमलामलनीलजलाशया

10.29

न जनम् अभ्यरुजन् प्रबला रुजः पटुतरं गुणम् ओषधयो दधुः ।
ऋतुवशेन ववौ नियतो ऽनिलः परिययुश् च शुभेन पथा ग्रहाः

10.30

न परचक्रकृतं समभूद् भयं न च परस्परजं न च दैविकम् ।
नियमधर्मपरे निभृते जने कृतम् इवात्र युगं समपद्यत

10.31

अथैवं प्रवृत्तेन धर्मयज्ञेन राज्ञा प्रशमितेष्व् अर्थिजनदुःखेषु सार्धम् उपद्रवैः प्रमुदितजनसंबाधायाम् अभ्युदयरम्यदर्शनायां च वसुंधरायां नृपतेर् आशीर्वचनाध्ययनसव्यापारे लोके वितन्यमाने समन्ततो राजयशसि प्रसादावर्जितमतिः कश् चिद् अमात्यमुख्यो राजानम् इत्य् उवाच । सुष्ठु खल्व् इदम् उच्यते ।
उत्तमाधममध्यानां कार्याणां नित्यदर्शनात् ।
उपर्य् उपरि बुद्धीनां चरन्तीश्वरबुद्धयः

10.32

इति देवेन हि पशुवैशसवाच्यदोषविरहितेन धर्मयज्ञेन प्रजानाम् उभयलोकहितं संपादितम् उपद्रवाश् च प्रशमिता दारिद्र्यदुःखानि च । किं बहुना । सभाग्यास् ताः प्रजाः ।
लक्ष्मेव क्षणदाकरस्य विततं गात्रे न कृष्णाजिनं दीक्षायन्त्रणया निसर्गललिताश् चेष्टा न मन्दोद्यमाः ।
मूर्ध्नश् छत्त्रनिभस्य केशरचनाशोभा तथैवाथ च त्यागैस् ते शतयज्वनो ऽप्य् अपहृतः कीर्त्याश्रयो विस्मयः

10.33

हिंसाविषक्तः कृपणः फलेप्सोः प्रायेण लोकस्य नयज्ञ यज्ञः ।
यज्ञस् तु कीर्त्याभरणः समस् ते शीलस्य निर्दोषमनोहरस्य

10.34

अहो प्रजानां भाग्यानि यासां गोपायिता भवान् ।
प्रजानाम् अपि हि व्यक्तं नैवं स्याद् गोपिता पिता

10.35

अपर उवाच ।
दानं नाम धनोदये सति जनो दत्ते तदाशावशः स्याच् छीले ऽपि च लोकपक्त्यभिमुखः स्वर्गे च जातस्पृहः ।
या त्व् एषा परकार्यदक्षिणतया त्वद्वत् प्रवृत्तिस् तयोर् नाविद्वत्सु न सत्त्वयोगविधुरेष्व् एषा समालक्ष्यते

10.36

तद् एवं न कल्याणाशयाः पापप्रतारणाम् अनुविधीयन्त इत्य् आशयशुद्धौ यतितव्यम् ॥
इति प्रजाहितोद्योगः श्रेयःकीर्तिसुखावहः ।
यन् नृपाणाम् अतो नालं तम् अनादृत्य वर्तितुम्

मूल पाठ: Jātakamālā 1-15 · Edition: Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1) · Data entry Albrecht Hanisch Mitsuyo Demoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc