जातकमाला · अध्याय 15
तद् एवं धर्माश्रयं सत्यवचनम् अप्य् आपदं नुदति प्राग् एव तत्फलम् इति धर्मानुवर्तिना भवितव्यम् ॥
कल्याणमित्राश्रयवर्णे ऽपि वाच्यम् एवं कल्याणमित्राश्रिताः श्रेयः प्राप्नुवन्तीति ॥
सुपारगजातकं चतुर्दशम् ॥
15. मत्स्यजातकम्
शीलवताम् इहैवाभिप्रायाः कल्याणाः समृध्यन्ति प्राग् एव परत्रेति शीलविशुद्धौ प्रयतितव्यम् ॥
तद्यथानुश्रूयते । बोधिसत्त्वः किल कस्मिंश् चिन् नातिमहति कह्लारतामरसकमलकुवलयविभूषितरुचिरसलिले हंसकारण्डवचक्रवाकमिथुनोपशोभिते तीरान्तरुहतरुकुसुमावकीर्णे सरसि मत्स्याधिपतिर् बभूव । स्वभ्यस्तभावाच् च बहुषु जन्मान्तरेषु परार्थचर्यायास् तत्रस्थो ऽपि परहितसुखोपपादनसव्यापारो बभूव ।
अभ्यासयोगाद् धि शुभाशुभानि कर्माणि सात्म्य् एव भवन्ति पुंसाम् ।
तथाविधान्य् एव यद् अप्रयत्नाज् जन्मान्तरे स्वप्न इवाचरन्ति
इष्टानाम् इव च स्वेषाम् अपत्यानाम् उपरि निविष्टहार्दो स महासत्त्वस् तेषां मीनानां दानप्रियवचनार्थचर्यादिक्रमैः परम् अनुग्रहं चकार ।
अन्योन्यहिंसाप्रणयं नियच्छन् परस्परप्रेम विवर्धयंश् च ।
योगाद् उपायज्ञतया च तेषां विस्मारयाम् आस स मत्स्यवृत्तम्
तत् तेन सम्यक् परिपाल्यमानं वृद्धिं परां मीनकुलं जगाम ।
पुरं विनिर्मुक्तम् इवोपसर्गैर् न्यायप्रवृत्तेन नराधिपेन
अथ कदा चित् सत्त्वानां भाग्यसंपद्वैकल्यात् प्रमादाच् च वर्षाधिकृतानां देवपुत्राणां न सम्यग् देवो ववर्ष । असम्यग् वर्षिणि च देवे तत् सरः फुल्लकदम्बकुसुमगौरेण नवसलिलेन न यथापूर्वम् आपुपूरे । क्रमेण चोपगते निदाघसमये पटुतरदीप्तिभिः खेदालसगतिभिर् इव च दिनकरकिरणैस् तदभितप्तया च धरण्या ज्वालानुगतेनेव च ह्लादाभिलाषिणा मारुतेन तर्षवशाद् इव प्रत्यहम् आपीयमानं तत् सरः पल्वलीबभूव ।
निदाघकालज्वलितो विवस्वाञ् ज्वालावकर्षीव पटुश् च वायुः ।
ज्वरातुरेवाशिशिरा च भूमिस् तोयानि रोषाद् इव शोषयन्ति
अथ बोधिसत्त्वो वायसगणैर् अपि प्रतर्क्यमाणं प्राग् एव सलिलतीरान्तचारिभिः पक्षिगणैर् विषाददैन्यवशगं विस्पन्दितमात्रपरायणं मीनकुलम् अवेक्ष्य करुणायमाणश् चिन्ताम् आपेदे । कष्टा बतेयम् आपद् आपतिता मीनानाम् ।
प्रत्यहं क्षीयते तोयं स्पर्धमानम् इवायुषा ।
अद्यापि च चिरेणैव लक्ष्यते जलदागमः
अपयानक्रमो नास्ति नेताप्य् अन्यत्र को भवेत् ।
अस्मद्व्यसनसंहृष्टाः समायान्ति च नो द्विषः
अस्य निःसंशयम् इमे तोयशेषस्य संक्षयात् ।
स्फुरन्तो भक्षयिष्यन्ते शत्रुभिर् मम पश्यतः
तत् किम् अत्र प्राप्तकालं स्याद् इति विमृशन् स महात्मा सत्याधिष्ठानम् एकम् आर्तायनं ददर्श । करुणया च समापीड्यमानहृदयो दीर्घम् उष्णम् अभिनिश्वस्य नभः समुल्लोकयन्न् उवाच ।
स्मरामि न प्राणिवधं यथाहं संचिन्त्य कृच्छ्रे परमे ऽपि कर्तुम् ।
अनेन सत्येन सरांसि तोयैर् आपूरयन् वर्षतु देवराजः
अथ तस्य महात्मनः पुण्योपचयगुणात् सत्याधिष्ठानबलात् तदभिप्रसादितदेवनागयक्षानुभावाच् च समन्ततस् तोयावलम्बिबिम्बा गम्भीरमधुरनिर्घोषा विद्युल्लतालंकृता नीलविपुलशिखरा विजृम्भमाणा इव प्रविसर्पिभिः शिखरभुजैः परिष्वज्यमाना इव चान्योन्यम् अकालमेघाः कालमेघाः प्रादुरभवन् ।
दिशां प्रमिण्वन्त इव प्रयामं शृङ्गैर् वितन्वन्त इवान्धकारम् ।
नभस्तलादर्शगता विरेजुश् छाया गिरीणाम् इव कालमेघाः
संसक्तकेकैः शिखिभिः प्रहृष्टैः संस्तूयमाना इव नृत्तचित्रैः ।
प्रसक्तमन्द्रस्तनिता विरेजुर् धीरप्रहासा इव ते घनौघाः
मुक्ता विमुक्ता इव तैर् विमुक्ता धारा निपेतुः प्रशशाम रेणुः ।
गन्धश् चचारानिभृतो धरण्यां विकीर्यमाणो जलदानिलेन
निदाघसंपर्कविवर्धितो ऽपि तिरोबभूवार्ककरप्रभावः ।
फेनावलीव्याकुलमेखलानि तोयानि निम्नाभिमुखानि सस्रुः
मुहुर् मुहुः काञ्चनपिञ्जराभिर् भाभिर् दिगन्तान् अनुरञ्जयन्ती ।
पयोदतूर्यस्वनलब्धहर्षा विद्युल्लता नृत्तम् इवाचचार
अथ बोधिसत्त्वः समन्ततो ऽभिप्रसृतैर् आपाण्डुभिः सलिलप्रवाहैर् आपूर्यमाणे सरसि धारानिपातसमकालम् एव विद्रुते वायसाद्ये पक्षिगणे प्रतिलब्धजीविताशे प्रमुदिते मीनगणे प्रीत्याभिसार्यमाणहृदयो वर्षनिवृत्तिसाशङ्कः पुनः पुनः पर्जन्यम् आबभाषे ।
उद्गर्ज पर्जन्य गभीरधीरं प्रमोदम् उद्वासय वायसानाम् ।
रत्नायमानानि पयांसि वर्षन् संसक्तविद्युज्ज्वलितद्युतीनि
तद् उपश्रुत्य शक्रो देवानाम् इन्द्रः परमविस्मितमनाः साक्षाद् अभिगम्यैनम् अभिसंराधयन्न् उवाच ।
तवैव खल्व् एष महानुभाव मत्स्येन्द्र सत्यातिशयप्रभावः ।
आवर्जिता यत् कलशा इवेमे क्षरन्ति रम्यस्तनिताः पयोदाः
महत्प्रमादस्खलितं त्व् इदं मे यन् नाम कृत्येषु भवद्विधानाम् ।
लोकार्थम् अभ्युत्थितमानसानां व्यापारयोगं न समभ्युपैमि
चिन्तां कृथा मा तद् अतः परं त्वं सतां हि कृत्योद्वहने ऽस्मि धुर्यः ।
देशो ऽप्य् अयं त्वद्गुणसंश्रयेण न भूय एवं भवितार्तिवश्यः
मूल पाठ: Jātakamālā 1-15 · Edition: Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1) · Data entry Albrecht Hanisch Mitsuyo Demoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0