भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · अध्याय 14

14.1

तद् एवं तीव्रदुःखातुराणाम् अपि सतां नीचमार्गनिष्प्रणयता भवति स्वधैर्यावष्टम्भात् स्वभ्यस्तधर्मसंज्ञत्वाच् चेति धैर्ये धर्माभ्यासे च योगः कार्य इति ॥
उन्मादयन्तीजातकं त्रयोदशम् ॥
14. सुपारगजातकम्
धर्माश्रयं सत्यवचनम् अप्य् आपदं नुदति प्राग् एव तत्फलम् इति धर्मानुवर्तिना भवितव्यम् ॥
तद्यथानुश्रूयते । बोधिसत्त्वः किल महासत्त्वः परमनिपुणमतिर् नौसारथिर् बभूव । धर्मता ह्य् एषा बोधिसत्त्वानां प्रकृतिमेधावित्वाद् यद् उत यं यं शास्त्रातिशयं जिज्ञासन्ते कलाविशेषं वा तस्मिंस् तस्मिन्न् अधिका भवन्ति मेधाविनो जगतः ॥ अथ स महात्मा विदितज्योतिर्गतित्वाद् दिग्विभागेष्व् असंमूढमतिः परिविदितनियतागन्तुकौत्पातिकनिमित्तः कालाकालक्रमकुशलो मीनतोयवर्णभौमप्रकारशकुनिपर्वतादिभिश् चिह्नैः सूपलक्षितसमुद्रप्रदेशः स्मृतिमान् विजिततन्द्रीनिद्रः शीतोष्णवर्षादिपरिखेदसहिष्णुर् अप्रमादी धृतिमान् आहरणापसरणादिकुशलत्वाद् ईप्सितं देशं प्रापयिता वणिजाम् आसीत् । तस्य परमसिद्धयात्रत्वात् सुपारग इत्य् एव नाम बभूव । तदध्युषितं च पत्तनं सुपारगम् इत्य् एव ख्यातम् आसीत् । यद् एतर्हि शूर्पारकम् इति ज्ञायते ॥ सो ऽतिमङ्गलसंमतत्वाद् वृद्धत्वे ऽपि सांयात्रिकैर् यात्रासिद्धिकामैर् वहनम् अभ्यर्थनसत्कारपुरःसरम् आरोप्यते स्म ॥ अथ कदा चिद् भरुकच्छाद् अभिप्रयाताः सुवर्णभूमिं वणिजो यात्रासिद्धिकामाः सुपारगं पत्तनम् उपेत्य तं महासत्त्वं वहनारोहणार्थम् अभ्यर्थयाम् आसुः । स तान् उवाच ।
जराज्ञया संह्रियमाणदर्शने श्रमाभिपातैः प्रतनूकृतस्मृतौ ।
स्वदेहकृत्ये ऽप्य् अवसन्नविक्रमे सहायता का परिशङ्क्यते मयि

14.2

वणिज ऊचुः । विदितेयम् अस्माकं युष्मच्छरीरावस्था । सत्य् अपि च वः पराक्रमसहत्वे नैव वयं कर्मविनियोगेन युष्मान् आयासयितुम् इच्छामः । किं तर्हि ।
त्वत्पादपङ्कजसमाश्रयसत्कृतेन मङ्गल्यताम् उपगता रजसा त्व् इयं नौः ।
दुर्गे महत्य् अपि च तोयनिधाव् अमुष्मिन् स्वस्ति व्रजेद् इति भवन्तम् उपागताः स्मः

14.3

अथ स महात्मा तेषाम् अनुकम्पया जराशिथिलशरीरो ऽपि तद्वहनम् आरुरोह । तदधिरोहणाच् च प्रमुदितमनसः सर्व एव ते वणिजो बभूवुर् नियतम् अस्माकम् उत्तमा यात्रासिद्धिर् इति । क्रमेण चावजगाहिरे विविधमीनकुलविचरितम् अनिभृतजलकलकलारावम् अनिलविलासप्रविचलिततरङ्गं बहुविधरत्नैर् भूमिविशेषैर् अर्पितरङ्गं फेनावलीकुसुमदामविचित्रम् असुरवरभुजगवरभवनं दुरापपातालम् अप्रमेयतोयं महासमुद्रम् ।
अथेन्द्रनीलप्रकराभिनीलं सूर्यांशुतापाद् इव खं विलीनम् ।
समन्ततो ऽन्तर्हिततीरलेखम् अगाधम् अम्भोनिधिमध्यम् ईयुः

14.4

तेषां तत्रानुप्राप्तानां सायाह्नसमये मृदूभूतकिरणचक्रप्रभावे सवितरि महद् औत्पातिकं परमभीषणं प्रादुरभूत् ।
विभिद्यमानोर्मिविकीर्णफेनश् चण्डानिलास्फालनभीमनादः ।
नैभृत्यनिर्मुक्तसमग्रतोयः क्षणेन रौद्रः समभूत् समुद्रः

14.5

उत्पातवाताकलितैर् महद्भिस् तोयस्थलैर् भीमरयैर् भ्रमद्भिः ।
युगान्तकालप्रचलाचलेव भूमिर् बभूवोग्रवपुः समुद्रः

14.6

विद्युल्लतोद्भासुरलोलजिह्वा नीला भुजंगा इव नैकशीर्षाः ।
आवव्रुर् आदित्यपथं पयोदाः प्रसक्तभीमस्तनितानुनादाः

14.7

घनैर् घनैर् आवृतरश्मिजालः सूर्यः क्रमेणास्तम् उपारुरोह ।
दिनान्तलब्धप्रसरं समन्तात् तमो घनीभावम् इवाजगाम

14.8

धाराशरैर् आच्छुरितोर्मिचक्रे महोदधाव् उत्पततीव रोषात् ।
भीतेव नौर् अभ्यधिकं चकम्पे विषादयन्ती हृदयानि तेषाम्

14.9

ते त्रासदीनाश् च विषादमूका धीराः प्रतीकारससंभ्रमाश् च ।
स्वदेवतायाचनतत्पराश् च भावान् यथासत्त्वगुणं विवव्रुः

14.10

अथ ते सांयात्रिकाः पवनसलिलवेगवशगया नावा परिभ्राम्यमाणा बहुभिर् अप्य् अहोभिर् नैव कुतश् चित् तीरं ददृशुर् न च यथेप्सितानि समुद्रचिह्नानि । अपूर्वैर् एव तु समुद्रचिह्नैर् अभिवर्धमानवैमनस्या भयविषादव्याकुलताम् उपजग्मुः ॥ अथैनान् सुपारगो बोधिसत्त्वो व्यवस्थापयन्न् उवाच । अनाश्चर्यः खलु समुद्रम् अवगाढानाम् औत्पातिकक्षोभपरिक्लेशः । तद् अलम् अत्रभवतां विषादानुवृत्त्या ।
नापत्प्रतीकारविधिर् विषादस् तस्माद् अलं दैन्यपरिग्रहेण ।
धैर्यात् तु कार्यप्रतिपत्तिदक्षाः कृच्छ्राण्य् अकृच्छ्रेण समुत्तरन्ति

14.11

विषाददैन्यं व्यवधूय तस्मात् कार्यावकाशं क्रियया भजध्वम् ।
प्राज्ञस्य धैर्यज्वलितं हि तेजः सर्वार्थसिद्धिग्रहणाग्रहस्तः

14.12

इति ते सांयात्रिकास् तेन महात्मना धीरीकृतमनसः कूलसंदर्शनोत्सुकमतयः समुद्रम् अवलोकयन्तो ददृशुः पुरुषविग्रहान् आमुक्तरूप्यकवचान् इवोन्मज्जतो निमज्जतश् च । सम्यक् चैषाम् आकृतिनिमित्तम् अवधार्य सविस्मयाः सुपारगाय न्यवेदयन्त । अपूर्वं खल्व् इदम् इह समुद्रे चिह्नम् उपलभ्यते । एते खलु
आमुक्तरूप्यकवचा इव दैत्ययोधा घोरेक्षणाः क्षुरनिकाशविरूपघोणाः ।
उन्मज्जनावतरणस्फुरणप्रसङ्गात् कृईडाम् इवार्णवजले ऽनुभवन्ति के ऽपि

14.13

सुपारग उवाच । नैते मानुषा अमानुषा वा । मीनाः खल्व् एते यतो न भेतव्यम् एभ्यः । किं तु ।
सुदूरम् अपकृष्टाः स्मः पत्तनद्वितयाद् अपि ।
क्षुरमाली समुद्रो ऽयं तद् यतध्वं निवर्तितुम्

14.14

चण्डवेगवाहिना तु सलिलनिवहेनैकान्तहरेण च पाश्चात्येन वायुना समाक्षिप्तया नावा न ते सांयात्रिकाः शेकुर् विनिवर्तितुम् ॥ अथावगाहमानाः क्रमेण रूप्यप्रभावभासितसितसलिलं फेननिचयपाण्डरम् अपरं समुद्रम् आलोक्य सविस्मयाः सुपारगम् ऊचुः ।
स्वफेनमग्नैर् इव को ऽयम् अम्बुभिर् महार्णवः शुक्लदुकूलवान् इव ।
द्रवान् इवेन्दोः किरणान् समुद्वहन् समन्ततो हास इव प्रसर्पति

14.15

सुपारग उवाच । कष्टम् । अतिदूरं खल्व् अवगाह्यते ।
क्षीरार्णव इति ख्यात उदधिर् दधिमाल्य् असौ ।
क्षमं नातः परं गन्तुं शक्यते चेन् निवर्तितुम्

14.16

वणिज ऊचुः । न खलु शक्यते विलम्बयितुम् अपि वहनं कुत एव निवर्तयितुम् अतिशीघ्रवाहित्वाद् वहनस्य प्रतिकूलत्वाच् च मारुतस्येति ॥ अथ व्यतीत्य तम् अपि समुद्रं सुवर्णप्रभानुरञ्जितप्रचलोर्मिमालम् अग्निज्वालाकपिलसलिलम् अपरं समुद्रम् आलोक्य सविस्मयकौतूहलास् ते वणिजः सुपारगं पप्रच्छुः ।
बालार्कलक्ष्म्येव कृताङ्गरागैः समुन्नमद्भिः सलिलैर् अनीलैः ।
ज्वलन् महान् अग्निर् इवावभाति को नाम कस्माच् च महार्णवो ऽयम्

14.17

सुपारग उवाच ।
अग्निमालीति विख्यातः समुद्रो ऽयं प्रकाशते ।
अतीव खलु साधु स्यान् निवर्तेमहि यद्य् अतः

14.18

इति स महात्मा नाममात्रम् अकथयत् तस्य सरित्पतेर् न तोयवैवर्ण्यकारणं दीर्घदर्शित्वात् ॥ अथ ते सांयात्रिकास् तम् अपि समुद्रम् अतीत्य पुष्परागेन्द्रनीलप्रभोद्द्योतितसलिलं परिपक्वकुशपर्णनिकाशवर्णम् अपरं समुद्रम् आलोक्य कौतूहलजाताः सुपारगं पप्रच्छुः ।
परिणतकुशपर्णवर्णतोयः सलिलनिधिः कतमो न्व् अयं विभाति ।
सकुसुम इव फेनभक्तिचित्रैर् अनिलजवाकलितैस् तरङ्गभङ्गैः

14.19

सुपारग उवाच । भोः सार्थवाहा निवर्तनं प्रति यत्नः क्रियताम् । न खल्व् अतः परं क्षमते गन्तुम् ।
कुशमाली समुद्रो ऽयम् अत्यङ्कुश इव द्विपः ।
प्रसह्यासह्यसलिलो हरन् हरति नो रतिम्

14.20

अथ ते वाणिजकाः परेणापि यत्नेन वहनं निवर्तयितुम् अशक्नुवन्तस् तम् अपि समुद्रम् अतीत्य वंशरागवैडूर्यप्रभाव्यतिकरहरितसलिलम् अपरं समुद्रम् आलोक्य सुपारगम् अपृच्छन् ।
मरकतहरितप्रभैर् जलैर् वहति नवाम् इव शाद्वलश्रियम् ।
कुमुदरुचिरफेनभूषणः सलिलनिधिः कतमो ऽयम् ईक्ष्यते

14.21

अथ स महात्मा तेन तस्य वणिग्जनस्य व्यसनोपनिपातेन परिदह्यमानहृदयो दीर्घम् उष्णम् अभिनिश्वस्य शनकैर् उवाच ।
अतिदूरम् उपेताः स्मः दुःखम् अस्मान् निवर्तितुम् ।
पर्यन्त इव लोकस्य नलमाल्य् एष सागरः

14.22

तच् छ्रुत्वा ते वाणिजका विषादोपरुध्यमानमनसो विस्रस्यमानगात्रोत्साहा निश्वसितमात्रपरायणास् तत्रैव निषेदुः । व्यतीत्य तम् अपि समुद्रं सायाह्नसमये विलम्बमानमन्दरश्मिमण्डले सलिलनिधिम् इव प्रवेष्टुकामे दिवसकरे समुद्वर्तमानस्येव सलिलनिधेर् अशनीनाम् इव च संपततां वेणुवनानाम् इव चाग्निपरिगतानां विस्फुटतां तुमुलम् अतिभीषणं श्रुतिहृदयविदारणं समुद्रध्वनिम् अश्रौषुः । श्रुत्वा च संत्रासवशगाः स्फुरन्मनसः सहसैवोत्थाय समन्ततो ऽनुविलोकयन्तो ददृशुः प्रपात इव श्वभ्र इव च महान्तं तम् उदकौघं निपतन्तम् <।> दृष्ट्वा च परमभयविह्वलाः सुपारगम् उपेत्योचुः ।
निर्भिन्दन्न् इव नः श्रुतीः प्रतिभयश् चेतांसि मथ्नन्न् इव क्रुद्धस्येव सरित्पतेर् ध्वनिर् अयं दूराद् अपि श्रूयते ।
भीमे श्वभ्र इवाग्रतश् च निपतत्य् एतत् समग्रं जलं तत् को ऽसाव् उदधिः किम् अत्र च परं कृत्यं भवान् मन्यते

14.23

अथ स महात्मा ससंभ्रमः कष्टं कष्टम् इत्य् उक्त्वा समुद्रम् आलोकयन्न् उवाच ।
यत् प्राप्य न निवर्तन्ते मृत्योर् मुखम् इवामुखम् ।
अशिवं समुपेताः स्मस् तद् एतद् वडबामुखम्

14.24

तद् उपश्रुत्य ते वाणिजका वडबामुखम् उपेता वयम् इति त्यक्तजीविताशा मरणभयविक्लवीभूतमनसः
सस्वरं रुरुदुः के चिद् विलेपुर् अथ चुक्रुशुः ।
न किं चित् प्रत्यपद्यन्त के चित् त्रासविचेतसः

14.25

विशेषतः के चिद् अभिप्रणेमुर् देवेन्द्रम् आर्तिप्रहितैर् मनोभिः ।
आदित्यरुद्राश्विमरुद्वसूंश् च प्रपेदिरे सागरम् एव चान्ये

14.26

जेपुश् च मन्त्रान् अपरे विचित्रान् अन्ये तु देवीं विधिवत् प्रणेमुः ।
सुपारगं के चिद् उपेत्य तत् तद् विचेष्टमानाः करुणं विलेपुः

14.27

आपद्गतत्रासहरस्य नित्यं परानुकम्पागुणसंभृतस्य ।
अयं प्रभावातिशयस्य तस्य तवाभ्युपेतो विनियोगकालः

14.28

आर्तान् अनाथाञ् छरणागतान् नस् त्वं त्रातुम् आवर्जय धीर चेतः ।
अयं हि कोपाद् वडबामुखेन चिकीर्षति ग्रासम् इवार्णवो ऽस्मान्

14.29

नोपेक्षितुं युक्तम् अयं जनस् ते विपद्यमानः सलिलौघमध्ये ।
नाज्ञां तवात्येति महासमुद्रस् तद् वार्यताम् अप्रशमो ऽयम् अस्य

14.30

अथ स महात्मा महत्या करुणया समापीड्यमानहृदयस् तान् वाणिजकान् व्यवस्थापयन्न् उवाच । अस्त्य् अत्रापि नः कश् चित् प्रतीकारविधिः प्रतिभाति । तं तावत् प्रयोक्ष्ये यतो मुहूर्तं धीरास् तावद् भवन्तु भवन्त इति ॥ अथ ते वाणिजका अस्त्य् अत्रापि प्रतीकार इत्य् आशया समुपस्तम्भितधैर्यास् तदवहितमनसस् तूष्णींबभूवुः ॥ अथ सुपारगो बोधिसत्त्व एकांसम् उत्तरासङ्गं कृत्वा दक्षिणेन जानुमण्डलेनाधिष्ठाय नावं समावर्जितसर्वभावः प्रणम्य तथागतेभ्यस् तान् सांयात्रिकान् आमन्त्रयते स्म । शृण्वन्त्व् अत्रभवन्तः सांयात्रिकाः सलिलनिधिव्योमाश्रयाश् च देवताविशेषाः ।
स्मरामि यत आत्मानं यतः प्राप्तो ऽस्मि विज्ञताम् ।
नाभिजानामि संचिन्त्य प्राणिनं हिंसितुं क्व चित्

14.31

अनेन सत्यवाक्येन मम पुण्यबलेन च ।
वडबामुखम् अप्राप्य स्वस्ति नौर् विनिवर्तताम्

14.32

अथ तस्य महात्मनः सत्याधिष्ठानप्रभावात् पुण्यतेजसा च सह सलिलजवेन स मारुतो व्यावर्तमानस् तां नावं विनिवर्तयाम् आस । निवृत्तां तु तां नावम् अभिसमीक्ष्य ते वाणिजकाः परमविस्मयप्रहर्षोद्धतमानसा निवृत्ता निवृत्ता नौर् इति प्रणामसभाजनपुरःसरं सुपारगाय न्यवेदयन्त ॥ अथ स महात्मा तान् वाणिजकान् उवाच । स्थिरीभवन्तु भवन्तः । शीघ्रम् आरोप्यन्तां शीतानि । इति च तेन समादिष्टाः प्रमोदाद् उद्भूतबलोत्साहास् ते तदधिकृतास् तथा चक्रुः ।
अथ मुदितजनप्रहासनादा प्रविततपाण्डरशीतचारुपक्षा ।
सलिलनिधिगता रराज सा नौर् गतजलदे नभसीव राजहंसी

14.33

निवृत्तायां तु तस्याम् अनुकूलसलिलमारुतायां विमानलीलया स्वेच्छयैवाभिप्रयातायां नावि नातिश्यामीभूतसंध्याङ्गरागासु प्रवितन्यमानतमोवितानास्व् आलक्ष्यनक्षत्रभूषणासु दिक्षु किं चिद् अवशेषप्रभे दिवसकरमार्गे प्रवृत्ते क्षणदाधिकारे सुपारगस् तान् वाणिजकान् उवाच । भोः सार्थवाहा नलमालिप्रभृतिभ्यो यथादृष्टेभ्यः समुद्रेभ्यो वालिकापाषाणा वहनम् आरोप्यन्तां यावत् सहते । एवम् इदं यानपात्रं निर्घातभराक्रान्तं न च पार्श्वानि दास्यति । मङ्गलसंमताश् चैते वालिकापाषाणा नियतं लाभसिद्धये वो भविष्यन्तीति ॥ ते सुपारगप्रेमबहुमानावर्जितमतिभिर् देवताभिर् अनुप्रदर्शितेभ्यः स्थलेभ्य आदाय वालिकापाषाणबुद्ध्या वैडूर्यादीनि रत्नानि वहनम् आरोपयाम् आसुः ॥ तेनैव चैकरात्रेण सा नौर् भरुकच्छम् उपजगाम ॥
अथ प्रभाते रजतेन्द्रनीलवैडूर्यहेमप्रतिपूर्णनौकाः ।
स्वदेशतीरान्तम् उपागतास् ते प्रीत्या तम् आनर्चुर् उदीर्णहर्षाः

मूल पाठ: Jātakamālā 1-15 · Edition: Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1) · Data entry Albrecht Hanisch Mitsuyo Demoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc