भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · अध्याय 11

11.1

एवं राजाववादे ऽपि वाच्यम् । धर्माभ्यासः प्रजानां भूतिम् आवहतीति धर्मानुवर्तिना भूतिकामेन भवितव्यम् इत्य् एवम् अप्य् उपनेयम् ॥ न पशुहिंसा कदा चिद् अभ्युदयाय दानदमसंयमादयस् त्व् अभ्युदयायेति तदर्थिना दानादिपरेण भवितव्यम् इत्य् एवम् अपि वाच्यम् ॥ लोकार्थचर्याप्रवणमतिर् एवं पूर्वजन्मस्व् अपि स भगवान् इति तथागतवर्णे ऽपि वाच्यम् ॥
यज्ञजातकं दशमम् ॥
उद्दानम् ॥
व्याघ्री शिबिः कोशलेशः श्रेष्ठिनौ शश एव च ।
अगस्त्यमांसदौ विश्वन्तरयज्ञविदौ तथा ॥
प्रथमो वर्गः ॥
11. शक्रजातकम्
आपद् अपि महात्मनाम् ऐश्वर्यसंपद् वा सत्त्वेष्व् अनुकम्पां न शिथिलीकरोति ॥
तद्यथानुश्रूयते । बोधिसत्त्वः किलानल्पकालस्वभ्यस्तपुण्यकर्मा सात्मीभूतप्रदानदमसंयमकरुणः परहितनिरतक्रियातिशयः कदा चिच् छक्रो देवानाम् इन्द्रो बभूव ॥
सुरेन्द्रलक्ष्मीर् अधिकं रराज तत्संश्रयात् स्फीततरप्रभावा ।
हर्म्ये सुधासेकनवाङ्गरागे निषक्तरूपा शशिनः प्रभेव

11.2

यस्याः कृते दितिसुता रभसागतानि दिङ्नागदन्तमुसलान्य् उरसाभिजग्मुः ।
सा भाग्यविस्तरसुखोपनतापि तस्य लक्ष्मीर् न दर्पमलिनं हृदयं चकार

11.3

तस्य दिवस्पृथिव्योः सम्यक्परिपालनोपार्जितां सर्वलोकान्तव्यापिनीं कीर्तिसंपदं तां च लक्ष्मीम् अत्यद्भुताम् अमृष्यमाणा दैत्यगणाः कल्पनाटोपभीषणतरद्विरदरथतुरगपदातिना क्षुभितसागरघोरनिर्घोषेण जाज्वल्यमानविमलप्रहरणावरणदुर्निरीक्ष्येण महता बलकायेन युद्धायैनम् अभिजग्मुः ।
धर्मात्मनो ऽपि तु स तस्य परावलेपः क्रीडाविघातविरसं च भयं जनस्य ।
तेजस्वितानयपथोपनतः क्रमश् च युद्धोद्धवाभिमुखतां हृदयस्य चक्रुः

11.4

अथ स महासत्त्वस् तुरगवरसहस्रयुक्तम् अभ्युच्छ्रितार्हद्वसनचिह्नरुचिरध्वजं विविधमणिरत्नदीप्तिव्यवभासितम् अभिज्वलद्वपुषं कल्पनाविभागोपनियतनिशितज्वलितविविधायुधविराजितोभयपार्श्वं पाण्डुकम्बलिनं हैमं रथवरम् अभिरुह्य महता हस्त्यश्वरथपदातिचित्रेण देवानीकेन परिवृतस् तद् असुरसैन्यं समुद्रतीरान्त एव प्रत्युज्जगाम ॥
अथ प्रववृते तत्र भीरूणां धृतिदारणः ।
अन्योन्यायुधनिष्पेषजर्जरावरणो रणः

11.5

तिष्ठ नैवं इतः पश्य क्वेदानीं मम मोक्ष्यसे ।
प्रहरायं न भवसीत्य् एवं ते ऽन्योन्यम् आर्दयन्

11.6

ततः प्रवृत्ते तुमुले स्फूर्जत्प्रहरणे रणे ।
पटहध्वनितोत्क्रुष्टैः फलतीव नभस्तले

11.7

दानगन्धोद्धतामर्षेष्व् आपतत्सु परस्परम् ।
युगान्तवाताकलितशैलभीमेषु दन्तिषु

11.8

विद्युल्लोलपताकेषु प्रसृतेषु समन्ततः ।
रथेषु पटुनिर्घोषेषूत्पाताम्बुधरेष्व् इव

11.9

पात्यमानध्वजच्छत्त्रशस्त्रावरणमौलिषु ।
देवदानववीरेषु शितैर् अन्योन्यसायकैः

11.10

अथ प्रतप्ता सुरशत्रुसायकैर् भयात् प्रदुद्राव सुरेन्द्रवाहिनी ।
रथेन विष्टभ्य बलं तु विद्विषां सुरेन्द्र एकः समरे व्यतिष्ठत

11.11

अत्युदीर्णं त्व् आसुरं बलम् अतिहर्षात् पटुतरोत्क्रुष्टक्ष्वेडितसिंहनादम् अभिपतद् अभिवीक्ष्य मातलिर् देवेन्द्रसारथिः स्वं च बलं पलायनपरायणम् अवेत्यापयानम् अत्र प्राप्तकालम् इति देवाधिपतेः स्यन्दनम् आवर्तयाम् आस ॥ अथ शक्रो देवेन्द्रः समुत्पततो रथस्येषाग्राभिमुखान्य् अभिघातपथगतानि शाल्मलिवृक्षे गरुडनीडान्य् अपश्यत् । दृष्ट्वैव च करुणया समालम्ब्यमानहृदयो मातलिं संग्राहकम् इत्य् उवाच ।
अजातपक्षद्विजपोतसंकुला द्विजालयाः शाल्मलिपादपाश्रयाः ।
अमी पतेयुर् न यथा रथेषया विचूर्णिता वाहय मे रथं तथा

11.12

मातलिर् उवाच । अमी तावन् मार्ष समभियान्ति नो दैत्या इति ॥ शक्र उवाच। ततः किम् । परिहर परिहरैतानि सम्यग् गरुडनीडानीति ॥ अथैनं मातलिः पुनर् उवाच ।
निवर्तनाद् अस्य रथस्य केवलं शिवं भवेद् अम्बुरुहाक्ष पक्षिणाम् ।
चिरस्य लब्धप्रसरा सुरेष्व् असाव् अभिद्रवत्य् एव हि नो द्विषच्चमूः

11.13

अथ शक्रो देवेन्द्रः स्वम् अध्याशयातिशयं सत्त्वविशेषं च कारुण्यवशात् प्रकाशयन्न् उवाच ।
तस्मान् निवर्तय रथं वरम् एव मृत्युर् दैत्याधिपप्रहितभीमगदाभिघातैः ।
धिग्वाददग्धयशसो न तु जीवितं मे सत्त्वान्य् अमूनि भयदीनमुखानि हत्वा

11.14

अथ मातलिस् तथेति प्रतिश्रुत्य तुरगसहस्रयुक्तं स्यन्दनम् अस्य निवर्तयाम् आस ।
दृष्टावदाना रिपवस् तु तस्य युद्धे समालोक्य रथं निवृत्तम् ।
भयद्रुतप्रस्खलिताः प्रणेशुर् वाताभिनुन्ना इव कालमेघाः

11.15

भग्ने स्वसैन्ये ऽपि निवर्तमानः पन्थानम् आवृत्य रिपुध्वजिन्याः ।
संकोचयत्य् एव मदावलेपम् एको ऽपि संभाव्यपराक्रमत्वात्

11.16

निरीक्ष्य भग्नं तु बलं तद् आसुरं सुरेन्द्रसेनाप्य् अथ सा न्यवर्तत ।
बभूव नैव प्रणयः सुरद्विषां भयद्रुतानां विनिवर्तितुं यतः

11.17

सहर्षलज्जैस् त्रिदशैः सुराधिपः सभाय्जमानो ऽथ रणाजिराच् छनैः ।
अभिज्वलच्चारुवपुर् जयश्रिया समुत्सुकान्तःपुरम् आगमत् पुरम्

11.18

एवं स एव तस्य संग्रामविजयो बभूव । तस्माद् उच्यते ।
पापं समाचरति वीतघृणो जघन्यः प्राप्यापदं सघृण एव विमध्यबुद्धिः ।
प्राणात्यये ऽपि तु न साधुजनः स्ववृत्तं वेलां समुद्र इव लङ्घयितुं समर्थः

मूल पाठ: Jātakamālā 1-15 · Edition: Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1) · Data entry Albrecht Hanisch Mitsuyo Demoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc