जातकमाला · अध्याय 6
इत्य् एनम् अभिसंराध्य शक्रस् तच् चास्य विभवसारम् उपसंहृत्य क्षमयित्वा च तत्रैवान्तर्दधे ॥
तद् एवं न विभवक्षयापेक्षया समृद्ध्याशया वा प्रदानवैधुर्यम् उपयान्ति सत्पुरुषा इति ॥
अविषह्यश्रेष्ठिजातकं पञ्चमम् ॥
6. शशजातकम्
तिर्यग्गतानाम् अपि महासत्त्वानां शक्त्यनुरूपा दानप्रवृत्तिर् दृष्टा ।
केन नाम मनुष्यभूतेन न दातव्यं स्यात् ॥
तद्यथानुश्रूयते । कस्मिंश् चिद् अरण्यप्रदेशे मनोज्ञवीरुत्तृणतरुनिचिते पुष्पफलवति वैडूर्यनीलशुचिसलिलवाहिन्या सरिता विभूषितपर्यन्ते मृदुशाद्वलास्तरण सुखसंस्पर्शदर्शनीय धरणितले तपस्विजनविचरिते बोधिसत्त्वः शशो बभूव ।
स सत्त्वयोगाद् वपुषश् च संपदा बलप्रकर्षाद् विपुलेन चौजसा ।
अतर्कितः क्षुद्रमृगैर् अशङ्कितश् चचार तस्मिन् मृगराजलीलया
स्वचर्माजिनसंवीतः स्वतनूरुहवल्कलः ।
मुनिवत् तत्र शुशुभे तुष्टचित्तस् तृणाङ्कुरैः
तस्य मैत्र्यवदातेन मनोवाक्कायकर्मणा ।
आसुर् जिह्मितदौरात्म्याः प्रायः शिष्यसुखा मृगाः
तस्य गुणातिशयसंभृतेन स्नेहगौरवेण विशेषवत्तरम् अवबद्धहृदयास् त्रयः सहाया बभूवुर् उद्रः शृगालो वानरश् च । ते परस्परसंबन्धनिबद्धस्नेहा इव बान्धवा अन्योन्यप्रणयसंमानविरूढसौहृदा इव च सुहृदः संमोदमानास् तत्र विहरन्ति स्म । तिर्यक्स्वभावविमुखाश् च प्राणिषु दयानुवृत्त्या लौल्यप्रशमाद् विस्मृतस्तेयप्रवृत्त्या च धर्मानुरोधिन्या च वृत्त्या पटुविज्ञानत्वाद् विनयनियमधीरया च चेष्टया देवतानाम् अपि विस्मयनीया बभूवुः ।
सुखानुलोमे गुणबाधिनि क्रमे गुणानुकूले च सुखोपरोधिनि ।
नरो ऽपि तावद् गुणपक्षसंश्रयाद् विराजते किं बत तिर्यगाकृतिः
अभूत् स तेषां तु शशाकृतिः कृती परानुकम्पाप्रतिपद्गुरुर् गुरुः ।
स्वभावसंपच् च गुणक्रमानुगा यशो यद् एषां सुरलोकम् अप्य् अगात्
अथ कदा चित् स महात्मा सायाह्नसमये धर्मश्रवणार्थम् अभिगतैः सबहुमानम् उपास्यमानस् तैः सहायैः परिपूर्णप्रायमण्डलम् आदित्यविप्रकर्षाद् व्यवदायमानशोभं रूप्यदर्पणम् इव त्सरुविरहितम् ईषत्पार्श्वापवृत्तबिम्बं शुक्लपक्षचतुर्दशीचन्द्रमसमुदितम् अभिवीक्ष्य सहायान् उवाच ।
असाव् आपूर्णशोभेन मण्डलेन हसन्न् इव ।
निवेदयति साधूनां चन्द्रमाः पोषधोत्सवम्
तद् व्यक्तं श्वः पञ्चदशी यतो भवद्भिः पोषधनियमम् अभिसंपादयद्भिर् न्यायोपलब्धेनाहारविशेषेन कालोपनतम् अतिथिजनं प्रतिपूज्य प्राणसंधारणम् अनुष्ठेयम् । पश्यन्तु भवन्तः ।
यत् संप्रयोगा विरहावसानाः समुच्छ्रयाः पातविरूपनिष्ठाः ।
विद्युल्लताभङ्गुरलोलम् आयुस् तेनैव कार्यो दृढम् अप्रमादः
दानेन शीलाभरणेन तस्मात् पुण्यानि संवर्धयितुं यतध्वम् ।
विवर्तमानस्य हि जन्मदुर्गे लोकस्य पुण्यानि परा प्रतिष्ठा
तारागणानाम् अभिभूय लक्ष्मीं विभाति यत् कान्तिगुणेन सोमः ।
ज्योतींषि चाक्रम्य सहस्ररश्मिर् यद् दीप्यते पुण्यगुणोच्छ्रयः सः
दृप्तस्वभावाः सचिवा नृपाश् च पुण्यप्रभावात् पृथिवीश्वराणाम् ।
सदश्ववृत्त्या हतसर्वगर्वाः प्रीता इवाज्ञाधुरम् उद्वहन्ति
पुण्यैर् विहीनान् अनुयात्य् अलक्ष्मीर् विस्पन्दमानान् अपि नीतिमार्गे ।
पुण्याधिकैः सा ह्य् अवभर्त्स्यमाना पर्येत्य् अमर्षाद् इव तद्विपक्षान्
दुःखप्रतिष्ठाद् अयशोऽनुबन्धाद् अपुण्यमार्गाद् उपरम्य तस्मात् ।
श्रीमत्सु सौख्योदयसाधनेषु पुण्यप्रसङ्गेषु मतिं कुरुध्वम्
ते तथेत्य् अस्यानुशासनीं प्रतिगृह्याभिवाद्य प्रदक्षिणीकृत्य चैनं स्वं स्वम् आलयम् अभिजग्मुः । अचिरगतेषु च तेषु सहायेषु स महात्मा चिन्ताम् आपेदे ।
अतिथेर् अभ्युपेतस्य संमानं येन तेन वा ।
विधातुं शक्तिर् अस्त्य् एषाम् अत्र शोच्यो ऽहम् एव तु
अस्मद्दन्ताग्रविच्छिन्नाः परितिक्तास् तृणाङ्कुराः ।
शक्या नातिथये दातुं सर्वथा धिग् अशक्तिताम्
इत्य् असामर्थ्यदीनेन को न्व् अर्थो जीवितेन मे ।
आनन्दः शोकतां यायाद् यस्यैवम् अतिथिर् मम
तत् कुत्रेदानीम् इदम् अतिथिपरिचर्यावैगुण्यान् निःसारं शरीरकम् उत्सृज्यमानं कस्य चिद् उपकाराय स्याद् इति विमृशन् स महात्मा स्मृतिं प्रतिलेभे । अये ।
स्वाधीनसुलभम् एतन् निरवद्यं विद्यते ममैव खलु ।
अतिथिजनप्रतिपूजनसमर्थरूपं शरीरधनम्
तत् किम् अहं विषीदामि ।
समधिगतम् इदं मयातिथेयं हृदय विमुञ्च यतो विषाददैन्यम् ।
समुपनतम् अनेन सत्करिष्याम्य् अहम् अतिथिप्रणयं शरीरकेण
इति विनिश्चित्य स महासत्त्वः परम् इव लाभम् अधिगम्य परमप्रीतमनास् तत्रावतस्थे ।
वितर्कातिशयस् तस्य हृदि संप्रविजृम्भितः ।
आविश्चक्रे प्रभावं च प्रसादं च दिवौकसाम्
ततः प्रहर्षाद् इव साचला चला मही बभूवानिभृतार्णवांशुका ।
वितस्तरुः खे सुरदुन्दुभिस्वना दिशः प्रसादाभरणाश् चकाशिरे
प्रसक्तमन्द्रस्तनितप्रहासिनस् तडित्पिनद्धाश् च घनाः समन्ततः ।
परस्पराश्लेषविकीर्णरेणुभिः प्रसक्तम् एनं कुसुमैर् अवाकिरन्
समुद्वहन् धीरगतिः समीरणः सुगन्धि नानाद्रुमपुष्पजं रजः ।
मुदा प्रवृद्धैर् अविभक्तभक्तिभिस् तम् अर्चयाम् आस कृशांशुकैर् इव
तद् उपलभ्य प्रमुदितविस्मितमनोभिर् देवताभिः समन्ततः परिकीर्त्यमानं तस्य वितर्काद्भुतं समापूर्यमाणविस्मयकौतूहलेन मनसा तस्य महासत्त्वस्य भावजिज्ञासया द्वितीये ऽहनि गगनतलमध्यम् अभिलङ्घमाने पटुतरकिरणप्रभावे सवितरि प्रस्फुरितमरीचिजालवसनासु भास्वरातपविसरावगुण्ठितास्व् अनालोकनक्षमासु दिक्षु संक्षिप्यमाणच्छायेष्व् अभिवृद्धचीरीविरावोन्नादितेषु वनान्तरेषु विच्छिद्यमानपक्षिसंपातेषु घर्मक्लमापीतोत्साहेष्व् अध्वगेषु शक्रो देवानाम् अधिपतिर् ब्राह्मणरूपी भूत्वा मार्गप्रनष्ट इवाध्वगः क्षुत्तर्षश्रमविषाददीनकण्ठः सस्वरं प्ररुदन्न् अविदूरे तेषां विचुक्रोश ।
एकं सार्थात् परिभ्रष्टं भ्रमन्तं गहने वने ।
क्षुच्छ्रमक्लान्तदेहं मां त्रातुम् अर्हन्ति साधवः
मार्गामार्गज्ञाननिश्चेतनं मां दिक्संमोहात् क्वापि गच्छन्तम् एकम् ।
कान्तारे ऽस्मिन् घर्मतर्षक्लमार्तं माभैःशब्दैः को ऽत्र मां ह्लादयेत
अथ ते महासत्त्वास् तेन तस्यातिकरुणेनाक्रन्दितशब्देन समाकम्पितहृदयाः ससंभ्रमद्रुततरगतयस् तं देशम् अभिजग्मुः । मार्गप्रनष्टाध्वगदीनदर्शनं चैनम् अभिसमीक्ष्य समभिगम्योपचारपुरःसरं समाश्वासयन्त ऊचुः ।
कान्तारे विप्रनष्टो ऽहम् इत्य् अलं संभ्रमेण ते ।
स्वस्य शिष्यगणस्येव समीपे वर्तसे हि नः
तद् अद्य तावद् अस्माकं परिचर्याप्रतिग्रहात् ।
विधायानुग्रहं सौम्य श्वो गन्तासि यथेप्सितम्
अथोद्रस् तस्य तूष्णींभावाद् अनुमतम् उपनिमन्त्रणम् अवेत्य हर्षसंभ्रमत्वरितगतिः सप्त रोहितमत्स्यान् समुपनीयावोचद् एनम् ।
मीनारिभिर् विस्मरणोज्झिता वा त्रासोत्प्लुता वा स्थलम् अभ्युपेताः ।
खेदप्रसुप्ता इव सप्त मत्स्या लब्धा मयैतान् निवसेह भुक्त्वा
अथ शृगालो ऽप्य् एनं यथोपलब्धम् अन्नजातम् उपहृत्य प्रणामपुरःसरं सादरम् उवाच ।
एकां च गोधां दधिभाजनं च केनापि संत्यक्तम् इहाध्यगच्छम् ।
तन् मे हितावेक्षितयोपयुज्य वने ऽस्तु ते ऽस्मिन् गुणवास वासः
इत्य् उक्त्वा प्रीतमनास् तद् अस्मै समुपजहार ॥ अथ वानरः परिपाकगुणात् समुपजातमार्दवानि मनःशिलाचूर्णरञ्जितानीवातिपिञ्जराण्य् अतिरक्तबन्धनमूलानि पिण्डीकृतान्य् आम्रफलान्य् आदाय साञ्जलिप्रग्रहम् एनम् उवाच ।
आम्राणि पक्वान्य् उदकं मनोज्ञं छायाश् च सत्संगमसौख्यशीताः ।
इत्य् अस्ति मे ब्रह्मविदां वरिष्ठ भुक्त्वैतद् अत्रैव तवास्तु वासः
अथ शशो ऽभिसृत्यैनम् उपचारक्रियानन्तरं सबहुमानम् उदीक्षमाणः स्वेन शरीरेणोपनिमन्त्रयाम् आस ।
न सन्ति मुद्गा न तिला न तण्डुला वने ऽभिवृद्धस्य शशस्य के च न ।
शरीरम् एतत् त्व् अनलाभिसंस्कृतं ममोपयुज्याद्य तपोवने वस
यद् अस्ति यस्येप्सितसाधनं धनं स तन् नियुङ्क्ते ऽर्थिजनागमोत्सवे ।
न चास्ति देहाद् अधिकं च मे धनं प्रतीच्छ सर्वस्वम् इदं यतो मम
शक्र उवाच ।
अन्यस्यापि वधं तावत् कुर्याद् अस्मद्विधः कथम् ।
इति दर्शितसौहार्दे कथा कैव भवद्विधे
शश उवाच । उपपन्नरूपम् इदम् आसन्नानुक्रोशे ब्राह्मण्ये । तद् इहैव तावद् भवान् आस्ताम् अस्मदनुग्रहापेक्षया यावत् कुतश् चिद् आत्मानुग्रहोपायम् आसादयामीति ॥ अथ शक्रो देवानाम् इन्द्रस् तस्य भावम् अवेत्य तप्ततपनीयवर्णं स्फुरत्प्रतनुज्वालं विकीर्यमाणविस्फुलिङ्गप्रकरं निर्धूमम् अङ्गारराशिम् अभिनिर्ममे ॥ अथ शशः समन्ततो विलोकयंस् तम् अग्निस्कन्धं ददर्श । दृष्ट्वा च प्रीतमनाः शक्रम् उवाच । समधिगतो ऽयं मयात्मानुग्रहोपायः । तद् अस्मच्छरीरोपभोगात् सफलाम् अनुग्रहाशां मे कर्तुम् अर्हसि । पश्य महाब्राह्मण ।
देयं च दित्साप्रवणं च चित्तं भवद्विधेनातिथिना च योगः ।
नावाप्तुम् एतद् धि सुखेन शक्यं तत् स्याद् अमोघं भवदाश्रयान् मे
इत्य् अनुनीय संमाननादरातिथिप्रियतया चैनम् अभिवाद्य ।
ततः स तं वह्निम् अभिज्वलन्तं निधिं धनार्थी सहसेव दृष्ट्वा ।
परेण हर्षेण समारुरोह तोयं हसत्पद्मम् इवैकहंसः
तद् दृष्ट्वा परमविस्मयावर्जितमतिर् देवानाम् अधिपतिः स्वम् एव वपुर् आस्थाय दिव्यकुसुमवर्षपुरःसरीभिर् मनःश्रुतिसुखाभिर् वाग्भिर् अभिपूज्य तं महासत्त्वं कमलपलाशलक्ष्मीसमृद्धाभ्यां भासुराङ्गुलिविभूषणालंकृताभ्यां पाणिभ्यां स्वयम् एव चैनं परिगृह्य त्रिदशेभ्यः संदर्शयाम् आस । पश्यन्त्व् अत्रभवन्तस् त्रिदशालयनिवासिनो देवाः समनुमोदन्तां चेदम् अतिविस्मयनीयं कर्मावदानम् अस्य महासत्त्वस्य ।
त्यक्तं बतानेन यथा शरीरं निःसङ्गम् अद्यातिथिवत्सलेन ।
निर्माल्यम् अप्य् एवम् अकम्पमाना नालं परित्यक्तुम् अधीरसत्त्वाः
जातिः क्वेयं तद्विरोधि क्व चेदं त्यागौदार्यं चेतसः पाटवं च ।
विस्पष्टो ऽयं पुण्यमन्दादराणां प्रत्यादेशो देवतानां नृणां च
अहो बत गुणाभ्यासवासितास्य यथा मतिः ।
अहो सद्वृत्तवात्सल्यं क्रियौदार्येण दर्शितम्
अथ शक्रस् तत्कर्मातिशयविख्यापनार्थं लोकहितावेक्षी शशबिम्बलक्षणेन वैजयन्तस्य प्रासादवरस्य सुधर्मायाश् च देवसभायाः कूटागारकर्णिके चन्द्रमण्डलं चाभ्यलंचकार ।
संपूर्णे ऽद्यापि तद् इदं शशबिम्बं निशाकरे ।
छायामयम् इवादर्शे राजते ऽभिविराजते
ततः प्रभृति लोकेन कुमुदाकरहासनः ।
क्षणदातिलकश् चन्द्रः शशाङ्क इति कीर्त्यते
मूल पाठ: Jātakamālā 1-15 · Edition: Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1) · Data entry Albrecht Hanisch Mitsuyo Demoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0