भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · अध्याय 1

1.1

आर्यशूर: जातकमाला 1-15, रेविसेद् तेxत्
1. व्याघ्रीजातकम्
2. शिबिजातकम्
3. कुल्माषपिण्डीजातकम्
4. श्रेष्ठिजातकम्
5. अविषह्यश्रेष्ठिजातकम्
6. शशजातकम्
7. अगस्त्यजातकम्
8. मैत्रीबलजातकम्
9. विश्वंतरजातकम्
10. यज्ञजातकम्
11. शक्रजातकम्
12. ब्राह्मणजातकम्
13. उन्मादयन्तीजातकम्
14. सुपारगजातकम्
15. मत्स्यजातकम्
नमो बुद्धाय ॥
श्रीमन्ति सद्गुणपरिग्रहमङ्गलानि कीर्त्यास्पदान्य् अनवगीतमनोहराणि ।
पूर्वेषु जन्मसु मुनेश् चरिताद्भुतानि भक्त्या स्वकाव्यकुसुमाञ्जलिनार्चयिष्ये

1.2

श्लाघ्यैर् अमीभिर् अभिलक्षितचिह्नभूतैर् आदेशितो भवति यत् सुगतत्वमार्गः ।
स्याद् एव रूक्षमनसाम् अपि च प्रसादो धर्म्याः कथाश् च रमणीयतरत्वम् ईयुः

1.3

लोकार्थम् इत्य् अभिसमीक्ष्य करिष्यते ऽयं श्रुत्यार्षयुक्त्यविगुणेन पथा प्रयत्नः ।
लोकोत्तमस्य चरितातिशयप्रदेशैः स्वं प्रातिभं गमयितुं श्रुतिवल्लभत्वम्

1.4

स्वार्थोद्यतैर् अपि परार्थचरस्य यस्य नैवान्वगम्यत गुणप्रतिपत्तिशोभा ।
सर्वज्ञ इत्य् अवितथाक्षरदीप्तकीर्तिं मूर्ध्ना नमे तम् असमं सहधर्मसङ्घम्

1.5

1. व्याघ्रीजातकम्
सर्वसत्त्वेष्व् अकारणपरमवत्सलस्वभावः सर्वभूतात्मभूतः पूर्वजन्मस्व् अपि स भगवान् इति बुद्धे भगवति परः प्रसादः कार्यः ॥
तद्यथानुश्रूयते रत्नत्रयगुरुभिः प्रतिपत्तिगुणाभिराधितगुरुभिर् गुणप्रचयगुरुभिर् अस्मद्गुरुभिः परिकीर्त्यमानम् इदं भगवतः पूर्वजन्मावदानम् । बोधिसत्त्वः किल प्रतिज्ञातिशयसदृशैर् दानप्रियवचनार्थचर्याप्रभृतिभिः प्रज्ञापरिग्रहनिरवद्यैः कारुण्यनिस्यन्दैर् लोकम् अनुगृह्णन् स्वधर्माभिरत्युपनतशुचिवृत्तिन्य् उदितोदिते महति ब्राह्मणकुले जन्मपरिग्रहं चकार ॥ स कृतसंस्कारक्रमो जातकर्मादिभिर् अभिवर्धमानः प्रकृतिमेधावित्वात् सानाथ्यविशेषाज् ज्ञानकौतूहलाद् अकौसीद्याच् च नचिरेणैवाष्टादशसु विद्यास्थानेषु स्वकुलक्रमाविरुद्धासु च सकलासु कलास्व् आचार्यकं परम् अवाप ।
स ब्रह्मवद् ब्रह्मविदां बभूव राजेव राज्ञां बहुमानपात्रम् ।
साक्षात् सहस्राक्ष इव प्रजानां ज्ञानार्थिनाम् अर्थचरः पितेव

1.6

तस्य भाग्यगुणातिशयसमावर्जितो महालाभसत्कारयशोविशेषः प्रादुरभूत्। धर्माभ्यासभावितमतिः कृतप्रव्रज्यापरिचयस् तु बोधिसत्त्वो न तेनाभिरेमे ।
स पूर्वचर्यापरिशुद्धबुद्धिः कामेषु दृष्ट्वा बहुदोषजातम् ।
गार्हस्थ्यम् अस्वास्थ्यम् इवावधूय कं चिद् वनप्रस्थम् अलंचकार

1.7

स तत्र निःसङ्गतया तया च प्रज्ञावदातेन शमेन चैव ।
प्रत्यादिदेशेव कुकार्यसङ्गाद् विश्लिष्टशिष्टोपशमं नृलोकम्

1.8

मैत्रीमयेन प्रशमेन तस्य विस्यन्दिनेवानुपरीतचित्ताः ।
परस्परद्रोहनिवृत्तभावास् तपस्विवद् व्याडमृगा विचेरुः

1.9

आचारशुद्ध्या निभृतेन्द्रियत्वात् संतोषयोगात् करुणागुणाच् च ।
असंस्तुतस्यापि जनस्य लोके सो ऽभूत् प्रियस् तस्य यथैव लोकः

1.10

अल्पेच्छभावात् कुहनानभिज्ञस् त्यक्तस्पृहो लाभयशःसुखेभ्यः ।
स देवतानाम् अपि मानसानि प्रसादभक्तिप्रवणानि चक्रे

1.11

श्रुत्वाथ तं प्रव्रजितं मनुष्या गुणैस् तदीयैर् अवबद्धचित्ताः ।
विहाय बन्धूंश् च परिग्रहांश् च तच्छिष्यतां सिद्धिम् इवोपजग्मुः

1.12

शीले शुचाव् इन्द्रियभावनायां स्मृत्यप्रमोषे प्रविविक्ततायाम् ।
मैत्र्यादिके चैव मनःसमाधौ यथाबलं सो ऽनुशशास शिष्यान्

1.13

अथ कदा चित् स महात्मा परिनिष्पन्नभूयिष्ठे पृथूभूते शिष्यगणे प्रतिष्ठापिते ऽस्मिन् कल्याणे वर्त्मन्य् अवतारिते नैष्क्रम्यसत्पथं लोके संवृतेष्व् इवापायद्वारेषु राजमार्गीकृतेष्व् इव सुगतिमार्गेषु दृष्टधर्मसुखविहारार्थं तत्कालशिष्येणाजितेनानुगम्यमानो योगानुकूलान् पर्वतदरीनिकुञ्जान् अनुविचचार ॥
अथात्र व्याघ्रवनितां ददर्श गिरिगह्वरे ।
प्रसूतिक्लेशदोषेण गतां विस्पन्दमन्दताम्

1.14

परिक्षामेक्षणयुगां क्षुधा च्छाततरोदरीम् ।
आहारम् इव पश्यन्तीं बालान् स्वतनयान् अपि

1.15

स्तन्यतर्षाद् उपसृतान् मातृविश्रम्भनिर्व्यथान् ।
रोरूयितरवैः क्रूरैर् भर्त्सयन्तीं परान् इव

1.16

बोधिसत्त्वस् तु तां दृष्ट्वा धीरो ऽपि करुणावशात् ।
चकम्पे परदुःखेन महीकम्पाद् इवाद्रिराट्

1.17

महत्स्व् अपि स्वदुःखेषु व्यक्तधैर्याः कृपात्मकाः ।
मृदुनाप्य् अन्यदुःखेन कम्पन्ते यत् तद् अद्भुतम्

1.18

अथ बोधिसत्त्वः ससंभ्रमाम्रेडितपदं स्वभावातिशयव्यञ्जकं करुणाबलसमाहिताक्षरं शिष्यम् उवाच । वत्स वत्स ।
पश्य संसारनैर्गुण्यं मृग्य् एषा स्वसुतान् अपि ।
लङ्घितस्नेहमर्यादा भोक्तुम् अन्विच्छति क्षुधा

1.19

अहो बतातिकष्टेयम् आत्मस्नेहस्य रौद्रता ।
येन मातापि तनयान् आहारयितुम् इच्छति

1.20

आत्मस्नेहमयं शत्रुं को वर्धयितुम् अर्हति ।
येन कुर्यात् पदन्यासम् ईदृशेष्व् अपि कर्मसु

1.21

तच् छीघ्रम् अन्विष्यतां तावत् कुतश् चिद् अस्याः क्षुद्दुःखप्रतीकारहेतुर् यावन् न तनयान् आत्मानं चोपहन्ति । अहम् अपि चैनां प्रयतिष्ये साहसाद् अस्माद् वारयितुम् । स तथेत्य् अस्मै प्रतिश्रुत्य तदाहारान्वेषणपरो बभूव ॥ अथ बोधिसत्त्वस् तं शिष्यं सव्यपदेशम् अतिवाह्य चिन्ताम् आपेदे ।
संविद्यमाने सकले शरीरे कस्मात् परस्मान् मृगयामि मांसम् ।
यादृच्छिकी तस्य हि लाभसंपत् कार्यात्ययः स्याच् च तथा ममायम्

1.22

अपि च ।
निरात्मके भेदिनि सारहीने दुःखे कृतघ्ने सतताशुचौ च ।
देहे परस्माय् उपयुज्यमाने न प्रीतिमान् यो न विचक्षणः सः

1.23

स्वसौख्यसङ्गेन परस्य दुःखम् उपेक्ष्यते शक्तिपरिक्षयाद् वा ।
न चान्यदुःखे सति मे ऽस्ति सौख्यं सत्यां च शक्तौ किम् उपेक्षकः स्याम्

1.24

सत्यां च शक्तौ मम यद्य् उपेक्षा स्याद् आततायिन्य् अपि दुःखमग्ने ।
कृत्वेव पापं मम तेन चित्तं दह्येत कक्षं महताग्निनेव

1.25

तस्मात् करिष्यामि शरीरकेण तटप्रपातोद्गतजीवितेन ।
संरक्षणं पुत्रवधाच् च मृग्या मृग्याः सकाशाच् च तदात्मजानाम्

1.26

किं च भूयः ।
संदर्शनं लोकहितोत्सुकानाम् उत्तेजनं मन्दपराक्रमाणाम् ।
संहर्षणं त्यागविशारदानाम् आकर्षणं सज्जनमानसानाम्

1.27

विषादनं मारमहाचमूनां प्रसादनं बुद्धगुणप्रियाणाम् ।
व्रीडोदयं स्वार्थपरायणानां मात्सर्यलोभोपहतात्मनां च

1.28

श्रद्धापनं यानवराश्रितानां विस्मापनं त्यागकृतस्मयानाम् ।
विशोधनं स्वर्गमहापथस्य त्यागप्रियाणाम् अनुमोदिनॄणाम्

1.29

कदा नु गात्रैर् अपि नाम कुर्यां हितं परेषाम् इति यश् च मे ऽभूत् ।
मनोरथस् तं सफलीक्रियासं संबोधिम् अग्र्याम् अपि चाविदूरे

1.30

न स्पर्धया नैव यशोऽभिलाषान् न स्वर्गलोभान् न च राज्यहेतोः ।
नात्यन्तिके ऽप्य् आत्मसुखे यथायं ममादरो ऽन्यत्र परार्थसिद्धेः

1.31

तथा ममानेन समानकालं लोकस्य दुःखं च सुखोदयं च ।
हर्तुं च कर्तुं च सदास्तु शक्तिस् तमः प्रकाशं च यथैव भानोः

1.32

दृष्टः श्रुतो ऽनुस्मृतिम् आगतो वा स्पृष्टः कथायोगम् उपागतो वा ।
सर्वप्रकारं जगतो हितानि कुर्याम् अजस्रं सुखसंहितानि

1.33

एवं स निश्चित्य परार्थसिद्ध्यै प्राणात्यये ऽप्य् आपतितप्रमोदः ।
मनांसि धीराण्य् अपि देवतानां विस्मापयन् स्वां तनुम् उत्ससर्ज

1.34

अथ सा व्याघ्री तेन बोधिसत्त्वस्य शरीरनिपातशब्देन समुत्थापितकौतूहलामर्षा विरम्य स्वतनयवैशसोद्यमात् ततो नयने विचिक्षेप । दृष्ट्वैव च तद् बोधिसत्त्वशरीरम् उद्गतप्राणं सहसाभिसृत्य भक्षयितुम् उपचक्रमे । अथ स तस्य शिष्यो मांसम् अनासाद्यैव प्रतिनिवृत्तः कुत्रोपाध्याय इति विलोकयंस् तद् बोधिसत्त्वशरीरम् उद्गतप्राणं तया व्याघ्रयुवत्या भक्ष्यमाणं ददर्श । स तत्कर्मातिशयविस्मयात् प्रतिव्यूढशोकदुःखावेगस् तद्गुणाश्रयबहुमानम् इवोद्गिरन्न् इदम् आत्मगतं ब्रुवाणः शोभेत ।
अहो दयास्य व्यसनातुरे जने स्वसौख्यनैःसङ्ग्यम् अहो महात्मनः ।
अहो प्रकर्षं गमिता स्थितिः सताम् अहो परेषां मृदिता यशःश्रियः

1.35

अहो पराक्रान्तम् अपेतसाध्वसं गुणाश्रयं प्रेम परं विदर्शितम् ।
अहो नमस्कारविशेषपात्रतां प्रसह्य नीता स्वगुणातनुस् तनुः

1.36

निसर्गसौम्यस्य वसुंधराधृतेर् अहो परेषां व्यसनेष्व् अमर्षिता ।
अहो मदीया गमिता प्रकाशतां खटुङ्कता विक्रमसंपदानया

1.37

अनेन नाथेन सनाथतां गतं न शोचितव्यं खलु सांप्रतं जगत् ।
पराजयाशङ्कितजातसंभ्रमो ध्रुवं विनिश्वासपरो ऽद्य मन्मथः

1.38

सर्वथा नमो ऽस्त्व् अस्मै महाभागाय सर्वभूतशरण्यायातिविपुलकारुण्यायाप्रमेयसत्त्वाय भूतार्थबोधिसत्त्वायेति ॥ अथ स तम् अर्थं सब्रह्मचारिभ्यो निवेदयाम् आस ।
तत्कर्मविस्मितमुखैर् अथ तस्य शिष्यैर् गन्धर्वयक्षभुजगैस् त्रिदशाधिपैश् च ।
माल्याम्बराभरणचन्दनचूर्णवर्षैश् छन्ना तदस्थिवसुधा वसुधा बभूव

मूल पाठ: Jātakamālā 1-15 · Edition: Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1) · Data entry Albrecht Hanisch Mitsuyo Demoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc