भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · अध्याय 4

4.1

अथ सा पर्षत् तस्य राज्ञस् तद्ग्राहकं वचनं सबहुमानम् अभिनन्द्य प्रदानादिगुणप्रतिपत्त्यभिमुखी बभूव ॥
तद् एवं चित्तप्रसादोद्गतं पात्रातिशयप्रतिपादितं च नाल्पकं नाम दानम् अस्ति विपाकमहत्त्वाद् इति
प्रसन्नचित्तेनानुत्तरे पुण्यक्षेत्र आर्यसंघे दानं ददता परा प्रीतिर् उत्पाद्या । अदूरे ममाप्य् एवंविधा अतो विशिष्टतरश् च संपत्तय इति ॥
कुल्माषपिण्डीजातकं तृतीयम् ॥
4. श्रेष्ठिजातकम्
अत्ययम् अप्य् अविगणय्य दित्सन्ति सत्पुरुषाः ।
केन नाम स्वस्थेन न दातव्यं स्यात् ॥
तद्यथानुश्रूयते । बोधिसत्त्वभूतः किलायं भगवान् भाग्यातिशयगुणाद् उत्थानसंपदा चाधिगतविपुलधनसमृद्धिर् अविषमव्यवहारशीलत्वाल् लोकबहुमाननिकेतभूत उदाराभिजनवान् अनेकविद्याकलाविकल्पाधिगमविमलतरमतिर् गुणमाहात्म्याद् राज्ञा समुपहृतसंमानः प्रदानशीलत्वाल् लोकसाधारणविभवः श्रेष्ठी बभूव ।
अर्थिभिः प्रीतहृदयैः कीर्त्यमानम् इतस् ततः ।
त्यागशौर्योन्नतं नाम तस्य व्याप दिशो दश

4.2

दद्यान् न दद्याद् इति तत्र नासीद् विचारदोलाचलमानसो ऽर्थी ।
ख्यातावदाने हि बभूव तस्मिन् विश्रम्भधृष्टप्रणयो ऽर्थिवर्गः

4.3

नासौ जुगोपात्मसुखार्थम् अर्थं न स्पर्धया लोभपराभवाद् वा ।
स त्व् अर्थिदुःखं न शशाक सोढुं नास्तीति वक्तुं च ततो जुगोप

4.4

अथ कदा चित् तस्य महासत्त्वस्य भोजनकाले स्नातानुलिप्तस्य कुशलसूदोपकल्पिते समुपस्थिते वर्णगन्धरसस्पर्शादिगुणसमुदिते विचित्रे भक्ष्यभोज्यादिविधौ तत्पुण्यसंभारविवृद्धिकामो ज्ञानाग्निनिर्दग्धसर्वक्लेशेन्धनः प्रत्येकबुद्धस् तद्गृहम् अभिजगाम भिक्षार्थी । समुपेत्य च द्वारकोष्ठके व्यतिष्ठत ।
अशङ्किताचञ्चलधीरसौम्यम् अवेक्षमाणो युगमात्रम् उर्व्याः ।
तत्रावतस्थे प्रशमाभिजातः स पात्रसंसक्तकराग्रपद्मः

4.5

अथ मारः पापीयान् बोधिसत्त्वस्य तां दानसंपदम् अमृष्यमाणस् तद्विघ्नार्थम् अन्तरा च तं भदन्तम् अन्तरा च द्वारदेहलीं ज्वालाकरालोदरम् अनेकपौरुषम् अतिगम्भीरं भयानकदर्शनं प्रतिभयनिर्घोषं नरकम् अभिनिर्ममे विस्फुरद्भिर् अनेकैर् जनशतैर् आचितम् ॥ अथ बोधिसत्त्वः प्रत्येकबुद्धं भिक्षार्थिनम् अभिगतम् आलोक्य पत्नीम् उवाच । भद्रे स्वयम् आर्याय पिण्डपातं देहीति । सा तथेत्य् अस्मै प्रतिश्रुत्य प्रणीतं भक्ष्यभोज्यम् आदाय प्रस्थिता । नरकम् आलोक्य द्वारसमीपाद् भयविषादचञ्चलाक्षी सहसा न्यवर्तत । किम् एतद् इति च भर्त्रा पर्यनुयुक्ता समापतितसाध्वसापिहितकण्ठी तत् कथं चिद् अस्य कथयाम् आस ॥ अथ बोधिसत्त्वः कथम् अयम् आर्यो मद्गृहाद् अनवाप्तभिक्ष एव प्रतियास्यतीति ससंभ्रमस् तत् तस्याः कथितम् अनादृत्य स्वयम् एव प्रणीतं भक्ष्यभोज्यम् आदाय तस्य महात्मनः पिण्डपातं प्रतिपादयितुकामो द्वारकोष्ठकसमीपम् अभिगतस् तम् अतिभीषणम् अन्तरा नरकं ददर्श । तस्य किं स्विद् इदम् इति समुत्पतितवितर्कस्य मारः पापीयान् भवनभित्तेर् निष्पत्य संदृश्यमानदिव्याद्भुतवपुर् अन्तरिक्षे स्थित्वा हितकाम इव नामाब्रवीत् । गृहपते महारौरवो नामायं महानरकः ।
अर्थिप्रशंसावचनप्रलुब्धा हिंसन्ति दानव्यसनेन ये ऽर्थान् ।
शरत्सहस्राणि बहूनि तेषाम् अस्मिन् निवासो ऽसुलभप्रवासः

4.6

अर्थस् त्रिवर्गस्य विशेषहेतुस् तस्मिन् हते केन हतो न धर्मः ।
धर्मं च हत्वार्थनिबर्हणेन कथं नु न स्यान् नरकप्रतिष्ठः

4.7

दानप्रसङ्गेन च धर्ममूलं घ्नता त्वयार्थं यद् अकारि पापम् ।
त्वाम् अत्तुम् अभ्युद्गतम् एतद् अस्माज् ज्वालोग्रजिह्वं नरकान्तकास्यम्

4.8

तत् साधु दानाद् विनियच्छ बुद्धिम् एवं हि सद्यः पतनं न ते स्यात् ।
विचेष्टमानैः करुणं रुदद्भिर् मा दातृभिर् गाः समताम् अमीभिः

4.9

प्रतिग्रहीता तु जनो ऽभ्युपैति निवृत्तदानापनयः सुरत्वम् ।
तत् स्वर्गमार्गावरणाद् विरम्य दानोद्यमात् संयमम् आश्रयस्व

4.10

अथ बोधिसत्त्वो नूनम् अस्यैतद् दुरात्मनो मद्दानविघ्नाय विचेष्टितम् इत्य् अवगम्य स्वसत्त्वावष्टम्भधीरविनयमधुराक्षराविच्छेदं नियतम् इत्य् अवोचद् एनम् ।
अस्मद्धितावेक्षणदक्षिणेन विदर्शितो ऽयं भवतार्यमार्गः ।
युक्ता विशेषेण च दैवतेषु परानुकम्पानिपुणा प्रवृत्तिः

4.11

दोषोदयात् पूर्वम् अनन्तरं वा युक्तं तु तच्छान्तिपथेन गन्तुम् ।
गते प्रयामं ह्य् अपचारदोषैर् व्याधौ चिकित्साप्रणयो विघातः

4.12

इदं च दानव्यसनं मदीयं शङ्के चिकित्साविषयव्यतीतम् ।
तथा ह्य् अनादृत्य हितैषितां ते न मे मनः संकुचति प्रदानात्

4.13

दानाद् अधर्मं च यद् ऊचिवांस् त्वम् अर्थं च धर्मस्य विशेषहेतुम् ।
तन् मानुषी नेयम् अवैति बुद्धिर् दानाद् ऋते धर्मपथो यथार्थः

4.14

निधीयमानः स तु धर्महेतुश् चौरैः प्रसह्याथ विलुप्यमानः ।
ओघोदरान्तर्विनिमग्नमूर्तिर् हुताशनस्याशनतां गतो वा

4.15

यच् चार्थदाता नरकं प्रयाति प्रतिग्रहीता तु सुरेन्द्रलोकम् ।
विवर्धितस् तेन च मे त्वयायं दानोद्यमः संयमयिष्यतापि

4.16

अनन्यथा चास्तु वचस् तवेदं स्वर्गं च मे याचनका व्रजन्तु ।
दानं हि मे लोकहितार्थम् इष्टं नेदं स्वसौख्योदयसाधनाय

4.17

अथ मारः पुनर् अपि बोधिसत्त्वं हितैषीव धीरहस्तेनोवाच ।
हितोक्तिम् एनां मम चापलं वा समीक्ष्य येनेच्छसि तेन गच्छ ।
सुखान्वितो वा बहुमानपूर्वं स्मर्तासि मां विप्रतिसारवान् वा

4.18

बोधिसत्त्व उवाच । मार्ष मर्षयतु भवान् ।
कामं पतामि नरकं स्फुरदुग्रवह्निं ज्वालावलीढशिथिलावनतेन मूर्ध्ना ।
न त्व् अर्थिनां प्रणयदर्शितसौहृदानां संमानकालम् अवमाननया हरिष्ये

4.19

इत्य् उक्त्वा बोधिसत्त्वः स्वभाग्यबलावष्टब्धो जानानश् च निरत्ययतां दानस्य निवारणैकरसम् अवधूय स्वजनपरिजनं साध्वसानभिभूतमतिर् अभिवृद्धदानाभिलाषो नरकमध्येन प्रायात् ।
पुण्यानुभावाद् अथ तस्य तस्मिन्न् अपङ्कजं पङ्कजम् उद्बभूव ।
अवज्ञयेवावजहास मारं यच् छुक्लया केसरदन्तपङ्क्त्या

4.20

अथ बोधिसत्त्वः पद्मसंक्रमेण स्वपुण्यातिशयनिर्जातेनाभिगम्य प्रत्येकबुद्धं प्रसादसंहर्षापूर्णहृदयः पिण्डपातम् अस्मै प्रायच्छत् ॥
मनःप्रसादप्रतिबोधनार्थं तस्याथ भिक्षुर् वियद् उत्पपात ।
वर्षञ् ज्वलंश् चैव स तत्र रेजे सविद्युदुद्द्योतपयोदलक्ष्म्या

4.21

अवमृदितमनोरथस् तु मारो द्युतिपरिमोषम् अवाप्य वैमनस्यात् ।
तम् अभिमुखम् उदीक्षितुं न सेहे सह नरकेण ततस् तिरोबभूव

मूल पाठ: Jātakamālā 1-15 · Edition: Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1) · Data entry Albrecht Hanisch Mitsuyo Demoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc