भाषा

ENहिગુ
ग्रंथ पाठ

जैमिनीयन्यायमालाविस्तर · अध्याय 3.4

3.4.1

राजसूये श्रूयते- ऽसौमापौष्णं चरुं निर्वपति, ऐन्द्रापौष्णं चरुम्ऽ इति ।
तत्र द्विदेवके ऽपि चरौ पिष्टभाजः पूष्णः सत्त्वात्तत्पेषणं पूषार्थे कर्तव्यम्- इति चेत् ।
तत्र वक्तव्यम्- किं पेषणस्य देवता प्रयोजिका, किंवा यागः ।
नाऽद्यः ।
यागमन्तरेण केवलदेवता फलजनकत्वाभावेन पेषणं प्रयोक्तुं न प्रभवति ।
पौष्णस्य यागस्य पेषणप्रयोजकत्वे तु तत्पेषणं द्विदेवके यागान्तरे गन्तुं नार्हति ।
- ऽपूषा प्रपिष्टभागःऽ इत्यत्र यागौ न श्रुतः- इति चेत् ।
मैवम् ।
भागशब्दान्यथानुपपत्त्या यागस्य कल्प्यत्वात् ।
नहि देवतात्वमन्तरेण पिष्टद्रव्यभाक्त्वं सिध्यति ।
सति च देवतात्वे द्रव्यदेवतयोर्लाभाद्यागः कल्प्यते ।
तस्मात्- एकदेवक्रयागस्य पेषणप्रयोजकत्वात्, न द्विदेवकयागे पेषणमस्ति ॥ म्जैन्य्च्_3,1.47-48 ॥
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य तृतीयः पादः
अथ तृतीयाध्यायस्य चतुर्थः पादः ।
(प्रथमे निवीतस्यार्थवादत्वाधिकरणे सूत्राणि 1-9)
निवीताम् इति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् । जैम्_3,4.1 ।
अपदेशो वार्थस्य विद्यमानतत्त्वात् । जैम्_3,4.2 ।
विधिस् त्व् अपूर्वत्वात् स्यात् । जैम्_3,4.3 ।
स प्रायात् कर्मधर्मः स्यात् । जैम्_3,4.4 ।
वाक्यशेषत्वात् । जैम्_3,4.5 ।
तत्प्रकरणे यत् तत् संयुक्तम् अविप्रतिषेधात् । जैम्_3,4.6 ।
तत्प्रधाने वा तुल्यवत् प्रसंख्यानाद् इतरस्य तदर्थत्वात् । जैम्_3,4.7 ।
अर्थवादो वा प्रकरणात् । जैम्_3,4.8 ।
विधिना चैकवाक्यत्वात् । जैम्_3,4.9 ।
स्तर्त् म्जैन्य् 3,4.1-2
चतुर्थपादस्य प्रथमाधिकरणमारचयति -
निवीतं तु मनुष्याणां विधिर्वैषोर्ऽथवादकः ।
अपूर्वत्वात्प्रकरणान्नुः क्रतोर्वा विधीयते

3.4.2

प्राप्तं निवीतं मर्त्येषु प्रायेणैतस्य दर्शनात् ।
उपवीतविधावेकवाक्यत्वादर्थवादता

3.4.3

दर्शपूर्णमासप्रकरणे श्रूयते-ऽनिवीतं मनुष्याणाम् ।
प्राचीनापीतं पितॄणाम् ।
उपवीतं देवानाम् ।
उपव्ययते देवलक्ष्ममेव तत्कुरुतेऽ इति ।
तत्र- निवीतस्य पूर्वे मानान्तरेणाप्राहत्वा- द्विधेयत्वमभ्युपेतव्यम् ।
तच्च निवीतं ऽमनुष्याणाम्ऽ इति षष्ठ्या पुरुषार्थत्वेन विधीयते- इत्येकः पूर्वपक्षः ।
अस्मिन्पक्षे मनुष्यसंबन्धो द्विविधः- सुवर्णधारणवत्सर्वपुरुषस्यबन्धः, इत्येकः प्रकारः ।
ऽउपवीतप्राचीनावीतयोः क्रतुप्रवेशरहितयोः स्वतन्त्रदैविकपैतृककर्मणोरपि दर्शनात्तत्साहचर्येण स्वतन्त्र आचार्यातिथ्यादिमनुष्यविषये कर्मणि निवीतम्ऽ इत्यपरः प्रकारः ।
प्रकरणबलात्प्रयाजादिवद्यागधर्षः- इति द्वितीयः पूर्वपक्षः ।
अस्मिन्पक्षे मनुष्यग्रहणं कर्तृसंबन्धानुवादः ।
ऽषष्ठीश्रुतिप्रकरणयोरविरोधादुभयावलम्बनेन क्रतुसंबन्धिमनुष्यधर्मःऽ इति पक्षान्तरमुदेति ।
तच्च द्विविधम्-ऽलोहितोष्णीपादिवदृत्विग्धर्मः, इत्येकः प्रकारः ।
ऽक्रतावेव यन्मनुष्यप्रधानं कर्मान्वाहार्यदानादि, तद्धर्मत्वे सत्युपवीतसाहचर्यमप्यनुगृह्यतेऽ इत्यपरः ।
सर्वथापि निवीतं नार्थवादः- इति प्राप्ते, -
ब्रूमः- अत्र प्रतीयमानं निवीतादिकं वासोविषयम्, न तु त्रिवृत्सूत्रविषयम् ।
ऽअजिनं वासो वा दक्षिणत उपवीयऽ इत्यनेन सदृशत्वात् ।
वस्त्रस्य च निवीतं सौकर्याय प्राप्तम् ।
चीनावीतोपवीतयोरवश्यमेकमेकस्मिन्पार्श्वे वस्त्रमधः पतेत् ।
अतः प्राप्तेर्ऽथे ऽमनुष्याणाम्ऽ इति षष्ठीश्रुतिर्न विधायिका ।
न च प्रकरणात्क्रत्वङ्गत्वेन विधिः ।
वाक्यभेदप्रसङ्गात् ।
उपवीतं तावद्विधीयते ।
अन्यथा ऽदेवलक्ष्ममेव तत्कुरुतेऽ इति प्रशंसाबैयर्थ्यापत्तेः ।
तस्मिंश्चोपवीत विधावर्थवादत्वेन निवीतप्राचीनावीतयोरेकवाक्यत्वसंभवे पृथग्विधानमयुक्तम् ।
नवीत प्राचीनावीते मनुष्यपितृविषयवत्त्वाद्दैविके कर्मण्ययोग्ये, उपवीतं तु योग्यम्- इति व्यतिरेक- मुखेण स्तावकं निवीतम् ।
तस्मात्-अर्थवादः ॥ म्जैन्य्च्_3,1.1-2 ॥
(द्वितीये, उपवीतस्य दर्शपूर्णमासाङ्गताधिकरणे सूत्रे 10-11)
उपवीतं लिङ्गदर्शनात् सर्वधर्मः स्यात् । जैम्_3,4.10 ।
न वा प्रकरणात् तस्य दर्शनम् । जैम्_3,4.11 ।
स्तर्त् म्जैन्य् 3,4.3-4
द्वितीयाधिकरणमारचयति-
सर्वार्थमुत दर्शार्थमुपव्ययत इत्यदः ।
सर्वार्थमग्निहोत्रे स्यादुपवीतीति लिङ्गतः

3.4.4

दर्शाद्यर्थे प्रकरणाल्लिङ्गे स्यात्सिद्धिरन्यथा ।
दोहं मृताग्निहोत्रस्य स्तोतुमेतदनूदितम्

3.4.5

ऽयज्ञोपवीती हि देवेभ्यो दोहयतिऽ इत्येवमग्निहोत्रे यज्ञोपवीतस्य सिद्धवदनुवादेन लिङ्गेन सर्वकर्मार्थमुपवीतम्- इति चेत् ।
न ।
लिङ्गस्यान्यथोपपत्तेः ।
मृताग्निहोत्रं तस्मिन्दिने ऽन्येन हूयते ।
तत्र ऽप्राचीनावीती दोहयेत्ऽ इति विधाय तस्य स्तुतये ऽयज्ञेपवीतीऽ- इत्याद्यनूदितम् ।
अतो लिङ्गाभासेन बाधासंभवात्प्रकरणाद्दर्शपूर्णमाक्षाङ्गमुपवीत्रम् ॥ म्जैन्य्च्_3,1.3-4 ॥
(तृतीये, उपवीतस्य विधित्वाधिकरणे सूत्रम्)
विधिर् वा स्याद् अपूर्वत्वात् । जैम्_3,4.12 ।
स्तर्त् म्जैन्य् 3,4.5
तृतीयाधिकरणमारचयति-
उपव्याने ऽनुवादो वा विधिर्वाऽद्यो यतः स्मृतौ ।
प्राप्तं मैवमपूर्वत्वात्क्रतौ लेटा विधीयते

3.4.6

(चतुर्थे-उपवीतोदगग्रत्वयोरनुवादताधिकरणे सूत्रे 13-14)
उदक्त्वं चापूर्वत्वात् । जैम्_3,4.13 ।
सतो वा लिङ्गदर्शनम् । जैम्_3,4.14 ।
स्तर्त् म्जैन्य् 3,4.6-7
चतुर्थाधिकरणमारचयति -
उपवीती हि देवेभ्यः पुरोदञ्चो द्वयं विधिः ।
वादो वास्यान्यतो ऽप्राप्तेरपूर्वार्थो विधीयते

3.4.7

हियच्छब्दद्वयाद्वादः स्मृत्युपव्यानतो द्वयम् ।
संप्राप्तं दक्षिणाग्रत्वप्राचीनावीतयोः स्तुतिः

3.4.8

(पञ्चमे समिद्धारणस्य विधिताधिकरणे सूत्रम्)
विधिस् तु धारणे ऽपूर्वत्वात् । जैम्_3,4.15 ।
स्तर्त् म्जैन्य् 3,4.8-9
पञ्चमाधिकरणमारचयति-
धारयत्युपरिष्टाद्धि देवेभ्य इति संस्तवः ।
विधिर्वाऽद्यो धृतेः पित्र्ये प्रोक्तायाः पूर्ववत्स्तुतिः

3.4.9

ऊर्ध्व विधारणं प्राप्तं समिधो नान्यमानतः ।
अतो हि शब्दसंत्यागादपूर्वार्थो विधीयते

3.4.10

प्रेताग्निहोत्र एवं श्रूयते-ऽअधस्तात्समिधं धारयन्ननुद्रवेत्, उपरि हि देवेभ्यो धारयतिऽ इति ।
अत्र- ऽपित्र्यं हविर्होतुं हस्ते धारयन्यदा मन्त्रं पठति, तदानीं स्त्रुग्दण्डस्याधस्तात्समिधं धारयेत्- इति यद्विधीयते, तदेतद्दैविकेनोपरिधारणेन स्तूयते ।
हिशब्देन पूर्वाधिकरण इवानुवादत्वप्रतीतेः- इति चेत् ।
मैवम् ।
दैविके हविषि स्त्रुग्दण्डस्योपरि समिद्धारणस्यापूर्वार्थत्वेन विधातव्यत्वात् ।
अनुवादत्वगमको हिशब्दऽसंभवादुपेक्षणीयः ॥ म्जैन्य्च्_3,1.8-9 ॥
(षष्ठे दिग्विभागस्यार्थवादताधिकरणे सूत्रम्-)
दिग्विभागश् च तद्वत् संबन्धस्यार्थहेतुत्वात् । जैम्_3,4.16 ।
स्तर्त् म्जैन्य् 3,4.10-11
षष्ठाधिकरणमारचयति-
दिशं प्रतीचीं मनुजा व्यभजन्तेत्यसौ विधिः ।
वादो वात्र पुराकल्पस्तुत्यर्थो विधिमर्हति

3.4.11

प्राचीनवंशवाक्योक्तेर्विधावस्यैकवाक्यतः ।
दिग्विभागोर्ऽथवादो ऽयमुपवीते निवीतवत्

3.4.12

ज्योतिष्टोमे श्रूयते-ऽप्राचीनवंशं करोति ।
देवमनुष्या दिशो व्यभजन्तप्राचीं देवाः, दक्षिणां पितरः, प्रतीचीं मनुष्याः, उदीचीं रुद्राः, यत्प्राचीनवंशं करोति देवलोकमेव तद्यजमान उपावर्ततेऽ इति ।
तत्र- देवादीनां कर्मानधिकारान्न तत्र विधिशङ्का ।
ऽमनुष्याः प्रतीचीं विभजोयुःऽ इत्येवं विधिः स्यात् ।
कुतः ।
पुराकल्परूपेणार्थवादेन स्तूयमानत्वात् ।
पूर्वपुरुषाचरितत्वाभिधानं पुराकल्पः ।
ऽव्यभजन्तऽ इत्यनेन भूतार्थवाचिना तदभिधीयते ।
तस्मात्- विधिः- इति पूर्वपक्षः ।
यस्य मण्डपविशेषस्योपरिवंशाः प्रागग्रा भवन्ति स प्राचीनवंशः ।
तद्विध्येकवाक्यत्वावगमादर्थवादः ।
सायंकालीनाप्त्यांदौ प्रतीची प्राप्ता ॥ म्जैन्य्च्_3,4.10-11 ॥
(सप्तमे परुषि दितादीनामनुवादताधिकरणे सूत्रम्-)
परुषि दितपूर्णघृतविदग्धं च तद्वत् । जैम्_3,4.17 ।
स्तर्त् म्जैन्य् 3,4.12-13
सप्तमाधिकरणमारचयति-
परुषि च्छिन्नमित्युक्त्या बर्हिषस्तु समूलताम् ।
घृतं दैवं मस्तु पित्र्यमित्युक्त्या नवनीतकम्

3.4.13

यो विदग्धः स इत्युक्त्या पुरोडाशस्य पक्वताम् ।
स्तौति पूर्वोत्तरौ पक्षौ योजनीयौ निवीतवत्

3.4.12

दर्शपूर्णमासयोः पिण्डपितृयज्ञे श्रूयते- ऽयत्परुषि दितं तद्देवानाम्, यदन्तरा तन्मनुष्याणाम्, यत्समूलं तत्पितॄणाम्, समूलं बर्हिर्भवति व्यावृत्यैऽ इति ।
परुः पर्व ।
दितं खण्डितम् ।
तथा ज्योतिष्टोमे दीक्षार्थाभ्यङ्गे श्रूयते- ऽघृतं देवानां, मस्तु पितॄणाम्, निष्पक्वं मनुष्याणाम्, तद्वा एतत्सर्वदेवत्यं यन्नवनीतम्, यन्नवनीतनाभ्यङ्क्ते सर्वा एव देवताः प्रीणातिऽ इति ।
मस्तु दधिभवं मण्डम् ।
निष्पक्वं शिरसिप्रक्षेप्तुमीषद्विलीनं नवनीतं तक्रं वा ।
दर्शपूर्णमासयोः पुरोडाशश्रपणे श्रूयते-"यो विदग्धः स नैऋतः, यो ऽशृतः स रौद्रः, यः शतः स दैवः, तस्मादविदहता श्रपयितव्यः स दैवत्वायऽऽ इति ।
विदग्धो ऽत्यन्तपक्वः ।
अशृतो ऽपक्वः ।
तत्र - वर्हिषि समूलच्छेदस्य, अभ्यङ्गे नवनीतस्य पुरोडाशे यथोचितपाकस्य च विधेयतया सर्वमवशिष्टं स्तावकम् ।
निवीतविचारस्यैवायं प्रपञ्चः ।
एवम् ऽयत्पूर्णे तन्मनुष्याणाम्ऽ इत्यत्रापि द्रष्टव्यम् ।
तच्च चातुर्मास्येषु महापितृयज्ञे ऽपितृभ्यो ऽग्निष्वात्तेभ्यो ऽभिवान्या गोर्दुग्धे मन्थम्ऽइत्यत्र वत्सरहिताया अभिदानीशब्दाभिधेयाया धेन्वा दुग्धे पिष्टं प्रक्षिप्य क्रियमाणे मन्थने श्रूयते- ऽयत्पूर्णे तन्मनुष्याणामुपरि, अर्धो देवानाम् , अर्धः पितृणाम, अर्ध उपमन्थति, अर्थो हि पितॄणाम्ऽ इति ।
तत्र पात्रस्याधोभागरूपेणार् धेन परिमिते दुग्धे मन्थनस्य कर्तव्यत्वात्सोर्ऽधो विधीयते ।
स च पूर्णादिवाक्येन स्तूयते

3.4.14

13 ॥
(अष्टमे-अनृतवदननिषेधस्य क्रतुधर्मताधिकरणे सूत्रे-)
अकर्म क्रतुसंयुक्तं संयोगान् नित्यानुवादः स्यात् । जैम्_3,4.18 ।
विधिर् वा संयोगान्तरात् । जैम्_3,4.19 ।
स्तर्त् म्जैन्य् 3,4.14-16
अष्टमाधिकरणमारचयति-
अनृतं न वदेद्वैधः पुंधर्मो वानुवैदगीः ।
सक्रतौ पुंसि शुद्धेवा क्रतौ यद्वा विधिः क्रतौ

3.4.15

अनृतोक्तैः पुमर्थत्वात्तन्निषेधस्तथाबिधः ।
स्मार्तानुबादः पुंस्क्रत्वोःअश्रुतिप्रक्रिययोवंशात्

3.4.16

नाऽख्याते पुरुषानुक्तिः क्रतावेव प्रयाजवत् ।
सत्योक्तिनियमादन्यः संयोगो ऽतः क्रतौ विधिः

3.4.17

दर्शपूर्णमासप्रकरणे श्रूयते- ऽनानृतं वदेत्ऽ इति ।
तत्र-पुरुषधर्मत्वेनायं प्रतिषेधो विधीयते ।
कुतः ।
प्रतियोगिनो ऽनृतवदनस्य पुरुषधर्मतया तन्निषेधस्यापि पुरुषधर्मत्वेनैव विधातव्यत्वात् ।
ऽवदेत्ऽ इत्याख्यातं तावत्कर्तृवाचकम् ।
तेनाऽख्यातेन कर्तृः प्रतीयमानत्वात् ।
पुरुषस्याऽख्यातप्रत्ययवाच्यत्वे सति प्रकृत्यर्थस्य वदनस्य पुरुषधर्मत्वं युक्तम् ।
ऽप्रकृतिप्रत्ययौ प्रत्ययार्थे सह ब्रूतः, तयोस्तु प्रत्ययः प्राधान्येनऽ इति शाब्दिकैरुद्धोषणात् ।
वदनस्य पुरुषधर्मत्वे तन्निषेधस्यापि पुरुषधर्मत्वं युक्तम् ।
अन्यथा भिन्नविषयत्वे बाधकत्वं न स्यात् ।
तस्मात्पुरूषवाचकाख्यातश्रुत्या प्रकरणं बाधित्वा पुरुषार्थो ऽयं प्रतिषेधो विधीयते ।
अस्त्येव स्मार्तः प्रतिषेधः- इति चेत् ।
तर्हि तस्यैतच्छ्रुतिवाक्यं मूलमस्तु ।
तस्मात्- पुरुषार्थः- इत्येकः पूर्वपक्षः ।
आख्यातश्रुतेः प्रकरणस्य चाविरोधाय क्रतुयुक्तपुरुषधर्मो ऽस्तु ।
नह्येतद्वाक्यं स्मृतेर्मूलम् ।
भिन्नविषयत्वात् ।
स्मृतिश्चोपनयनमारभ्याऽमरणं पुरुषस्यानृतं प्रतिषेधति ।
तन्मध्यपतितत्वात्क्रतावपि स्मार्तो निषेधः प्राप्त एव ।
तत उभयार्थो ऽप्ययं प्रतिषेधो न विधीयते, किंत्वनूद्यते- इति द्वितीयः पूर्वपक्षः ।
आख्यातेन भावनाभिधीयते ।
कर्ता तु तदविनाभूतोर्ऽथात्प्रतीयते ।
अतः श्रुत्यभावात्केवलेन प्रकरणेन प्रयाजादिवदारादुपकारकः क्रतावेव निविशते ।
न च तत्रापि विधीयते, किंतु सार्वत्रिकस्य निषेधस्य क्रतावपि प्राप्तत्वादनूद्यते- इति तृतीयः पूर्वपक्षः ।
ऽसत्यमेव वदेत्, नत्वनृतम्ऽ इति यो ऽयं स्मार्तानियमरूपः पुरुषार्थः संयोगः, तस्मादयमन्यः क्रत्वर्थः संयोगः ।
अतो ऽप्राप्तत्वाद्विधीयते ।
एतद्व्यतिक्रमे क्रतोरेव वैगुण्यम्, न तु पुरुषस्य प्रत्यवायः ।
अतो ऽत्र क्रतुगामि प्रायश्चित्तम् ।
पुरुषार्थनियमातिक्रमे तु पुरुषस्यैव प्रत्यवायो न क्रतोर्वैगुण्यम् ।
तत्र स्मार्ते प्रायश्चितम्- इति विशेषः ॥ म्जैन्य्च्_3,4.14-16 ॥
(नवमे जञ्जभ्यमानधर्माणां प्रकरणे निवेशाधिकरणे सूत्राणि 20-22)
अहीनवत् पुरुषस् तदर्थत्वात् । जैम्_3,4.20 ।
प्रकरणविशेषाद् वा तद्युक्तस्य संस्कारो द्रव्यवत् । जैम्_3,4.21 ।
व्यपदेशाद् अपकृष्येत । जैम्_3,4.22 ।
स्तर्त् म्जैन्य् 3,4.17
नवमाधिकरणमारचयति-
जञ्जभ्यमानमन्त्रोक्तिः पुंसो धर्मः क्रतोरुत ।
वाक्यादाद्यः प्रक्रियया द्वितीयो ऽस्त्वविरुद्धया

3.4.17

दर्शपूर्णमासप्रकरणे श्रूयते-ऽप्राणो वै दक्षः ।
अपानः क्रतुः ।
तस्माज्जञ्जन्यमानो ब्रूयात्- मयि दक्षक्रतू-इति, प्राणापानावेवाऽस्मन्यधत्तऽ इति ।
गात्रविनामेन विदारितमुखः पुरुषो जञ्जभ्यमानः ।
तस्य वाक्यान्मन्त्रोक्तिः प्रतीयते ।
वाक्यं च प्रकरणाद्बलीयः ।
तस्मात्- केवलं पुंधर्मः- इति चेत् ।
मैवम् ।
क्रतावपि जञ्जभ्यमानपुरुषसंभवेन वाक्यप्रकरणयोर्विरोधाभावे सत्युभाभ्यां क्रतुयुक्तपुरुषसंस्कारत्वावगमात्

3.4.18

(दशमे-अवगोरणादीनां पुमर्थताधिकरणे सूत्रम्-)
शंयौ च सर्वपरिदानात् । जैम्_3,4.23 ।
स्तर्त् म्जैन्य् 3,4.18-19
दशमाधिकरणमारचयति-
विप्रायावगुरेन्नेति क्रत्वर्थो वा पुमर्थता ।
फलवत्क्रतुसांनिध्यात्क्रत्वर्थः पूर्वमन्त्रवत्

3.4.19

यातनापरिहारस्य निषेधफलतोचिता ।
निषेधो ऽयं पुमर्थत्वात्प्रक्रियातो ऽपकृष्यताम्

3.4.20

दर्शपूर्णमासप्रकरणे श्रूयते- ऽयो ब्राह्मणायावगुरेत्तं शतेन यातयेत् ।
तस्माद्ब्राह्मणाय नावगुरेतऽ इति ।
तत्र- यथा पूर्वाधिकरणे मन्त्रपाठस्य फलरहितस्य फलवति क्रतावङ्गत्वं प्रकरणेनावगम्यते, एवमत्रापि ब्राह्मणावज्ञानिषेधस्य क्रत्वङ्गत्वम्- इति चेत् ।
न ।
वैषम्यात् ।
पूर्वत्र हि - आत्मनि माणापानधारणं मन्त्रोच्चारणफलं न संभवति ।
तस्य प्रागेव सिद्धत्वात् ।
इह तु- अवगोरणे शतसंवत्सरयातनामुपन्यस्यावगोरणनिषेधा- द्यातनापरिहारस्य निषेधफलत्वमुचितम् ।
तस्मात्- निषेधस्य केवलपुरुषार्थतया प्रकरणा दुत्कर्षो युक्तः ॥ म्जैन्य्च्_3,4.18-19 ॥
(एकादशे मलवद्वासः संवादनिषेधाधिकरणे सूत्रे 24-25)
प्रागपरोधान् मलवद् वाससः । जैम्_3,4.24 ।
अन्नप्रतिषेधाच् च । जैम्_3,4.25 ।
स्तर्त् म्जैन्य् 3,4.20
एकादशाधिकरणमारचयति-
न संवदेत मलवद्वाससेत्यपि पूर्ववत् ।
पुमर्थः स्यात्क्रतौ क्वापि संवादस्याप्रसक्तितः

3.4.20

दर्शपूर्णमासप्रकरणे श्रूयते- ऽमलवद्वासत्ता न संवेदतऽ इति ।
-अस्य निषेधस्य प्रकरणा त्क्रत्वङ्गत्वम्- इति चेत् ।
मैवम् ।
अप्रसक्तप्रतिषेधप्रसङ्गात् ।
यस्य व्रत्ये ऽहनि पत्न्वनालम्भुका भवति, तामपरुध्य यजेतऽ इति रजस्वलाया निःसारणेन क्रतौ तत्संवादस्याप्रसक्तिः ।
तस्मात्- केवलपुरुषार्थस्यास्य प्रकरणादुत्कर्षः

3.4.21

(द्वादशे सुवर्णधारणादीनां पुरुषधर्मताधिकरणे सूत्राणि 26-30)
अप्रकरणे तु तद्धर्मस् ततो विशेषात् । जैम्_3,4.26 ।
अद्रव्यत्वात् तु शेषः स्यात् । जैम्_3,4.27 ।
वेदसंयोगात् । जैम्_3,4.28 ।
द्रव्यसंयोगाच् च । जैम्_3,4.29 ।
स्याद् वास्य संयोगवत् फलेन संबन्धस् तस्मात् कर्मैतिशायनः । जैम्_3,4.30 ।
स्तर्त् म्जैन्य् 3,4.21-23
द्वादशाधिकरणमारचयति-
हिरण्यं वर्णवद्भार्ये क्रत्वङ्गं भरणं भवेत् ।
हिरण्यसंस्कृतिर्वात्र वर्णो वोत पुमर्थता

3.4.22

वैदिकत्वात्क्रतुस्मृत्या तदङ्गं कर्मकारके ।
प्राधान्यात्संस्कृतिवर्णो गुणो ऽस्तु विधिलाघवात्

3.4.23

अनारभ्य श्रुतत्वेन नियता न क्रतुस्मृतिः ।
अतः पुमर्थता स्वर्गः कल्प्यो ऽन्यद्वास्तु रात्रिवत्

3.4.24

अनारभ्य श्रूयते- ऽतस्मात्सुवर्णे हिरण्यं भार्यम् ।
सुवर्ण एव भवति ।
दुवर्णो ऽस्य भ्रातृव्यो भवतिऽ इति ।
तत्र-यदेतच्छोभनवर्णोपेतहिरण्यधारणं तस्य वैदिकक्रियारूपत्वेन क्रतुस्मारकत्वात्क्रत्वङ्गं धारणम्- इत्येकः पक्षः ।
क्रत्वङ्गत्वे ऽपि नाऽरादुपकारकम्, किंतु क्रतृगतं हिरण्यं धारणेन संस्क्रियते ।
ऽभार्यम्ऽ इत्यत्र ण्यत्प्रत्ययस्य कर्मणि विहितत्वेन कर्मकारकस्य हिरण्यस्य प्राधान्यावगमात् - इति द्वितीयः पक्षः ।
वर्णविशिष्टधारणविधाने गौरवाद्धारणसहितं हिरण्यमनूद्य शोभनवर्णमात्रं विधेयम्- इति तृतीयः पक्षः ।
त्रेधापि- क्रत्वर्थो विधिः, न तु पुरुषार्थः- इति प्राप्ते-
ब्रूमः- यद्धिक्रतुप्रकरणे श्रुतम्, तस्यास्ति नियमेन क्रतुस्मारकत्वम् ।
इदं त्वनारभ्याधीतम् ।
न चात्र हिरण्यं जुह्वादिवत्क्रतावव्यभिचरितम्, येन क्रतुस्मृतिर्नियम्येत ।
ननु संस्कार्यत्वान्यथानुपपत्त्या क्रतुप्रवेशः स्यात् ।
नहि धारणेन संस्कृतस्य हिरण्यस्य लौकिकः कश्चिदुपयोगो ऽस्ति- इति चेत् ।
न ।
क्रतावप्युपयोगाभावात् ।
- क्रतूपयोगो ऽपि कल्प्यते- इति चेत् ।
न ।
ऽक्रतूपयोगित्वेन संस्कार्यत्वम्, तेन च क्रतूपयोगःऽ इत्यन्योन्याश्रयत्वात् ।
अतः क्रतौ नियन्तुमशक्यत्वात्पुरुषार्थमिदं धारणम् ।
न चात्र फलाभावः ।
विश्वजिन्न्यायेन स्वर्गस्य कल्प्यत्वात् ।
अथवा रात्रिसन्ने यथा वाक्यशेषेणार्थवादेन श्रुता प्रतिष्ठा कलत्वेन कल्पिता तथात्रापि ऽसुवर्ण एव भवति, दुर्र्वणो ऽस्य भ्रातृव्यःऽ इत्यर्थवादगतं फलमस्तु ।
तस्मात्- पुरुषार्थो धारणविधिः ॥ म्जैन्य्च्_3,4.21-23 ॥
(त्रयोदशे जयादीनां वैदिककर्माङ्गताधिकरणे सूत्राणि 31-33)
शेषाः प्रकरणे ऽविशेषात् सर्वकर्मणाम् । जैम्_3,4.31 ।
होमास् तु व्यवतिष्ठेर् अन्नाहवनीयसंयोगात् । जैम्_3,4.32 ।
शेषश् च समाख्यानात् । जैम्_3,4.33 ।
स्तर्त् म्जैन्य् 3,4.24-25
त्रयोदशाधिकरणमारचयति-
येनेर्त्सेत्कर्मणा तत्र जयाहोमे ऽखिलार्थता ।
वैदिकेष्वेव वा सर्वशेषो ऽसंकोचकत्वतः

3.4.25

होम आहवनीये स्यात्कृष्यादिषु न सो ऽस्ति हि ।
तेनानारभ्यपाठे ऽपि वैदिकेष्वेव ते जयाः

3.4.26

अनारभ्य श्रूयते- ऽयेन कर्मणेर्त्सेत् ।
तत्र जयां जुहुयात् ।
राष्ट्रभृतो जुहोति ।
अभ्यातानाञ्जुहोतिऽ इति ।
ईर्त्सेदृद्धिमिच्छेत् ।
ऽचित्तं च स्वाहाऽ इत्यादयो जयाः ऽऋताषाड्ऽ इत्यादयो राष्ट्रभृतः ।
ऽअग्निर्भूतानाम्ऽ- इत्यादयो ऽभ्यातानाः ।
तत्र- वैदिककर्मणेव लौकिककृष्यादिकर्मणाप्यृद्धेरिष्यमाणत्वात्, संकोचे कारणामावाज्जयादिहोमः सर्वशेषः- इति चेत् ।
मैवम् ।
ऽयदाहवनीये जुह्वति तेन सो ऽस्याभीष्टः प्रीतःऽ इति वाक्येन होममुद्दिश्याऽ हवनीयविधानात् ।
कृष्यादौ तदभावाद्वैदिकेष्वेव जयादिहोमः ॥ म्जैन्य्च्_3,4.24-25 ॥
(चतुर्दशे वैदिकाश्वप्रतिग्रह इष्टिकर्तव्यताधिकरणे सूत्रे 34-35)
दोषात् त्व् इष्टिर् लौकिके स्याच् छास्त्राद् धि वैदिक न दोषः स्यात् । जैम्_3,4.34 ।
अर्थवादो वानुपपातत् तस्माद् यज्ञे प्रतीयेत । जैम्_3,4.35 ।
स्तर्त् म्जैन्य् 3,4.26-28
चतुर्दशाधिकरणमारचयति-
अश्वप्रतिग्रहेष्टिस्तु दातुरित्यभिधास्यते ।
दानद्वये लौकिके वा वैदिके वा भवेदियम्

3.4.27

अविशेषाद्द्वयोर्यद्वा न देयः केसरीत्यतः ।
निषेधाल्लौकिकात्तत्र प्रायश्चित्तिरियं भवेत्

3.4.28

न जलोदरहेतुत्वं प्रमितं लौकिके क्वचित् ।
वैदिके तु श्रुतं तस्मात्तत्प्रायश्चित्तये ऽत्र सा

3.4.29

इदमाम्नायते-ऽयावतो ऽश्वान्प्रतिगृह्णीयात्तावतो वारुणाश्चतुष्कपालान्निर्वपेत्ऽ इति ।
तत्र ऽप्रतिग्रहशब्दो दानपरःऽ इत्यनन्तरमेव वक्ष्यते ।
तत्र-विशेषाश्रवणाल्लौकिकवैदिकदानयोरुभयो रप्यसाविष्टिः- इत्येकः पक्षः ।
ऽन केतरिणो ददातिऽ इति स्मृत्या मित्रदायादादिभ्यः प्रीत्या क्रियमाणं लोकिकमश्वदानं निषिद्धम् ।
तदनुष्ठाने प्रायश्चित्तरूपेयामिष्टिः- इति द्वितीयः पक्षः ।
ऽवरुणो वा एतं गृह्णाति यो ऽश्वं प्रतिगृह्णातिऽ इत्यश्वदाने जलोदख्याधिरूपो दृष्टदोषो वरुणग्रहवाक्येनोच्यते ।
न च लौकिकस्याश्वदानस्य तद्धेतुत्वं प्रमितम् ।
वैदिकस्य तु जन्मान्तरविषयं दोषश्रवणम् ।
अतो वैदिकदाने सेष्टिः प्रायश्चित्तम् ।
अस्ति हि वैदिकमश्वदानम् ।
ऽवडवा दक्षिणाऽ इत्यादिश्रवणात् ॥ म्जैन्य्च्_3,4.26-28 ॥
(पञ्चादशे दातुर्वारुणीष्ट्यधिकरणे सूत्रे 36-37)
अचोदितं च कर्मभेदात् । जैम्_3,4.36 ।
सा लिङ्गाद् आर्त्विजे स्यात् । जैम्_3,4.37 ।
स्तर्त् म्जैन्य् 3,4.29-30
पञ्चदशाधिकरणमारचयति-
यावतः प्रतिगृह्णीयादश्वांस्तावत्य इष्टयः ।
प्रतिग्रहीतुर्दातुर्वा स्यादाद्यो ऽस्तु यथाविधि

3.4.30

असंजातविरोध्यर्थवादाद्दातुः प्रजापतेः ।
इष्टिः श्रुता ततो दातुर्णिजर्थे ऽपि विधिं नयेत्

3.4.31

पूर्वोदाहृते वाक्ये ऽप्रतिगृह्णीयात्ऽ इति विधिपदश्रवणात्प्रतिग्रहीतुरिष्टिः- इति चेत् ।
न ।
उपक्रमरूपेणार्थवादेन दातुस्तदिष्टिप्रतीतेः ।
उपक्रमश्चैवं श्रूयते- ऽप्रजापतिवरुणायाश्वमनयत्, स स्वां देवतामार्छत् ।
स पर्यदीर्यत, स एतं वारुणं चतुष्कपालमपश्यत्, तं निरवपत्, ततो वै स वरुणपाशादमुच्यतऽ इति ।
अनयद्वत्तवान् ।
स च दाता प्रजापतिः स्वकीयां वरुणदेवतां जलोदररोगप्रदां प्राप्तवान ।
तेन च रोगेण ग्रस्तः स प्रजापतिर्विदीर्णो भूत्वा रोगपरिहारायेष्टिं कृत्वा रोगादमुच्यत, इत्यत्र- दातुरिष्टिः- इत्यवगम्यते ।
असंजातविरोध्युपक्रमानुसारेण विधावकपदमपि ऽप्रतिग्राहयेत्ऽ इत्येवमन्तर्भावितणिजर्थपरतया व्याख्यैयम् ॥ म्जैन्य्च्_3,4.29-30 ॥
(षोडशे वैदिकपानव्यापदधिकरणे सूत्रे 38-39)
पानव्यापच् च तद्वत् । जैम्_3,4.38 ।
दोषात् तु वैदिके स्याद् अर्थाद् धि लौकिके न दोषः स्यात् । जैम्_3,4.39 ।
स्तर्त् म्जैन्य् 3,4.31-32
षोडशाधिकरणमारचयति-
सोमवामिचरुर्लोके वेदे वेन्द्रियसंक्षयः ।
दृष्टदोषो लोकिके ऽतो वमने विहितश्चरुः

3.4.32

अदोषो वमनायैव लोके पानं श्रुतौ पुनः ।
जरणाय ततो वान्तिदोषशान्त्यै भवेच्चरुः

3.4.33

इदमाम्नायते- ऽसौमेन्द्रं चरुं निर्वपेच्छ्यामाकं सोमवामिनःऽऽ इति ।
तत्र-लौकिके सोमवमने विहितो ऽयं चरुः ।
कुतः ।
ऽवि वा एष इन्द्रियेण वीर्येण व्यृध्यवे यः सोमं वमतिऽ इति दृष्टदोषमुपन्यस्य तच्छान्तये चरुविधानात् - इति चेत् ।
मैवम् ।
लोके धातुसाम्यार्थिनो वमनायैव सोमस्य पाने सति वमनस्य दोषहेतुस्वाभावात् ।
वेदे तु ऽहिन्व मे गात्रा हरिवःऽ इत्यनेन मन्त्रेण जरयितुं सोमः पीयते ।
तत्र वमनप्रायश्चित्तार्थो ऽयं चरुः ॥ म्जैन्य्च्_3,4.31-32 ॥
(सप्तदशे सौमेन्द्रचरोर्यजमानपानव्यापद्विषयताधिकरणे सूत्राणि 40-42)
तत्सर्वत्राविशेषात् । जैम्_3,4.40 ।
स्वामिनो वा तदर्थत्वात् । जैम्_3,4.41 ।
लिङ्गदर्शनाच् च । जैम्_3,4.42 ।
स्तर्त् म्जैन्य् 3,4.33
सप्तशाधिकरणमारचयति-
ऋत्विजां वमने ऽप्येष कर्तुरेवोत वर्जनात् ।
विशेषस्याग्रिमो मैवं कर्तुरेव निरुप्तितः

3.4.33

ऽईदृशस्य सोमस्य वमने चरुःऽ इति विशेषस्याभावादृत्विजां यजमानस्य च वमने सर्वत्रासौ चरुः- इति चेत् ।
मैवम् ।
ऽयो वमति स निर्वपतिऽ इति निर्वप्तुर्वमनं चरुनिमित्तम् ।
निर्वप्ता च यजमानः ।
ऋत्वियो निर्वप्तृत्वे ऽधिकार्यन्तरत्वप्रसङ्गात् ।
तस्मात्- यजमानस्यैव वमने चरुविधिः

3.4.34

(अष्टादशे - आग्नेयाष्टाकपालचरोर्द्व्यवदानमा-
त्रस्य होतव्यताधिकरणे सूत्राणि 43-47)
सर्वप्रदानं हविषस् तदर्थत्वात् । जैम्_3,4.43 ।
निरवदानात् तु शेषः स्यात् । जैम्_3,4.44 ।
उपायो वा तदर्थत्वात् । जैम्_3,4.45 ।
कृतत्वात् तु कर्मणः सकृत् स्याद् द्रव्यस्य गुणभूतत्वात् । जैम्_3,4.46 ।
शेषदर्शनाच् च । जैम्_3,4.47 ।
स्तर्त् म्जैन्य् 3,4.34
अष्टादशाधिकरणमारचयति-
यागे हविस्त्यजेत्कृत्स्नं को ऽप्यंशः शिष्यते ऽपि वा ।
देवार्थत्वाद्यजेत्सर्वे शिष्यते द्विरवत्ततः

3.4.34

ऽआग्नेयो ऽष्टाकपालःऽ इत्यत्र कृत्स्नो ऽपि पुरोडाशो ऽग्नये त्यक्तव्यः ।
तद्धितेन कृत्स्नस्याग्निदेवतासंबन्धावगतेः ।
त्यागमन्तरेणैतदनुपपत्तिः- इति चेत् ।
मैवम् ।
ऽद्विर्हविषो ऽवद्यतिऽ इत्यवदानद्वयं श्रूयते ।
अवदेयं चाङ्गुष्ठपर्वमावम् ।
तथा च कल्पसूत्रकारः- ऽआग्नेयस्य पुरोडाशस्य मध्यादङ्गुष्ठपर्वमात्रमवदानं तिरश्चीनमवद्यतिऽ इति ।
ततो हविषः सकाशादङ्गुष्ठपर्वद्वयमात्रं खण्डयित्वा त्यक्तव्यम् ।
इतरच्छेषणीयम् ।
देवतासंबन्धश्चांशद्वारेणाप्युपयुज्यते

3.4.35

अप्रयोजकत्वाद् एकस्मात् क्रियेरञ् शेषस्य गुणभूतत्वात् । जैम्_3,4.48 ।
संस्कृतत्वाच् च । जैम्_3,4.49 ।
सर्वेभ्यो वा कारणाविशेषात् संस्कारस्य तदर्थत्वात् । जैम्_3,4.50 ।
लिङ्गदर्शनाच् च । जैम्_3,4.51 ।
स्तर्त् म्जैन्य् 3,4.35
एकोनविंशाधिकरणमारचयति-
शेषात्स्विष्टकृदेकस्मात्सर्वेभ्यो वैकतः कृते ।
शास्त्रार्थसिद्धिःसर्वेभ्यः कार्यः संस्कारसाम्यतः

3.4.35

दर्शपूर्णमासयोः श्रूयते- ऽशेषात्स्विष्टकृते समवद्यतिऽ इति ।
तत्र-आग्नेयादीनां त्रयाणां हविषां मध्ये यस्य कस्यचिदेकस्य हविषः शेषादवदातव्यम् ।
तावतैव शास्त्रार्थानुष्ठानसिद्धः- इति चेत् ।
मैवम् ।
उपयुक्तं हविः संस्कर्तुमिदमवदीयते ।
संस्कारश्च सर्वेष्वपि हविःषु समानः ।
तस्मात्- सर्वेभ्यो हविःशेषेभ्यः स्विष्टकृदनुष्ठेयः

3.4.36

(विंशे प्राथमिकशेषात्स्विष्टकृदनुष्ठानाधिकरणे सूत्रे 52-53)
एकस्माच् चेद् यथाकाम्यम् अविशेषात् । जैम्_3,4.52 ।
मुख्याद् वा पूर्वकालत्वात् । जैम्_3,4.53 ।
स्तर्त् म्जैन्य् 3,4.36
विंशाधिकरणमारचयति-
यदैकस्मात्तदा मुख्यनियातिर्नोत विद्यते ।
नाश्रुतेरस्ति मुख्यातिक्रमणे हेत्वभावतः

3.4.36

ऽएकस्मादेव हविःशेषात्स्विष्टकृत्ऽ इति यः पूर्वाधिकरणे पूर्वपक्षः, तस्मिन्पक्षे नियामकस्याश्रुतत्वात्-
यस्मात्कस्माच्चिद्धविःशेषात्- इति प्राप्ते, -
ब्रूमः- प्रथमातिक्रमे मानाभावात्प्रथमहविःशेषेणैव संस्कारासिद्धावितरत्र प्राप्त्यभावादस्ति नियतिः

3.4.37

(एकविंशे पुरोडाशविभागस्य भक्षार्थताधिकरणे सूत्राणि 54-57)
भक्षाश्रवणाद् दानशब्दः परिक्रये । जैम्_3,4.54 ।
तत्संस्तवाच् च । जैम्_3,4.55 ।
भक्षार्थो वा द्रव्ये समत्वात् । जैम्_3,4.56 ।
व्यादेशाद् दानसंस्तुतिः । जैम्_3,4.57 ।
स्तर्त् म्जैन्य् 3,4.37-38
एकविंशाधिकरणमारचयति-
इदं ब्रह्मण इत्यक्तिः क्रयार्था भक्षणाय वा ।
भक्षाश्रुतेः क्रयार्थातो यथेष्टं तैर्नियुज्यताम्

3.4.38

देवताय समस्तस्य कॢप्तत्वात्स्वामिता न हि ।
शेषस्य प्रतिपत्त्यर्थे भक्षणं तत्र युज्यते

मूल पाठ: Jaiminīyanyāyamālāvistara a metrical exposition of Jaimini's Mīmāṃsāsūtra, with Mādhava's prose commentary · Edition: Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc