भाषा

ENहिગુ
ग्रंथ पाठ

जैमिनीयन्यायमालाविस्तर · अध्याय 4.3

4.3.1

ज्योतिष्टोमे श्रूयते- ऽयदातिथ्यायां बर्हिः, तदुपसदाम्, तदग्नीषोमीयस्य चऽ इति ।
क्रीतं सोमं शकटे ऽवस्थाप्यप्राचीनवंशं प्रत्यानयने ऽभिमुखो यामिष्टिं निर्वपति सेयमातिथ्या ।
तत ऊर्ध्व त्रिषु दिनेष्वनुष्ठीयमाना उपसदः ।
औपवसथ्ये दिने ऽनुष्ठेयो ऽग्नीषोभीयः ।
तत्र- आतिथ्येष्टौ विहितं यद्बर्हिः, तद्यदि तस्या इष्टेराच्छिद्योपसत्सु विधीयेत, तदानीमातिथ्यायां विधानमनर्थकं स्यात् ।
यदि च तत्रोपयुक्तमितरत्र विधीयेत, तदा विनियुक्तविनियोगरूपो विरोधः स्यात् ।
तस्मात्- आतिथ्याबर्हिषो ये धर्मा अश्वबालत्वादयः, ते धर्मा उपसत्सूपसंह्रियन्ते- इत्यतिदेशपरं वाक्यम्- इति प्राप्ते, -
ब्रूमः- बर्हिः शब्दस्य धर्मातिदेशत्वे लक्षणा प्रसज्येत ।
श्रुत्या तु बर्हिष आतिथ्योपसदग्नीषोमीयेष्येकत्वं प्रतिभाति ।
अतः साधारण्यमत्र विधेयम् ।
आतिथ्यार्थ यद्बर्हिरुपादीयते तन्न केवलमातिथ्यार्थम्, किंतूपसदर्थमग्नीषोमीयार्थ चोपादेयमिति विधिवाक्यस्यार्थः ।
तस्मात्- आतिथ्योपसदग्नीषोमीयास्त्रयो ऽप्यस्य बर्हिषः प्रयोजकाः ॥ म्जैन्य्च्_4,2.24-25 ॥
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्ताध्यायस्य द्वितीयः पादः
अथ चतुर्थाध्यायस्य तृतीयः पादः ।
(प्रथमे द्रव्यसंस्कारकर्मणां क्रत्वर्थताधिकरणे सूत्राणि - 1-3)
द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्यात् । जैम्_4,3.1 ।
उत्पत्तेश् चातत्प्रधानत्वात् । जैम्_4,3.2 ।
फलं तु तत्प्रधानायाम् । जैम्_4,3.3 ।
स्तर्त् म्जैन्य् 4,3.1-2
तृतीयपादे प्रथमाधिकरणमारचयति-
जुह्वाः पर्णमयीत्वेन न पापश्रुतिरञ्जनात् ।
वैरिदृग्वृञ्जनं, वर्म प्रयाजैः, पुरुषाय किम्

4.3.2

क्रतवे वाग्रिमो मानात्फलस्य न हि साध्यता ।
विभाति क्रतवे तस्मादर्थवादः फलं भवेत्

4.3.3

इदमाम्नायते- ऽयस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोतिऽ ऽयदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्तेऽ ऽयत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते, वर्म यजमानस्य भ्रातृव्याभिभूत्यैऽ इति ।
तत्र- यज्जुहूप्रकृतिभूतं पर्णद्रव्यम्, यश्चाञ्जनेन चक्षुषः संस्कारः, यच्च प्रयाजानुयाजरूपं वर्म तच्चि द्वयं पुरुषार्थत्वेन विधीयते ।
कुतः ।
पापश्लोकश्रवणादिराहित्यादेः पुरुषसंबन्धिफलस्य प्रतिभानात्- इति चेत् ।
मैवम् ।
फलं हि साध्यं भवति ।
न चात्र साध्यता प्रतिभासते ।
ऽन शृणोति वृङ्क्ते, वर्म क्रियते, इति वर्तमानत्वनिर्देशात् ।
अतः क्रत्वर्था एते विधवः ।
तत्र पर्णमयीत्वस्यानारभ्याधीतस्यापि वाक्येन क्रतुसंबन्धः ।
संस्कारवर्मणोस्तु प्रकरणेन क्रत्वर्थानां तु क्रतुनिष्पादनव्यतिरेकेण फलाकाङ्क्षाया अभावाद्वर्तमाननिर्देशस्व विपरिणामं कृत्वापि फलं कल्पयितुं न शक्यम् ।
तस्मात्- फलवत्त्वभ्रमहेतुः पापश्लोकश्रवणराहित्यादिरर्थवादः ॥ म्जैन्य्च्_4,3.1-2 ॥
(द्वितीये नैमित्तिकानामनित्यार्थत्वाधिकरणे सूत्रम्-)
नैमित्तिके विकारत्वात् क्रतुप्रधानम् अन्यत् स्यात् । जैम्_4,3.4 ।
स्तर्त् म्जैन्य् 4,3.3-4
द्वितीयाधिकरणमारचयति-
मृन्मये प्रणयेत्कामी नित्ये ऽप्येतदुतेतरत् ।
आकाङ्क्षा संनिधिश्चास्ति तस्मान्नित्ये ऽपि मृन्मयम्

4.3.4

कामार्थत्वादयोग्यत्वं सामान्यविहितेन च ।
आकाङ्क्षाया निवृत्तत्वान्नित्यार्थमितरद्भवेत्

4.3.5

ऽअपः प्रणयतिऽ इति प्रणयनस्य नित्यप्योगे ऽपि मृन्मयपात्रमेव साधनम् ।
कृतः ।
नित्ये ऽपि पात्रत्वाऽफङ्क्षितत्वात् ।
न च लोकसिध्दं किंचित्पात्रमुपादीयते-इति वाच्यम् ।
औप्ते कर्मण्यत्यन्तमश्रुताच्छ्रुतस्य संनिहितत्वात्- इति प्राप्ते-
ब्रूमः- कामार्थ मृन्मयमाम्नातम् ।
तच्च सति कामे योग्यम् ।
न हि पाक्षिकं कामं निमित्तीकृत्य प्रवृत्तं नित्यस्य योग्यं भवति ।
पात्राकाङ्क्षा तु सामान्यतो विहितेन निवर्तते ।
ऽअपः प्रणयतिऽइति हि पात्रविशेषमनुपन्यस्य विहितम् ।
वञ्चान्यथानुपर्पन्नं तत्पात्रं किंचित्सामान्येन कल्पयति ।
तस्मान्नित्यप्रयोगे तत्काम्यं मृन्मर्थ नान्वेति, किंत्वितरत्पात्रं यत्किंचिदुपादेयम् ।
-ऽचमसेनापः प्रणयेत् इति नित्ये पात्रं विधीयते-इति विधीयते ।
इति चेत् ।
तर्हि कृत्वाचिन्तास्तु ॥ म्जैन्य्च्_4,3.3-4 ॥
(तृतीये-संयोगपृथक्त्वन्याये,दध्यादेर्नित्यनैमित्ति-
कोभयार्थताधिकरणे सूत्राणि5-7)
एकस्य तूभयत्वे संयोगपृथक्त्वम् । जैम्_4,3.5 ।
शेष इति चेत् । जैम्_4,3.6 ।
नार्थपृथक्त्वात् । जैम्_4,3.7 ।
स्तर्त् म्जैन्य् 4,3.5
तृतीयाधिकरणमाचरयति-
दघ्ना त्विन्द्रियकामस्य नित्ये ऽन्यदुत तद्दधि ।
अन्यत्स्यात्पूर्ववन्मैवं संयोगस्य पृथक्त्वतः

4.3.5

अग्निहोत्रे श्रूयते- ऽदध्नेन्द्रियकामस्य जुहुयात्ऽ इति ।
तत्र- दध्नः कान्यत्वान्नित्ये ऽग्निहोत्रे पूर्वन्यायेन तद्दधि न प्रयोक्तव्यम् ।
किंत्वन्यदेव किंचिद्द्रव्यम्- इति चेत् ।
मैवम् ।
ऽदध्ना जुहोतिऽ इत्यस्मिन्वाक्यान्तरे कामसंयोगमुपन्यस्य नित्यहोमसंयोगेन दधिविधानात् ।
तस्मात्- एकस्यापि दध्नो वाक्यद्वयेन नित्यत्वं काम्यत्वं चाविरुद्धम् ।
एवमग्नीषोमीयपशौ- ऽखादिरे बध्नातिऽ ऽखादिरं वीर्यकामस्य यूपं ।
कुर्वीतऽ इत्युदाहरणीयम्

4.3.6

(चतुर्थे पयोव्रतादीनां क्रतुधर्मताधिकरणे सूत्रे 8-9)
द्रव्याणां तु क्रियार्थानां संस्कारः क्रतुधर्मः स्यात् । जैम्_4,3.8 ।
पृथक्त्वाद्व्यवतिष्ठेत । जैम्_4,3.9 ।
स्तर्त् म्जैन्य् 4,3.6
चतुर्थाधिकरणमारचयति-
पयो व्रतं ब्राह्मणस्य पुंसे तत्क्रतवे ऽथवा ।
पुंयोगादब्रिमो मैवं नैष्फल्यात्क्रतुशेषता

4.3.6

ज्योतिष्टोमे दीक्षितस्यान्नभोजनाभावे व्रतमाम्नायते- ऽपयो व्रतं ब्राह्मणत्व, यवागू राजन्यस्य, आमिक्षा वैश्यस्यऽ इति ।
तत्र- ब्राह्मणादिपुरुषसंयोगादेतद्व्रतं पुरुषार्थम्- इति चेत्-
मैवम् ।
इन्द्रियवीर्यादिवत्फलस्यात्रानुक्तत्वात् ।
क्रतुशेषत्वं तु प्रकरणादवगम्यते ।
ब्राह्मणादिपुरुषा द्रव्यविशेषव्यवस्थायै निमित्तत्वेनोपन्यस्यन्ते

4.3.7

(पञ्चमे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनां सफलत्वाधिकरणे सूत्राणि 10-12)
चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्य् अशब्दं प्रतीयते । जैम्_4,3.10 ।
अपि वाम्नानसामर्थ्याच् चोदनार्थेन गम्येत, आर्थानां ह्य् अर्थवत्त्वेन वचनानि प्रतीयन्ते, अर्थतो ह्य् असमर्थानाम् आनन्तर्ये ऽप्य् असंबन्धस् तस्माच् छ्रुत्येकदेशः । जैम्_4,3.11 ।
वाक्यार्थश् च गुणार्थवत् । जैम्_4,3.12 ।
स्तर्त् म्जैन्य् 4,3.7
पञ्चमाधिकरणमारचयति-
नैवास्ति विश्वजिद्यागे फलमस्त्युत नाश्रुतेः ।
भाव्यापेक्षाद्विधेः कल्प्यं फलं पंसः प्रवृत्तये

4.3.7

इदमाम्नायते- ऽविश्वजिता यजेतऽ इति ।
तत्र- फलस्याश्रुतत्वान्नास्ति विश्वजिद्यागे फलम्- इति चेत् ।
मैवम् ।
फलस्य कल्पनीयत्वात् ।
ऽविश्वजिन्नाम्ना यागेन कुर्यात्ऽ इत्युक्ता भावना भाव्यमपेक्षते ।
ऽकिं कुर्यात्ऽ इत्याङ्काक्षाया अनिवृत्तेः ।
अतो वाक्यपूरणाय किंचित्फलमवश्यमध्याहर्तव्यम् ।
अध्याहृते च तत्कामिनः पुरुषस्यात्र प्रवृत्त्या यागामुष्ठानं सिध्यति ।
अन्यथा निरधिकारत्वादनुष्ठाने विधिर्निरर्थकः स्यात् ।
तस्मात्- फलं कल्पनीयम्

4.3.8

(षष्ठे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनामेकफलताधि-
करणे सूत्रे 13-14)
तत्सर्वार्थम् अनादेशात् । जैम्_4,3.13 ।
एकं वा चोदनैकत्वात् । जैम्_4,3.14 ।
स्तर्त् म्जैन्य् 4,3.8
षष्ठाधिकरणमारचयति-
सर्व फलमुतैकं स्यात्सर्वमस्त्वविशेषतः ।
एकेन तन्निराङ्क्षमतो ऽनेकं न कल्प्यते

4.3.8

तस्मिन्विश्वजिति पशुपुत्रवीर्येन्द्रियादिकं सर्व फलत्वेन कल्पनीयम् ।
कुतः ।
ऽएतदेवास्य फलम्ऽ इत्यत्र विशेषहेतोरभावात्- इति चेत् ।
मैवम् ।
लाघवस्यैव विशेषहेतुत्वात्

4.3.9

(सप्तमे विश्वजन्न्यायान्तर्गते विश्वजिदादीनां स्वर्गफलताधिकरणे सूत्रे 15-16)
स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वात् । जैम्_4,3.15 ।
प्रत्ययाच् च । जैम्_4,3.16 ।
स्तर्त् म्जैन्य् 4,3.9
सप्तमाधिकरणमारचयति-
एकं यत्किंचिदथवा नियतं न नियामकम् ।
तस्मादाद्यः सर्वपुंसामिष्टत्वात्स्वर्ग एव तत्

4.3.9

विश्वजिति कल्प्यमानं यदेकं फलं तत् ऽइनमेवऽ इति नियामकं नास्ति ।
तस्मादिच्छया केनचित्कस्मिंश्चित्फले कल्प्यमानेर्ऽथात्सर्वफलत्वे गौरवमेव स्यात्- इति चेत् ।
मैवम् ।
स्वर्गस्य पश्वादिफलवद्दुःखमिश्रितत्वाभावात्, निरतिशयसुखत्वाच्च सर्वपुरुषाणामिष्टत्वात्स्वर्ग एव विश्वजितः फलम्

4.3.10

(अष्टमे रात्रिसत्रन्याये रात्रिसत्रस्यार्ऽऽथवादिकफलकताधिकरणे सूत्राणि 17-19)
क्रतौ फलार्थवादमङ्गवत् कार्ष्णाजिनिः । जैम्_4,3.17 ।
फलमात्रेयो निर्देशाद् अश्रुतौ ह्य् अनुमानं स्यात् । जैम्_4,3.18 ।
अङ्गेषु स्तुतिः परार्थत्वात् । जैम्_4,3.19 ।
स्तर्त् म्जैन्य् 4,3.10
अष्टमाधिकरणमारचयति-
स्वर्गाय वा प्रतिष्ठायै रात्रिसत्रमिहाऽदिमः ।
पूर्ववत्स्यात्प्रतिष्ठा च श्रुता तेनाश्रुताद्वरम्

4.3.10

सत्रकाण्डे प्रत्येकं श्रूयते- ऽप्रतितिष्ठन्ति ह वा एते, य एता रात्रीरुपयन्तिऽ इति, ऽब्रह्मवर्चस्विनो ऽन्नादा भवन्ति, य एता उपयन्तिऽ इति च ।
द्वादशाहादूर्ध्वभाविनस्त्रयोदशरात्रचतुर्दशरात्रादयः सर्वे सत्रविशेषाः ।
त्रयोदशसंखायाकारात्रयो यस्मिन्सत्रविशेषे सो ऽयं त्रयोदशरात्राः, इति समुदायप्राधान्येनैकवचनान्ततया प्रायेण निर्देशो भवति ।
क्वचित्तु समुदाधिनां रात्रिशब्देनाऽम्नायते ।
तद्यथा- ऽत एता विशतिं रात्रीरपश्यत्ऽ इति तादृशे रात्रिसत्रे विश्वजिन्न्यायेन स्वर्गः फलत्वेन कल्पनीयः- इति प्राप्ते-
ब्रूमः- अस्य रात्रिसत्रविधेः स्तावकेर्ऽथवादे प्रतिष्ठा श्रुता ।
सा चास्मिन्वाक्ये ऽत्यन्तमश्रुतात्स्वर्गात्प्रत्वासन्ना ।
तस्मात्- ऽप्रतिष्ठाकामो रात्रिसत्रं कुर्यात्ऽ इत्येवं प्रतिष्ठैव फलत्वेन कल्पनीया

4.3.11

(नवमे काम्यानां यथोक्तकाम्यफलकत्वाधिकरणे सूत्राणि 20-24)
काम्ये कर्मणि नित्यः स्वर्गो यथा यज्ञाङ्गे क्रत्वर्थः । जैम्_4,3.20 ।
वीते च कारणे नियमात् । जैम्_4,3.21 ।
कामो वा तत्संयोगेन चोद्यते । जैम्_4,3.22 ।
अङ्गे गुणत्वात् । जैम्_4,3.23 ।
वीते च नियमस् तदर्थम् । जैम्_4,3.24 ।
स्तर्त् म्जैन्य् 4,3.11
नवमाधिकरणमारचयति-
श्रुताश्रुते श्रुतं वैकं सौर्ये सर्वप्रवृत्तये ।
आद्यो मैवं श्रुतेनैव फलाकाङ्क्षानिवर्तनात्

4.3.11

ऽसौर्य चरुं र्निवपेद्ब्रह्मवर्चसकामःऽ इत्यत्र ब्रह्मवर्चसं फलं श्रुतम् ।
स्वर्गो ऽश्रुतं फलम् ।
तदुभयमप्यभ्युपेयम् ।
तथा सति स्वर्गस्य सर्वैरपेक्ष्यमाणत्वात्सर्वेषां तत्र प्रवृत्तिर्लभ्येत- इति चेत् ।
मैवम् ।
श्रुतेन ब्रह्मवर्चसफलेनैव निराकाङ्क्षे विधिवाक्ये विश्वजिन्न्यायेन स्वर्गफलकल्पानाया असंभवात् ।
तस्मात् - श्रुतमेव फलम्

4.3.12

(दशमे-दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्ण - मासादीनां सर्वकामार्थताधिकरणे सूत्रे 25-26)
सर्वकाम्यम् अङ्गकामैः प्रकरणात् । जैम्_4,3.25 ।
फलोपदेशो वा प्रधानशब्दसंयोगात् । जैम्_4,3.26 ।
स्तर्त् म्जैन्य् 4,3.12-13
दशमाधिकरणमारचयति-
दर्शादिः सर्वकामेभ्यो ऽनुवादो वा फले विधिः ।
अङ्गोपाङ्गोदितः कामो विध्यभावादनूद्यते

4.3.13

उत्पत्तिचोदनासिद्धि आश्रित्य विधिभावने ।
फलसंयोगबोधेन भवेदेष फले विधिः

4.3.14

इदमाम्नीयते- ऽएकस्मै वा अन्या इष्टयः कामायाऽह्रियन्ते, सर्वेभ्यो दर्शपूर्णमासौऽ इति ।
ऽएकस्मै वा अन्ये यज्ञक्रतवः कामायाऽह्रियन्ते, सर्वेभ्यो ज्योतिष्टोमःऽ इति ।
तत्र- ऽसर्वेभ्यःऽ इत्यनेन वाक्येन दर्शपूर्णमासयोर्न फले विधिः ।
विधायकस्य लिङ्ङादेर्भावनावाचिन आख्यातस्य चाभावात् ।
अनुवादस्तु भविष्यति ।
सर्वकामानां प्राप्तत्वात् ।
न च- ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इति विधानात्स्वर्ग एव प्राप्तो न तु कामान्तरम्- इति वाच्यम् ।
अङ्गोपाङ्गकामानामपि प्राप्तत्वात् ।
सामिधेन्यो दर्शपूर्णमासयोरङ्गम् ।
तत्र कामाः श्रृयन्ते- ऽएकविंशतिमनुब्रूयात्प्रतिष्ठाकामस्य, चतुर्विंशतिमनुब्रूयाद्ब्रह्मवर्चसकामस्यऽ इति ।
तथा सांनाय्ययागस्य दोहनमङ्गम् ।
तत्साधनं वत्सापाकरणमुपाङ्गम् ।
तत्र पलाशशाखाहरणे काम आम्नातः- ऽयः कामयेत- पशुमान्स्यात्- इति, बहुपर्णा तस्मै बहुशाखामाहरेत् ।
पशुमन्तमेवैनं करोतिऽ इति ।
त एते सर्वे कामा अनूद्यन्ते- इति प्राप्ते, ब्रूमः- मा भूतामस्मिन्वाक्ये विधिभावने ।
तथाप्युत्पत्तिवाक्यसिद्धिते आश्रित्य तादर्थ्यवाचिन्या चतुर्थ्या फलसंयोगो बोध्यते ।
तस्मात्- एष फले विधिः ॥ म्जैन्य्च्_4,3.12-13 ॥
(एकादशे दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्णमासादीनां प्रतिफलं पृथगनुष्ठानाधिकरणे, योगसिद्धिन्याये च सूत्रे 27-28)
तत्र सर्वे ऽविशेषात् । जैम्_4,3.27 ।
योगसिद्धिर् वार्थस्योत्पत्यसंयोगित्वात् । जैम्_4,3.28 ।
स्तर्त् म्जैन्य् 4,3.14-15
एकादशाधिकरणमारचयति-
ज्योतिष्टोमश्च सर्वार्थः सर्वे सकृदनुष्ठितेः ।
दद्यात्पृथक्प्रयोगाद्वा सकृत्तस्याविशेषतः

4.3.15

एकैकस्यानपेक्षस्य फलस्यैव हि साधनम् ।
चोदितं तेन कामास्ते पर्यायेण भवन्त्यमी

4.3.27

यथा दर्शपूर्णमासौ सर्वकामार्थौ, तथा ज्योतिष्टोमश्च सर्वकामार्थ इति पूर्वाधिकरणेनैव सिद्धम् ।
तत्रोभयत्र कामा नैमित्तिकाः ।
ज्योतिष्टोमादिस्वरूपं निचित्तम् ।
तच्च सर्वेषु कामेष्वविशिष्टम् ।
न हि निमित्तसाधारण्ये सति नैमित्तिकानां पर्यायो भवति ।
वह्निसामीप्ये सति दाहप्रकाशयोः पर्यायादर्शनात् ।
तस्माज्योतिष्टोमे सकृदनुष्ठिते सत्येकं फलं यथा निष्पद्यते, तथा फलान्तराणामपि वारयितुमशक्यत्वाद्युगपत्सर्वफलसिद्धिः- इति प्राप्ते-
ब्रूमः- नहि ज्योतिष्टोयं निमित्तीकृत्य कामा विधीयन्ते ।
कामानामननुष्ठेयत्वात् ।
किं तर्हि- पुरुषस्य स्वत एव प्राप्तान्कामानुद्दिश्य तत्साधनत्वेनैव ज्योतिष्टोमो विधीयते ।
यद्यपि ऽसर्वेभ्यः कामेभ्यःऽ इति स्वर्गपश्वादिफलानामेकेनैव शब्देनोद्दिश्यमानत्वात्साहित्यं प्रतिभाति, तथापि न तदस्यि ।
उद्देश्यगतत्वेन साहित्यस्याविवक्षितत्वात् ।
न च शब्दतः साहित्यनियमाभावे ऽप्येककर्मफलत्वादर्थतः साहित्यम्- इति वाच्यम् ।
स्वर्गपश्वादीनां परस्परनिरपेक्षाणामेव फलत्वात् ।
तस्मादेकैकस्य फलस्य साधनत्वेन कर्म चोद्यते ।
अत एव ऽसर्वेभ्यःऽ इति निर्देशोपपत्तिः ।
अन्यथा हि साहित्यनियमान्मिलितमिदमेकमेव फलं संपन्नमिति सर्वशब्दो नोपपद्यते ।
तस्माद्यदा यत्फलं काम्यम्, तदा तत्सिद्ध्ये ज्योतिष्टोमः प्रयोक्तव्यः ।
एकमपि सद्वृष्ट्यादिफलं यदा यदा काम्यते, तदा तदा कारीरीष्टिः पुनः पुनः प्रयुज्यति ।
किमु वक्तव्यम्- फलभेदे प्रयोगभेदः- इति ।
तस्मात्प्रतिफलं पृथक्प्रयोगः ॥ म्जैन्य्च्_4,3.14-15 ॥
द्वादशे-द्गकाम्यानामैहिकामुष्मिकफलवत्त्वा-द्घसूत्रे 27-28)
अधिकरणे वर्णकान्तरेण ते एव तत्र सर्वे ऽविशेषात्

4.3.28

योगसिद्धिर्वार्ऽथस्योत्पत्त्यसंयोगित्वात्

4.3.16

स्तर्त् म्जैन्य् 4,3.16-17
द्वादशाधिकरणमारचयति-
चित्रया पशवो ऽमुष्मिन्नेव स्युर्नियता न वा ।
आद्यः स्वर्गेण तुत्यत्वाद्देहस्योत्पादकत्वतः

4.3.17

चित्रोत्पत्तौ तु नियमो न श्रतो नापि कल्पनम् ।
पुंस्प्रवृत्त्यादिनापेते प्रतिबन्धे भवेत्फलम्

4.3.18

काम्यकर्माण्येवं श्रूयन्ते - ऽचित्रया यजेत पशुकामःऽ ऐन्द्रमेकादशकपालं निवपेत्प्रजाकामःऽ इति ।
तत्र-यथा स्वर्गफलस्याऽमुष्मिकत्वं नियतम्, एवं पश्वादिफलस्यापि ।
यदि स्वर्गहेतुर्ज्योतिष्टोमो देहान्तरस्योत्पादकः, तर्हि चित्रादिरपि तथास्तु इति चेत् ।
मैवम् ।
वैषम्यात् ।
अस्मिन्देहे स्वर्गस्य भोक्तुप्रशक्यत्वादश्रुताप्यन्यदेहोस्पत्तिरर्थापत्त्या कल्प्यते ।
ऽचित्रया त्वन्यदेहो ऽवश्यमुत्पाद्यतेऽ इति नियमो न श्रुतः, नापि किंचित्तस्य कल्पकमस्ति ।
अनेनापि देहेन पश्वादिफलस्य भोक्तुं शक्यत्वात् ।
अस्मिन्देहे प्रतिग्रहादिदृष्टोपायमन्तरेण पश्वाद्यलाभाद्वैधचित्रादिफलमामुष्मिकमेव- इति चेत् ।
न ।
प्रतिग्रहादेः प्रतिबन्धनिवृत्तावुपयुक्तत्वात् ।
तस्मात्- असति प्रतिबन्धे फलमैहिकम्, सति त्वामुष्मिकम् ॥ म्जैन्य्च्_4,3.16-17 ॥
(त्रयोदशे सौत्रामण्यादीनां चयनाद्यङ्गताधिकरणे सूत्राणि 29-31)
समवाये चोदनासंयोगस्यार्थवत्वात् । जैम्_4,3.29 ।
कालश्रुतौ काल इति चेत् । जैम्_4,3.30 ।
नासमवायात्प्रयोजनेन स्यात् । जैम्_4,3.31 ।
स्तर्त् म्जैन्य् 4,3.18-19
त्रयोदशाधिकरणमारचयति-
इष्ट्रवा तु वाजपेयेन बृहस्पतिसवं यजेत् ।
कालं वा बोधयेद्वाक्यमुताङ्मत्वस्य बोधकम्

4.3.19

क्त्वाश्रुत्या भाति कालो ऽत्र मैवमङ्गत्वबोधनम् ।
श्रुतेर्मुख्यं प्रक्रिया च तथा सत्यनुगृह्यते

4.3.20

इदमाम्नायते- ऽवाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतऽ इति ।
ऽआग्निं चित्वासौत्रामण्या यजेतऽ इति ।
तत्र- ऽइष्ट्वाऽ इति क्त्वाप्रत्ययो वाजपेयस्य पूर्वकालीनतां ब्रूते ।
तस्माद्वाक्यमिदं बृहस्पतिसवस्य वाजपेयोत्तरकालीनतां बोधयति- इति प्राप्ते, -
ब्रूमः- बृहस्पतिसवस्थ वाजपेयाङ्गत्वबोधनमेव क्त्वाश्रुतेर्मुख्योर्ऽथः, ।
ऽसमानकर्तृकयोः पूर्वकालेऽ (3 । 4 । 21) इति (पाणिनि) सूत्रेण क्रियाद्वयस्यैककर्तृकतायां तद्विधानात् ।
यद्यपि सूत्रे ऽपूर्वकालेऽ इत्युक्तम्, तथापि तन्न नियतम् ।
ऽमुखं व्यादाय श्र्वपितिऽ इत्यत्र कालैक्ये ऽपि प्रयोगात् ।
वाजपेयप्रकरणमप्यङ्गत्वे ऽनुगृह्यते ।
अन्यथा त्वप्रकृते बृहस्पतितमे कालविधानात्प्रकरणं बाध्येत ।
अङ्गत्वे कर्मान्तरत्वेन प्रसिद्धबृहस्पतिसबन्धाभावात्तच्छब्दो ऽनुपपन्नः- इति चेत् ।
न ।
मासाग्निहोत्रन्यायेन तद्धर्मातिदेशार्थत्वात् ।
तस्मात्- वाक्यमिदमङ्गत्वबोधकम् ।
ऽअग्निंचित्वाऽ - इत्यत्राप्येवं योजनीयम् ॥ म्जैन्य्च्_4,3.18-19 ॥
(चतुर्दशे बैमृधादेः पौर्णमास्याद्यङ्गताधिकरणे सूत्राणि 32-35)
उभयार्थाम् इति चेत् । जैम्_4,3.32 ।
न शब्दैकत्वात् । जैम्_4,3.33 ।
प्रकरणाद् इति चेत् । जैम्_4,3.34 ।
नोत्पत्तिसंयोगात् । जैम्_4,3.35 ।
स्तर्त् म्जैन्य् 4,3.20-21
चतुर्दशाधिकरणमारचयति-
संस्थाप्य पौर्णमासीं तामनु वैमृध ईरितः ।
द्वयोरङ्गमुतैकस्य द्वयोः स्यात्प्रक्रियावशात्

4.3.21

उत्पत्तिवाक्यतः पूर्णमासं संयोगभासनात् ।
तस्यैवाङ्गं न दर्शस्य प्रक्रिया वाक्यबाधिता

4.3.22

दर्शपूर्णमासप्रकरणे श्रूयते- ऽसंस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपतिऽ इति ।
तत्र-इयं बैमृधोष्टिः प्रकरणबलात्प्रयाजादिवद्दर्शपूर्णमासयोरुभयोरप्यङ्गम्- इति चेत् ।
न ।
वाक्यस्य प्रबलत्वात् ।
न च- ऽसंस्थाप्यऽ इति पौर्णमास्याः समाप्त्यभिधानात्तदङ्गत्वमयुक्तम्- इति वाच्यम् ।
दर्शसाधारणाङ्गसमाप्त्यभिप्रायेण तदुपपत्तेः ।
तस्मात्- उत्पत्तिवाक्यात्, एककर्तृकत्ववाचिक्त्वाप्रत्ययाच्च पूर्णमासस्यैवाङ्गम् ॥ म्जैन्य्च्_4,3.20-21 ॥
(पञ्चदशे - अनुयाजादीनामाग्निमारुतोर्ध्वकालताधिकरणे सूत्रम्)
अनुत्पत्तौ तु कालः स्यात् प्रयोजनेन संबन्धात् । जैम्_4,3.36 ।
स्तर्त् म्जैन्य् 4,3.22-23
पञ्चदशाधिकरणमारचयति-
किमाग्निमारुतादूर्ध्वमनुयाजैश्र्वरेदिति ।
अङ्गं कालो ऽथवाङ्गं स्यादतिपारार्थ्यमन्यथा

4.3.23

पुराग्निमारुतस्यास्य ज्ञाता सोमार्थता तथा ।
अनुयाजाश्र्व पश्वर्थाः संयोगः कालसिद्धये

4.3.24

ज्योतिष्टोमे श्रूयते -ऽआग्निमारुतादूर्ध्वमनुयाजैश्चरतिऽ इति ।
आग्निमारुतं नाम किंचिच्छस्त्रम् ।
अनुयाजाः ऽदेवं बर्हिःऽ- इत्यादिभिः पाशुकहौत्रकाण्डपठितैरेकादशभिर्मन्त्रैः साध्या होमाः ।
तत्र-ऽआग्निमारुतशस्त्रस्यानुयाजा अङ्गम्ऽ इत्येवमङ्गाङ्गिभावबोधनायायं संयोगः ।
यदि-अनुयाजानामयं कालोपदेशः स्यात्,तदानीमाग्निमारुतोपन्यासस्य स्वार्थो न कश्चित्- इत्यत्यन्तपारार्थ्य स्यात् ।
तस्मात्- बृहस्पतिसववत्, वैमृधवच्च, अनुयाजा अङ्गम्- इति प्राप्ते-
ब्रूमः- इतरस्तोत्रशस्त्रवदाग्निमारुतशस्त्रस्य सोमाङ्गत्वं पूर्वमेवावगतम् ।
अग्नीषोमीयविकृतौ सवनीयपशावतिदेशतः प्राप्तानामेकादशानामनुयाजानामपि प्रधाणवत्पश्वङ्गत्वमवगतम् ।
ततः परस्परमङ्गाङ्गिभावासंभवात्कालोपदेशार्थो ऽयं संयोगः ॥ म्जैन्य्च्_4,3.22-23 ॥
(षोडशे - सोमादीनां दर्शपूर्णमासोत्तरकालताद्यधिकरणे सूत्रम्)
उत्पत्तिकालविशये कालः स्याद् वाक्यस्य तत्प्रधानत्वात् । जैम्_4,3.37 ।
स्तर्त् म्जैन्य् 4,3.24-25
षोडशाधिकरणमारचयति-
किं दर्शपूर्णमासाभ्यामिष्टवा सोमेन यागकः ।
अङ्गाङ्गिभावः कालो वा ह्यपारार्थ्याय चाङ्गता

4.3.25

दर्शादिलक्षिते काले सोमयागो विधीयते ।
स्वतन्त्रफलवत्वेन न युक्ताङ्गाङ्गिता तयोः

4.3.26

इदमाम्नायते- ऽदर्शपूर्णमासाभ्यामिष्ट्वा सोमन यजेतऽ इति ।
तत्र- उभयोराग्निमारुतानुयाजवदन्याधीनत्वाभावाद्दर्शपूर्णमासोक्तेः पारार्ध्यपरिहाराय सोमस्य दर्शपूर्णमासाङ्गत्वबोधको ऽयं संयोगः - इति चेत् ।
मैवम् ।
स्वतन्त्रफलवतः सोमस्याङ्गत्वासंभवात् ।
फलवत्संनिधावफलं तदङ्गं भवति, इति न्यायात् ।
न च- अत्र बृहस्पतिसबन्यायेन सोमधर्मकर्मफलं कर्मान्तरं विधीयते- इति शक्यं वक्तुम् ।
सोमशब्दस्य बृहस्पतिसवशब्दवश्वामत्वाभावेन धर्मातिदेशकत्वाभावात् ।
क्त्वाप्रत्ययस्त्वसत्यप्यङ्गाङ्गिभावे कर्त्रैक्यमात्रेणोपपद्यते ।
तस्माद्दर्शपूर्णमासशब्दस्य पारार्थ्यमभ्युपेत्यापि तदिष्ट्युपलक्षित उत्तरकाले सोमविधिरयम् ।
एतदेवाभिप्रेत्य रथत्वरूपमस्याऽम्नायते- ऽएष वै देवरथो यद्दर्शपूर्णमासौ ।
यो दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजते रथस्पष्ट एवावसाने वरे देवानामवस्यमिऽ इति ।
अवसनि निश्चिते ।
वरे मार्गे ।
ऽयथा रथेन क्षुण्णे मार्गे गन्तुः कण्टकपाषणादिबाधाराहित्येन सुखं भवति, तथा प्रथमं दर्शपूर्णमासाविष्टवत उत्तरकाले तदिष्टिविकृतिषु सोमाङ्गभूतदीक्षणीयप्रायणीयादिषु धर्मानुष्ठानं सुकरं भवतिऽ इत्यर्थः ।
तस्मात्कालार्थः संयोगः ॥ म्जैन्य्च्_4,3.24-25 ॥
(सप्तदशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेः पुत्रगतफलकत्वाधिकरणे सूत्रे 38-39)
फलसंयोगस् त्व् अचोदिते न स्याद् अशेषभूतत्वात् । जैम्_4,3.38 ।
अङ्गानां तूपघातसंयोगो निमित्तार्थः । जैम्_4,3.39 ।
स्तर्त् म्जैन्य् 4,3.26-27
सप्तदशाधिकरणमारचयति-
पैश्वानरेष्ट्या पूतत्वं पितुः पुत्रस्य वाग्रिमः ।
कर्तुरेव फलं युक्तं कर्तृत्वं पितुरेव हि

4.3.27

जाते यस्मिन्निष्टिमेतां निर्वपेत्तस्य पूतत ।
तच्चेप्सितं पितुस्तेन पिता तत्र प्रवर्तते

4.3.31

काम्योष्टिकाण्डे ऽवैश्वानरं द्वादशकपालं निवषेत्पुत्रे जातेऽ इति प्रकृत्य श्रूयते- ऽयस्मिन्जात एतामिष्टिं निर्वपति पूत एव तेजख्यन्नाद इन्द्रियावी पशुनान्भवतिऽ इति ।
तत्र- पितुः प्रबुद्धस्य कर्तृत्वम्, न तु मुग्धस्य पुत्रस्य ।
ततो ऽनुष्ठानफलयोर्वैयधिकरण्यपरिहाराय पितुरेव पूतत्वादि फलम्- इति चेत् ।
मैवम् ।
ऽयस्मिञ्जाते निर्वपति स पूतःऽ इति वाक्येन फलस्य पुत्रसंबन्धावगमात् ।
न च- अत्र निष्फलस्य पितुरप्रवृत्तिः- इति वाच्यम् ।
पुत्रनिष्ठपूतत्वादेरीप्सितत्वेन स्वफलबुद्ध्याप्रवृत्तिसंभवात् ।
तस्मात्- पुत्रस्य पूतत्वादिकम् ॥ म्जैन्य्च्_4,3.26-27 ॥
(अष्टादशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेर्जातकर्मोत्तरकालता-
धिकरणे वर्णकान्तरेणोक्तमेव सूत्रम्-)
अङ्गानां तूपघातसंयोगो निमित्तार्थाः

4.3.28

स्तर्त् म्जैन्य् 4,3.28-29
अष्टादशाधिकरणमारचयति-
जन्मानन्तरमेवेष्टिर्जातकर्मणि वा कृते ।
निमित्तानन्तरं कार्य नैमित्तिकमतो ऽग्रिमः

4.3.29

जातकर्मणि निर्वृत्ते स्तनप्राशनदर्शनात् ।
प्रागेवेष्टौ कुमारस्य विपत्तेरूर्ध्वमस्तु सा

4.3.39

पुत्रजन्मनो वैश्वानरेष्टिनिमित्तित्वात्, नैमित्तिकस्य कालविलम्बायोगात्, जन्मानन्तरमेवोष्टिः- इति चेत् ।
मैवम् ।
स्तनप्राशनं तावज्जातकर्मानन्तरं विहितम् ।
यदि जातकर्मणः प्रागेव वैश्वानरेष्टिर्निरुप्येत, तदा स्तनप्राशनस्यात्यन्तविलम्बात्पुत्रो विपद्येत ।
तथा सति पूतत्वादिकमिष्टिफलं कस्य स्यात् ।
तस्मात्- न जन्मानन्तरम्, किंतु जातकर्मण ऊर्ध्व स्त्रेष्ठिः ॥ म्जैन्य्च्_4,3.28-29 ॥
(एकोनविंशे-जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेराशौचापगमो-
त्तरकालाताधिकरणे वर्णकान्तरेणोक्तमेव सूत्रम्- )
अङ्गानां तूपघातसंयोगो निमित्तार्थः

4.3.30

स्तर्त् म्जैन्य् 4,3.30
एकोनविंशाधिकरणमारचयति-
जातकर्मानन्तरं स्यादाशौचे ऽपगते ऽथवा ।
निमित्तसनिधेराद्यः कर्तृशुद्ध्यर्थमुत्तरः

4.3.30

यद्यपि जातकर्मानन्तरमेव तदनुष्ठाने निमित्तभूतं जन्म संनिहितं भवति, तथाप्यशुधिना पित्रानुष्ठोयमानमङ्गविकलं भवेत् ।
जातकर्मणि तु विपत्तिपरिहाराय तात्कालिकी शुद्धिःशास्त्रेणैव दर्शिता ।
ततो मुख्यसंनिधेरवश्यं वाधिकत्वाच्छुद्धिलक्षणाङ्गवैकल्यं वारयितुमाशौचादूर्ध्वमिष्टिं कुर्यात्

4.3.31

(विंशे सौत्रामण्याद्यङ्नानां स्वकालकर्तव्यताधिकरणे सूत्रे 40-41)
प्रधानेनाभिसंयोगाद् अङ्गानां मुख्यकालत्वम् । जैम्_4,3.40 ।
अप्रवृत्ते तु चोदना तत्सामान्यात् स्वकाले स्यात् । जैम्_4,3.41 ।
स्तर्त् म्जैन्य् 4,3.31-32
विंशाधिकरणमारचयति-
अग्निं चित्वा यजेत्सौत्रामण्येत्यङ्गेष्टिरीदृशी ।
अङ्गिकाले स्वकाले वा स्यादाद्यो ऽन्याङ्गवन्मतः

4.3.32

निर्वृत्ते चयनादौ तु कर्मान्तरविधानतः ।
स्वकाले चोदकप्राप्ते तदनुष्ठानमास्थितम्

मूल पाठ: Jaiminīyanyāyamālāvistara a metrical exposition of Jaimini's Mīmāṃsāsūtra, with Mādhava's prose commentary · Edition: Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc