भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · अध्याय 2

2.1

तद् एवं सर्वसत्त्वेष्व् अकारणपरमवत्सलस्वभावः सर्वभूतात्मभूतः पूर्वजन्मस्व् अपि स भगवान् इति बुद्धे भगवति परः प्रसादः कार्यः ।
जातप्रसादैश् च बुद्धे भगवति प्रीतिर् उत्पादयितव्या । एवम् आयतनगतो नः प्रसाद इत्य् एवम् अप्य् उपनेयम् । तथा सत्कृत्य धर्मः श्रोतव्यः । एवं दुष्करशतसमुदानीतत्वात् करुणावर्णे ऽपि वाच्यम् एवं स्वभावातिशयनिष्पादिका परानुग्रहप्रवृत्तिहेतुः करुणेति ॥
बोधिसत्त्वावदानमालायां व्याघ्रीजातकं प्रथमम् ॥
2. शिबिजातकम्
दुष्करशतसमुदानीतो ऽयम् अस्मदर्थं तेन भगवता सद्धर्म इति सत्कृत्य श्रोतव्यः ॥
तद्यथानुश्रूयते । बोधिसत्त्वभूतः किलायं भगवान् अपरिमितकालाभ्यासात् सात्मीभूतोपचितपुण्यकर्मा कदा चिच् छिबीनां राजा बभूव । स बाल्यात् प्रभृत्य् एव वृद्धोपासनरतिर् विनयानुरक्तो ऽनुरक्तप्रकृतिः प्रकृतिमेधावित्वाद् अनेकविद्याधिगमविमलतरमतिर् उत्साहमन्त्रप्रभावशक्तिदैवसंपन्नः स्वा इव प्रजाः प्रजाः पालयति स्म ।
तस्मिंस् त्रिवर्गानुगुणा गुणौघाः संहर्षयोगाद् इव संनिविष्टाः ।
समस्तरूपा विबभुर् न चासुर् विरोधसंक्षोभविपन्नशोभाः

2.2

विडम्बनेवाविनयोद्धतानां दुर्मेधसाम् आपद् इवातिकष्टा ।
अल्पात्मनां या मदिरेव लक्ष्मीर् बभूव सा तत्र यथार्थनामा

2.3

उदारभावात् करुणागुणाच् च वित्ताधिपत्याच् च स राजवर्यः ।
रेमे ऽर्थिनाम् ईप्सितसिद्धिहर्षाद् अक्लिष्टशोभानि मुखानि पश्यन्

2.4

अथ स राजा दानप्रियत्वात् समन्ततो नगरस्य सर्वोपकरणधनधान्यसमृद्धा दानशालाः कारयित्वा स्वमाहात्म्यानुरूपं यथाभिप्रायसंपादितं सोपचारमनोहरम् अनतिक्रान्तकालसुभगं दानवर्षं कृतयुगमेघ इव ववर्ष । अन्नम् अन्नार्थिभ्यः पानं पानार्थिभ्यः शयनासनवसनभोजनगन्धमाल्यसुवर्णरजतादि तत्तदर्थिभ्यः ॥ अथ तस्य राज्ञः प्रदानौदार्यश्रवणाद् विस्मितप्रमुदितहृदया नानादिगभिलक्षितदेशनिवासिनः पुरुषास् तं देशम् अभिजग्मुः ।
परीत्य कृत्स्नं मनसा नृलोकम् अन्येष्व् अलब्धप्रणयावकाशाः ।
तम् अर्थिनः प्रीतिमुखाः समीयुर् महाह्रदं वन्यगजा यथैव

2.5

अथ स राजा समन्ततः समापततो लाभाशाप्रमुदितमनसः पथिकनेपथ्यप्रच्छादितशोभस्य वनीपकजनस्य
विप्रोषितस्येव सुहृज्जनस्य संदर्शनात् प्रीतिविजृम्भिताक्षः ।
याच्ञां प्रियाख्यानम् इवाभ्यनन्दद् दत्त्वा च तुष्ट्यार्थिजनं जिगाय

2.6

दानोद्भवः कीर्तिमयः स गन्धस् तस्यार्थिनां वागनिलप्रकीर्णः ।
मदं जहारान्यनराधिपानां गन्धद्विपस्येव परद्विपानाम्

2.7

अथ कदा चित् स राजा दानशालाः समनुविचरंस् तृप्तत्वाद् अर्थिजनस्य प्रविरलं याचनकजनसंपातम् अभिसमीक्ष्य दानधर्मस्यानुत्सर्पणान् न तुष्टिम् उपजगाम ।
तर्षं विनिन्ये ऽर्थिजनस् तम् एत्य न त्व् अर्थिनः प्राप्य स दानशौण्डः ।
न ह्य् अस्य दानव्यवसायम् अर्थी याच्ञाप्रमाणेन शशाक जेतुम्

2.8

तस्य बुद्धिर् अभवत् । अतिसभाग्यास् ते सत्पुरुषविशेषा ये विश्रम्भनिर्यन्त्रणप्रणयम् अर्थिभिः स्वगात्राण्य् अपि याच्यन्ते । मम पुनः प्रत्याख्यानरूक्षाक्षरवचनसंतर्जित इवार्थिजनो धनमात्रके ऽप्य् अप्रगल्भप्रणयः संवृत्त इति ॥
अथ क्षितीशस्य तम् अत्युदारं गात्रेष्व् अपि स्वेषु निवृत्तसङ्गम् ।
विज्ञाय दानाश्रयिणं वितर्कं पतिप्रिया स्त्रीव मही चकम्पे

2.9

अथ शक्रो देवानाम् इन्द्रः क्षितितलचलनाद् आकम्पिते विविध रत्नप्रभोद्भासिनि सुमेरौ पर्वतराजे किम् इदम् इति समुत्पतितवितर्कस् तस्य राज्ञ इमं वितर्कातिशयं धरणिचलननिमित्तम् अवेत्य विस्मयावर्जितहृदयश् चिन्ताम् आपेदे ।
दानातिहर्षोद्धतमानसेन वितर्कितं किं स्विद् इदं नृपेण ।
आबध्य दानव्यवसायकक्ष्यां स्वगात्रदानस्थिरनिश्चयेन

2.10

तन् मीमांसिष्ये तावद् एनम् इति ॥ अथ तस्य राज्ञः परिषदि निषन्नस्यामात्यगणपरिवृतस्य समुचितायां कृतायाम् अर्थिजनस्य कः किम् इच्छतीत्य् आह्वानघोषणायां समुद्घाट्यमानेषु कोशाध्यक्षाधिष्ठितेषु मणिकनकरजतधननिचयेषु विश्लिष्यमाणपुटासु विविधवसनपरिपूर्णगर्भासु वस्त्रपेडासु समुपवर्त्यमानेषु विनीतविविधवाहनस्कन्धप्रतिष्ठितयुगेषु विचित्रेषु यानविशेषेषु प्रवृत्ते ऽर्थिजनसंपाते शक्रो देवानाम् इन्द्रो वृद्धम् अन्धं ब्राह्मणरूपम् अभिनिर्माय राज्ञश् चक्षुःपथे प्रादुरभवत् । अथ स राज्ञा कारुण्यमैत्रीपरिभावितया धीरप्रसन्नसौम्यया प्रत्युद्गत इव परिष्वक्त इव च दृष्ट्या केनार्थ इत्य् उपनिमन्त्र्यमाणः क्षितिपानुचरैर् नृपतिसमीपम् उपेत्य जयाशीर्वचनपुरःसरं राजानम् इत्य् उवाच ।
दूराद् अपश्यन् स्थविरो ऽभ्युपेतस् त्वच्चक्षुषो ऽर्थी क्षितिपप्रधान ।
एकेक्षणेनापि हि पङ्कजाक्ष गम्येत लोकाधिप लोकयात्रा

2.11

अथ बोधिसत्त्वः समभिलषितमनोरथप्रसिद्ध्या परं प्रीत्युत्सवम् अनुभवन् किं स्विद् इदं सत्यम् एवोक्तं ब्राह्मणेन स्याद् उत विकल्पाभ्यासान् मयैवम् उपधारितम् इति जातप्रत्यवमर्शश् चक्षुर्याच्ञाप्रियवचनश्रवणतृषितमतिस् तं चक्षुर्याचनकम् उवाच ।
केनानुशिष्टस् त्वम् इहाभ्युपेतो मां याचितुं ब्राह्मणमुख्य चक्षुः ।
सुदुस्त्यजं चक्षुर् इति प्रवादसंभावना कस्य मयि व्यतीता

2.12

अथ स ब्राह्मणवेषधारी शक्रस् तस्य राज्ञ आशयं विदित्वोवाच ।
शक्रस्य शक्रप्रतिमानुशिष्ट्या त्वां याचितुं चक्षुर् इहागतो ऽस्मि ।
संभावनां तस्य ममापि चाशां चक्षुःप्रदानात् सफलीकुरुष्व

2.13

अथ स राजा शक्रसंकीर्तनान् नूनम् अस्य ब्राह्मणस्य भवित्री देवतानुभावाद् अनेन विधिना चक्षुःसंपद् इति मत्वा प्रमोदविशदाक्षरम् एनम् उवाच ।
येनाभ्युपेतो ऽसि मनोरथेन तम् एष ते ब्राह्मण पूरयामि ।
आकाङ्क्षमाणाय मद् एकम् अक्षि ददामि चक्षुर्द्वयम् अप्य् अहं ते

2.14

स त्वं विबुद्धनयनोत्पलशोभितास्यः संपश्यतो व्रज यथाभिमतं जनस्य ।
स्यात् किं नु सो ऽयम् उत नेति विचारदोलालोलस्य सो ऽयम् इति चोत्थितविस्मयस्य

2.15

अथ तस्य राज्ञो ऽमात्याश् चक्षुःप्रदानव्यवसायम् अवेत्य ससंभ्रमावेगविषादव्यथितमनसो राजानम् ऊचुः ।
दानातिहर्षाद् अनयम् असमीक्ष्याहितोदयम् ।
प्रसीद देव मा मैवं न चक्षुर् दातुम् अर्हसि

2.16

एकस्यार्थे द्विजस्यास्य मा नः सर्वान् पराकृथाः ।
अलं शोकाग्निना दग्धुं सुखसंवर्धिताः प्रजाः

2.17

धनानि लक्ष्मीप्रतिबोधनानि श्रीमन्ति रत्नानि पयस्विनीर् गाः ।
रथान् विनीताश्वयुजः प्रयच्छ मदोर्जितश्रीललितान् द्विपांश् च

2.18

समुच्चरन्नूपुरनिस्वनानि शरत्पयोदाभ्यधिकद्युतीनि ।
गृहाणि सर्वर्तुसुखानि देहि मा दाः स्वचक्षुर् जगदेकचक्षुः

2.19

विमृश्यताम् अपि च तावन् महाराज ।
अन्यदीयं कथं नाम चक्षुर् अन्यत्र योज्यते ।
अथ दैवप्रभावो ऽयं त्वच्चक्षुः किम् अपेक्षते

2.20

अपि च देव ।
चक्षुषा किं दरिद्रस्य पराभ्युदयसाक्षिणा ।
धनम् एव यतो देहि देव मा साहसं कृथाः

2.21

अथ स राजा तान् अमात्यान् सानुनयमधुराक्षरम् इत्य् उवाच ।
अदाने कुरुते बुद्धिं दास्यामीत्य् अभिधाय यः ।
स लोभपाशं प्रभ्रष्टम् आत्मनि प्रतिमुञ्चति

2.22

दास्यामीति प्रतिज्ञाय यो ऽन्यथा कुरुते मनः ।
कार्पण्यानिश्चितमतेः कः स्यात् पापतरस् ततः

2.23

स्थिरीकृत्यार्थिनाम् आशां दास्यामीति प्रतिज्ञया ।
विसंवादनरूक्षस्य वचसो नास्ति निष्क्रयः

2.24

यद् अपि चोक्तं देवतानुभावाद् एव चक्षुर् अस्य किं न संभवतीत्य् अत्रापि श्रूयताम् ।
नैककारणसाध्यत्वं कार्याणां ननु दृश्यते ।
कारणान्तरसापेक्षः स्याद् दैवो ऽपि विधिर् यतः

2.25

तन् मे दानातिशयविघ्नाय व्यायन्तुं नार्हन्ति भवन्त इति ॥ अमात्या ऊचुः । धनधान्यरत्नादि देवो दातुम् अर्हति न स्वचक्षुर् इति विज्ञापितम् अस्माभिः । तन् न देवं वयम् अतीर्थे प्रतारयामः ॥ राजोवाच ।
यद् एव याच्येत तद् एव दद्यान् नानीप्सितं प्रीणयतीह दत्तम् ।
किम् उह्यमानस्य जलेन तोयैर् दास्याम्य् अतः प्रार्थितम् अर्थम् अस्मै

2.26

अथ तस्य राज्ञो रूढतरविश्रम्भप्रणयः स्नेहावेगाद् अनपेक्षितोपचारो ऽमात्यमुख्यस् तं राजानम् इत्य् उवाच । मा तावद् भोः ।
या नाल्पेन तपःसमाधिविधिना संप्राप्यते केन चिद् याम् आसाद्य च भूरिभिर् मखशतैः कीर्तिं दिवं चाप्नुयात् ।
संप्राप्ताम् अतिपत्य तां नृपतितां शक्रर्द्धिविस्पर्धिनीं किं दृष्ट्वा नयने प्रदित्सति भवान् को ऽयं कुतस्त्यो विधिः

2.27

लब्धावकाशस् त्रिदशेषु यज्ञैः कीर्त्या समन्ताद् अवभासमानः ।
नरेन्द्रचूडाद्युतिरञ्जिताङ्घ्रिः किं लिप्समानो नु ददासि चक्षुः

2.28

अथ स राजा तम् अमात्यं सानुनयम् इत्य् उवाच ।
नायं यत्नः सार्वभौमत्वम् आप्तुं नैव स्वर्गं नापवर्गं न कीर्तिम् ।
त्रातुं लोकान् इत्य् अयं त्व् आदरो मे याच्ञाक्लेशो मा च भूद् अस्य मोघः

2.29

अथ स राजा नीलोत्पलदलरुचिरकान्ति नयनम् एकं वैद्यपरिदृष्टेन विधिना शनकैर् अक्षतम् उत्पाट्य परया प्रीत्या चक्षुर्याचनकाय प्रायच्छत् । अथ शक्रो देवेन्द्रस् तादृशम् ऋद्ध्यभिसंस्कारं चक्रे यथा ददर्श स राजा सपरिजनस् तत् तस्य चक्षुश् चक्षुःस्थाने प्रतिष्ठितम् । अथोन्मिषितैकचक्षुषं चक्षुर्याचनकम् अभिसमीक्ष्य स राजा परमेण हर्षेणापूर्यमाणहृदयो द्वितीयम् अप्य् अस्मै नयनं प्रायच्छत् ॥
ततः स राजा नयने प्रदाय विपद्मपद्माकरतुल्यवक्त्रः ।
पौरैर् असाधारणतुष्टिर् आसीत् समग्रचक्षुर् ददृशे द्विजश् च

2.30

अन्तःपुरे ऽथ मनुजाधिपतेः पुरे च शोकाश्रुभिर् वसुमती सिषिचे समन्तात् ।
शक्रस् तु विस्मयम् अवाप परां च तुष्टिं संबोधये नृपम् अकम्प्यमतिं समीक्ष्य

2.31

अथ शक्रस्य विस्मयावर्जितहृदयस्यैतद् इत्य् अभवत् ।
अहो धृतिर् अहो सत्त्वम् अहो सत्त्वहितैषिता ।
प्रत्यक्षम् अपि कर्मेदं करोतीव विचारणाम्

2.32

तन् नायम् आश्चर्यसत्त्वश् चिरम् इमं परिक्लेशम् अनुभवितुम् अर्हति यतः प्रयतिष्ये चक्षुर् अस्योपायप्रदर्शनाद् उपपादयितुम् ॥ अथ तस्य राज्ञः क्रमात् संरूढनयनव्रणस्यावगीतप्रतनूभूतान्तःपुरपौरजानपदशोकस्य प्रविवेककामत्वाद् उद्यानपुष्करिण्यास् तीरे कुसुमभारानततरुवरनिचिते मृदुसुरभिशिशिरसुखपवने मधुकरगणोपकूजिते पर्यङ्केण निषण्णस्य शक्रो देवेन्द्रः पुरस्तात् प्रादुरभवत् । क एष इति च राज्ञा पर्यनुयुक्तो ऽब्रवीत् ।
शक्रो ऽहम् अस्मि देवेन्द्रस् त्वत्समीपम् उपागतः ।
स्वागतम् । आज्ञाप्यतां केनार्थ इति । स उपचारपुरःसरम् उक्तो राजानं पुनर् उवाच ।
वरं वृणीष्व राजर्षे यद् इच्छसि तद् उच्यताम्

2.33

अथ स राजा प्रदानसमुचितत्वाद् अनभ्यस्तयाच्ञाकार्पण्यमार्गो धृत्याविस्मयशौटीर्यम् उवाच ।
प्रभूतं मे धनं शक्र शक्तिमच् च महद् बलम् ।
अन्धभावात् त्व् इदानीं मे मृत्युर् एवाभिरोचते

2.34

कृत्वापि पर्याप्तमनोरथानां प्रीतिप्रसादाधिकलोचनानि ।
मुखानि पश्यामि न याचकानां यत् तेन मृत्युर् दयितो ममेन्द्र

2.35

शक्र उवाच । अलम् अनेन ते व्यवसायेन । सत्पुरुषा एवेदृशान्य् अनुप्राप्नुवन्ति। अपि च पृच्छामि तावद् भवन्तम् ।
इमाम् अवस्थां गमितस्य याचकैः कथं नु ते संप्रति तेषु मानसम् ।
प्रचक्ष्व तत् तावद् अलं निगूहितुं व्रजेच् च संप्रत्ययनीयतां यथा

2.36

राजोवाच । को ऽयम् अस्मान् विकत्थयितुम् अत्रभवतो निर्बन्धः । अपि च देवेन्द्र श्रूयताम् ।
तदैव चैतर्हि च याचकानां वचांसि याच्ञानियताक्षराणि ।
आशीर्मयाणीव मम प्रियाणि यथा तथोदेतु ममैकम् अक्षि

2.37

अथ तस्य राज्ञः सत्याधिष्ठानबलात् पुण्योपचयविशेषाच् च वचनसमनन्तरम् एवेन्द्रनीलशकलाक्रान्तमध्यम् इव नीलोत्पलदलसदृशम् एकं चक्षुः प्रादुरभूत् । प्रादुर्भूते च तस्मिन् नयनाश्चर्ये प्रमुदितमनाः स राजा पुनर् अपि शक्रम् उवाच ।
यश् चापि मां चक्षुर् अयाचतैकं तस्मै मुदा द्वे नयने प्रदाय ।
प्रीत्युत्सवैकाग्रमतिर् यथासं द्वितीयम् अप्य् अक्षि तथा ममास्तु

2.38

अथाभिव्याहारसमनन्तरम् एव तस्य राज्ञो विस्पर्धमानम् इव तेन नयनेन द्वितीयं चक्षुः प्रादुरभूत् ।
ततश् चकम्पे सधराधरा धरा व्यतीत्य वेलां प्रससार सागरः ।
प्रसक्तगम्भीरमनोज्ञनिस्वनाः प्रसस्वनुर् दुन्दुभयो दिवौकसाम्

2.39

प्रसादरम्यं ददृशे वपुर् दिशां रराज शुद्ध्या शरदीव भास्करः ।
परिभ्रमच् चन्दनचूर्णरञ्जितं पपात चित्रं कुसुमं नभस्तलात्

2.40

समाययुर् विस्मयफुल्ललोचना दिवौकसस् तत्र सहाप्सरोगणाः ।
ववौ मनोज्ञात्मगुणः समीरणो मनःसु हर्षो जगतां व्यजृम्भत

2.41

उदीरिता हर्षपरीतमानसैर् महर्द्धिभिर् भूतगणैः सविस्मयैः ।
नृपस्य कर्मातिशयस्तवाश्रयाः समन्ततः शुश्रुविरे गिरः शुभाः

2.42

अहो बतौदार्यम् अहो कृपालुता विशुद्धता पश्य यथास्य चेतसः ।
अहो स्वसौख्येषु निरुत्सुका मतिर् नमो ऽस्तु ते ऽत्यद्भुतधैर्यविक्रम

2.43

सनाथतां साधु जगद् गतं त्वया पुनर् विबुद्धेक्षणपङ्कजश्रिया ।
अमोघरूपा बत पुण्यसंचयाश् चिरस्य धर्मेण खलूर्जितं जितम्

2.44

अथ शक्रः साधु साध्व् इत्य् एनम् अभिसंराध्य पुनर् उवाच ।
न नो न विदितो राजंस् तव शुद्धाशयाशयः ।
एवं तु प्रतिदत्ते ते मयेमे नयने नृप

2.45

समन्ताद् योजनशतं शैलैर् अपि तिरस्कृतम् ।
द्रष्टुम् अव्याहता शक्तिर् भविष्यत्य् अनयोश् च ते

2.46

इत्य् उक्त्वा शक्रस् तत्रैवान्तर्दधे ॥ अथ बोधिसत्त्वो विस्मयप्रहर्षापूर्णमनोभिर् मन्दमन्दनिमेषप्रविकसितनयनैर् अमात्यैर् अनुयातैः पौरैश् चाभिवीक्ष्यमाणो जयाशीर्वचनपुरःसरैश् च ब्राह्मणैर् अभिनन्द्यमानः पुरवरम् उच्छ्रितध्वजविचित्रपताकं प्रवितन्यमानाभ्युदयशोभम् अभिगम्य पर्षदि निषण्णः सभाजनार्थम् अभिगतस्यामात्यप्रमुख् य् अस्य ब्राह्मणवृद्धपौरजनस्यैवम् आत्मोपनायिकं धर्मं देशयाम् आस ।
को नाम लोके शिथिलादरः स्यात् कर्तुं धनैर् अर्थिजनप्रियाणि ।
दिव्यप्रभावे नयने ममेमे प्रदानपुण्योपनते समीक्ष्य

2.47

अनेकशैलान्तरितं योजनानां शताद् अपि ।
अदूरस्थितविस्पष्टं दृश्यं पश्यामि सर्वतः

2.48

परानुकम्पाविनयाभिजाताद् दानात् परः को ऽभ्युदयाभ्युपायः ।
यन् मानुषं चक्षुर् इहैव दत्त्वा प्राप्तं मयामानुषदिव्यचक्षुः

2.49

एतद् विदित्वा शिबयः प्रदानैर् भोगेन चार्थान् सफलीकुरुध्वम् ।
लोके परस्मिन्न् इह चैष पन्थाः कीर्तिप्रधानस्य सुखोदयस्य

2.50

धनस्य निःसारलघोः स सारो यद् दीयते लोकहितोन्मुखेन ।
निधानतां याति हि दीयमानम् अदीयमानं निधनैकनिष्ठम्

मूल पाठ: Jātakamālā 1-15 · Edition: Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1) · Data entry Albrecht Hanisch Mitsuyo Demoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc