जातकमाला · अध्याय 8
तद् एवं तपोवनस्थानाम् अप्य् अलंकारस् त्यागशौर्यं प्राग् एव गृहस्थानाम् इति
त्यागशौर्येणालंकर्तव्य एवात्मा सत्पुरुषेणेति दानपतिसंवर्णनायाम् उपनेयं लोभद्वेषबालविगर्हायां कल्याणमित्रसंपर्कगुणे संतोषकथायां तथागतमाहात्म्ये चैवं पूर्वजन्मस्व् अपि सुभाषितरत्नातिशयाकरः स भगवान् प्राग् एवाभिसंबुद्ध इति ॥
अगस्त्यजातकं सप्तमम् ॥
8. मैत्रीबलजातकम्
न परदुःखातुराः स्वसुखम् अवेक्षन्ते महाकारुणिकाः ॥
तद्यथानुश्रूयते । बोधिसत्त्वः किल स्वमाहात्म्यकारुण्याभिप्रपन्नजगत्परित्राणाध्याशयः प्रदानदमसंयमसौरत्यादिभिर् लोकानुग्रहानुकूलैर् गुणातिशयैर् अभिवर्धमानः सर्वसत्त्वमैत्रमना मैत्रीबलो नाम राजा बभूव ।
दुःखं सुखं वा यद् अभूत् प्रजानां तस्यापि राज्ञस् तद् अभूत् तथैव ।
अतः प्रजारक्षणदक्षिणो ऽसौ शस्त्रं च शास्त्रं च पराममर्श
नरेन्द्रचूडाधृतशासनस्य तस्य त्व् अलंकारवद् आस शस्त्रम् ।
विस्पष्टरूपं ददृशे च शास्त्रं नयेषु लोकस्य हितोदयेषु
विनिग्रहप्रग्रहयोः प्रवृत्तिर् धर्मोपरोधं न चकार तस्य ।
हिताशयत्वान् नयनैपुणाच् च परीक्षकस्येव पितुः प्रजासु
तस्यैवं धर्मेण प्रजाः पालयतः सत्यत्यागोपशमप्रज्ञादिभिश् च परहितपरिणामनात् सविशेषोदात्तक्रमैर् बोधिसंभारविधिभिर् अभिवर्धमानस्य कदा चित् कस्मिंश् चिद् अपराधे यक्षाणाम् अधिपतिना स्वविषयात् प्रव्राजिता ओजोहाराः पञ्च यक्षाः परवधदक्षास् तद्विषयम् अभिजग्मुः । व्यपगतसर्वोपद्रवत्वाच् च नित्यप्रवृत्तविविधोत्सवं परया संपदा समुपेतरूपं प्रमुदिततुष्टपुष्टजनम् अभिसमीक्ष्य तं विषयं तद्विषयनिवासिनां पुरुषाणाम् ओजांस्य् अपहर्तुम् एषाम् अभिलाषो बभूव ।
ते परेणापि यत्नेन संप्रवृत्ताः स्वकर्मणि ।
नैव तद्विषयस्थानां हर्तुम् ओजः प्रसेहिरे
तस्य प्रभावातिशयान् नृपस्य ममेति यत्रैव बभूव बुद्धिः ।
सैवास्य रक्षा परमास तस्माद् ओजांसि हर्तुं न विषेहिरे ते
यदा च परम् अपि प्रयत्नं कुर्वन्तो नैव शक्नुवन्ति स्म कस्य चित् तद्विषयनिवासिन ओजो ऽपहर्तुम् अथैषां परस्परम् अवेक्ष्यैतद् अभूत् । किं नु खल्व् इदं मार्षाः ।
अस्मत्प्रभावप्रतिघातयोग्या विद्यातपःसिद्धिमया विशेषाः ।
न सन्ति चैषाम् अथ चाद्य सर्वे व्यर्थाभिधानत्वम् उपागताः स्मः
अथ ते यक्षा ब्राह्मणवर्णम् आत्मानम् अभिनिर्माय समनुचरन्तो ददृशुः प्रत्यरण्यचरम् अन्यतमं गोपालकं सशाद्वले छायाद्रुममूले सोपानत्कं संनिषण्णं सपल्लवैर् वनतरुकुसुमैर् विरचितां मालाम् उद्वहन्तं दक्षिणतो विन्यस्तदण्डपरशुम् एकाकिनं रज्जुवर्तनव्यापृतं प्रक्ष्वेडितविलासेन गायन्तम् आसीनं समुपेत्य चैनम् ऊचुः । भो गवां संरक्षणाधिकृत । एवं विविक्ते निर्जनसंपाते ऽस्मिन्न् अरण्ये विचरन्न् एकाकी कथं न बिभेषीति ॥ स तान् उल्लोक्याब्रवीत् । कुतो वा भेतव्यम् इति ॥ यक्षा ऊचुः । किं त्वया न श्रुतपूर्वा रक्षसां पिशाचानां वा निसर्गरौद्रा प्रकृतिः ।
सहायमध्ये ऽपि हि वर्तमानो विद्यातपःस्वस्त्ययनैर् उपेतः ।
येभ्यः कथं चित् परिमोक्षम् एति शौर्याद् अवज्ञातभयो ऽपि लोकः
तेभ्यो नृमेदःपिशिताशनेभ्यः कथं भयं ते ऽस्ति न राक्षसेभ्यः ।
विविक्तगम्भीरभयानकेषु सहायहीनस्य वनान्तरेषु
इत्य् उक्ते स गोपालकः प्रहस्यैनान् उवाच ।
जनः स्वस्त्ययनेनायं महता परिपाल्यते ।
देवेन्द्रैर् अप्य् अशक्यो ऽयं किं पुनः पिशिताशनैः
तेन गेह इवारण्ये रात्राव् अपि यथा दिवा ।
जनान्त इव चैको ऽपि निर्भयो विचराम्य् अहम्
अथैनं ते यक्षाः कौतूहलप्राबल्यात् सादरम् उपवत्सयन्त इवोचुः । तत् कथय कथय तावद् भद्र कीदृशो ऽयं युष्माकं स्वस्त्ययनविशेष इति ॥ स तान् प्रहसन्न् उवाच । श्रूयतां यादृशो ऽस्माकम् अत्यद्भुतः स्वस्त्ययनविशेषः ।
कनकगिरिशिलाविशालवक्षाः शरदमलेन्दुमनोज्ञवक्त्रशोभः ।
कनकपरिघपीनलम्बबाहुर् वृषभनिभेक्षणविक्रमो नरेन्द्रः
ईदृशो ऽस्माकं स्वस्त्ययनविशेष इत्य् उक्त्वा सामर्षविस्मयस् तान् यक्षान् अवेक्षमाणः पुनर् उवाच । आश्चर्यं बतेदम् ।
एवं प्रकाशो नृपतिप्रभावः कथं नु वः श्रोत्रपथं न यातः ।
अत्यद्भुतत्वाद् अथवा श्रुतो ऽपि भवत्सु विप्रत्ययतो न रूढः
शङ्के गुणान्वेषणविक्लवो वा देशे जनो ऽसाव् अकुतूहलो वा ।
विवर्जितो भाग्यपरिक्षयाद् वा कीर्त्या नरेन्द्रस्य यतो ऽभ्युपैथ
तद् अस्ति वो भाग्यशेषं यत् तादृशाद् देशकान्ताराद् इहागताः स्थ ॥ यक्षा ऊचुः । भद्र किंकृतो ऽयम् अस्य राज्ञः प्रभावो यद् अस्यामानुषा न प्रसहन्ते विषयनिवासिनं जनं हिंसितुम् इति । गोपालक उवाच । स्वमाहात्म्याधिगतः प्रभावो ऽयम् अस्माकं महाराजस्य । पश्यत ब्राह्मणाः ।
मैत्री तस्य बलं ध्वजाग्रशबलं त्व् आचारमात्रं बलं नासौ वेत्ति रुषं न चाह परुषं सम्यक् च गां रक्षति ।
धर्मस् तस्य नयो न नीतिनिकृतिः पूजार्थम् अर्थः सताम् इत्य् आश्चर्यमयो ऽपि दुर्जनधनं गर्वं च नालम्बते
एवमादिगुणशतसमुदितो ऽयम् अस्माकं स्वामी । तेनास्य न प्रसहन्ते विषयनिवासिनं जनम् उपद्रवाः । अपि च कियद् अहं वः शक्ष्यामि वक्तुम् । नृपतिगुणश्रवणकुतूहलैस् तु भवद्भिर् नगरम् एव युक्तं प्रवेष्टुं स्यात् । तत्र हि भवन्तः स्वधर्मानुरागाद् व्यवस्थितार्यमर्यादं नित्यक्षेमसुभिक्षत्वात् प्रमुदितसमृद्धम् अनुद्धतोदात्तवेषम् अभ्यागतातिथिजनविशेषवत्सलं नृपतिगुणाक्षिप्तहृदयं तत्कीर्त्याश्रयाः स्तुतीर् मङ्गलम् इव स्वस्त्ययनम् इव च प्रहर्षाद् अभ्यस्यन्तं जनं दृष्ट्वा राज्ञो गुणविस्तरम् अनुमास्यन्ते । सत्यां च गुणबहुमानोद्भावनायां तद्दिदृक्षायाम् अवश्यं तद्गुणप्रत्यक्षिणो भविष्यथेति ॥ अथ ते यक्षाः स्वप्रभावप्रतीघातात् तस्मिन् राजनि सा मर्षहृदया भावप्रयुक्तयापि युक्तया तया तथ्यया गुणकथया नैव मार्दवम् उपजग्मुः ।
प्रायेण खलु मन्दानाम् अमर्षज्वलितं मनः ।
यस्मिन् वस्तुनि तत्कीर्त्या तद् विशेषेण दह्यते
प्रदानप्रियतां तु समभिवीक्ष्य राज्ञस् ते यक्षास् तदपकारचिकीर्षवः समभिगम्य राजानं संदर्शनकाले भोजनम् अयाचन्त ॥ अथ स राजा प्रमुदितमनास् तदधिकृतान् पुरुषान् समादिदेश । क्षिप्रम् अभिरुचितं भोजनं ब्राह्मणेभ्यो दीयताम् इति ॥ अथ ते यक्षाः समुपहृतं राजार्हम् अपि भोजनं हरिततृणम् इव व्याघ्रा नैव प्रत्यगृह्णन् नैवंविधं भोजनं वयम् अश्नीम इति । तच् छ्रुत्वा स राजा समभिगम्यैनान् अब्रवीत् । अथ कीदृशं भोजनं युष्माकम् उपशेते । यावत् तादृशम् अन्विष्यताम् इति ॥ यक्षा ऊचुः ।
अत्यक्तोष्माणि मांसानि नराणां रुधिराणि च ।
इत्य् अन्नपानं पद्माक्ष यक्षानाम् अक्षतव्रत
इत्य् उक्त्वा दंष्ट्राकरालवदनानि दीप्तपिङ्गलकेकररौद्रनयनानि चिपिटविरूपघोणानि ज्वलदनलकपिलकेशश्मश्रूणि सजलजलधरान्धकाराकाराणि विकृतभीषणानि स्वान्य् एव वपूंषि प्रत्यपद्यन्त । समवेक्ष्य चैनान् स राजा पिशाचाः खल्व् इमे न मानुषास् तेनास्मदीयम् अन्नपानं नाभिलषन्तीति निश्चयम् उपजगाम ॥
अथ तस्य नरेन्द्रस्य प्रकृत्या करुणात्मनः ।
भूयसी करुणा तेषु समभूच् छुद्धचेतसः
करुणैकतानहृदयश् च तान् यक्षान् अनुशोचन् नियतम् ईदृशम् अर्थं चिन्तयाम् आस ।
दयावतस् तावद् इदम् अन्नपानं सुदुर्लभम् ।
प्रत्यहं च तद् अन्वेष्यं किं नु दुःखम् अतः परम्
निर्दयस्याप्य् अशक्तस्य विघातैकरसः श्रमः ।
शक्तस्याप्य् अहिताभ्यासात् किं स्वित् कष्टतरं ततः
एवंविधाहारपरायणानां कारुण्यशून्याशिवमानसानाम् ।
प्रेत्येह चैषां दहतां स्वम् अर्थं दुःखानि यास्यन्ति कदा नु नाशम्
तत् कथम् इदानीम् अहम् एषाम् आहारसंपादनाद् एकाहम् अपि तावत् परहिंसाप्रणयविघातं कुर्याम् ।
न हि स्मराम्य् अर्थितयागतानाम् आशाविपर्यासहतप्रभाणि ।
हिमानिलम्लापितपङ्कजानां समानदैन्यानि मुखानि कर्तुम्
भवतु । दृष्टम् ।
स्वतः शरीरात् स्थिरपीवराणि दास्यामि मांसानि सशोणितानि ।
अतो ऽन्यथा को हि मम क्रमः स्याद् इत्य् आगतेष्व् अर्थिषु युक्तरूपः
स्वयंमृतानां हि निरूष्मकाणि भवन्ति मांसानि विशोणितानि ।
प्रियाणि चैषां न हि तानि सम्यग् बुभुक्षया पीडितविग्रहाणाम्
जीवतो ऽपि च कुतो ऽहम् अन्यस्मान् मांसम् आदास्ये माम् अभिगम्य चैते तथैव क्षुत्तर्षपरिक्षामनयनवदना निष्फलाशाप्रणयत्वाद् अधिकतरविघातातुरमनसः कथं नाम प्रतियास्यन्ति । तद् इदम् अत्र प्राप्तकालम् ।
दुष्टव्रणस्येव सदातुरस्य कडेवरस्यास्य रुजाकरस्य ।
करोमि कार्यातिशयोपयोगाद् अत्यर्थरम्यं प्रतिकारखेदम्
इति विनिश्चित्य स राजा प्रहर्षोद्गमात् स्फीतीकृतनयनवदनशोभः स्वशरीरम् उपदर्शयंस् तान् यक्षान् उवाच ।
अमूनि मांसानि सशोणितानि धृतानि लोकस्य हितार्थम् एव ।
यद्य् आतिथेयत्वम् उपेयुर् अद्य महोदयः सो ऽभ्युदयो मम स्यात्
अथ ते यक्षा जानन्तो ऽपि राज्ञस् तस्याध्याशयम् अत्यद्भुतत्वाद् अश्रद्दधाना राजानम् ऊचुः ।
अर्थिनात्मगते दुःखे याच्ञादैन्येन दर्शिते ।
ज्ञातुम् अर्हति दातैव प्राप्तकालम् अतः परम्
अथ स राजा ऽनुमतम् इदम् एषाम् इति प्रमुदितमनाः सिरामोक्षणार्थं वैद्या आज्ञाप्यन्ताम् इति समादिदेश ॥ अथ तस्य राज्ञो ऽमात्याः स्वमांसशोणितप्रदानव्यवसायम् अवेत्य ससंभ्रमामर्षव्याकुलहृदया व्यक्तम् ईदृशं कं चिद् अर्थं स्नेहवशाद् ऊचुः । नार्हति देवः प्रदानहर्षातिरभसाद् अनुरक्तानां प्रजानां हिताहितक्रमम् अनवेक्षितुम् । न चैतद् अविदितं देवस्य यथा
यद् यत् प्रजानाम् अहितोदयाय तत् तत् प्रियं मानद राक्षसानाम् ।
परोपरोधार्जितवृत्तितुष्टिर् एवंस्वभावानघ जातिर् एषाम्
सुखेष्व् असक्तश् च बिभर्षि देव राज्यश्रियं लोकहितार्थम् एव ।
स्वमांसदानव्यवसायम् अस्मात् स्वनिश्चयोन्मार्गम् इमं विमुञ्च
असंशयं न प्रसहन्त एते त्वद्वीर्यगुप्तं नरवीर लोकम् ।
अनर्थपाण्डित्यहतास् तथा हि नयेन वाञ्छन्त्य् अनयं प्रजानाम्
मेदोवसाद्यैस् त्रिदशा मखेषु प्रीतिं हुताशाभिहुतैर् व्रजन्ति ।
सत्कारपूतं भवदीयम् अन्नं संपन्नम् एषां किल नैव रुच्यम्
कामं नास्मद्विधजनाधेयबुद्धयो देवपादाः स्वकार्यानुरागस् त्व् अयम् अस्मान् एवम् उपचारपथाद् भ्रंशयति । पञ्चानाम् अमीषाम् अर्थे सकलं जगद् अनाथीकर्तव्यम् इति को ऽयं धर्ममार्गो देवस्य । अपि च । किंकृतेयम् अस्मास्व् एवं निष्प्रणयता केन वास्माकं स्वाम्यर्थे विनियोज्यमानानि विनिगूढपूर्वाणि मांसशोणितानि यद् अपरिक्षीणेष्व् एवामीषु स्वानि देवो दातुम् इच्छतीति ॥ अथ स राजा तान् अमात्यान् उवाच ।
संविद्यमानं नास्तीति ब्रूयाद् अस्मद्विधः कथम् ।
न ददामीत्य् असभ्यं वा विस्पष्टम् अपि याचितः
धर्मव्यवस्थासु पुरःसरः सन् स्वयं व्रजेयं यदि कापथेन ।
अस्मद्गताचारपथानुगानां भवेद् अवस्था मम का प्रजानाम्
यतः प्रजा एव समीक्षमाणः सारं शरीराद् अहम् उद्धरिष्ये ।
कश् च प्रभावो जगदर्थसाधुर् मात्सर्यहार्याल्पहृदो मम स्यात्
यद् अपि चास्मत्प्रेमबहुमानावर्जितं प्रणयविश्रम्भगर्भम् अभिधीयते भवद्भिः किंकृतेयम् अस्मास्व् एवं निष्प्रणयता यद् अपरिक्षीणेष्व् एव नो मांसशोणितेषु स्वानि देवो दातुम् इच्छतीत्य् अत्र वो ऽनुनेष्यामि । न खलु मे युष्मासु प्रतिहतविषयः प्रणयमार्गो विश्रम्भविरहात् परिशङ्कागहनदुरवगाहो वा । किं तु
धने तनुत्वं क्रमशो गते वा भाग्यानुवृत्त्या क्षयम् आगते वा ।
विजृम्भमाणप्रणयः सुहृत्सु शोभेत न स्फीतधनः कृशेषु
विवर्धितेष्व् अर्थिजनार्थम् एव संविद्यमानेषु च मे बृहत्सु ।
गात्रेषु मांसोपचयोन्नतेषु युष्मास्व् अपि स्यात् प्रणयो विरूपः
असंस्तुतानाम् अपि च क्षमेय पीडां कथं कैव कथा भवत्सु ।
स्वान्य् एव मांसानि यतो ऽस्मि दित्सुर् मां चैव याचन्त इमे न युष्मान्
तद् अलम् अस्मदतिस्नेहाद् धर्मविघ्ननिःसाध्वसतया । अनुचितः खल्व् अयम् अत्रभवताम् अस्मदर्थेषु समुदाचारः । मीमांसितव्यम् अपि च तावद् एतत् स्यात् ।
स्वार्थम् अन्नादि दित्सन्तं कथं स्यात् प्रतिषेधयन् ।
साधुवृत्तिर् असाधुर् वा प्राग् एवैवंविधं विधिम्
तद् अलम् अनेनात्र वो निर्बन्धेन । न्यायोपपरीक्षया क्रियताम् अस्मत्साचिव्यसदृशम् उन्मार्गावरणं मनसः । अनुमोदनानुगुणवचसः खल्व् अत्रभवन्तः शोभेरन् नैवम् अधीरनयनाः । कुतः ।
नैकोपयोगस्य धनस्य तावन् न प्रत्यहं याचनका भवन्ति ।
एवंविधस् त्व् अर्थिजनो ऽधिगन्तुं न दैवताराधनयापि शक्यः
एवंविधे चार्थिजने ऽभ्युपेते देहे विनाशिन्य् असुखास्पदे च ।
विमर्शमार्गो ऽप्य् अनुदात्तता स्यान् मात्सर्यदैन्यं तु परा तमिस्रा
तन् न मां वारयितुम् अर्हन्त्य् अत्रभवन्त इत्य् अनुनीय स राजा स्वां पर्षदम् आहूय वैद्यान् पञ्च सिराः स्वशरीरे मोक्षयित्वा तान् यक्षान् उवाच ।
धर्मकर्मणि साचिव्यं प्रीतिं च परमां मम ।
भवन्तः कर्तुम् अर्हन्ति देहस्यास्य प्रतिग्रहात्
ते तथेत्य् उक्त्वाञ्जलिपुटैर् एव राज्ञो रक्तचन्दनरसाभिताम्रं रुधिरं पातुम् उपचक्रमिरे ।
स पीयमानक्षतजः क्षितीशः क्षपाचरैर् हेमवपुश् चकाशे ।
संध्यानुरक्तैर् जलभारनम्रैः पयोधरैर् मेरुर् इवोपगूढः
प्रीतिप्रकर्षाद् धृतिसंपदा च वपुर्गुणाद् एव च तस्य राज्ञः ।
मम्लौ न गात्रं न मुमूर्छ चेतः संचिक्षिये न क्षतजं क्षरद् वा
विनीततर्षक्लमास् तु ते यक्षाः पर्याप्तम् अनेनेति राजानम् ऊचुः ॥
अनेकदुःखायतने शरीरे सदा कृतघ्ने ऽपि नराधिपस्य ।
गते ऽर्थिसंमाननसाधनत्वं हर्षानुकूलं ग्रहणं बभूव
अथ स राजा प्रहर्षप्रबोधाद् अधिकतरनयनवदनप्रसादो नीलोत्पलदलनीलविमलपत्त्रं रत्नप्रभोद्भासुररुचिरत्सरुं निशितं निस्त्रिंशम् आदाय स्वमांसानि च्छित्त्वा च्छित्त्वा तेभ्यः प्रायच्छत् ।
ह्रियमाणावकाशं तु दानप्रीत्या पुनः पुनः ।
न प्रसेहे मनस् तस्य च्छेददुःखं विगाहितुम्
आकृष्यमाणं शितशस्त्रपातैः प्रीत्या पुनर् दूरम् अपास्यमानम् ।
खेदालसत्वाद् इव तस्य दुःखं मनःसमुत्सर्पणमन्दम् आसीत्
स प्रीतिमान् एव निशाचरांस् तान् संतर्पयन् स्वैः पिशितैस् तथास ।
क्रूराणि तेषाम् अपि मानसानि येनासुर् आविष्कृतमार्दवानि
धर्मप्रियत्वात् करुणावशाद् वा त्यजन् परार्थे प्रियम् आत्मदेहम् ।
द्वेषाग्निदग्धान्य् अपि मानसानि प्रसादसावर्ण्यनवानि कुर्यात्
अथ ते यक्षास् तं राजानं स्वमांसोत्कर्तनपरं तथैवास्खलितवदनप्रसादम् अविकम्प्यमानं मांसच्छेदवेदनाभिर् अभिवीक्ष्य परं प्रसादं विस्मयं चोपजग्मुः ।
आश्चर्यम् अद्भुतम् अहो बत किं स्विद् एतत् सत्यं न वेति समुदीर्णविचारहर्षाः ।
राजन्य् अमर्षम् उपमृद्य मनःप्रसादं तत्संस्तुतिप्रणतिभिः प्रथयां बभूवुः
अलम् अलं देव । विरम्यतां स्वशरीरपीडाप्रसङ्गात् । संतर्पिताः स्मस् तवानयात्यद्भुतया याचनकजनमनोहरया प्रतिपत्त्येति ससंभ्रमाः सप्रणामं विनिवार्य राजानं प्रसादाश्रुपरिषिक्तवदनाः सबहुमानम् उदीक्षमाणाः पुनर् ऊचुः ।
स्थाने भक्तिवशेन गच्छति जनस् त्वत्कीर्तिवाचालतां स्थाने श्रीः परिभूय पङ्कजवनं त्वत्संश्रयश्लाघिनी ।
व्यक्तं शक्रसनाथताम् अपि गता त्वद्वीर्यगुप्ताम् इमां द्यौः पश्यत्य् उदितस्पृहा वसुमतीं नो चेद् अहो वञ्च्यते
किं बहुना । एवंविधजनाभ्युपपन्नः सभाग्यः खलु मनुष्यलोकः । युष्मदायासाभ्यनुमोदनात् तु वयम् अत्र दग्धाः । भवद्विधजनापाश्रयाच् छक्य इत्थंगतैर् अप्य् आत्मा समुद्धर्तुम् इति स्वदुष्कृतप्रतीकाराशया पृच्छामः ।
अनादृत्य सुखप्राप्ताम् अनुरक्तां नृपश्रियम् ।
किं तद् अत्यद्भुतं स्थानं पथानेन यद् इच्छसि
सर्वक्षितिपतित्वं नु धनेशत्वम् अथेन्द्रताम् ।
ब्रह्मभूयं विमोक्षं वा तपसानेन काङ्क्षसि
अस्य हि व्यवसायस्य न दूरतरम् ईप्सितम् ।
श्रोतव्यं चेत् तद् अस्माभिर् वक्तुम् अर्हति नो भवान्
राजोवाच । श्रूयतां यदर्थो ऽयं ममाभ्युद्यमः ।
प्रयत्नलभ्या यद् अयत्ननाशिनी न तृप्तिसौख्याय कुतः प्रशान्तये ।
भवाश्रया संपद् अतो न कामये सुरेन्द्रलक्ष्मीम् अपि किं बतेतराम्
न चात्मदुःखक्षयमात्रकेण मे प्रयाति संतोषपथेन मानसम् ।
अमून् अनाथान् अभिवीक्ष्य देहिनः प्रसक्ततीव्रव्यसनश्रमातुरान्
अनेन पुण्येन तु सर्वदर्शिताम् अवाप्य निर्जित्य च दोषविद्विषः ।
जरारुजामृत्युमहोर्मिसंकुलात् समुद्धरेयं भवसागराज् जगत्
अथ ते यक्षाः प्रसादसंहृषिततनूरुहाः प्रणम्य राजानम् ऊचुः । उपपन्नरूपम् एवंविधस्य व्यवसायातिशयस्येदं कर्म । तन् न दूरे भवद्विधानाम् अभिप्रायसंपद् इति निश्चितमनसो विज्ञापयाम् आसुः ।
कामं लोकहितायैव तव सर्वो ऽयम् उद्यमः ।
स्वहितात्यादरस् त्व् एष स्मर्तुम् अर्हसि नस् तदा
अज्ञानाच् च यद् अस्माभिर् एवम् आयासितो भवान् ।
स्वम् अप्य् अर्थम् अपश्यद्भिर् मृष्यताम् एव तच् च नः
आज्ञाम् अपि च तावन् नस् त्वम् अनुग्रहपद्धतिम् ।
सचिवानाम् इव स्वेषां विश्रब्धं दातुम् अर्हसि
अथ स राजा प्रसादमृदूकृतहृदयान् मत्वैनान् उवाच । उपकारः खल्व् अयं नायासो ममेत्य् अलम् अत्राक्षमाशङ्कया । अपि च ।
एवंविधे धर्मपथे सहायान् किं विस्मरिष्याम्य् अधिगम्य बोधिम् ।
युष्माकम् एव प्रथमं करिष्ये विमोक्षधर्मामृतसंविभागम्
अस्मत्प्रियं चाभिसमीक्षमाणैर् हिंसा भवद्भिर् विषवद् विवर्ज्या ।
लोभः परद्रव्यपरिग्रहेषु वाग् गर्हिता मद्यमयश् च पाप्मा
अथ ते यक्षास् तथेत्य् अस्मै प्रतिश्रुत्य प्रणम्य प्रदक्षिणीकृत्य चैनं तत्रैवान्तर्दधिरे । स्वमांसशोणितप्रदाननिश्चयसमकालम् एव तु तस्य महासत्त्वस्य
विकम्पमाना बहुधा वसुंधरा विघूर्णयाम् आस सुवर्णपर्वतम् ।
प्रसस्वनुर् दुन्दुभयश् च तद्गता द्रुमाश् च पुष्पं ससृजुर् विकम्पनात्
तद् अभ्रवद् व्योमनि मारुतेरितं पतत्रिसेनेव वितानवत् क्व चित् ।
विसृत्य माला ग्रथितेव कुत्र चित् समं समन्तान् नृपतेर् व्यकीर्यत
निवारयिष्यन्न् इव मेदिनीपतिं समुद्धतावेगतया महार्णवः ।
जलैः प्रकृत्यभ्यधिकक्रमस्वनैः प्रयाणसौजस्कवपुर् व्यरोचत
किम् एतद् इत्य् आगतसंभ्रमस् ततः सुराधिपस् तस्य विचिन्त्य कारणम् ।
नृपात्ययाशङ्किततूर्णम् आययौ नृपालयं शोकभयाकुलाकुलम्
तथागतस्यापि तु तस्य भूपतेर् मुखप्रसादात् सविशेषविस्मयः ।
उपेत्य तत्कर्म मनोज्ञया गिरा प्रसादसंहर्षवशेन तुष्टुवे
अहो प्रकर्षो बत सज्जनस्थितेर् अहो गुणाभ्यासविधेर् उदात्तता ।
अहो परानुग्रहपेशला मतिस् त्वदर्पणान् नाथवती बत क्षितिः
मूल पाठ: Jātakamālā 1-15 · Edition: Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1) · Data entry Albrecht Hanisch Mitsuyo Demoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0