भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · अध्याय 3

3.1

तद् एवं दुष्करशतसमुदानीतो ऽयम् अस्मदर्थं तेन भगवता सद्धर्म इति सत्कृत्य श्रोतव्यः ।
तथागतमाहात्म्ये पूर्ववच् च करुणावर्णे ऽपि वाच्यम् इहैव पुण्यफलप्रदर्शने चैवं सत्कृत्योपचितानि पुण्यानीहैव पुष्पमात्रम् आत्मप्रभावस्य कीर्तिसंततिमनोहरं प्रदर्शयन्तीति ॥
शिबिजातकं द्वितीयम् ॥
3. कुल्माषपिण्डीजातकम्
चित्तप्रसादोद्गतं पात्रातिशयप्रतिपादितं च नाल्पकं नाम दानम् अस्ति विपाकमहत्त्वात् ॥
तद्यथानुश्रूयते । बोधिसत्त्वभूतः किलायं भगवान् कोशलाधिपतिर् बभूव । तस्योत्साहमन्त्रप्रभावशक्तिसंपत्प्रभृतीनां प्रकर्षिणाम् अपि राजगुणानां विभूतिम् अतिशिश्ये दैवसंपद्गुणशोभा ।
गुणास् तस्याधिकं रेजुर् दैवसंपद्विभूषणाः ।
किरणा इव चन्द्रस्य शरदुन्मीलितश्रियः

3.2

तत्याज दृप्तान् अपि तस्य शत्रून् रक्तेव रेमे तदपाश्रितेषु ।
इत्य् आस तस्यान्यनराधिपेषु कोपप्रसादानुविधायिनी श्रीः

3.3

धर्मात्मकत्वान् न च नाम तस्य परोपतापाशिवम् आस चेतः ।
भृत्यानुरागस् तु तथा जजृम्भे द्विषत्सु लक्ष्मीर् न यथास्य रेमे

3.4

सो ऽनन्तरातीतां स्वां जातिम् अनुसस्मार । तदनुस्मरणाच् च समुपजातसंवेगो विशेषवत्तरं श्रमणब्राह्मणकृपणवनीपकेभ्यः सुखहेतुनिदानं दानम् अदात् । शीलसंवरं चानवरं पोषधनियमं च पर्वदिवसेषु समाददे । अभीक्ष्णं च राजपर्षदि स्वस्मिंश् चान्तःपुरे पुण्यप्रभावोद्भावनाल् लोकं श्रेयसि नियोक्तुकामः प्रतीतहृदयो गाथाद्वयम् इति नियतार्थं बभाषे ।
न सुगतपरिचर्या विद्यते स्वल्पिकापि प्रतनुफलविभूतिर् यच् छ्रुतं केवलं प्राक् ।
तद् इदम् अलवणायाः शुष्करूक्षारुणायाः फलविभवमहत्त्वं पश्य कुल्माषपिण्ड्याः

3.5

रथतुरगविचित्रं मत्तनागेन्द्रलीलं बलम् अकृशम् इदं मे मेदिनी केवला च ।
बहु धनम् अनुरक्ता श्रीर् उदाराश् च दाराः फलसमुदयशोभां पश्य कुल्माषपिण्ड्याः

3.6

तम् अमात्या ब्राह्मणवृद्धाः पौरमुख्याश् च कौतूहलापूर्णमनसो ऽपि न प्रसहन्ते स्म पर्यनुयोक्तुं किम् अभिसमीक्ष्य महाराजो गाथाद्वयम् इदम् अभीक्ष्णं भाषत इति ॥ अथ तस्य राज्ञो वाल्लभ्याद् अव्याहततरविश्रम्भप्रणयप्रसादा देवी समुत्पन्नकौतूहला संकथाप्रस्तावागतं पर्षदि पर्यपृच्छद् एनम् ।
नियतम् इति नरेन्द्र भाषसे हृदयगतां मुदम् उद्गिरन्न् इव ।
भवति मम कुतूहलाकुलं हृदयम् इदं कथितेन तेन ते

3.7

तद् अर्हति श्रोतुम् अयं जनो यदि प्रचक्ष्व तत् किं न्व् इति भाषसे नृप ।
रहस्यम् एवं च न कीर्त्यते क्व चित् प्रकाशम् अस्माच् च मयापि पृच्छ्यते

3.8

अथ स राजा प्रीत्यतिस्निग्धया दृष्ट्या समवेक्ष्य देवीं स्मितप्रविकसितवदन उवाच ॥
अविभाव्यनिमित्तार्थं श्रुत्वोद्गारम् इमं मम ।
न केवलं तवैवात्र कौतूहलचलं मनः

3.9

समग्रम् अप्य् एतद् अमात्यमण्डलं कुतूहलाघूर्णितलोलमानसम् ।
पुरं च सान्तःपुरम् अत्र तेन मे निशम्यतां येन मयैवम् उच्यते

3.10

स्वप्नप्रबुद्ध इव जातिम् अनुस्मरामि यस्याम् इहैव नगरे भृतको ऽहम् आसम् ।
शीलान्वितो ऽपि धनमात्रसमुच्छ्रितेभ्यः कर्माभिराधनसमार्जितदीनवृत्तिः

3.11

सो ऽहं भृतिं परिभवश्रमदैन्यशालां त्राणाशया स्वयम् अवृत्तिभयाद् विविक्षुः ।
भिक्षार्थिनश् च चतुरः श्रमणान् अपश्यं वश्येन्द्रियान् अनुगतान् इव भिक्षुलक्ष्म्या

3.12

तेभ्यः प्रसादमृदुना मनसा प्रणम्य कुल्माषमात्रकम् अदां प्रयतः स्वगेहे ।
तस्याङ्कुरोदय इवैष यद् अन्यराजचूडाप्रभाश् चरणरेणुषु मे निषिक्ताः

3.13

तद् एतद् अभिसंधाय मयैवं देवि कथ्यते ।
पुण्यैर् न च लभे तृप्तिम् अर्हतां दर्शनेन च

3.14

अथ देवी प्रहर्षविस्मयविशालतराक्षी सबहुमानम् उदीक्षमाणा राजानम् उवाच । उपपन्नरूपः पुण्यानाम् अयम् एवंविधो विपाकाभ्युदयविशेषः । पुण्यफलप्रत्यक्षिणश् च महाराजस्य यद् अयं पुण्येष्व् आदरः । तद् एवम् एव पापप्रवृत्तिविमुखः पितेव प्रजानां सम्यक्परिपालनसुमुखः पुण्यगुणार्जनाभिमुखः ।
यशःश्रिया दानसमृद्धया ज्वलन् प्रतिष्ठिताज्ञः प्रतिराजमूर्धसु ।
समीरणाकुञ्चितसागराम्बरां चिरं महीं धर्मनयेन पालय

3.15

राजोवाच । किं ह्य् एतद् देवि न स्यात् ।
सो ऽहं तम् एव पुनर् आश्रयितुं यतिष्ये श्रेयःपथं समभिलक्षितरम्यचिह्नम् ।
लोकः प्रदित्सति हि दानफलं निशम्य दास्याम्य् अहं किम् इति नात्मगतं निशाम्य

3.16

अथ स राजा देवीं देवीम् इव श्रिया ज्वलन्तीम् अतिस्निग्धम् अवेक्ष्य श्रीसंपत्तिहेतुकुतूहलहृदयः पुनर् उवाच ।
चन्द्रलेखेव ताराणां स्त्रीणां मध्ये विराजसे ।
अकृथाः किं नु कल्याणि कर्मातिमधुरोदयम्

3.17

देव्य् उवाच । अस्ति देव किं चिद् अहम् अपि पूर्वजन्मवृत्तम् अनुस्मरामीति। कथय कथयेदानीम् इति च सादरं राज्ञा पर्यनुयुक्तोवाच ।
बाल्ये ऽनुभूतम् इव तत् समनुस्मरामि दासी सती यद् अहम् उद्धृतभक्तम् एकम् ।
क्षीणास्रवाय मुनये विनयेन दत्त्वा सुप्तेव तत्र समवापम् इह प्रबोधम्

3.18

एतत् स्मरामि कुशलं नरदेव येन त्वन्नाथताम् उपगतास्मि समं पृथिव्या ।
क्षीणास्रवेषु न कृतं तनु नाम किं चिद् इत्य् उक्तवान् असि यथैव मुनिस् तथैव

3.19

अथ स राजा पुण्यफलप्रदर्शनात् पुण्येषु समुत्पादितबहुमानाम् अभिप्रसन्नमनसं परिषदं विस्मयैकाग्राम् अवेत्य नियतम् ईदृशं किं चित् समनुशशास ।
अल्पस्यापि शुभस्य विस्तरम् इमं दृष्ट्वा विपाकश्रियः स्यात् को नाम न दानशीलविधिना पुण्यक्रियातत्परः ।
नैवं द्रष्टुम् अपि क्षमः स पुरुषः पर्याप्तवित्तो ऽपि सन् यः कार्पण्यतमिस्रयावृतमतिर् नाप्नोति दानैर् यशः

3.20

त्यक्तव्यं विवशेन यन् न च तथा कस्मै चिद् अर्थाय यत् तन् न्यायेन धनं त्यजन् यदि गुणं कं चित् समुद्भावयेत् ।
को ऽसौ तत्र भजेत मत्सरपथं जानन् गुणानां रसं प्रीत्याद्या विविधाश् च कीर्त्यनुसृता दानप्रतिष्ठा गुणाः

3.21

दानं नाम महानिधानम् अनुगं चौराद्यसाधारणं दानं मत्सरलोभदोषरजसः प्रक्षालनं चेतसः ।
संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं दानं नैकसुखोपधानसुमुखं सन्मित्रम् आत्यन्तिकम्

3.22

विभवसमुदयं वा दीप्तम् आज्ञागुणं वा त्रिदशपुरनिवासं रूपशोभागुणं वा ।
यद् अभिलषति सर्वं तत् समाप्नोति दानाद् इति परिगणितार्थः को न दानानि दद्यात्

3.23

सारादानं दानम् आहुर् धनानाम् ऐश्वर्याणां दानम् आहुर् निदानम् ।
दानं श्रीमत् सज्जनत्वावदानं नाल्पप्रज्ञैः पांसुदानं सुदानम्

मूल पाठ: Jātakamālā 1-15 · Edition: Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1) · Data entry Albrecht Hanisch Mitsuyo Demoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc