भाषा

ENहिગુ
ग्रंथ पाठ

जैमिनीयन्यायमालाविस्तर · अध्याय 4.4

4.4.1

ऽअग्निं चित्वा सौत्रामण्या यजेतऽ ऽवाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतऽ इत्यत्र सौत्रामणीबृहस्पतिसवयारेङ्गत्वं पूर्वमुक्तम् ।
तच्चाङ्गमङ्गिकाले ऽङ्गिना सह प्रयोक्तव्यम् ।
इतरेषामङ्गानां तथा प्रयुज्यमानत्वात्- इति चेत् ।
मैवम् ।
क्त्वाप्रत्ययेन पूर्वकालवाचिना साङ्गे चयनादौ निर्वृत्ते सति पश्चात्कर्मान्तरत्वेन सौत्रामण्यादेर्विहितत्वात् ।
यदि-अङ्गिना सहैकप्रयोगः स्यात्, तदा क्त्वाप्रत्ययप्रापितः पूर्वोत्तरकालविभागो बाध्येत ।
न हि- अङ्गिना सह प्रयोक्तव्यानामुखासंभरणादीनां चयने निर्वृत्ते पश्चाद्विधानं श्रुतम् - ततः पृथग्प्रयोगे ऽवश्यभाविनि सति स्वस्वचोदकप्रपिते तदनुष्ठानं युक्तम् ।
सौत्रामण्या इष्टिप्रकृतिकत्वात्पर्वकालश्चेदकप्राप्तः ।
चयनेन सहैकप्रयोगे तु पर्वण्युखासंभरणादिविधानादन्यस्मिन्दन सौत्रामणी व्रसज्येत ।
तथा बृहस्पतिसवस्य ज्योतिष्टोमविकृतित्वात्, वसन्तकालश्चोदकप्राप्तः ।
वाजपेयेन सह प्रयोगैक्ये शरदि वाजपेयस्य विहितत्वाद्बृहस्पतिसवो ऽपि शरदि प्रसज्येत ।
तस्मात्- अतिदिष्टे पर्वणि वसन्ते च तदनुष्ठानम् ।
ननु सर्वत्राङ्गापूर्वैः प्रधानापूर्व जनयितव्यम्, इह तु पूर्वकालीनेन साङ्गप्रधानानुष्ठानेन फलापूर्वस्य निष्पन्नत्वादुत्तरकालीनप्रङ्गं निरर्थकम्- इति चेत् ।
न ।
तस्यैवापूर्वस्यानेनाङ्गेन प्राबल्यदशायाः कल्पनीयत्वात् ।
तस्मात्- नाङ्गिनः काले ऽनुष्ठानम्, किंतु स्वकाले- इति स्थितम् ॥ म्जैन्य्च्_4,3.31-32 ॥
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य तृतीयः पादः
अथ चतुर्थाध्यायस्य चतुर्थ पादः ।
(प्रथमे राजसूयेज्यानां देवनाद्यङ्गकत्वाधिकरणे सूत्रे 1-2)
प्रकरणशब्दसामान्याच् चोदनानाम् अनङ्गत्वम् । जैम्_4,4.1 ।
अपि वाङ्गमनिज्याः स्युस् ततो विशिष्टत्वात् । जैम्_4,4.2 ।
स्तर्त् म्जैन्य् 4,4.1-2
चतुर्थपादे प्रथमाधिकरणमारचयति-
राजसूये ऽनुमत्यादि देवनादि च ते उभे ।
मुख्ये उतैकमुख्यत्वं स्यादाद्यः प्रक्रियैक्यतः

4.4.2

यागानां राजसूयत्वादङ्गित्वं फलवत्त्वतः ।
देवनाद्यफलं यत्तदङ्गं फलवतो यजेः

4.4.3

राजसूयप्रकरणे यागरूपा अनुमत्यादयो बहवः श्रुताः- ऽअनुमत्यै पुरोडाशमष्टाकपालं निर्वपतिऽ ऽनैऋतमेककपालम्ऽ ऽआदित्यं चरु निर्वपतिऽ ऽआग्नावैष्णवमेकादशकपालम्ऽ इत्यादयः ।
यथैता इष्टयः, तथा पशवो ऽपि श्रुताः- ऽआदित्यां मल्हां गर्भिणीमालभते, ऽ ऽमारुतीं पृश्रिम्ऽ ऽप्रष्ठौहीमश्विभ्याम्ऽ इत्यादि ।
मल्हा मणिला गलस्तनयुक्तेत्यर्थः ।
तस्या अदितिर्देवता ।
पृश्रिरल्पतनुः ।
तस्या मरुतो देवता ।
यावता वयसा वर्षत्रयरूपेण पृष्ठे भारं वोढुं शक्तिर्भवति, तावद्वयस्का प्रष्ठौही ।
तस्या आश्विनौ देवता ।
एवमभिषेचनीयदशपेयादयः सोमयागाः श्रुताः ।
तथा ऽवल्मीकवपायां होमःऽ इत्यादयो दर्विहोमाः ।
यथैत इष्टिपशुसोमदर्विहोमाश्चतुर्विधा यागरूपाः, एवमयागरूपा अपि द्यूतादयः श्रुताः- ऽप्रष्ठौहीं दीव्यतिऽ ऽअक्षैर्दीव्यतिऽ ऽराजन्यं जिनातिऽ ऽशौनः शेपमा ख्यापयतिऽ इत्यादयः ।
तत्र यागा यथा मुख्याः, तथा देवनादीनामपि मुख्यत्वं युक्तम् ।
प्रकरणपाठस्योभयत्र समानत्वात्- इति प्राप्ते, ब्रूमः- ऽराजा स्वाराज्यकामो राजसूयेन यजेतऽ इत्यत्राऽख्यातवाच्यायां भावनायां धातुवाच्यो यागः करणम् ।
राजसूयशब्दश्चाप्रसिद्धार्थत्वाद्यागसामानाधिकरण्येन तन्नामधेयं भवति ।
तथा सति ऽराजसूयेन यागेन स्वाराज्यं भावयेत्ऽ इति वाक्यार्थपर्यवसानादनुमत्यादीनां यागानामेव फलवत्त्वादङ्गित्वम्, तत्संनिधौ श्रूयमाणमफलं देवनादिकं यागाङ्गम् ॥ म्जैन्य्च्_4,4.1-2 ॥
(द्वितीये देवनस्य कृत्स्नराजसूयाङ्गताधिकरणे सूत्रे 3-4)
मध्यस्थं यस्य तन्मध्ये । जैम्_4,4.3 ।
सर्वासां वा समत्वाच् चोदनातः स्यान् न हि तस्य प्रकरणं देशार्थम् उच्यते मध्ये । जैम्_4,4.4 ।
स्तर्त् म्जैन्य् 4,4.3
द्वितीयाधिकरणमारचयति-
एकस्यैवाभिषेच्यस्य तदङ्गं निखिलस्य वा ।
राजसूयस्यापकर्षादाद्यः प्रक्रिययोत्तरः

4.4.3

यदेतत्-देवनादिकमङ्गम्- इत्युक्तम्, तदेतभिषेचनीयस्य सोमयागस्यैकस्यैवाङ्गम् ।
कुतः ।
अपकर्षात् ।
यद्यपि- अभिषेचनीयविधेरूर्ध्वे तत्संनिधौ देवनादयः समाम्नाताः, तथापि- अभिषेचनीयमध्वे ते ऽपकृष्यन्ते ।
ऽमाहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यतेऽ इति वाक्येन राज्ञो यजमानस्याभिषेको माध्यंदिनसवने स्तोत्रकाले ऽपकृष्यते ।
तस्मिन्नपकृष्टे सति ततः पूर्वमाम्नातानां देवनादीनामर्थसिद्धो ऽपकर्षः ।
ततो माहेन्द्रस्तोत्रादिवदभिषेचनीयप्रयोगान्तः पातित्वाद्देवनादिकमभिषेचनीय स्वैवाङ्गम्- इति प्राप्ते,-
ब्रूमः- किं तदङ्गत्वे संनिधिः प्रमाणम्, किंवा प्रयोगपरिकल्पितमवान्तर प्रकरणम् ।
उभयथापि प्रत्यक्षस्य महाप्रकरणस्य प्रबलत्वाद्देवनादिकं राजसूयस्याङ्गम् ।
राजसूयशब्दश्चानुमत्यादीन्सर्वान्यागानभिधत्ते ।
तस्मात्सर्वेषामेतदङ्गम् ।
अनुष्ठानं तु राजसूयमध्ये क्वचिदपेक्षितमिति वचनबलादभिषेचनीयगतमाहेन्द्रस्तोत्रकाले तदनुष्ठीयते

4.4.4

(तृतीये सौम्यादीनामुपसत्कालकत्वाधिकरणे सूत्रे 5-6)
प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् । जैम्_4,4.5 ।
अपि वा कालमात्रं स्याद् अदर्शनाद् विशेशस्य । जैम्_4,4.6 ।
स्तर्त् म्जैन्य् 4,4.4-5
तृतीयाधिकरणमारचयति-
किं पुरस्तादुपसदां सौम्येन प्रचरेदिति ।
अङ्गाङ्गिभावः कालो वा वाक्यादाद्यः प्रतीयते

4.4.5

पुरस्तादिति कालो ऽत्र भाति कालविधिस्ततः ।
नाङ्गं कस्यापि सौम्यादि प्रधानमितरेष्टिवत्

4.4.6

राजसूये संसृच्छब्दवाच्यान्याग्नेयाष्टाकपालादीनि ।
तेष्वष्टमनवमदशमानि सौम्य- त्वाष्ट्र-वैष्णवानि ।
तद्विषयमिदं वाक्यमाम्नायते- ऽपुरस्तादुपसदां सौम्येन प्रचरन्ति, अन्तरा त्वाष्ट्रेण, उपरिष्टाद्वैष्णवेनऽ इति ।
यो ऽयं राजसूये सोमयागः, तस्मिन्नतिदिष्टानामुपसदामादिमध्यावसानेषु सौम्यादीनां त्रयाणामनुष्ठानमनेन वाक्येन चोद्यते ।
ततो वाक्यात्सौम्यादीन्युपसदामङ्गानि- इति प्राप्ते, ब्रूमः- ऽउपसदाम्ऽ इति षष्ठ्याः कालवाचिना ऽपुरस्तात्ऽ इति शब्देनान्वयात् ।
सौम्यादीनां कालविशेषसंबन्धपरमिदं वाक्यम्, न त्वङ्गाङ्गिभावपरम् ।
ततो न कस्याप्यङ्गं सौम्यादिकम्, किंतु- अनुमत्यादिवत्प्रधानम् ॥ म्जैन्य्च्_4,4.4-5 ॥
(चतुर्थे- आमनहोमानां सांग्रहण्यङ्गताधिकरणे सूत्रम्-)
फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात् । जैम्_4,4.7 ।
स्तर्त् म्जैन्य् 4,4.6
चतुर्थाधिकरणमारचयति-
मुख्यताऽमनहोमस्य सांग्रहण्यङ्गताथवा ।
मुख्यत्वमविरुद्धत्वात्फलाय स्यात्तदङ्गता

4.4.6

काम्येष्टिकाण्डे श्रूयते- ऽवैश्वदेवीं सांग्रहणीं निर्वपेद्प्रामकायः ऽ इति ।
तत्र- आमनहोमाः श्रुताः- ऽआमनस्य- आमनस्य देवाः- इति तिस्त्र आहुतीजुहोतिऽ इति ।
त एत आमनहोमाः सांग्रहण्येष्ट्या सह समप्रधानभूताः ।
न हि तेषां मुख्यत्वे कश्चिद्विरोधो ऽस्ति ।
दृष्टं ह्याग्नेयादिष्वनुमत्यादिषु च बहूनां मुख्यत्वम्- इति चेत् ।
मैवम् ।
ऽदर्शपूर्णमासाभ्यां स्वर्गकामःऽ इति वाक्येन ऽस्वाराज्यकामो राजसूयेनऽ इति वाक्येन च यथा बहूनां फलसंबन्धावगमः, तथाऽमनहोमानाम् ।
फलसंबन्धाभावे सति प्राधान्यायोगात् ।
ऽसांग्रहणीं निर्वपेद्ग्रामकामःऽ इति वाक्यं तु सांग्रहण्याः संनिधावाम्नाता अफला आमनहोमास्तदङ्गम्

4.4.7

(पञ्चमे दधिग्रहस्य नित्यताधिकरणे सूत्राणि 8-11)
दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् । जैम्_4,4.8 ।
नित्यश् च ज्येष्ठशब्दात् । जैम्_4,4.9 ।
सार्वरूप्याच् च । जैम्_4,4.10 ।
नित्यो वा स्याद् अर्थवादस् तयोः कर्मण्य् असंबन्धाद् भङ्गित्वाच् चान्तरायस्य । जैम्_4,4.11 ।
स्तर्त् म्जैन्य् 4,4.7-8
पञ्चमाधिकरणमारचयति-
नित्यनैमित्तिकत्वे वा नित्यतैव दधिग्रहे ।
देवान्तरायाज्ज्यैष्ठ्याच्च स्यादस्योभयरूपता

4.4.8

निमित्तत्वद्योतिनो ऽत्र यदिशब्दादयो न हि ।
अतो ऽस्य न निमिसत्वं केवला नित्यतोचिता

4.4.9

ज्योतिष्टोमे श्रूयते- ऽयां वै कांचिदध्वर्युयजमानश्च देवतामन्तरीतः, तस्या आवृश्च्येते ।
यत्प्राजापत्यं दधिग्रहं गृह्णाति, शमयत्येवैनाम्ऽ इति सो ऽयं दधिग्रहो नित्यो नैमित्तिकश्चेत्युभयात्मकः ।
कुतः ।
आकारद्वयसाधकसद्भावात् ।
देवतान्तरायेण तद्देवताक्षोभनुपन्यस्य ग्रहेण शमनाभिधानात् ।
अन्तरायो निमित्तम्, ग्रहो नैमित्तिक इति प्रतिभाति ।
तथा ज्येष्ठत्वमाम्नातम्- ऽज्येष्ठो वा एष ग्रहाणाम्ऽ इति ।
ज्येष्ठत्वं नाम पशस्तत्वम् ।
तच्च नित्यत्वे सत्युपपद्यते ।
नैमित्तिकस्य पाक्षिकत्वादप्रशस्तत्वम् ।
तस्मात्- हेतुद्वयबलादुभयात्मकः- इति चेत् ।
मैवम् ।
देवतान्तरायस्य निमित्तत्वाभावात् ।
निमित्तत्वे यदिशब्द उपबध्येत, सप्तमी वा श्रूयते ।
यच्छब्दो वान्तरायकर्त्रोरध्वर्युयजमानयोः सामानाधिकरण्येन प्रयुज्येत ।
ऽयदि रथंतरसामा सोमः स्यादैन्द्रवायवाग्रान्गरहान्गृह्णीयात्ऽ ऽभिन्ने जुहोति, यो वै संवत्सरमुख्यमभृत्वाग्निं चिनुतेऽ इत्यादिषु संप्रतिपन्ननिमित्तेषु तद्दर्शनात् ।
तस्मात्- केवलनित्यत्वमेव दधिग्रहस्योचितम् ।
देवतास्त्रोभतत्समाधानोपन्यासो विधेयदधिग्रहस्तुतयेर्ऽथवादः ॥ म्जैन्य्च्_4,4.7-8 ॥
(षष्ठे वैश्वानरस्य नैमित्तिकत्वाधिकरणे सूत्रे 12-13)
वैश्वानरश् च नित्यः स्यान् नित्यैः समानसंख्यत्वात् । जैम्_4,4.12 ।
पक्षे वोत्पन्नसंयोगात् । जैम्_4,4.13 ।
स्तर्त् म्जैन्य् 4,4.9
षष्ठाधिकरणमारचयति-
नित्यो नौमित्तिको वा स्याद्यागो वैश्वानरश्चितौ ।
नित्यः पुरेव यच्छब्दादविरोधाच्च पश्चिमः

4.4.9

अग्निचयने श्रूयते-ऽयो वै संवत्सरमुख्यमभृत्वाग्निं चिनुते ।
यथा सामिनर्भो विपद्यते, तादृगेव तदार्तिमार्छेत् ।
वैश्वानरं द्वादशकपालं पुरस्तान्निर्वपेत्ऽ इति ।
उखा पिठरः ।
तामुखाम् ऽयञ्जानः प्रथमं मनःऽ इत्यादिप्रपाठकाम्नातैर्मन्त्रैः संपाद्य, तस्यामुखायामग्निं निधाय, षडुद्यामे द्वादशोद्यामे वा शिक्ये तामुखामवस्थाप्य, तच्छिक्यं स्वकण्ठे बद्ध्वा, तमुख्यमग्निं संवत्सरं भृत्वा पश्चादिष्टकाभिरग्निश्चेतव्यः ।
अभरणे त्वपूर्णगर्भपातवद्विनाशः स्यात् ।
ततो वैश्वानरेष्टिं चयनात्प्रागेव कुर्यात्, इत्यर्थः ।
अत्राप्यन्तरायवाक्यवदभरणवाक्यस्यार्थवादत्वान्नित्या वैश्वानरेष्टिः- इति चेत् ।
मैवम् ।
ऽयः पुमानभृत्वाग्निं चिनुते, स निवपेत्ऽ इति कर्तृसमानाधिकृतयच्छब्दबलादभरणेष्टयोर्निमित्तनैमित्तिक भावाबभासात् ।
किंच दधिग्रहस्य नित्वस्य पाक्षिकत्वरूपं नैमित्तिकत्वं विरुद्धम् ।
इह तु नित्यत्वे प्रमाणभावादेकमेव नैमित्तिकत्वमित्वविरोधः

4.4.10

(सप्तमे षष्ठाचितेर्नैमित्तिकत्वाधिकरणे सूत्राणि 14-18)
षट्चितिः पूर्ववत्त्वात् । जैम्_4,4.14 ।
ताभिश् च तुल्यसंख्यानात् । जैम्_4,4.15 ।
अर्थवादोपपत्तेश् च । जैम्_4,4.16 ।
एकचितिर् वा स्याद् अपवृक्ते हि चोद्यते निमित्तेन । जैम्_4,4.17 ।
विप्रतिषेधात् ताभिः समानसंख्यम् । जैम्_4,4.18 ।
स्तर्त् म्जैन्य् 4,4.10
सप्तमाधिकरणमारचयति-
नित्या षष्ठी चितिर्नो वा पञ्चापेक्षत्वतो ऽग्निमः ।
अपवृक्तावप्रतिष्ठानिमित्तीकृतितो ऽन्तिमः

4.4.10

अग्नौ श्रूयते- ऽसंवत्सरो वा एनं प्रतिष्ठायै नुदते, यो अग्निं चित्वा न प्रतितिष्ठति, पञ्च पूर्वाश्चितयो भवन्ति, अथ षष्ठीं चितिं चिनुतेऽ इति ।
लाङ्गलेन कृष्टे व्याममात्रे भूप्रदेशे नानाविधाभिरिष्टिकाभिः पक्ष्याकारेण स्थानं निष्पाद्यते, सेयं चितिः ।
तादृश्यः पञ्च चितयः पूर्वाः क्रियन्ते ।
ततः षष्ठी चितिः ।
तत्र ऽषण्णां पूरणी षष्ठीऽ इति व्युत्पत्तौ पूर्वाः पञ्च चितूरपेक्षत्रे ।
अन्यथा षट्संख्यापूरकत्वासंभवात् ।
तस्मात्- एकप्रयोगनियमादितरचितिवन्नित्या- इति चेत् ।
मैवम् ।
ऽअग्निं चित्वाऽ इति पूर्वाभिरेव पञ्चमिश्चित्यस्याग्निचयनस्य समाप्तौ स्त्रत्यां पश्चात्- ऽयो ऽत्र न प्रतितिष्ठति, असौ षष्ठीं चिनुतेऽ इति कर्तृसमानाधिकृतेन यच्छब्देनाप्रतिष्ठां निमित्तीकृत्त्य विधानात्षष्ठी नैमित्तिकी ।
ततः- पञ्चचितिको नित्यो ऽग्निः, नैमित्तिकस्त्वेकचितिकः, इति प्रयोगैक्यम् ।
पूरणप्रत्ययस्त्वभिधानापेक्षयोपपद्यते ।
ऽपूर्वाः पञ्च चितयो ऽभिहिताः ।
अथाभिधास्यमानां षष्ठीं चितिं चिनुते, इति वचनव्यक्तिः

4.4.11

(अष्टमे पिण्डपितृयज्ञस्यानङ्गताधिकरणे सूत्राणि 19-21)
पितृयज्ञः स्वकालत्वाद् अनङ्गं स्यात् । जैम्_4,4.19 ।
तुल्यवत् प्रसङ्ख्यानात् । जैम्_4,4.20 ।
प्रतिषिद्धे च दर्शनात् । जैम्_4,4.21 ।
स्तर्त् म्जैन्य् 4,4.11
अष्टमाधिकरणमारचयति-
क्रत्वङ्गं स्यान्न वा पिण्डपितृयज्ञः क्रतौ हि सः ।
अमाषास्योक्तितो मैवं तत्कालोक्तेः पुमर्थता

4.4.11

इदमाम्नायते- ऽअमावास्यायामपराह्णे पिण्डपितृयच्चेन चरन्तिऽ इति ।
तत्र-अमावास्याशब्दवाच्ये कर्मणि विधीयमानत्वादयं पिण्डपितृयज्ञः क्रत्वङ्गम्- इति चेत् ।
मैवम् ।
अमावास्याशब्दस्य कालवाचित्वात् ।
कर्मणि त्वयं शब्दो लाक्षणिकः ।
न च - वाक्येन क्तत्वङ्गत्वाभावे ऽपि प्रकरणेन तद्भेवत्- इति वाच्यम् ।
तस्यानारभ्याधीतत्वात् ।
तस्मात्- अयं पुरुषार्थः

4.4.12

(नवमे रशनाया यूपाङ्गताधिकरणे सूत्राणि 22-24)
पश्वङ्गं रशना स्यात् तदागमे विधानात् । जैम्_4,4.22 ।
यूपाङ्गं वा तत्संस्कारात् । जैम्_4,4.23 ।
अर्थवादश् च तदर्थवत् । जैम्_4,4.24 ।
स्तर्त् म्जैन्य् 4,4.12
नवमाधिकरणमारचयति-
रज्जुर्हितीया पश्वर्था यूपार्था वान्वयात्पशौ ।
पश्वर्था त्रिवृत्रा यूपं परिवीयेति यूपगा

4.4.12

ज्योतिष्टोमे श्रूयते- ऽआश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाऽग्नेयं सबनयिं पशुमुपाकरोतिऽ इति ।
तत्र- सवनीयपशोरग्नीषोमीयविकृतित्वाच्चोदकप्राप्तं यूपपरिव्याणं कालोपलक्षणार्थमनूद्य परिव्याणोत्तरकाले त्रिवृद्रशनोपलक्षितपशोरुपाकरणं विधीयते ।
ततो ऽत्र रशनायाः पश्वन्वयात्पशुबन्धनेन पशोरितस्ततो ऽपक्रमणनिवारणरूपदृष्टार्थ लाभाच्च पश्वर्था रशना- इति चेत् ।
मैवम् ।
ऽत्रिवृताऽ इति तृतीयया ऽयूपम्ऽ इति द्वितीयया च शेषशेषिभावावनमात्, अव्यवहितान्वयलाभाच्च रशना यूपार्था ।
कालस्तु ऽआश्विनं ग्रहं गृहीत्वा ऽ इत्यनेनैवोपलक्षितः ।
पश्वनपक्रमणवद्यूपदार्ड्यमपि दृष्टमेव प्रयोजनम् ।
न च- परिव्याणेन दोर्ढ्य चोदकादेव सिद्धम् - इति वाच्यम् ।
तस्मिन्सिद्धिसति पुवर्विधानादेव द्वितीयया रशनया परिव्याणान्तराङ्गीकारात् ।
तस्मात् - इयं द्वितीया रशना यूपार्था

4.4.13

( दशमे स्वरोः पश्वङ्गताधिकरणे सूत्राणि 25-28)
स्वरुश्चाप्य् एकदेशत्वात् । जैम्_4,4.25 ।
निष्क्रयश् च तदङ्गवत् । जैम्_4,4.26 ।
पश्वङ्गं वा तदर्थः स्यात् । जैम्_4,4.27 ।
भक्त्या निष्क्रयवादः स्यात् । जैम्_4,4.28 ।
स्तर्त् म्जैन्य् 4,4.13
दशमाधिकरणमारचयति-
स्वरुर्यूपे पशौ वाङ्गं यूपस्येत्युक्तितो ऽग्रिमः ।
स्वरुणा पशुमञ्ज्यादित्युक्तेः पश्वङ्गता स्फुटा

4.4.13

अग्नीषोमीयपशौ श्रूयते - ऽयूपस्य स्वरुं करोतिऽ ऽस्वरुणा पशुमनक्तिऽ इति ।
तत्र - स्वरोर्यूपसंबन्धभिधानाद्यूपाङ्गत्वम् - इति चेत् ।
मैवम् ।
ऽस्वरुणा पशुम्ऽ इति तृतीयया द्वितीयया चाङ्गाङ्गिभावावगतौ संवन्धसामान्यवाचिन्याः षष्ठ्या यूपीयच्छेदनजन्यत्वाभिप्रायेणापि नेतुं शक्यत्वात् ।
तस्मात्- स्वरुः पश्वङ्गम्

4.4.14

(एकादशे - आघारादीनामङ्गताधिकरणे सूत्राणि 29-38)
दर्शपूर्णमासयोर् इज्याः प्रधानान्य् अविशेषात् । जैम्_4,4.29 ।
अपि वाङ्गानि कानिचिद् येष्व् अङ्गत्वेन संस्तुतिः सामान्यो ह्य् अभिसंबन्ह्दः । जैम्_4,4.30 ।
तथा चान्यार्थदर्शनम् । जैम्_4,4.31 ।
अवशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात् । जैम्_4,4.32 ।
नानुक्ते ऽन्यार्थदर्शनं परार्थत्वात् । जैम्_4,4.33 ।
पृथक्त्वे त्व् अभिधानयोर् निवेशः श्रुतितो व्यपदेशाच् च तत्पुनर्मुख्यलक्षणं यत्फलवत्वं तत्संनिधाव् असंयुक्तं तदङ्गं स्याद् भागित्वात् कारणस्याश्रुतश् चान्यसंबन्धः । जैम्_4,4.34 ।
गुणाश् च नामसंयुक्ता विधीयन्ते नाङ्गेषूपपद्यन्ते । जैम्_4,4.35 ।
तुल्या च कारणश्रुतिर् अन्यैर् अङ्गाङ्गिसंबन्धः । जैम्_4,4.36 ।
उत्पत्ताव् अभिसंबन्धस् तस्माद् अङ्गोपदेशः स्यात् । जैम्_4,4.37 ।
तथा चान्यार्थदर्शनम् । जैम्_4,4.38 ।
स्तर्त् म्जैन्य् 4,4.14
एकादशाधिकरणमारचयति-
आघारादेश्च मुख्यत्वं न वाऽग्नेयादिवत्तु तत् ।
षण्मुख्या नामतः सिद्धाःशेषा अन्ये ऽङ्गसंस्तुतेः

4.4.14

दर्शपूर्ण मासयोराघाराज्यभागप्रयाजानुयाजादयः कालसंयोगमन्तरेणाऽम्नाताः ।
आग्नेयादयः षड्यागाः कालसंयोगेन चोदिताः ।
तत्र - आग्नेयादीनां यथा प्राधान्यमङ्गीकृतम्, तथैवाऽघारादीनामप्यङ्गीकर्तव्यम् ।
यथा राजसूये परस्परविलक्षणानामिष्टिपशुसोमानां बहूनां समप्राधान्यम्, तद्वत् ।
एकप्रकरणपाठश्चोभयत्रापि समानः ।
तस्मात् - आघारादीनामाग्नेयादीनां च समप्रधान्यम् - इति प्राप्ते -
ब्रूमः- ऽराजा स्वाराज्यकामो राजसूयेन यजेतऽ इत्यत्र राजसूयशब्दो राजसंबन्धात्प्रवर्तमानो राजकर्तृकाणामेकप्रकरण पठितानां सर्वेषां यागानां नामधेयं भवति ।
दर्शपूर्णमासशब्दौ तु कालवाचिनौ सन्तौ कालसंयोगेन विहितानामेवाऽग्नेयादीनां षण्णां यागानां नामधेयतां प्रतिपद्येते ।
ततः ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इति वाक्येन तन्नामधेयवशादाग्नेयादयः षडेव यागाः फलसंबन्धित्वेन प्रतीयमाना मुख्याः ।
अन्ये त्वाज्यभागाघारादयस्तन्नामरहिता निष्फला आग्नेयादीनां शेषाः ।
एवं सत्यङ्गत्वेन स्तुतिरुपपद्यते ।
ऽचक्षुषी वा एते यज्ञस्य, यदाज्यभागौऽ इत्याज्यभागौ यज्ञशरीरस्याङ्गिनो ऽङ्गत्वेन स्तूयेते ।
ऽयत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतश्चज्ञाय क्रियतेऽ इति यज्ञशरीरोपकारकवर्मत्वेन प्रयाजानुयाजाः स्तूयन्ते ।
एवमाघारादिषूदाहार्यम् ।
एतच्च सति सादृश्ये संभवति ।
तस्मात् - आधारादीनां नास्ति मुख्यत्वम्

4.4.15

(द्वादशे ज्येतिष्टोमे दीक्षणीयादीनामङ्गताधिकरणे सूत्राणि 39-41)
ज्योतिष्टोमे तुल्यान्य् अविशिष्टं हि कारणम् । जैम्_4,4.39 ।
गुणानां तूत्पत्तिवाक्येन संबन्धात् कारणश्रुतिस् तस्मात् सोमः प्रधानं स्यात् । जैम्_4,4.40 ।
तथा चान्यार्थदर्शनम् । जैम्_4,4.41 ।
स्तर्त् म्जैन्य् 4,4.15
द्वादशाधिकरणमारचयति-
मुख्या न वा दीक्षणीया मुख्या स्यात्सोमसाम्यतः ।
ज्योर्तिषि यस्य स्तोमाः स्युरिति सोमैकमुख्यता

4.4.15

ऽज्योतिष्टोमेन स्वर्गकामो यजेतऽ इत्यस्य प्रकरणे- ऐन्द्रवायवग्रहादयः सोमयागाः, दीक्षणीयादीष्टयः, अग्नीषोयादि पशवः, अग्नीषोयादिपशवः, आम्नाताः ।
तत्र - आग्नेयादिपक्षपातिदर्शपूर्णमासनामवज्ज्योतिष्टोमनाम्नः सोमपक्षपाते हेत्वभावेन राजसूयनामवत्प्रकृतसर्वयागसाधारणत्वात्, सोमसमानानां दीक्षणीयादीनामप्यस्ति मुख्यत्वम्- इति चेत् ।
मैवम् ।
सोमयागपक्षपाते हेतुसद्भावात् ।
ऽज्योर्तीषि स्तोमा यस्य यज्ञस्य सो ऽयं ज्योतिष्टोमःऽ इति हि तद्व्युत्पत्तिः ।
अत एव ब्राह्मणम् - ऽत्रिवृत्, पञ्चदशः, सप्तदशः, एकविंशः, एतानि वाय तानि ज्योतिंषि य एतस्य स्तोमाःऽ इति ।
स्तोमानां ज्योतिष्ट्वं यज्ञप्रकाशकत्वम् ।
न चेष्टयः पशवो वा त्रिवृदादिस्तोमयुक्ताः प्रतिभासन्ते ।
तस्मात् - ज्योतिष्टोमनाम्ना सोमयागानामेव फलसंबन्धावगमादफला इष्टिपशवो न मुख्या इति सोमयागानामेव प्राधान्यम्

मूल पाठ: Jaiminīyanyāyamālāvistara a metrical exposition of Jaimini's Mīmāṃsāsūtra, with Mādhava's prose commentary · Edition: Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc