जातकमाला · अध्याय 12
तद् एवं देवराज्यं प्राणान् अपि च परित्यज्य दीर्घरात्रं परिपालितानि भगवता सत्त्वानि । तेष्व् इह प्राज्ञस्याघातो ऽपि न प्रतिरूपः प्राग् एव विप्रतिपत्तिर् इति प्राणिषु दयापन्नेनार्येण भवितव्यम् ॥ तथा हि धर्मो ह वै रक्षति धर्मचारिणम् इत्य् अत्राप्य् उपनेयम् ॥ तथागतवर्णे सत्कृत्य धर्मश्रवणे चेति ॥
शक्रजातकम् एकादशम् ॥
12. ब्राह्मणजातकम्
आत्मलज्जयैव सत्पुरुषा नाचारवेलां लङ्घयन्ति ॥
तद्यथानुश्रूयते । बोधिसत्त्वः किल कस्मिंश् चिद् अनुपाक्रुष्टगोत्रचारित्रे स्वधर्मानुवृत्तिप्रकाशयशसि विनयाचारश्लाघिनि महति ब्राह्मणकुले जन्मपरिग्रहं चकार । स यथाक्रमं गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मादिभिः कृतसंस्कारो वेदाध्ययननिमित्तं श्रुताभिजनाचारसंपन्ने गुरौ प्रतिवसति स्म ।
तस्य श्रुतग्रहणधारणपाटवं च भक्त्यन्वयश् च विनयः स्वकुलप्रसिद्धः ।
पूर्वे वयस्य् अपि शमाभरणा स्थितिश् च प्रेमप्रसादसुमुखं गुरुम् अस्य चक्रुः
वशीकरणमन्त्रा हि नित्यम् अव्याहता गुणाः ।
अपि द्वेषाग्नितप्तानां किं पुनः स्वस्थचेतसाम्
अथ तस्याध्यापकः सर्वेषाम् एव शिष्याणां शीलपरीक्षानिमित्तं स्वाध्यायविश्रामकालेष्व् आत्मनो दारिद्र्यदुःखान्य् अभीक्ष्णम् उपवर्णयाम् आस ।
स्वजने ऽपि निराक्रन्दम् उत्सवे ऽपि हतानन्दम् ।
धिक् प्रदानकथामन्दं दारिद्र्यम् अफलच्छन्दम्
परिभवभवनं श्रमास्पदं सुखपरिवर्जितम् अत्यनूर्जितम् ।
व्यसनम् इव सदैव शोचनं धनविकलत्वम् अतीव दारुणम्
अथ ते शिष्याः प्रतोदसंचोदिता इव सदश्वा गुरुस्नेहात् समुपजातसंवेगाः संपन्नतरं प्रभूततरं च भैक्षम् उपाहरन्ति स्म । स तान् उवाच । अलम् अनेनात्रभवतां परिश्रमेण । न भैक्षोपहाराः कस्य चिद् दारिद्र्यक्षामतां क्षपयन्ति । अस्मत्परिक्लेशामर्षिभिस् तु भवद्भिर् अयम् एव यत्नो धनाहरणं प्रति युक्तः कर्तुं स्यात् । कुतः ।
क्षुधम् अन्नं जलं तर्षं मन्त्रवाक् सागदा गदान् ।
हन्ति दारिद्र्यदुःखं तु संतत्याराधनं धनम्
शिष्या ऊचुः । किं करिष्यामो मन्दभाग्या यद् एतावान् नः शक्तिप्रयामः । अपि च ।
भैक्षवद् यदि लभ्येरन्न् उपाध्याय धनान्य् अपि ।
नेदं दारिद्र्यदुःखं ते वयम् एवं सहेमहि
प्रतिग्रहकृशोपायं विप्राणां हि धनार्जनम् ।
अप्रदाता जनश् चायम् इत्य् अगत्या हता वयम्
अध्यापक उवाच । सन्त्य् अन्ये ऽपि ब्राह्मणानां शास्त्रपरिदृष्टा धनार्जनोपायाः । जरापीतसामर्थ्यास् तु वयम् अयोग्यरूपास् तत्प्रतिपत्तौ ॥ शिष्या ऊचुः । वयम् उपाध्याय जरयानुपहतपराक्रमाः । तद् यदि नस् तेषां शास्त्रविहितानाम् उपायानां प्रतिपत्तिसहतां मन्यसे तद् उच्यताम् । यावद् अध्यापनपरिश्रमस्यानृण्यं ते गच्छाम इति ॥ अध्यापक उवाच । तरुणैर् अपि व्यवसायशिथिलहृदयैर् दुरभिसंभवाः खल्व् एवंविधा धनार्जनोपायाः । यदि त्व् अयम् अत्रभवतां निर्बन्धस् तच् छ्रूयतां साधु कतम एको धनार्जनक्रमः ।
आपद्धर्मः स्तेयम् इष्टं द्विजानाम् आपच् चान्त्या निःस्वता नाम लोके ।
तेनादेयं स्वं परेषाम् अदृष्टैः सर्वं चैतद् ब्राह्मणानां स्वम् एव
कामं प्रसह्यापि धनानि हर्तुं शक्तिर् भवेद् एव भवद्विधानाम् ।
न त्व् एष योगः स्वयशो हि रक्ष्यं शून्येषु तस्माद् व्यवसेयम् एवम्
इति मुक्तप्रग्रहास् तेन ते च्छात्त्राः परम् इति तत् तस्य वचनम् अयुक्तम् अपि युक्तम् इव प्रत्यश्रौषुर् अन्यत्र बोधिसत्त्वात् ।
स हि प्रकृतिभद्रत्वात् तन् नोत्सेहे ऽनुमोदितुम् ।
कृत्यवत् प्रतिपन्नं तैर् व्याहर्तुं सहसैव तु
व्रीडावनतवदनस् तु बोधिसत्त्वो मृदु विनिश्वस्य तूष्णीमभूत् ॥ अथ स तेषाम् अध्यापको बोधिसत्त्वम् अवेक्ष्य तं विधिम् अनभिनन्दन्तम् अप्रतिक्रोशन्तं निविष्टगुणसंभावनस् तस्मिन् महासत्त्वे किं नु खल्व् अयम् अव्यवसितत्वान् निःस्नेहतया वा मयि स्तेयं न प्रतिपद्यते । उत धर्मसंज्ञयेति समुत्पन्नविमर्शस् तत्स्वभावव्यक्तीकरणार्थं बोधिसत्त्वम् उवाच । भो महाब्राह्मण ।
अमी द्विजा मद्व्यसनासहिष्णवः समाश्रिता वीरमनुष्यपद्धतिम् ।
भवान् अनुत्साहजडस् तु लक्ष्यते न नूनम् अस्मद्व्यसनेन तप्यते
परिप्रकाशे ऽप्य् अनिगूढविस्तरे मयात्मदुःखे वचसा विदर्शिते ।
कथं नु निःसंभ्रमधीरमानसो भवान् इति स्वस्थवद् एव तिष्ठति
अथ बोधिसत्त्वः ससंभ्रमो ऽभिवाद्योपाध्यायम् उवाच । शान्तं पापम् । न खल्व् अहं निःस्नेहकठिनहृदयत्वाद् अपरितप्यमानो गुरुदुःखैर् एवम् अवस्थितः किं त्व् असंभवाद् उपाध्यायप्रदर्शितस्य क्रमस्य । न हि शक्यम् अदृश्यमानेन क्व चित् पापम् आचरितुम् । कुतः । रहोऽनुपपत्तेः ।
नास्ति लोके रहो नाम पापं कर्म प्रकुर्वतः ।
अदृश्यानि हि पश्यन्ति ननु भूतानि मानुषान्
कृतात्मानश् च मुनयो दिव्योन्मिषितचक्षुषः ।
तान् अपश्यन् रहोमानी बालः पापे प्रवर्तते
अहं पुनर् न पश्यामि शून्यं क्व च न किं च न ।
यत्राप्य् अन्यं न पश्यामि नन्व् अशून्यं मयैव तत्
परेण यच् च दृश्यते दुष्कृतं स्वयम् एव वा ।
सुदृष्टतरम् एतत् स्याद् दृश्यते स्वयम् एव यत्
स्वकार्यपर्याकुलमानसत्वात् पश्येन् न वान्यश् चरितं परस्य ।
रागार्पितैकाग्रमतिः स्वयं तु पापं प्रकुर्वन् नियमेन वेत्ति
तद् अनेन कारणेनाहम् एवम् अवस्थित इति । अथ बोधिसत्त्वः समभिप्रसादितमनसम् उपाध्यायम् अवेत्य पुनर् उवाच ।
न चात्र मे निश्चयम् एति मानसं धनार्थम् एवं प्रतरेद् भवान् इति ।
अवेत्य को नाम गुणागुणान्तरं गुणोपमर्दं धनमूल्यतां नयेत्
स्वाभिप्रायं च खलु निवेदयामि ।
कपालम् आदाय विपन्नवाससा वरं द्विषद्वेश्मसमृद्धिर् ईक्षिता ।
व्यतीत्य लज्जां न तु धर्मवैशसे सुरेन्द्रतार्थे ऽप्य् उपसंहृतं मनः
अथ स तस्योपाध्यायः प्रहर्षविस्मयाक्षिप्तहृदय उत्थायासनात् संपरिष्वज्यैनम् उवाच । साधु साधु पुत्र । साधु महाब्राह्मण । प्रतिरूपम् एतत् ते प्रशमालंकृतस्यास्य मैधावकस्य ।
निमित्तम् आसाद्य यद् एव किं च न स्वधर्ममार्गं विसृजन्ति बालिशाः ।
तपःश्रुतज्ञानधनास् तु साधवो न यान्ति कृच्छ्रे परमे ऽपि विक्रियाम्
त्वया कुलं स्वम् अमलम् अभ्यलंकृतं समुद्यता नभ इव शारदेन्दुना ।
तवार्थवत् सुचरितविश्रुतं श्रुतं सुखोदयः सफलतया श्रमश् च मे
मूल पाठ: Jātakamālā 1-15 · Edition: Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1) · Data entry Albrecht Hanisch Mitsuyo Demoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0