भाषा

ENहिગુ
ग्रंथ पाठ

जैमिनीयन्यायमालाविस्तर · अध्याय 4.2

4.2.1

ग्रहणवाक्ये ऽचतुर्जुह्वां गृह्णातिऽ इत्यत्र यथा चतुःसंख्याविशिष्टमेकं हविर्ग्रहणं विहितम्, तथैव ऽअष्टावुपभृतिऽ इत्यत्राप्यष्टसंख्याविशिष्टमेकं हविग्रहणं विधातव्यम्ऽ न तु चतुर्गृहीतद्वयम् ।
तथा सत्यष्टश्रुतेर्मुख्यत्वावगमात् ।
अष्टसंख्यावयवभूतयोर्द्वयोश्चतुःसंख्ययोर्विधाने सत्यष्टशब्दस्यावयवलक्षणा प्रसज्येत- इति प्राप्ते-
ब्रूमः- प्रसज्यतां नाम लक्षण ।
मुख्यार्थस्वीकारे होमवाक्यविरोधापत्तेः ।
ऽचतुर्गृहीतं जुह्रोतिऽ इत्यनारभ्य श्रुतं वाक्यं होममात्रोद्देशेन चतुर्गृहीतं विदधाति ।
यद्यप्येतत्सर्वहोमविषयतया सामान्यरूपम्, औपभृतं तु प्रयाजानुयाजविषयतया विशेषरूपम्, तथापि होमस्य फलवत्त्वेन प्राधान्यात्, ग्रहणस्य होमार्थत्वेनोपसर्जनत्वात्, प्रधानानुसारेण चतुर्गृहीतमेव युक्तम्, न तूपसर्जनानुसारेणाष्टगृहीतम् ।
तस्मात्- उपभृति चतुर्गृहीतद्वयं विधीयते ।
तत्रैकं चतुर्गृहीतं हविश्चतुर्थपञ्चमप्रयाजार्थम् ।
अपरं त्वनुयाजार्थम् ।
नन्वेवं तर्हि चतुर्गृहीतस्यैव हविष्ट्वात् ऽचतुरुपभृतिऽ इत्येव विधातव्यम्, न तु ऽअष्टावुपभृतिऽ इति विधिर्युक्तः- इति चेत् ।
मैवम् ।
तथा सत्यनुयाजार्थ द्वितीयं चतुर्गृहीतं न सिध्येत् ।
अथ तदपि वाक्यान्तरेण विधीयते, तदानीमुपभृतः प्रथमेन चतुर्गृहीतेनावरुद्धत्वाद्द्वितीयस्मै पात्रान्तरमन्विष्येत ।
यदि ऽउपभृतिऽ इत्येव द्वितीयमपि चतुर्गृहीतं विधीयते, तदा चतुर्गृहीतद्वयस्य पृथगेवानुष्ठानादुपभृत्येकप्रयत्नेनाऽनयनं न सिध्येत् ।
अत उभयस्य समीपभूम्यानयनार्थम् ऽअष्टावुपभृतिऽ इत्युच्यते ।
तस्मात्साहित्यार्थमष्टशब्दप्रयोगे ऽपि इविष्ट्वसिद्धये चतुर्गृहीते अत्र विधीयेते ॥ म्जैन्य्च्_4,1.35-36 ॥
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य प्रथमः पादः
अथ चतुर्थाध्यायस्य द्वितीयः पादः ।
(प्रथमे स्वरोश्र्छेदनाद्यप्रयोजकताधिकरणे सूत्राणि 1-6)
स्वरुस् त्व् अनेकनिष्पत्तिः स्वकर्मशब्दत्वात् । जैम्_4,2.1 ।
जात्यन्तराच् च शङ्कते । जैम्_4,2.2 ।
तदेकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् । जैम्_4,2.3 ।
शकलश्रुतेश् च । जैम्_4,2.4 ।
प्रतियूपं च दर्शनात् । जैम्_4,2.5 ।
आदाने करोतिशब्दः । जैम्_4,2.6 ।
स्तर्त् म्जैन्य् 4,2.1-2
द्वितीये पादे प्रथमाधिकरणमारचयति-
स्वरुं कुरुत इत्यत्र स्वरुर्यूपात्पृथक्छिदाम् ।
प्रयोजयोन्न वाऽद्यो ऽस्तु विशिष्टस्य विधानतः

4.2.2

आद्यस्य यूपखण्डस्य स्वरुत्वाख्यविशेषणे ।
विहिते लाघवं तस्मादनुनिष्पन्न एव सः

4.2.3

अग्नीषोमीयपशौ श्रूयते- ऽयूपस्य स्वरुं करोतिऽ इति ।
तत्र यूपो यथा छेदनस्य प्रयोजकः, तथा स्वरुरपि च्छेदनं प्रयोजयति ।
कुतः- ऽकरोतिऽ इत्यनेन विशिष्टविधिप्रतीतेः ।
करोतिधातोर्हि भावना मुख्योर्ऽथः ।
तत्र यूपशब्दोपलक्षितः स्वादिरवृक्षः करणम् ।
छेदनादिरितिकर्तव्यता, ऽछिम्नेन वृक्षेण स्वरुरुत्पादनीयःऽ इति विशिष्टविधिः ।
उत्पन्नस्य स्वरोर्विनियोग एवमाम्नातः- ऽस्वरुणा पशुमनक्तिऽ इति ।
तस्मात्- स्वरुश्छेदनस्य प्रयोजकः- इति प्राप्ते-
ब्रूमः- ऽछिद्यमानस्य यूपस्य यः प्रथमं पत्तितः शकलः स स्वरुःऽ इति स्वरुत्वनाममात्रविधौ लाघवाद्यूपवत्स्वरुर्नच्छेदनस्य प्रयोजकः ।
किंतु यूपप्रयुक्ते छेदने स्वयमनुनिष्पद्यते ॥ म्जैन्य्च्_4,2.1-2 ॥
(द्वितीये शाखाया आहार्यताधिकरणे सूत्रम् -)
शाखायां तत्प्रधानत्वात् । जैम्_4,2.7 ।
स्तर्त् म्जैन्य् 4,2.3
द्वितीयाधिकरणमारचयति-
प्राचीमाहरतीत्यत्र दिक्शाखा वास्तु दिक्श्रुतैः ।
आहार्यत्वं दिशो नास्ति शाखा तेनोपलक्ष्यते

4.2.3

दर्शपूर्णमासयोः ऽयत्पलाशशाखया वत्सानवाकरोतिऽ इति पलाशशाखां प्रकृत्य श्रूयते- ऽयत्प्राचीमाहरेत्, देवलोकमभिजयेत्ऽ इति ।
तत्र प्राचीशब्दस्य दिग्वाचित्वाद्दिगाहरणं विधीयत इति चेत् ।
मैवम् ।
अशक्यत्वात् ।
अतो वृक्षस्य प्राची शाखात्रोपलक्ष्यते ।
तथा सति प्रकृतानुग्रहो भवति

4.2.4

(तृतीये छेदनस्य शाखाप्रयुक्तताधिकरणे सूत्रे 8-9)
शाखायां तत्प्रधानत्वाद् उपवेषेण विभागः स्याद् वैषम्यं तत् । जैम्_4,2.8 ।
श्रुत्यपायाच् च । जैम्_4,2.9 ।
स्तर्त् म्जैन्य् 4,2.4-6
तृतीयाधिकरणमारचयति-
शाखां छित्त्वोपवेषं च मूले कुर्वीत शाखया ।
नुदेद्वत्साम्कपालानि स्थापयेदुपवेषतः

4.2.5

द्वयं प्रयोजकं छित्तेर्वत्सापाकृतिरेव वा ।
आद्यो ऽग्रमूलयोरत्र विभज्य विनियोगतः

4.2.6

उपवेषं करोतीति साकाङ्क्षो ऽन्यार्थमूलतः ।
पूर्यते ऽतो ऽनुनिष्पादी स तस्माद्युज्यते ऽन्तिमः

4.2.7

दर्शपूर्णमासयोः श्रूयते- ऽमूलतः शाखां परिवास्योपवेषं करोतिऽ इति ।
येयं पलाशशाखां छित्त्वा वक्षादाहृता, तां पुनश्छित्त्वा मूलभागः प्रादेशपरिमित उपवेषः कार्यः ।
तयोरग्रमूलयोः शाखाभागयोः पृथग्विनियोग आम्नातः- ऽशाखया वत्सानपाकरोति ।
उपवेषेण कपालान्युपदधातिऽ इति ।
तदिदं कार्यद्वयं वृक्षच्छेदेन समाहृतया शाखया निष्पद्यते ।
तस्मात्- उभयमपि च्छेदनाहरणादेः प्रयोजकम्- इति चेत् ।
मैवम् ।
ऽउपवेषं करोतिऽ इत्युक्ते ऽकेन द्रव्येण इत्याकाङ्क्षायां ऽमूलतःऽ इति वक्तव्यम् ।
पुनरपि ऽकस्य मूलम्ऽ इत्याकाङ्क्षायां ऽवत्सापाकरणार्थ छिन्नायाः पलाशशाखाया मूलम्ऽ इत्याकाङ्क्षा पूरणीया ।
तस्माच्छेदने वत्सापाकरणमेव प्रयोजकम् ।
उपवेषस्त्वनुनिष्पादी ।
ननु-आद्यच्छेदने तथास्तु, द्वितीयच्छेदनस्योपवेषः प्रयोजकः ।
परिवासनसंपन्नेन मूलेनोपवेषकर्तव्यताविधानात् ।
अन्यथा ऽपरिवास्योपवेषं करोतिऽ इति समानकर्तृत्वपूर्वकालत्ववाचिनो स्थप्प्रत्ययस्यानुपपत्तेः, इति चेत् ।
मैवम् ।
परिवासनस्योपवेषसंबन्धो वाक्येन प्रतीयते ।
शाखासंबन्धस्तु ऽशाखाम्ऽ इति द्वितीयाश्रुत्या ।
पूर्वच्छिन्नाया अपि शाखायाः पुनर्मूलापादानकचश्छेदो ऽपेक्षितः ।
अन्यथा समूलां शाखां हस्तेनोद्यम्य वत्सापाकरणं दुःशकं स्यात् ।
अत एव ऽमूलतःऽ इत्यपादाने पञ्चमौ श्रुता ।
तथा सति प्रथमच्छेदनापादानभूतो वृक्षो ऽसंस्कृतत्वाद्यथा लौकिकः, तथा द्वितीयच्छेदनापादानभूतं मूलमपि लौकिककाष्ठम् ।
अवश्यमङ्गारेषु कपालोपधाने कस्यचित्काष्ठस्योपादानमर्थात्प्राप्तं तदेवात्र ऽउपवेषं करोतिऽ इत्यनूद्यते ।
शाखां परिवास्य परित्यक्ते मूले संनिहिते सति कपालोपधानार्थ काष्ठान्तरान्वेषणप्रयासो न कर्तव्यः- इति वाक्यार्थः ।
एवं च सति दोहनरहितायां पौर्णमास्यां वत्सापाकरणार्थायाः शाखाया अभावादुपवेषाय शाखाछेदो न कर्तव्यः ॥ म्जैन्य्च्_4,2.4-6 ॥
(चतुर्थे शाखाप्रहरणस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि 10-13)
हरणे तु जुहोतिर् योगसामान्याद् द्रव्याणां चार्थशेषत्वात् । जैम्_4,2.10 ।
प्रतिपत्तिर् वा शब्दस्य तत्प्रधानत्वात् । जैम्_4,2.11 ।
अर्थे ऽपीति चेत् । जैम्_4,2.12 ।
न तस्यानधिकाराद् अर्थस्य च कृतत्वात् । जैम्_4,2.13 ।
स्तर्त् म्जैन्य् 4,2.7-9
चतुर्थाधिकरणमारचयति-
प्रस्तरं शाखया सार्ध प्रहरेत्प्रहृतिस्त्वियम् ।
शाखाया अर्थकर्मत्वं प्रतिपत्तिरुतोचिता

4.2.8

विहितः प्रस्तरे यागः शाखायाः साहचर्यतः ।
तथात्वादर्थकर्मत्वे हृतिः शाखां प्रयोजयेत्

4.2.9

हरतिर्यागवाची नो प्रतिपत्तिस्ततो भवेत् ।
पौर्णमास्यां ततो नैव हृतिः शाखां प्रयोजयेत्

4.2.10

दर्शपूर्णमासयोः श्रूयते- ऽसह शाखया प्रस्तरं प्रहरतिऽ इति ।
तत्र शाखाप्रहरणमर्थकर्म ।
कुतः ।
प्रहृतिशब्देन यागस्याभिधानात् ।
एतच्च ऽसूक्तवाकेन प्रस्तरं प्रहरतिऽ इत्येतद्वाक्यमुदाहृत्य विचारितम् ।
प्रस्तरप्रहरणस्य यागत्वे तत्साहचर्याच्छाखाप्रहरणमपि याग एवेत्यर्थकर्म स्यात् ।
अर्थाय क्रतुसाफल्यप्रयोजनाय क्रियमाणमर्थकर्म ।
ततः प्रहरणेन पौर्णमास्यामपि पलाशशाखा प्रयुज्यते- इति प्राप्ते, ब्रूमः- ऽसूक्तवाकेन प्रस्तरं प्रहरतिऽ इत्यत्र हरतिधातोर्यागवाचित्वं नोक्तम् ।
किंतु मान्त्रवर्णिकदेवतामुपलभ्य द्रव्यदेवताभ्यां यागः कल्पितः ।
शाखाप्रहरणे तु नास्ति देवता ।
ततो यागस्य कल्पयितुमशक्यतया हरतिधातुरत्र स्ववाच्यार्थपरित्यागमेवाऽचष्टे ।
तथा सति वत्सापाकरण उपयुक्तायाः पलाशशाखाया उपयोगान्तराभावाद्यागदेशे ऽवकाशलाभाय यत्र क्वाप्यवस्यं परित्यागे प्राप्ते शास्त्रेणाऽहवनीय एव त्यागो नियम्यते ।
अनेन च शास्त्रीयत्यागेन शाखायाः प्रतिपत्तिर्भवति ।
प्रतिपत्तिर्नाम संस्काररूपो दृष्टोर्ऽथः ।
यथा राज्ञा चर्वितस्य त्राम्बूलस्य सौवर्णे पतद्ग्रहे प्रक्षेपः, तद्वत् ।
ततः प्रहरणं प्रतिपत्तिकर्म ।
तेने च तदभावे ऽपि क्रतुवैकल्याभावात्, पौर्णमास्यां स्वसिद्धिहेतुभूतां शाखां न प्रयोजयति ॥ म्जैन्य्च्_4,2.7-9 ॥
(पञ्चमे निनयनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रे 14-15)
उत्पत्त्यसंयोगात् प्रणीतानाम् आज्यवद् विभागः स्यात् । जैम्_4,2.14 ।
संयवनार्थानां वा प्रतिपत्तिर् इतरासां तत्प्रधानत्वात् । जैम्_4,2.15 ।
स्तर्त् म्जैन्य् 4,2.10-11
पञ्चमाधिकरणमारचयति-
प्रणीताभिस्तु संयौति वेद्यां निनयतीति किम् ।
अपां द्वे प्रापके किंवा हविःसंयवनं तथा

4.2.11

अपः प्रणयतीत्युक्तेः समत्वादुभयार्थता ।
श्रुत्या संयवनार्थास्ता निनीतेः प्रतिप्रत्तिता

4.2.12

दर्शपूर्णमासयोः श्रूयते- ऽअपः प्रणयतिऽ इति ।
चमसेन पात्रेण प्रणीतानां तासामपां ।
प्रयोजनमेवं श्रूयते- ऽप्रणीताभिर्हवींषि संयौतिऽ इति, ऽअन्तर्वेदि प्रणीता भिनयतिऽ इति च ।
हवींषि पुरोडाशार्थानि पिष्ठानि ।
तत्र हविःसंयवनं वेद्यां निनयनं चेत्यतदुभयमपां प्रणयनस्य प्रयोजकम् ।
कुतः ।
ऽअपः व्रजयतिऽ इत्यस्य प्रमयनोत्पत्तिवाक्यस्योभयत्र समानत्वात् ।
न ह्यस्मिन्वाक्ये संयवनस्य कश्चिद्विशेषसंबन्धः प्रतीयते- इति चेत् ।
मैवम् ।
विनियोगवाक्ये ऽप्रणीताभिःऽ इति तृतीयाश्रुत्या संयवनसाधनत्वावगमात्, संयवनमेव प्रयोजकम् ।
निनयनवाक्ये तु ऽप्रणीताःऽ इत्यनया द्वितीयया संस्कार्यत्वावगमान्निनयनं प्रतिपत्तिरूपः संस्कार इति न प्रणयनस्य प्रयोजकम् ॥ म्जैन्य्च्_4,2.10-11 ॥
(षष्ठे दण्डदानस्यार्थकर्मताधिकरणे सूत्राणि 16-18)
प्रासनवन् मैत्रावरुणाय दण्डप्रदानं कृतार्थत्वात् । जैम्_4,2.16 ।
अर्थकर्म वा कर्तृसंयोगात् स्रग्वत् । जैम्_4,2.17 ।
कर्मयुक्ते च दर्शनात् । जैम्_4,2.18 ।
स्तर्त् म्जैन्य् 4,2.12-13
षष्ठाधिकरणमारचयति-
मैत्रावरुणके दण्डदानस्य प्रतिपत्तिता ।
उतार्थकर्मताऽद्यो ऽस्तु धारणे कृतकृत्यतः

4.2.13

युक्तोपयुक्तसंस्कारादुपयोक्तव्यसंस्क्रिया ।
स्थित्वा प्रैषानुवचने दण्डो ऽपेक्ष्योर्ऽथकर्म तत्

4.2.14

ज्योतिष्टोमे श्रूयते- ऽक्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतिऽ इति ।
तदेतद्दण्डदानं प्रतिपत्तिकर्म ।
कुतः ।
दण्डस्य यजमानधारणेन कृतकृत्यत्वात् ।
यजमानो ह्यध्वर्युणा दीक्षासिद्धयर्थ दत्तं दण्डमासोमक्रयाद्धारयति ।
अत एवाऽम्नातम्- ऽदण्डेन दीक्षयतिऽ इति, ऽयद्दीक्षिताय दण्डं प्रयच्छतिऽ इति च ।
तस्मादुपयुक्तस्य दण्डस्य दानं प्रतिपत्तिः- इति चेत् ।
मैवम् ।
दण्डे भविष्यदुपयोगस्यापि सद्भावात् ।
यदा मैत्रावरुणः स्थित्वा प्रैषाननुवदति, तदानीमवलम्बनाय दण्डो ऽपेक्षितः ।
अत एवाऽम्नातम्- ऽदण्डीप्रैषानन्वाहऽ इति ।
तथा सति प्रतिपत्तिकर्मरूपादुपयुक्तसंस्कारादर्थकर्मरूप उपयोक्ष्यमाणसंस्कारः प्रशस्तः ।
उपयोजयितुमेव हि सर्वत्र संस्कारस्य प्रवृत्तिः ।
उपयुक्ते तु प्रतिपत्तिरूपस्य संस्कारस्याक्षरमात्रपर्यवसायित्वेन कार्ये पर्यवसानाभावादप्रशस्तत्वम् ।
तस्मात्- मैत्रावरुणसंस्काराय दण्डदानमर्थकर्म ।
तथा सति निरूढपशावसत्यपि दीक्षिते दण्डसंपादनस्यैतद्दानं प्रयोजकम् ॥ म्जैन्य्च्_4,2.12-13 ॥
(सप्तमे प्रासनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रम्)
उत्पत्तौ येन संयुक्तं तदर्थं तत्, श्रुतिहेतुत्वात् तस्यार्थान्तरगमने शेषत्वात् प्रतिपत्तिः स्यात् । जैम्_4,2.19 ।
स्तर्त् म्जैन्य् 4,2.14
सप्तमाधिकरणमारचयति-
चात्वाले कृष्णशृङ्गस्य प्रासो यः सोर्ऽथकर्म वा ।
प्रतिपत्तिः सार्थकत्वादाद्यो ऽन्त्यो ऽन्त्यो ऽस्तूपयोगतः

4.2.14

ज्योतिष्टोमे श्रूयते- ऽप्रत्तासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यतिऽ इति ।
यजमानेन दसा दक्षिणा ऋत्विग्भिर्यदा नीताः, तदा यजमानः स्वहस्ते धृतं कृष्णमृगस्य शृङ्गं चात्वालनामके गर्ते परित्यजेत् ।
सो ऽयं परित्यागोर्ऽथकर्म ।
कुतः ।
सप्रयोजनत्वात् ।
प्रतिपत्तितयापूर्वाभावेन निरर्थकः स्यात् ।
अतो ऽपूर्वलाभायार्थकर्मत्वम्- इति चेत् ।
मैवम् ।
ऽकृष्णविषाणया काण्डूयतेऽ इति तृतीयाश्रुत्या यजमानशिरःकण्डूतावुपयुक्तस्य विषाणस्य प्रतिपश्यपेक्षत्वात् ।
न च प्रतिपत्तावत्यन्तमपूर्वाभावः ।
ऽचात्वाल एव प्रासनम्ऽ इत्येवंविधस्य नियमस्य वैधत्वेन प्रासनक्रियाप्रयुक्तापूर्वाभावे ऽपि नियमापूर्वसद्भावात् ।
तस्मात्- प्रासनं प्रतिपत्तिकर्म

4.2.15

(अष्टमे- अवभृयगमनस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि 20-22)
सौमिके च कृतार्थत्वात् । जैम्_4,2.20 ।
अर्थकर्म वाभिधानसंयोगात् । जैम्_4,2.21 ।
प्रतिपत्तिर् वा तन्न्यायत्वाद् देशार्थावभृथश्रुतिः । जैम्_4,2.22 ।
स्तर्त् म्जैन्य् 4,2.15-16
अष्टमाधिकरणमारचयति-
पात्रस्यावमृथे सोमलिप्तस्य नयनं तु किम् ।
साधनं प्रतिपत्तिर्वा यन्ति तेनेत्यतः श्रुतेः

4.2.16

प्राप्ता साधनता मैवं पुरोडाशहबिष्ट्वतः ।
पात्रस्य तदसंबन्धात्प्रक्षेपः प्रतिपत्तये

4.2.17

ज्योतिष्टोमे श्रूयते- ऽचतुर्गृहीतं वा एतद्यज्ञस्य यदृजीषम्, यद्ग्रावाणः, यदौदुम्वरी, यदधिषवणफलके, तस्माद्यत्किंचित्सोमलिप्तं द्रष्यम्, तेनावभृद्यं यन्तिऽ इति ।
निष्पीडितस्य सोमस्य नीरसो भाग ऋजीषम् ।
तदेतदृजीषग्रावादिकं सोमाभिषवादौ सोमेन लिप्यते ।
तस्य लिप्सस्य सर्वस्यावभृथसाधनत्वमभ्युपेयम् ।
कुतः ।
ऽतेनावमृथं यन्तिऽ इति तृतीयाश्रुत्यावभृथसाधनत्वावगमात् ।
तस्मात्सोमलिप्तं द्रव्यमवभृद्ये हविष्ट्वेन नीयते- इति चेत् ।
मैवम् ।
ऽवारुणेनकपालेनावभृथमवयन्तिऽ इत्यनेनोत्पत्तिवाक्यशिष्ठपुरोडाशहविषावरुद्धिऽवभृथे सोमलिप्तपात्रस्य हविष्ट्वेन संबन्धासंभवात् ।
तथा सत्यवभृथशब्देन तदर्थ देशं लक्षयित्वा तस्मिन्देशे सोमलिप्तस्य पात्रस्य नयनमत्र विधीयते ।
तच्च नयनं प्रतिपत्तये भवति ।
पात्रस्य पूर्वमुपयुक्तत्वात् ।
तस्मात्- एतत्प्रतिपत्तिकर्म ॥ म्जैन्य्च्_4,2.15-16 ॥
(नवमे कर्तृदेशकालविधीनां नियमार्थताधिकरणे सूत्रे 23-24)
कर्तृदेशकालानाम् अचोदनं प्रयोगे नित्यसमवायात् । जैम्_4,2.23 ।
नियमार्था वा श्रुतिः । जैम्_4,2.24 ।
स्तर्त् म्जैन्य् 4,2.17-18
नवमाधिकरणमारचयति-
समे यजेत देशादेरनुवादो ऽथवा विधिः ।
प्रयोगानुपपस्यैव प्राप्तत्वादनुवादता

4.2.18

समे वा विषमे वेति पाक्षिकत्वनिवृत्तये ।
अप्राप्तांशानुपातेन नियमो ऽत्र विधीयते

4.2.19

इदमाम्नायते- ऽसमे दर्शपूर्णमासाभ्यां यजेतऽ, ऽप्राचीनप्रवणे वैश्वदेवेन यजेतऽ ऽपौर्णमास्यां पौर्णमास्या यजेतऽ ऽअमावास्यायाममावास्यया यजेतऽ ऽपशुबन्धस्य यज्ञक्रतोः षडृत्विजःऽ ऽदर्शपूर्णमासयोर्यज्ञक्रत्वोश्चत्वार ऋत्विजःऽ ऽचातुर्मास्यानां यज्ञक्रतूनां पञ्चर्त्विजःऽ ऽअग्निहोत्रस्य यज्ञक्रतोरेक ऋत्विक्ऽ ऽसौम्यस्याध्वरस्य यज्ञक्रतोःसप्तदर्शीत्वजःऽ ऽसोमेन यजेतऽ इति ।
क्रतुशब्दे मानस उपासने ऽपि वर्तते ।
ऽस क्रतुं कुर्क्षीत मनोमयः प्राणशरीरःऽ इत्यत्र क्रतुशब्देन ध्यानविधानात् ।
तद्व्यावृत्तये ऽयज्ञक्रतोःऽ इति विशेष्यते ।
तत्र देशकालकर्तृद्रव्याणि न विधीयन्ते, किंत्वनुश्रूयन्ते ।
कुतः ।
प्राप्तत्वात् ।
न हि देशादिभिर्विना प्रयोगः संभवति ।
अतोर्ऽथापत्त्या तत्प्राप्तिः- इति चेत् ।
मैवम् ।
अर्थापत्त्या पाक्षिकी समदेशादिप्राप्तिः ।
विषमदेशादीनामपि संभवात् ।
ततो यस्मिन्पक्षे प्राप्तिर्नास्ति तस्मिन्पक्षे समदेशादयो विधीयन्ते ॥ म्जैन्य्च्_4,2.17-18 ॥
(दशमे द्रव्यगुणविधानस्य नियमार्थताधिकरणे सूत्रम्-)
तथा द्रव्येषु गुणश्रुतिर् उत्पत्तिसंयोगात् । जैम्_4,2.25 ।
स्तर्त् म्जैन्य् 4,2.19
दशमाधिकरणमारचयति-
श्वेतालम्भो ऽनुवादो वा श्वैत्यस्य विधिरग्रिमः ।
द्रव्यद्वारेण तत्प्रप्तेः पूर्ववत्तन्नियम्यते

4.2.19

इदमाम्नायते- ऽवायव्यं श्वैतमालभेत भूतिकामःऽ इति ।
तत्र श्वैत्यगुणस्य द्रव्यनिरपेक्षस्य क्रियान्वयाभावाद्द्रव्यसहितस्य तदन्वये द्रव्यनिरपेक्षस्य क्रियान्वयाभावाद्द्रव्यसहितस्य तदन्वये द्रव्यविधिनैवाऽवर्जनीयतया तत्प्राप्तेरनुवादः श्वैत्यस्य- इति चेत् ।
मैवम् ।
पूर्वन्यायेन पाक्षिकत्वनिवृत्तये नियमविधित्वाङ्गीकारात्

4.2.20

(एकादशे- अवधातादिसंस्कारविधानस्य नियमार्थताधिकरणे सूत्रम्)
संस्कारे च तत्प्रधानत्वात् । जैम्_4,2.26 ।
स्तर्त् म्जैन्य् 4,2.20
एकादशाधिकरणमारचयति-
अवघाते ऽपि नियमो देशादाविव तेन सः ।
प्रधानेन प्रयुक्तः स्यात्संबन्धः प्रक्रियोक्तितः

4.2.20

यथा देशकालकर्तृद्रव्याणां पक्षे प्राप्तौ नियमो विहितः, एवमवघातो ऽपि तण्डुलनिष्पत्त्यर्थ लोकतः प्राप्ते ऽपि पाक्षिकनखविदलनादिव्यावृत्तये नियम्यते ।
सति चावधतस्य विधौ प्रधानेनाऽग्नेयादियागेनासौ प्रयुज्यते ।
न चात्र संबन्धाभावादप्रयुक्तिरिति वाच्यम् ।
प्रधानयागप्रकरणपठितत्वेन संबन्धसिद्धिः ।
तस्मात्- अवघातादयो विधीयन्ते प्रधानेन प्रयुज्यन्ते च

4.2.21

(द्वादशे यागहोमस्वरूपनिरूपणाधिकरणे सूत्रे 27-28)
यजति चोदनाद्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् । जैम्_4,2.27 ।
तदुक्ते श्रवणाज् जुहोतिर् आसेचनाधिकः स्यात् । जैम्_4,2.28 ।
स्तर्त् म्जैन्य् 4,2.21-23
द्वादशाधिकरणमारचयति-
अनिरूप्या निरूप्या वा यागहोमददातयः ।
त्यागादाद्यो यजिस्त्यागः प्रक्षेपो होम इष्यते

4.2.22

आकाङ्क्षा यागशब्दस्य त्यागेनैव निवर्तते ।
यागस्योपरि होमस्य विधेः क्षेपावसानता

4.2.23

स्वीयं द्रव्यं परित्यज्य परकीयं यथा भवेत् ।
तथा संपादनं दानं त्यागे ऽप्येषामियं भिदा

4.2.24

इदमाम्नायते- ऽसोमेन यजेतऽ अग्निहोत्रं जुहोतिऽ ऽहिरण्यमात्रेयाय ददातिऽ इति ।
तत्र याग-होम-दान-शब्दानामर्था न निरूपयितुं शक्यन्ते ।
त्रिष्वपि द्रव्यत्यागस्य सद्भावात् ।
ततो विधेयानामर्थानां प्रधानभूतानामनिर्णयात्, इतरत्र विध्यनुवादविवेकः पूर्वोक्तो व्यर्थः- इति चेत् ।
मैवम् ।
देवतामुद्दिश्य द्रव्यत्यागो यागः ।
त्यक्तस्य वह्नौ प्रक्षेपो होमः ।
स्वकीयद्रव्यस्य स्वत्वनिवृत्तिपूर्वकं परस्वत्वापादनं दानम् ।
इति सुनिरूपा एते पदार्थाः ।
ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इतिविहितस्य यागस्योपरि ऽचतुरवत्तं जुहोतिऽ इति होमस्य विधानात् ऽत्यागमात्रात्मको यागः, प्रक्षेपाधिको होमःऽ इत्यवगम्यते ।
यत्र तु यजत्यादिपदं न श्रुतम्, किंतु ऽआग्नेयो ऽष्टाकपालःऽ इत्येतावदवे श्रुतम्, तत्राप्युद्देश्याया देवतायास्त्वजनीयद्रव्यस्य च श्रुतत्वादुद्देशत्वागरूपो यागो ऽथसिद्धः ।
तस्मात्- प्रधानविधेयानां यागादीनां सुनिरूपितत्वाद्विधिविवेको न व्यर्थः ॥ म्जैन्य्च्_4,2.21-23 ॥
(त्रयोदशे बर्हिष आतिथ्यादिसाधारण्याधिकरणे सूत्रे 29-30)
विधेः कर्मापवर्गित्वाद् अर्थान्तरे विधिप्रदेशः स्यात् । जैम्_4,2.29 ।
अपि वोत्पत्तिसंयोगाद् अर्थसंबन्धो ऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात् । जैम्_4,2.30 ।
स्तर्त् म्जैन्य् 4,2.24-25
त्रयोदशाधिकरणमारचयति-
यदातिथ्याबर्हिरेतदुपसत्स्वतिदेशनम् ।
साधारण्यविधिर्वाऽद्यस्तदीयस्योपसंहृतेः

4.2.25

वर्हिः श्रुत्यैकताभानान्नातिदेशस्य लक्षणा ।
आतिथ्ययोपसद्भिश्व बर्हिरेतत्प्रयुज्यते

मूल पाठ: Jaiminīyanyāyamālāvistara a metrical exposition of Jaimini's Mīmāṃsāsūtra, with Mādhava's prose commentary · Edition: Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc