जातकमाला · अध्याय 5
तत् किम् इदम् उपनीतम् । एवम्
अत्ययम् अप्य् अविगणय्य दित्सन्ति सत्पुरुषाः ।
केन नाम स्वस्थेन न दातव्यं स्याद् इति
न सत्त्ववन्तः शक्यन्ते भयाद् अप्य् अगतिं गमयितुम् इत्य् एवम् अप्य् उपनेयम् ॥
श्रेष्ठिजातकं चतुर्थम् ॥
5. अविषह्यश्रेष्ठिजातकम्
न विभवक्षयाशङ्कया समृद्ध्याशया वा प्रदानवैधुर्यम् उपयान्ति सत्पुरुषाः ॥
तद्यथानुश्रूयते । बोधिसत्त्वः किल त्यागशीलकुलविनयश्रुतज्ञानाविस्मयादिगुणसमुदितो धनदायमानो विभवसंपदा सर्वातिथित्वाद् अनुपरतदानसत्त्रो लोकहितार्थप्रवृत्तो दायकश्रेष्ठः श्रेष्ठी बभूव । मात्सर्यादिदोषाविषह्यो ऽविषह्य इति प्रकाशनामा ।
इष्टार्थसंपत्तिविमर्शनाशात् प्रीतिप्रबोधस्य विशेषहेतुः ।
यथार्थिनां दर्शनम् आस तस्य तथार्थिनां दर्शनम् आस तस्य
देहीति याच्ञानियतार्थम् उक्तो नास्तीति नासौ गदितुं शशाक ।
हृतावकाशा हि बभूव चित्ते तस्यार्थसक्तिः कृपया महत्या
तस्यार्थिभिर् निर्ह्रियमाणसारे गृहे बभूवाभ्यधिकः प्रहर्षः ।
विवेद स ह्य् उग्रघनान् अनर्थान् अकारणक्षिप्रविनाशिनो ऽर्थान्
भवन्ति लोकस्य च भूयसार्था लोभाश्रया दुर्गतिमार्गसार्थाः ।
परात्मनोर् अभ्युदयावहत्वाद् अर्थास् तदीयास् तु बभुर् यथार्थाः
अथ तस्य महासत्त्वस्य यथाभिलषितैर् अक्लिष्टैः शिष्टोपचारविभूषणैर् विपुलैर् अर्थविसर्गैर् याचनकजनं समन्ततः संतर्पयतः प्रदानौदार्यश्रवणाद् विस्मयावर्जितमनाः शक्रो देवेन्द्रः प्रदानस्थिरनिश्चयताम् अस्य जिज्ञासमानः प्रत्यहं धनधान्यरत्नपरिच्छदजातं तत् तद् अन्तर्धापयाम् आस । अपि नामायं विभवपरिक्षयाशङ्कया मात्सर्याय प्रतार्येतेति । प्रदानाधिमुक्तस्य तु पुनर् महासत्त्वस्य
यथा यथा तस्य विनेशुर् अर्थाः सूर्याभिसृष्टा इव तोयलेशाः ।
तथा तथैतान् विपुलैः प्रदानैर् गृहात् प्रदीप्ताद् इव निर्जहार
अथ शक्रो देवेन्द्रस् त्यागपरायणम् एव तं महासत्त्वम् अवेत्य प्रक्षीयमाणविभवसारम् अपि विस्मिततरमतिस् तस्यैकरात्रेण सर्वं विभवसारम् अन्तर्धापयाम् आसान्यत्र रज्जुकुण्डलकाद् दात्राच् चैकस्मात् ॥ अथ बोधिसत्त्वः प्रभातायां रजन्यां यथोचितं प्रतिविबुद्धः पश्यति स्म धनधान्यपरिच्छदपरिजनर्द्धिशून्यं निष्कूजदीनं स्वभवनं राक्षसैर् इवोद्वासितम् अनभिरामदर्शनं किम् इदम् इति च समुत्थितवितर्कः समनुविचरंस् तद् रज्जुकुण्डलकं दात्रं च केवलम् अत्र ददर्श । तस्य चिन्ता प्रादुरभवत् । यदि तावत् केन चिद् याचितुम् अनुचितवचसा स्वविक्रमोपजीविना मद्गृहे प्रणय एवं दर्शितः सूपयुक्ता एव मे ऽर्थाः । अथ त्व् इदानीं मद्भाग्यदोषाद् उच्छ्रयम् असहमानाः केन चिद् अनुपयुक्ता एव विद्रुतास् तत् कष्टम् ।
चलं सौहृदम् अर्थानां विदितं पूर्वम् एव मे ।
अर्थिनाम् एव पीडा तु दहत्य् अत्र मनो मम
प्रदानसत्कारसुखोचिताश् चिरं विविक्तम् अर्थैर् अभिगम्य मद्गृहम् ।
कथं भविष्यन्ति नु ते ममार्थिनः पिपासिताः शुष्कम् इवागता ह्रदम्
अथ बोधिसत्त्वः स्वधैर्यावष्टम्भाद् अनास्वादितविषाददैन्यस् तस्याम् अप्य् अवस्थायाम् अनभ्यस्तयाच्ञाक्रमत्वात् परान् याचितुं परिचितान् अपि न प्रसेहे । एवं दुष्करं याचितुम् इति तस्य भूयसी याचनकजनेष्व् अनुकम्पा बभूव॥ अथ स महात्मा याचनकजनस्वागतादिक्रियावेक्षया स्वयम् एव तद् रज्जुकुण्डलकं दात्रं च परिगृह्य प्रत्यहं तृणविक्रयोपलब्धया विभवमात्रयार्थिजनप्रणयसंमाननं चकार ॥ अथ शक्रो देवेन्द्रस् तस्येमाम् अविषादितां परमे ऽपि दारिद्र्ये प्रदानाभिमुखतां चावेक्ष्य सविस्मयबहुमानः संदृश्यमानदिव्याद्भुतवपुर् अन्तरिक्षे स्थित्वा दानाद् विच्छन्दयंस् तं महासत्त्वम् उवाच । गृहपते ।
सुहृन्मनस्तापकरीम् अवस्थाम् इमाम् उपेतस् त्वम् अतिप्रदानैः ।
न दस्युभिर् नैव जलानलाभ्यां न राजभिः संह्रियमाणवित्तः
तत् त्वा हितावेक्षितया ब्रवीमि नियच्छ दानव्यसनानुरागम् ।
इत्थंगतः सन्न् अपि चेन् न दद्या यायाः पुनः पूर्वसमृद्धिशोभाम्
शश्वत् कृशेनापि परिव्ययेण कालेन दृष्ट्वा क्षयम् अञ्जनानाम् ।
चयेन वल्मीकसमुच्छ्रयांश् च वृद्ध्यर्थिनः संयम एव पन्थाः
अथ बोधिसत्त्वः प्रदानाभ्यासमाहात्म्यं विदर्शयञ् छक्रम् उवाच ।
अनार्यम् आर्येण सहस्रनेत्र सुदुष्करं सुष्ठ्व् अपि दुर्गतेन ।
मा चैव तद् भून् मम शक्र वित्तं यत्प्राप्तिहेतोः कृपणाशयः स्याम्
इच्छन्ति याच्ञामरणेन गन्तुं दुःखस्य यस्य प्रतिकारमार्गम् ।
तेनातुरान् कः कुलपुत्रमानी नास्तीति शुष्काशनिनाभिहन्यात्
तन् मद्विधः किं स्विद् उपाददीत रत्नं धनं वा दिवि वापि राज्यम् ।
याच्ञाभितापेन विवर्णितानि प्रसादयेन् नार्थिमुखानि येन
मात्सर्यदोषोपचयाय यः स्यान् न त्यागचित्तं परिबृंहयेद् वा ।
स त्यागम् एवार्हति मद्विधेभ्यः परिग्रहच्छद्ममयो विघातः
विद्युल्लतानृत्तचले धने च साधारणे नैकविघातहेतौ ।
दाने निदाने च सुखोदयानां मात्सर्यम् आर्यः क इवाश्रयेत
तद् दर्शिता शक्र मयि स्वतेयं हिताभिधानाद् अनुकम्पितो ऽस्मि ।
स्वभ्यस्तहर्षं तु मनः प्रदानैस् तदुत्पथे केन धृतिं लभेत
न चात्र मन्योर् अनुवृत्तिमार्गे चित्तं भवान् अर्हति संनियोक्तुम् ।
न हि स्वभावस्य विपक्षदुर्गम् आरोढुम् अल्पेन बलेन शक्यम्
शक्र उवाच । गृहपते । पर्याप्तविभवस्य परिपूर्णकोशकोष्ठागारस्य सम्यक्प्रवृत्तविविधविपुलकर्मान्तस्य विरूढायतेर् लोके वशीकृतैश्वर्यस्यायं क्रमो नेमां दशाम् अभिप्रपन्नस्य । पश्य ।
स्वबुद्धिविस्पन्दसमाहितेन वा यशोऽनुकूलेन कुलोचितेन वा ।
समृद्धिम् आकृष्य शुभेन कर्मणा सपत्नतेजांस्य् अभिभूय भानुवत्
जने प्रसङ्गेन वितत्य संनतिं प्रबोध्य हर्षं ससुहृत्सु बन्धुषु ।
अवाप्तसंमानविधिर् नृपाद् अपि श्रिया परिष्वक्त इवाभिकाम्यया
अथ प्रदाने प्रविजृम्भितक्रमः सुखेषु वा नैति जनस्य वाच्यताम् ।
अजातपक्षः खम् इवारुरुक्षया विघातभाक् केवलया तु दित्सया
यतो धनं संयमनैभृताश्रयाद् उपार्ज्यतां तावद् अलं प्रदित्सया ।
अनार्यताप्य् अत्र च नाम का भवेन् न यत् प्रदद्याद् विभवेष्व् अभाविषु
बोधिसत्त्व उवाच । अलम् अतिनिर्बन्धेनात्रभवतः ।
आत्मार्थः स्याद् यस्य गरीयान् परकार्यात् तेनापि स्याद् देयम् अनादृत्य समृद्धिम् ।
नैति प्रीतिं तां हि महत्यापि विभूत्या दानैस् तुष्टिं लोभजयाद् याम् उपभुङ्क्ते
नैति स्वर्गं केवलया यच् च समृद्ध्या दानेनैव ख्यातिम् अवाप्नोति च पुण्याम् ।
मात्सर्यादीन् नाभिभवत्य् एव च दोषांस् तस्या हेतोर् दानम् अतः को न भजेत
त्रातुं लोकान् यस् तु जरामृत्युपरीतान् अप्य् आत्मानं दित्सति कारुण्यवशेन ।
यो नास्वादं वेत्ति सुखानां परदुःखैः कस् तस्यार्थस् त्वद्गतया स्याद् अपि लक्ष्म्या
अपि च देवेन्द्र ।
संपत्तिर् इव वित्तानाम् अध्रुवा स्थितिर् आयुषः ।
इति याचनकं लब्ध्वा न समृद्धिर् अवेक्ष्यते
एको रथश् च भुवि यद् विदधाति वर्त्म तेनापरो व्रजति धृष्टतरं तथान्यः ।
कल्याणम् आद्यम् इमम् इत्य् अवधूय मार्गं नासत्पथप्रणयने रमते मनो मे
अर्थश् च विस्तरम् उपैष्यति चेत् पुनर् मे हर्ता मनांसि नियमेन स याचकानाम् ।
एवंगते ऽपि च यथाविभवं प्रदास्ये मा चैव दाननियमे प्रमदिष्म शक्र
इत्य् उक्ते शक्रो देवेन्द्रः समभिप्रसादितमनाः साधु साध्व् इत्य् एनम् अभिसंराध्य सबहुमानस्निग्धम् अवेक्षमाण उवाच ।
यशःसपत्नैर् अपि कर्मभिर् जनः समृद्धिम् अन्विच्छति नीचदारुणैः ।
स्वसौख्यसङ्गाद् अनपेक्षितात्ययः प्रतार्यमाणश् चपलेन चेतसा
अचिन्तयित्वा तु धनक्षयं त्वया स्वसौख्यहानिं मम च प्रतारणाम् ।
परार्थसंपादनधीरचेतसा महत्त्वम् उद्भावितम् आत्मसंपदः
अहो बतौदार्यविशेषभास्वतः प्रमृष्टमात्सर्यतमिस्रता हृदः ।
प्रदानसंकोचविरूपतां गतं धने प्रनष्टे ऽपि न यत् तदाशया
न चात्र चित्रं परदुःखदुःखिनः कृपावशाल् लोकहितैषिणस् तव ।
हिमावदातः शिखरीव वायुना न यत् प्रदानाद् असि कम्पितो मया
यशः समुद्भावयितुं परीक्षया धनं तवेदं तु निगूढवान् अहम् ।
मणिर् हि शोभानुगतो ऽप्य् अतो ऽन्यथा न संस्पृशेद् रत्नयशोमहार्घताम्
अतः प्रदानैर् अभिवर्ष याचकान् ह्रदान् महामेघ इवाभिपूरयन् ।
धनक्षयं नाप्स्यसि मत्परिग्रहाद् इदं क्षमेथाश् च विचेष्टितं मम
मूल पाठ: Jātakamālā 1-15 · Edition: Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1) · Data entry Albrecht Hanisch Mitsuyo Demoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0