भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · अध्याय 13

13.1

तद् एवमात्मलज्जयैव सत्पुरुषा नाचारवेलां लङ्घयन्तीति ह्रीबलसमन्वितेनार्येण भवितव्यम् ।
एवं ह्रीपरिखासंपन्न आर्यश्रावको ऽकुशलम् प्रजहातीत्येवमादिषु सूत्रपदेषूपनेयम् । ह्रीवर्णप्रतिसंयुक्तेषु सूत्रान्तेषु लोकाधिपतेये चेति ॥
ब्राह्मणजातकं द्वादशमम् ॥
13. उन्मादयन्तीजातकम्
तीव्रदुःखातुराणाम् अपि सतां नीचमार्गनिष्प्रणयता भवति स्वधैर्यावष्टम्भात् ॥
तद्यथानुश्रूयते । सत्यत्यागोपशमप्रज्ञादिभिर् गुणातिशयैर् लोकहितार्थम् उद्यच्छमानः किल बोधिसत्त्वः कदा चिच् छिबीनां राजा बभूव साक्षाद् धर्म इव विनय इव पितेव च प्रजानाम् उपकारप्रवृत्तः ।
दोषप्रवृत्तेर् विनियम्यमानो निवेश्यमानश् च गुणाभिजात्ये ।
पित्रेव पुत्रः क्षितिपेन तेन ननन्द लोकद्वितये ऽपि लोकः

13.2

समस्वभावा स्वजने जने च धर्मानुगा तस्य हि दण्डनीतिः ।
अधर्म्यम् आवृत्य जनस्य मार्गं सोपानमालेव दिवो बभूव

13.3

धर्मान्वयं लोकहितं स पश्यंस् तदेककार्यो नरलोकपालः ।
सर्वात्मना धर्मपथे ऽभिरेमे तस्योपमर्दं च परैर् न सेहे

13.4

तस्य च राज्ञः पौरमुख्यस्य दुहिता श्रीर् इव विग्रहवती साक्षाद् रतिर् इवाप्सरसाम् अन्यतमेव च परमया रूपलावण्यसंपदोपेता परमदर्शनीया स्त्रीरत्नसंमता बभूव ।
अवीतरागस्य जनस्य यावत् सा लोचनप्राप्यवपुर् बभूव ।
तावत् स तद्रूपगुणावबद्धां न दृष्टिम् उत्कम्पयितुं शशाक

13.5

अतश् च तस्या उन्मादयन्तीत्य् एव बान्धवा नाम चक्रुः ॥ अथ तस्याः पिता राज्ञः संविदितं कारयाम् आस । स्त्रीरत्नं ते देव विषये प्रादुर्भूतं यतस् तत्प्रतिग्रहं विसर्जनं वा प्रति देवः प्रमाणम् इति ॥ अथ स राजा स्त्रीलक्षणविदो ब्राह्मणान् समादिदेश । पश्यन्त्व् एनाम् अत्रभवन्तो यद्य् असाव् अस्मद्योग्या न वेति ॥ अथ तस्याः पिता तान् ब्राह्मणान् स्वभवनम् अभिनीयोन्मादयन्तीम् उवाच । भद्रे स्वयं ब्राःमणान् परिवेषयेति । सा तथेति प्रतिश्रुत्य यथाक्रमं ब्राह्मणान् परिवेषयितुम् उपचक्रमे ॥ अथ ते ब्राह्मणाः
तदाननोद्वीक्षणनिश्चलाक्षा मनोभुवा संह्रियमाणधैर्याः ।
अनीश्वरा लोचनमानसानाम् आसुर् मदेनेव विलुप्तसंज्ञाः

13.6

यदा च नैव शक्नुवन्ति स्म प्रतिसंख्यानधीरनिभृतम् अवस्थातुं कुत एव भोक्तुम् अथैषां चक्षुष्पथाद् उत्सार्य स्वां दुहितरं स गृहपतिः स्वयम् एव ब्राह्मणान् परिवेष्य विसर्जयाम् आस ॥ अथ तेषां बुद्धिर् अभवत् <।> कृत्यारूपम् इव खल्व् इदम् अतिमनोहरम् अस्या दारिकाया रूपचातुर्यं यतो नैनां राजा द्रष्टुम् अप्य् अर्हति कुतः पुनः पत्नीत्वं गमयितुम् । अनया हि रूपशोभया नियतम् अस्योन्मादितहृदयस्य धर्मार्थकार्यप्रवृत्तेर् विस्रस्यमानोत्साहस्य राजकार्यकालातिक्रमाः प्रजानां हितसुखोदयपथम् उपपीडयन्तः पराभवाय स्युः ।
इयं हि संदर्शनमात्रकेण कुर्यान् मुनीनाम् अपि सिद्धिविघ्नम् ।
प्राग् एव भावार्पितदृष्टिदृष्टेर् यूनः क्षितीशस्य सुखे स्थितस्य

13.7

तस्माद् इदम् अत्र प्राप्तकालम् इति यथाप्रस्तावम् उपेत्य राज्ञे निवेदयाम् आसुः । दृष्टास्माभिर् महाराज सा कन्यका । अस्ति चास्या रूपचातुर्यमात्रकम् अपलक्षणोपघातनिःश्रीकं तु यतो नैनां द्रष्टुम् अप्य् अर्हति महाराजः किं पुनः पत्नीत्वं गमयितुम् ।
कुलद्वयस्यापि हि निन्दिता स्त्री यशो विभूतिं च तिरस्करोति ।
निमग्नचन्द्रेव निशा समेघा शोभां विभागं च दिवस्पृथिव्योः

13.8

इति श्रुतार्थः स राजापलक्षणा किलासौ न च मे कुलानुरूपेति तस्यां विनिवृत्ताभिलाषो बभूव । अनर्थितां तु विज्ञाय राज्ञः स गृहपतिस् तां दारिकां तस्यैव राज्ञो ऽभिपारगायामात्याय प्रायच्छत् ॥ अथ कदा चित् स राजा क्रमागतां कौमुदीं स्वस्मिन् पुरवरे विषक्तशोभां द्रष्टुम् उत्सुकमना रथवरगतः सिक्तसंमृष्टरथ्यान्तरापणम् उच्छ्रितच्छत्त्रध्वजपताकं समन्ततः पुष्पोपहारशबलभूमितलं प्रवृत्तनृत्तगीतहास्यलास्यवादित्रं पुष्पधूपचूर्णवासमाल्यासवस्नानानुलेपनामोदप्रसृतसुरभिगन्धि प्रसारितविविधरुचिरपण्यं तुष्टपुष्टोज्ज्वलतरवेषपौरजनसंबाधराजमार्गं पुरवरम् अनुविचरंस् तस्यामात्यस्य भवनसमीपम् उपजगाम । अथोन्मादयन्त्य् अपलक्षणा किलाहम् इत्य् अनेन राज्ञावधूतेति समुत्पन्नामर्षा राजदर्शनकुतूहलेव नाम संदृश्यमानरूपशोभा विद्युद् इव घनशिखरं हर्म्यतलम् अवभासयन्ती व्यतिष्ठत । शक्तिर् अस्येदानीम् अस्त्व् अपलक्षणादर्शनविचलितस्मृतिम् आत्मानं धारयितुम् इति ॥
अथ तस्य राज्ञः पुरवरविभूषादर्शनप्रसृता दृष्टिर् अभिमुखस्थितायां सहसैव तस्याम् अपतत् । अथ स राजा
प्रकामम् अन्तःपुरसुन्दरीणां वपुर्विलासैः कलितेक्षणो ऽपि ।
अनुद्धतो धर्मपथानुरागाद् उद्योगवान् इन्द्रियनिर्जये ऽपि

13.9

विपुलधृतिगुणो ऽप्य् अपत्रपिष्णुः परयुवतीक्षणविक्लवेक्षणो ऽपि ।
उदितमदनविस्मयः स्त्रियं तां चिरम् अनिमेषविलोचनो ददर्श

13.10

कौमुदी किं न्व् इयं साक्षाद् भवनस्यास्य देवता ।
स्वर्गस्त्री दैत्ययोषिद् वा न ह्य् एतन् मानुषं वपुः

13.11

इति विचारयत एव तस्य राज्ञस् तद्दर्शनावितृप्तनयनस्य स रथस् तं देशम् अतिवर्तमानो न मनोरथानुकूलो बभूव । अथ स राजा शून्यहृदय इव तद्गतैकाग्रमनाः स्वभवनम् उपेत्य मन्मथाक्षिप्तधृतिः सुनन्दं सारथिं रहसि पर्यपृच्छत् ।
सितप्राकारसंवीतं वेत्सि कस्य नु तद् गृहम् ।
का सा तत्र व्यरोचिष्ट विद्युत् सित इवाम्बुदे

13.12

सारथिर् उवाच । अस्ति देवस्याभिपारगो नामामात्यस् तस्य तद् गृहं तस्यैव च सा भार्या किरीटवत्सदुहितोन्मादयन्ती नामेति । तद् उपश्रुत्य स राजा परभार्येति वितानीभूतहृदयश् चिन्तास्तिमितनयनो दीर्घम् उष्णम् अभिनिश्वस्य तदर्पितमनाः शनैर् आत्मगतम् उवाच ।
अन्वर्थरम्याक्षरसौकुमार्यम् अहो कृतं नाम यथेदम् अस्याः ।
उन्मादयन्तीति शुचिस्मितायास् तथा हि सोन्मादम् इवाकरोन् माम्

13.13

विस्मर्तुम् एनाम् इच्छामि पश्यामीव च चेतसा ।
स्थितं तस्यां नु मे चेतः सा प्रभुत्वेन तत्र वा

13.14

परस्य नाम भार्यायां ममाप्य् एवम् अधीरता ।
तद् उन्मत्तो ऽस्मि संत्यक्तो लज्जयेवाद्य निद्रया

13.15

तस्या वपुर्विलसितस्मितवीक्षितेषु संरागनिश्चलमतेः सहसा स्वनन्ती ।
कार्यान्तरक्रमनिवेदनधृष्टशब्दा विद्वेषम् उत्तुदति चेतसि नालिका मे

13.16

इति स राजा मदनबलविचलितधृतिर् व्यवस्थापयन्न् अप्य् आत्मानम् आपाण्डुकृशतनुः प्रध्याननिश्वसितविजृम्भणपरः प्रव्यक्तमदनाकारो बभूव ।
धृत्या महत्यापि निगुह्यमानः स भूपतेस् तस्य मनोविकारः ।
मुखेन चिन्तास्तिमितेक्षणेन कार्श्येन च व्यक्तिम् उपाजगाम

13.17

अथेङ्गिताकारग्रहणनिपुणमतिर् अभिपारगो ऽमात्यस् तं राज्ञो वृत्तान्तं सकारणम् उपलभ्य स्नेहात् तदत्ययाशङ्की जानानश् चातिबलतां मदनस्य रहसि राजानं विदितः समुपेत्य कृताभ्यनुज्ञो विज्ञापयाम् आस ।
अद्यार्चयन्तं नरदेव देवान् साक्षाद् उपेत्याम्बुरुहाक्ष यक्षः ।
माम् आह नावैषि नृपस्य कस्माद् उन्मादयन्त्यां हृदयं निविष्टम्

13.18

इत्य् एवम् उक्त्वा सहसा तिरोऽभूद् विमर्शवान् इत्य् अहम् अभ्युपेतः ।
तच् चेत् तथा देव किम् एतद् एवम् अस्मासु ते निष्प्रणयत्वमौनम्

13.19

तत् प्रतिग्रहीतुम् एनाम् अर्हति मदनुग्रहार्थं देव इति । अथ स राजा प्रत्यादेशाल् लज्जावनतवदनो मदनवशगो ऽपि स्वभ्यस्तधर्मसंज्ञत्वाद् अविक्लवीभूतधैर्यः प्रत्याख्यानविशदाक्षरम् एनम् उवाच । नैतद् अस्ति । कुतः ।
पुण्याच् च्युतः स्याम् अमरो न चास्मि विद्याच् च नः पापम् इदं जनो ऽपि ।
तद्विप्रयोगाच् च मनोज्वरस् त्वां वह्निः पुरा कक्षम् इव क्षिणोति

13.20

यच् चोभयोर् इत्य् अहितावहं स्याल् लोके परस्मिन्न् इह चैव कर्म ।
तद् यस्य हेतोर् अबुधा भजन्ते तस्यैव हेतोर् न बुधा भजन्ते

13.21

अभिपारग उवाच । अलम् अत्र देवस्य धर्मातिक्रमशङ्कया ।
दाने साहाय्यदानेन धर्म एव भवेत् तव ।
दानविघ्नात् त्व् अधर्मः स्यात् तां मत्तो ऽप्रतिगृह्णतः

13.22

कीर्त्युपरोधावकाशम् अपि चात्र देवस्य न पश्यामि । कुतः ।
आवाभ्याम् इदम् अन्यश् च क एव ज्ञातुम् अर्हति ।
जनापवादाद् आशङ्काम् अतो मनसि मा कृथाः

13.23

अनुग्रहश् चैष मम स्यान् न पीडा । कुतः ।
स्वाम्यर्थचर्यार्जितया हि तुष्ट्या निरन्तरे चेतसि को विघातः ।
यतः सकामं कुरु देव कामम् अलं मदुत्पीडनशङ्कया ते

13.24

राजोवाच । शान्तं पापम् ।
व्यक्तम् अस्मदतिस्नेहान् न त्वयैतद् अवेक्षितम् ।
यथा दाने न सर्वस्मिन् साचिव्यं धर्मसाधनम्

13.25

यो ऽस्मदर्थम् अतिस्नेहात् स्वान् प्राणान् अपि नेक्षते ।
तस्य बन्धुविशिष्टस्य सख्युर् भार्या सखी ननु

13.26

तद् अयुक्तं माम् अत्र प्रतारयितुम् । यद् अपि चेष्टं नैतद् अन्यः कश् चिज् ज्ञास्यतीति किम् एवम् इदम् अपापं स्यात् ।
अदृश्यमानो ऽपि हि पापम् आचरन् विषं निषेव्येव कथं शम् आप्नुयात् ।
न तं न पश्यन्ति विशुद्धचक्षुषो दिवौकसश् चैव नराश् च योगिनः

13.27

किं च भूयः ।
श्रद्दधीत क एतच् च यथासौ तव न प्रिया ।
तां परित्यज्य सद्यो वा विघातं न समाप्नुयाः

13.28

अभिपारग उवाच ।
सपुत्रदारो दासो ऽहं स्वामी त्वं दैवतं च मे ।
दास्याम् अस्यां यतो देव कस् ते धर्मव्यतिक्रमः

13.29

यद् अपि चेष्टं प्रिया ममेयम् इत्य् अतः किम् ।
मम प्रिया कामद कामम् एषा तेनैव दित्सामि च तुभ्यम् एनाम् ।
प्रियं हि दत्त्वा लभते परत्र प्रकर्षरम्याणि जनः प्रियाणि

13.30

यतः प्रतिगृह्णात्व् एवैनां देव इति ॥ राजोवाच । मा मैवम् । अक्रम एषः । कुतः ।
अहं हि शस्त्रं निशितं विशेयं हुताशनं विस्फुरदर्चिषं वा ।
न त्व् एव धर्माद् अधिगम्य लक्ष्मीं शक्ष्यामि तत्रैव पुनः प्रहर्तुम्

13.31

अभिपारग उवाच । यद्य् एनां मद्भार्येति देवो न प्रतिग्रहीतुम् इच्छत्य् अयम् अहम् अस्याः सर्वजनप्रार्थनाविरुद्धं वेश्याव्रतम् आदिशामि । तत एनां देवः प्रतिगृह्णीयाद् इति ॥ राजोवाच । किम् उन्मत्तो ऽसि ।
अदुष्टां संत्यजन् भार्यां मत्तो दण्डम् अवाप्नुयाः ।
स धिग्वादास्पदीभूतः परत्रेह च धक्ष्यसे

13.32

तद् अलम् अकार्यनिर्बन्धितया । न्यायाभिनिवेशी भवेति ॥ अभिपारग उवाच ।
धर्मात्ययो मे यदि कश् चिद् एवं जनापवादः सुखविप्लवो वा ।
प्रत्युद्गमिष्याम्य् उरसा तु तत् तत् त्वत्सौख्यलब्धेन मनःसुखेन

13.33

त्वत्तः परं चाहवनीयम् अन्यं लोके न पश्यामि महीमहेन्द्र ।
उन्मादयन्तीं मम पुण्यवृद्ध्यै त्वं दक्षिणाम् ऋत्विग् इव प्रतीच्छ

13.34

राजोवाच । कामम् अस्मदतिस्नेहाद् अनवेक्षितात्महिताहितक्रमो मदर्थचर्यासमुद्योगस् तवायम् । अत एव तु त्वां विशेषतो नोपेक्षितुम् अर्हामि । नैव खलु लोकापवादनिःशङ्केन भवितव्यम् । पश्य ।
लोकस्य यो नाद्रियते ऽपवादं धर्मानपेक्षः परतः फलं वा ।
जनो न विश्वासम् उपैति तस्मिन्न् अतीव लक्ष्म्यापि विवर्ज्यते सः

13.35

यतस् त्वां ब्रवीमि ।
मा ते रोचिष्ट धर्मस्य जीवितार्थे ऽप्य् अतिक्रमः ।
निःसंदिग्धमहादोषः ससंदेहकृशोदयः

13.36

किं च भूयः ।
निन्दादिदुःखेषु परान् निपात्य नेष्टा सताम् आत्मसुखप्रसिद्धिः ।
एको ऽप्य् अनुत्पीड्य परान् अतो ऽहं धर्मे स्थितः स्वार्थधुरं प्रपत्स्ये

13.37

अभिपारग उवाच । स्वाम्यर्थं भक्तिवशेन चरतो मम तावद् अत्र क एवाधर्मावकाशः स्याद् देवस्य वा दीयमानाम् एनां प्रतिगृह्णतः स्याद् यतः सनैगमजानपदाः शिबयः किम् अत्राधर्म इति ब्रूयुः । तत् प्रतिगृह्णात्व् एवैनां देव इति ॥ राजोवाच । अद्धा मदर्थचर्याप्रवणमतिर् भवान् । इदं त्व् अत्र चिन्तयितव्यम् । सनैगमजानपदानां शिबीनां तव मम वा को ऽस्माकं धर्मवित्तम इति ॥ अथाभिपारगः ससंभ्रमो राजानम् उवाच ।
वृद्धोपसेवासु कृतश्रमत्वाच् छ्रुताधिकारान् मतिपाटवाच् च ।
त्रिवर्गविद्यातिशयार्थतत्त्वं त्वयि स्थितं देव बृहस्पतौ च

13.38

राजोवाच । तेन हि न माम् अत्र प्रतारयितुम् अर्हसि । कुतः ।
नराधिपानां चरितेष्व् अधीनं लोकस्य यस्माद् अहितं हितं च ।
भक्तिं प्रजानाम् अनुचिन्त्य तस्मात् कीर्तिक्षमे सत्पथ एव रंस्ये

13.39

जिह्मं शुभं वा वृषभप्रचारं गावो ऽनुगा यद्वद् अनुप्रयान्ति ।
उत्क्षिप्तशङ्काङ्कुशनिर्विघट्टं प्रजास् तथैव क्षितिपस्य वृत्तम्

13.40

अपि च पश्यतु तावद् भवान् ।
आत्मानम् अपि चेच् छक्तिर् न स्यात् पालयितुं मम ।
का न्व् अवस्था जनस्य स्यान् मत्तो रक्षाभिकाङ्क्षिणः

13.41

इति प्रजानां हितम् ईक्षमाणः स्वं चैव धर्मं विमलं यशश् च ।
नेच्छामि चित्तस्य वशेन गन्तुम् अहं हि नेता वृषवत् प्रजानाम्

13.42

अथाभिपारगो ऽमात्यस् तेन राज्ञो ऽवस्थानेन प्रसादितमनाः प्रणम्य राजानं प्राञ्जलिर् इत्य् उवाच ।
अहो प्रजानाम् अतिभाग्यसंपद् यासां त्वम् एवं नरदेव गोप्ता ।
धर्मानुरागो हि सुखानपेक्षस् तपोवनस्थेष्व् अपि मृग्य एव

13.43

महच्छब्दो महाराज त्वय्य् एवायं विराजते ।
विगुणेषु गुणोक्तिर् हि क्षेपरूक्षतराक्षरा

13.44

विस्मयो ऽनिभृतत्वं वा किं ममैतावता त्वयि ।
समुद्र इव रत्नानां गुणानां यस् त्वम् आकरः

मूल पाठ: Jātakamālā 1-15 · Edition: Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1) · Data entry Albrecht Hanisch Mitsuyo Demoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc