जातकमाला · अध्याय 7
तद् एवं तिर्यग्गतानाम् अपि महासत्त्वानां शक्त्यनुरूपा दानप्रवृत्तिर् दृष्टा । केन नाम मनुष्यभूतेन न दातव्यं स्यात् ॥
तथा तिर्यग्गता अपि गुणवात्सल्यात् संपूज्यन्ते सद्भिर् इति गुणेष्व् आदरः कार्य इत्य् एवम् अप्य् उपनेयम् ॥
शशजातकं षष्ठम् ॥
7. अगस्त्यजातकम्
तपोवनस्थानाम् अप्य् अलंकारस् त्यागशौर्यं प्राग् एव गृहस्थानाम् ॥
तद्यथानुश्रूयते । बोधिसत्त्वभूतः किलायं भगवांल् लोकहितार्थं संसाराध्वनि वर्तमानश् चारित्रगुणविशुद्ध्यभिलक्षितं क्षितितलतिलकभूतम् अन्यतमं महद् ब्राह्मणकुलं गगनतलम् इव शरदमलपरिपूर्णमण्डलश् चन्द्रमाः समुद्यन्न् एवाभ्यलंचकार । स यथाक्रमं श्रुतिस्मृतिविहितान् अवाप्य जातकर्मादीन् संस्कारान् अधीत्य साङ्गान् वेदान् कृत्स्नं व्याप्य विद्वद्यशसा मनुष्यलोकं गुणप्रियैर् दातृभिर् अभ्यर्थ्य प्रतिग्राह्यमाणविभवत्वात् परां धनसमृद्धिम् अधिजगाम ।
स बन्धुमित्राश्रितदीनवर्गं संमाननीयान् अतिथीन् गुरूंश् च ।
प्रह्लादयाम् आस तया समृद्ध्या देशान् महामेघ इवाभिवर्षन्
विद्वत्तया तस्य यशः प्रकाशं तत् त्यागशौर्याद् अधिकं चकाशे ।
निशाकरस्येव शरद्विशुद्धं समग्रभावाद् अधिकान्ति बिम्बम्
अथ स महात्मा कुकार्यव्यासङ्गदोषसंबाधं प्रमादास्पदभूतं धनार्जनरक्षणप्रसङ्गव्याकुलम् उपशमविरोधि व्यसनशरशतलक्ष्यभूतम् अपर्यन्तकर्मान्तानुष्ठानपरिश्रमम् अतृप्तिजनकं कृशास्वादं गार्हस्थ्यम् अवेत्य तद्दोषविविक्तसुखां च धर्मप्रतिपत्त्यनुकूलां मोक्षधर्मारम्भाधिष्ठानभूतां प्रव्रज्याम् अनुपश्यन् महतीम् अपि तां धनसमृद्धिम् अपरिक्लेशाधिगतां लोकसंनतिमनोहरां तृणवद् अपास्य तापसप्रव्रज्याविनयनियमपरो बभूव । प्रव्रजितम् अपि तं महासत्त्वं यशःप्रकाशत्वात् पूर्वसंस्तवानुस्मरणात् संभावितगुणत्वात् प्रशमाभिलक्षितत्वाच् च श्रेयोऽर्थी जनस् तद्गुणगणावर्जितमतिस् तथैवाभिजगाम । स तं गृहिजनसंसर्गं प्रविवेकसुखप्रमाथिनं व्यासङ्गविक्षेपान्तरायकरम् अबहुमन्यमानः प्रविवेकाभिरामतया दक्षिणसमुद्रमध्यावगाढम् इन्द्रनीलभेदाभिनीलवर्णैर् अनिलबलाकलितैर् ऊर्मिमालाविलासैर् आच्छुरितपर्यन्तं सितसिकतास्तीर्णभूमिभागं पुष्पफलपल्लवालंकृतविटपैर् नानातरुभिर् उपशोभितं विमलसलिलाशयप्रतीरं काराद्वीपम् अध्यासनाद् आश्रमपदश्रिया संयोजयाम् आस ।
सुतनुस् तपसा तत्र स रेजे तपसातनुः ।
नवश् चन्द्र इव व्योम्नि कान्तत्वेनाकृशः कृशः
प्रशमनिभृतचेष्टितेन्द्रियो व्रतनियमैकरसो वने वसन् ।
मुनिर् इति तनुबुद्धिशक्तिभिर् मृगविहगैर् अपि सो ऽन्वगम्यत
अथ स महात्मा प्रदानोचितत्वात् तपोवने ऽपि निवसन् कालोपनतम् अतिथिजनं यथासंनिहितेन मूलफलेन शुचिना सलिलेन हृद्याभिश् च स्वागताशीर्वादपेशलाभिस् तपस्विजनयोग्याभिर् वाग्भिः संपूजयति स्म । अतिथिजनोपयुक्तशेषेण च यात्रामात्रार्थम् अभ्यवहृतेन वन्येनाहारेण वर्तयाम् आस ॥ तस्य तपःप्रकर्षात् प्रविसृतेन यशसा समावर्जितहृदयः शक्रो देवानाम् इन्द्रः स्थैर्यजिज्ञासया तस्य महासत्त्वस्य तस्मिन्न् अरण्यायतने तापसजनोपभोगयोग्यं मूलफलम् अनुपूर्वेण सर्वम् अन्तर्धापयाम् आस । बोधिसत्त्वो ऽपि ध्यानप्रसृतमानसतया संतोषपरिचयाद् अनधिमूर्छितत्वाद् आहारे शरीरे चानभिष्वङ्गान् न तदन्तर्धानहेतुं मनसि चकार । स तरुणानि तरुपल्लवान्य् अधिश्राय तैर् आहारप्रयोजनम् अभिनिष्पाद्यापरितृष्यमाण आहारविशेषानुत्सुकः स्वस्थमतिस् तथैव विजहार ।
न क्व चिद् दुर्लभा वृत्तिः संतोषनियतात्मनाम् ।
कुत्र नाम न विद्यन्ते तृणपर्णजलाशयाः
विस्मिततरमनास् तु शक्रो देवेन्द्रस् तस्य तेनावस्थानेन स्थिरतरगुणसंभावनस् तत्परीक्षानिमित्तं तस्मिन्न् अरण्यवनप्रदेशे निदाघकालानिल इव समग्रं वीरुत्तृणतरुगणं पर्णसमृद्ध्या वियोजयाम् आस ॥ अथ बोधिसत्त्वः प्रत्यार्द्रतराणि शीर्णपर्णानि समाहृत्य तैर् उदकस्विन्नैर् अनुत्कण्ठितमतिर् वर्तयमानो ध्यानसुखप्रीणितमनास् तत्रामृततृप्त इव विजहार ।
अविस्मयः श्रुतवतां समृद्धानाम् अमत्सरः ।
संतोषश् च वनस्थानां गुणशोभाविधिः परः
अथ शक्रस् तेन तस्याद्भुतरूपेण संतोषस्थैर्येण समभिवृद्धविस्मयः सामर्ष इव तस्य महासत्त्वस्य व्रतकाले हुताग्निहोत्रस्य परिसमाप्तजपस्यातिथिजनदिदृक्षया दिशो व्यवलोकयतो ब्राह्मणरूपम् आस्थायातिथिर् इव नाम पुरस्तात् प्रादुरभूत् । प्रीतमनाः समभिगम्य चैनं बोधिसत्त्वः स्वागतादिप्रियवचनपुरःसरेणाहारकालनिवेदनेनोपनिमन्त्रयाम् आस । तूष्णींभावात् तु तस्यानुमतम् उपनिमन्त्रणम् अवेत्य स महात्मा
दित्साप्रकर्षविकसन्नयनास्यशोभः स्निग्धैर् मनःश्रुतिहरैर् अभिनन्द्य वाक्यैः ।
कृच्छ्रोपलब्धम् अपि तच् छ्रपणं समस्तं तस्मै ददौ स्वयम् अभूच् च मुदैव तृप्तः
स तथैव प्रविश्य ध्यानागारं तेनैव प्रीतिप्रामोद्येन तद् अहोरात्रम् अतिनामयाम् आस ॥ अथ शक्रस् तस्य द्वितीये तृतीये चाहनि तथैव व्रतकाले पुरतः प्रादुरभूत् । सो ऽपि चैनं प्रमुदिततरमनास् तथैव प्रतिपूजयाम् आस।
दानाभिलाषः साधूनां कृपाभ्यासविवर्धितः ।
नैति संकोचदीनत्वं दुःखैः प्राणान्तिकैर् अपि
अथ शक्रः परमविस्मयाविष्टहृदयस् तपःप्रकर्षाद् अस्य प्रार्थनामात्रापेक्षं त्रिदशपतिलक्ष्मीसंपर्कम् अवगम्य समुत्पतितभयाशङ्कः स्वम् एव वपुर् दिव्याद्भुतशोभम् अभिप्रपद्य तपःप्रयोजनम् एनं पर्यपृच्छत् ।
बन्धून् प्रियान् अश्रुमुखान् विहाय परिग्रहान् सौख्यपरिग्रहांश् च ।
आशाङ्कुशं नु व्यवसृज्य कुत्र तपःपरिक्लेशम् इमं श्रितो ऽसि
सुखोपपन्नान् परिभूय भोगाञ् छोकातुरं बन्धुजनं च कृत्वा ।
न हेतुनाल्पेन हि यान्ति धीराः सुखोपरोधीनि तपोवनानि
वक्तव्यम् एतन् मयि मन्यसे चेत् कौतूहलं नो ऽर्हसि तद् विनेतुम् ।
किं नाम तद् यस्य गुणश्रवेण वशीकृतैवं भवतो ऽपि बुद्धिः
बोधिसत्त्व उवाच । श्रूयतां मार्ष यन्निमित्तो ऽयं मम प्रयत्नः ।
पुनःपुनर्जातिर् अतीव दुःखं जरा विपद् व्याधिविरूपता च ।
मर्तव्यम् इत्य् आकुलता च बुद्धेर् लोकान् अतस् त्रातुम् इह स्थितो ऽस्मि
अथ शक्रो नायम् अस्मद्गतां श्रियं कामयत इति समाश्वासितहृदयः सुभाषितेन तेन चाभिप्रसादितमतिर् युक्तम् इत्य् अभिपूज्य तद् अस्य वचनं वरप्रदानेन बोधिसत्त्वम् उपनिमन्त्रयाम् आस ।
अत्र ते तापसजनप्रतिरूपे सुभाषिते ।
ददामि काश्यप वरं तद् वृणीष्व यद् इच्छसि
अथ बोधिसत्त्वो भवसुखेष्व् अनास्थः प्रार्थनाम् एव दुःखम् अवगच्छन् सात्मीभूतसंतोषः शक्रम् उवाच ।
दातुम् इच्छसि चेन् मह्यम् अनुग्रहकरं वरम् ।
वृणे तस्माद् अहम् इमं देवानां प्रवरं वरम्
दारान् मनोऽभिलषितांस् तनयान् प्रभुत्वम् अर्थान् अभीप्सितविशालतरांश् च लब्ध्वा ।
येनाभितप्तमतिर् एति न जातु तृप्तिं लोभानलः स हृदयं मम नाभ्युपेयात्
अथ शक्रस् तस्य तया संतोषप्रवणमानसतया सुभाषिताभिव्यञ्जितया भूयस्या मात्रया संप्रसादितमतिः पुनर् बोधिसत्त्वं साधु साध्व् इति प्रशस्य वरेणोपच्छन्दयाम् आस ।
अत्रापि ते मुनिजनप्रतिरूपे सुभाषिते ।
प्रतिप्राभृतवत् प्रीत्या प्रयच्छाम्य् अपरं वरम्
अथ बोधिसत्त्वः क्लेशवियोगस्यैव दुर्लभताम् अस्य प्रदर्शयन् वरयाच्ञापदेशेन पुनर् अप्य् अस्मै धर्मं देशयाम् आस ।
ददासि मे यदि वरं सद्गुणावास वासव ।
वृणे तेनेदम् अपरं देवेन्द्रानवरं वरम्
अर्थाद् अपि भ्रंशम् अवाप्नुवन्ति वर्णप्रसादाद् यशसः सुखाच् च ।
येनाभिभूता द्विषतेव सत्त्वाः स द्वेषवह्निर् मम दूरतः स्यात्
तच् छ्रुत्वा शक्रो देवानाम् अधिपतिर् विस्मयवशात् साध्व् इत्य् एनं सबहुमानम् अभिप्रशस्य पुनर् उवाच ।
स्थाने प्रव्रजितान् कीर्तिर् अनुरक्तेव सेवते ।
तद् वरं प्रतिगृह्णीष्व मद् अत्रापि सुभाषिते
अथ बोधिसत्त्वः क्लेशप्रातिकूल्यात् क्लिष्टसत्त्वसंपर्कविगर्हां वरसंप्रतिग्रहापदेशेन कुर्वन्न् इत्य् उवाच ।
शृणुयाम् अपि नैव जातु बालं न च वीक्षेय न चैनम् आलपेयम् ।
न च तेन निवासखेददुःखं समुपेयां वरम् इत्य् अहं वृणे त्वाम्
शक्र उवाच ।
अनुकम्प्यो विशेषेण सताम् आपद्गतो ननु ।
आपदां मूलभूतत्वाद् बाल्यं चाधमम् इष्यते
करुणाश्रयभूतस्य बालस्यास्य विशेषतः ।
कृपालुर् अपि सन् कस्मान् न दर्शनम् अपीच्छसि
बोधिसत्त्व उवाच । अगत्या मार्ष । पश्यत्व् अत्रभवान् ।
कथं चिद् अपि शक्येत यदि बालश् चिकित्सितुम् ।
तद्धितोद्योगनिर्यत्नः कथं स्याद् इति मद्विधः
इत्थं चैष चिकित्साप्रयोगस्यापात्रम् इति गृह्यताम् ।
सुनयवद् अनयं नयत्य् अयं परम् अपि चात्र नियोक्तुम् इच्छति ।
अनुचितविनयार्जवक्रमो हितम् अपि चाभिहितः प्रकुप्यति
इति पण्डितमानमोहदग्धे हितवादिष्व् अपि रोषरूक्षभावे ।
रभसे विनयाभियोगमान्द्याद् वद कस् तत्र हितार्पणाभ्युपायः
इत्य् अगत्या सुरश्रेष्ठ करुणाप्रवणैर् अपि ।
बाल्याद् अद्रव्यभूतस्य न दर्शनम् अपीष्यते
तच् छ्रुत्वा शक्रः साधु साध्व् इत्य् एनम् अभिनन्द्य सुभाषितपरितोषितमतिः पुनर् उवाच ।
न सुभाषितरत्नानाम् अर्घः कश् च न विद्यते ।
कुसुमाञ्जलिवत् प्रीत्या ददाम्य् अत्र तु ते वरम्
अथ बोधिसत्त्वः सर्वावस्थसुखतां सज्जनस्य प्रदर्शयञ् छक्रम् उवाच।
वीक्षेय धीरं शृणुयां च धीरं स्यान् मे निवासः सह तेन शक्र ।
संभाषणं तेन सहैव भूयाद् एतद् वरं देववर प्रयच्छ
शक्र उवाच । अतिपक्षपात इव खलु ते धीरं प्रति । तद् उच्यताम् ।
किं नु धीरस् तवाकार्षीद् वद काश्यप कारणम् ।
अधीर इव येनासि धीरदर्शनलालसः
अथ बोधिसत्त्वः सज्जनमाहात्म्यम् अस्य प्रदर्शयन्न् उवाच । श्रूयतां मार्ष येन मे धीरदर्शनम् एवाभिलषति मतिः ।
व्रजति गुणपथेन च स्वयं नयति परान् अपि तेन वर्त्मना ।
वचनम् अपि न रूक्षम् अक्षमां जनयति तस्य हितोपसंहितम्
अशठविनयभूषणः सदा हितम् इति लम्भयितुं स शक्यते ।
इति मम गुणपक्षपातिनी नमति मतिर् गुणपक्षपातिनि
अथैनं शक्रः साधूपपन्नरूपम् इदम् इति चाभिनन्द्य समभिवृद्धप्रसादः पुनर् वरेणोपनिमन्त्रयाम् आस ।
कामं संतोषसात्मत्वात् सर्वत्र कृतम् एव ते ।
मदनुग्रहबुद्ध्या तु ग्रहीतुं वरम् अर्हसि
उपकाराशया भक्त्या शक्त्या चैव समस्तया ।
प्रयुक्तस्यातिदुःखो हि प्रणयस्याप्रतिग्रहः
अथ तस्य पराम् उपकर्तुकामताम् अवेत्य बोधिसत्त्वस् तत्प्रियहितकाम्यया प्रदानानुतर्षप्राबल्यम् अस्मै प्रकाशयन्न् उवाच ।
त्वदीयम् अन्नं क्षयदोषवर्जितं मनश् च दित्सापरितोषपेशलम् ।
विशुद्धशीलाभरणाश् च याचका मम स्युर् एतां वरसंपदं वृणे
शक्र उवाच । सुभाषितरत्नाकरः खल्व् अत्रभवान् । अपि च ।
यद् अभिप्रार्थितं सर्वं तत् तथैव भविष्यति ।
ददामि च पुनस् तुभ्यं वरम् अस्मिन् सुभाषिते
बोधिसत्त्व उवाच ।
वरं ममानुग्रहसंपदाकरं ददासि चेत् सर्वदिवौकसां वर ।
न माभ्युपेयाः पुनर् इत्य् अभिज्वलन्न् इमं वरं दैत्यनिसूदनं वृणे
अथ शक्रः सामर्षवद् एनम् अतिविस्मयमान उवाच । मा तावद् भोः ।
जपव्रतेज्याविधिना तपःश्रमैर् जनो ऽयम् अन्विच्छति दर्शनं मम ।
भवान् पुनर् नेच्छति केन हेतुना वरप्रदित्साभिगतस्य मे सतः
बोधिसत्त्व उवाच । अलं ते मन्युप्रणयेन । समनुनेष्याम्य् अहम् अत्रभवन्तं देवराजम् । न ह्य् असाव् अदाक्षिण्यानुवृत्तिर् नाप्य् अबहुमानविचेष्टितम् असमवधानकाम्यता वा भवतः । किं तु
निरीक्ष्य ते रूपम् अमानुषाद्भुतं प्रसन्नकान्ति ज्वलितं च तेजसा ।
भवेत् प्रमादस् तपसीति मे भयं प्रसादसौम्याद् अपि दर्शनात् तव
अथ शक्रः प्रणम्य प्रदक्षिणीकृत्य चैनं तत्रैवान्तर्दधे । प्रभातायां च रजन्यां बोधिसत्त्वः शक्रप्रभावोपहृतं प्रभूतं दिव्यम् अन्नपानं ददर्श । शक्रोपनिमन्त्रणाहूतानि चानेकानि प्रत्येकबुद्धशतानि व्यायताबद्धपरिकरांश् च परिवेषणसज्जान् अनेकान् देवकुमारान् ।
तेनान्नपानविधिना स मुनिर् महर्षीन् संतर्पयन् मुदम् उदारतमाम् अवाप ।
वृत्त्या च तापसजनोचितयाभिरेमे ध्यानाप्रमाणनियमेन शमेन चैव
मूल पाठ: Jātakamālā 1-15 · Edition: Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1) · Data entry Albrecht Hanisch Mitsuyo Demoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0