जैमिनीयन्यायमालाविस्तर · अध्याय 3.5
चतुर्धाकृतपुरोडाशस्य भागान्यजमान एवं निर्दिशेत्- ऽइदं ब्रह्मणः, इदं होतुः, इदमध्वर्योः, इदमग्नीधः, इति ।
सो ऽयं निर्देश न भक्षणार्थः ।
भक्षणस्याश्रुतत्वात् ।
ततो भृतिदानेन तानृत्विजः परिक्रेतुमयं निर्देशः कृतः ।
क्रयश्च तदङ्गीकारानुसारेण स्वल्पेनाप्युपपद्यते ।
तस्मात्स्वकीया भागास्तैरिच्छयोपयोक्तुं शक्याः- इति प्राप्ते, -
ब्रूमः- ऽअग्नेय जुष्टं निर्वपामिऽ इति कृत्स्नस्य हविषो देवतार्थे संकल्पितत्वेन तत्र यजमानस्य स्वामित्वाभावान्न युक्तः परिक्रयः ।
भक्षणं तु प्रतिपत्त्यर्थत्वाद्युक्तम् ।
अवशिष्टस्य यः को ऽप्युपयोगः प्रतिपत्तिः ।
पुरोडाशस्य भक्षणाहत्वाद्भक्षणेन कर्मकराणामृत्साहजननाच्च भक्षणार्थो ऽयं निर्देशो युज्यते ॥ म्जैन्य्च्_3,4.37-38 ॥
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य चतुर्थः पादः
अथ तृतीयाध्यायस्य पञ्चमः पादः ।
(प्रथमे प्रवाज्यादिभिः स्विष्टकृदादिशेषाननुष्ठानाधिकरणे सूत्राणि 1-12 )
आज्याच् च सर्वसंयोगात् । जैम्_3,5.1 ।
कारणाच् च । जैम्_3,5.2 ।
एकस्मिन् समवत्तशब्दात् । जैम्_3,5.3 ।
आज्ये च दर्शनात् स्विष्टकृदर्थवदस्य । जैम्_3,5.4 ।
अशेषत्वात् तु नैवं स्यात् सर्वादानाद् अशेषता । जैम्_3,5.5 ।
साधारण्यान् न ध्रुवायां स्यात् । जैम्_3,5.6 ।
अक्तत्वाच् च जुह्वां तस्य च होमसंयोगात् । जैम्_3,5.7 ।
चमसवद् इति चेत् । जैम्_3,5.8 ।
न चोदनाविरोधाद् धविः प्रकल्पनाच् च । जैम्_3,5.9 ।
उत्पन्नाधिकारात् सति सर्ववचनम् । जैम्_3,5.10 ।
जातिविशेषात् परम् । जैम्_3,5.11 ।
अन्त्यम् अरेकार्थे । जैम्_3,5.12 ।
स्तर्त् म्जैन्य् 3,5.1-2
पञ्चमपादस्य प्रथमाधिकरणमारचयति
उपांशुयाजद्रव्येण शेषकार्ये भवेन्न वा ।
भवेद्धविर्भ्यः सर्वेभ्य इत्युक्त्या प्रापितत्वतः
उक्ताज्यद्रव्यशेषस्तु भाव्युपस्तरणादिकृत् ।
अतो न प्रतिपत्त्यर्हः शेषकार्ये ततः कथम्
ध्रौवादाज्याजुपांशुयाजार्थमवदाने कृते तच्छेषेण ध्रौवेण द्रव्येण स्विष्टकृदादिकं शेषकार्य कर्तव्यम् ।
कुतः ।
ऽतद्यत्सर्वेभ्यो हविर्भ्यः समवद्यतिऽ इति वाक्येन प्रापितत्वात्- इति चेत् ।
मैवम् ।
कृतार्थद्रव्यशेषो ह्युपयोगापेक्षः प्रतिपत्तिमर्हति ।
ध्रौवं त्वाज्यं न कृतार्थम् ।
तेन कर्तव्यानामुपस्तरणादीनां सद्भावात् ।
तस्मात् - न तेन शेषकार्ये भवति ॥ म्जैन्य्च्_3,5.1-2 ॥
(द्वितीये साकंप्रस्थाय्ये शेषकर्माननुष्ठानाधिकरणे सूत्रम् -)
साकंप्रस्थाय्ये स्विष्टकृद् इडं च तद्वत् । जैम्_3,5.13 ।
स्तर्त् म्जैन्य् 3,5.3-4
द्वितीयाधिकरणमारचयति-
आक्रामन्सह कुम्भीभिरस्ति शेषक्रिया न वा ।
जुह्वावदानात्प्रकृताविव शेषक्रियोचिता
कुम्भीषु शेषासंसिद्धःसाकंप्रस्थाय्यकर्मणि ।
न स्विष्टकृदिडं कार्यमग्नीधः स्त्रुक्प्रदानतः
ऽसाकंप्रस्थायीयेन यजेत पशुकामःऽ इति विहिते कर्मणि श्रूयते- ऽसह कुम्भीभिरभिक्रामन्नाहऽ इति ।
तत्र चतसृभिर्दधिपयःकुम्भीभिः सहाऽहवनीयदेशे ऽभिक्रमण मात्रं श्रुतम् ।
न तु तत्र कुम्भीभिर्होमः श्रुतः ।
तथा सत्यस्य कर्मणः सांनाय्यविकृत्तित्वाज्जुह्वा कुम्भीभ्यो ऽवदाय होतव्यम् ।
हुतशेषेण च स्विष्टकृदादिकं सांनाय्यशेषेणैव कर्तव्यम्- इति प्राप्ते, -
ब्रूमः- नात्र कुम्भीषु हुतशेषः सिध्यति ।
सांनाय्यवज्जुह्वा तदवदानाभावात् ।
ऽअग्नीधे स्त्रुचौ प्रदाय सह कुम्भीभिरभिक्रामन्ऽ इत्युक्त्या जुहूपभृतोः प्रत्तत्वादभिक्रमणस्य होमार्थत्वाच्च कुम्भीभिरेव दधिपयसोर्होमे सति कुम्भीमात्रामवशिष्यते, न तु हविःशेषः ।
तत्र कुतः शेषकार्यम् ॥ म्जैन्य्च्_3,5.3-4 ॥
(तृतीये सौत्रामण्यां शेषकर्माननुष्ठानाधिकरणे सूत्रे 14-15)
सौत्रामण्यां च ग्रहेषु । जैम्_3,5.14 ।
तद्वच् च शेषवचनम् । जैम्_3,5.15 ।
स्तर्त् म्जैन्य् 3,5.5
तृतीयाधिकरणमारचयति-
सौत्रामण्यां ग्रहे स्विष्टकृदाद्यस्ति न वास्ति तत् ।
शेषणान्न सुराक्षीरयोरन्यत्रोपयोगतः
सौत्रामणिनामके यागे श्रूयते - ऽपयोग्रहाः सुराग्रहाश्च गृह्यन्तेऽ इति ।
तत्र प्रकृतिगत सोमद्यहेष्विव शेषकार्ये स्विष्टकृदादिकमस्ति ।
न चात्र पूर्ववच्छेषाभावः ।
ऽउच्छिनष्टि, न सर्वे जुहोतिऽ इत्यवशेषयितव्यत्वश्रवणात्- इति चेत् ।
मैवम् ।
अवशिष्टस्यान्यत्रोपयोगश्रवणात् ।
ऽब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारम्ऽ इति श्रूयते ।
ऽयदि ब्राह्मणं न विन्देत, वल्मीकवपायामवनयेत्ऽ इति च ।
ऽशतातृणायामवनेयत्ऽ इति च ।
शतच्छिद्रा कुम्भी शतातृणा ।
तस्मात्- नास्ति स्विष्टकृदादिकम्
(चतुर्थे सर्वपृष्ठेष्टौ स्विष्टकृदिडादीनां सकृदनुष्ठानाधिकरणे सूत्रे 16-17)
द्रव्यैकत्वे कर्मभेदात् प्रतिकर्म क्रियेरन् । जैम्_3,5.16 ।
अविभागाच् च शेषस्य सर्वान् प्रत्यविशिष्टत्वात् । जैम्_3,5.17 ।
स्तर्त् म्जैन्य् 3,5.6-7
चतुर्थाधिकरणमारचयति-
रथंतरादिभिर्मिन्ना इन्द्रास्तेषां न भिद्यते ।
पुरोडाशस्तत्र शेषकार्ये किं भिद्यते न वा
भिद्यते कर्मणां भेदाच्चौद्दकैः पृथगुक्तितः ।
शेषस्य सर्वतुल्यत्वात्तत्कार्ये सकृदिष्यताम्
ऽय इन्द्रियकामो वीर्यकामः स्यात्, तमेतया सर्वपृष्ठया याजयेत्ऽ इति विहितायामिष्टौ षडिन्द्रा एवं श्रूयन्ते- ऽइन्द्राय राथंतराय, इन्द्राय बार्हताय, इन्द्राय वैराजाय, इन्द्रायशाक्वराय, इन्द्राय रैवतायऽ इति ।
तत्र स्वरूपेणैको ऽपीन्द्रः पृष्ठस्तोत्रेषु षट्सु विहितानां षण्णां रथंतरादि साम्नां संबन्धेन विशेष्यमाणः षोठा भिद्यते ।
तासां सर्वासामिन्द्रदेवतानामेक एव पुरोडाशो विधीयते- ऽद्वादशकपालः पुरोडाशो भवति ।
वैश्वदेवत्वायऽ इति ।
तस्मिंश्च पुरोडाशे प्रोक्तदेवताभ्यः पृथक्पृथक्प्रदानाय बहुभ्यः प्रदेशेभ्यो ऽवदानं श्रूयते- ऽसमन्तं पर्यवद्यतिऽ इति ।
तत्र देवताभेदेन प्रदानभेदेन च कर्मणां भेदे सति पृथगतिदेशात्स्विष्टकृदिडादि शेषकार्ये षट्कृत्वः पृथक्कर्तव्यम् - इति चेत् ।
मैवम् ।
शेषस्यैकत्वेन तत्प्रतिपत्तेः पृथक्त्वासंभवात् ।
तस्मात्- सकृदेव कार्यम् ॥ म्जैन्य्च्_3,5.6-7 ॥
(पञ्चमे - ऐन्द्रवायवग्रहे द्विःशेषमक्षणाधिकरणे सूत्रम्)
ऐन्द्रवायवे तु वचनात् प्रतिकर्म भक्षः स्यात् । जैम्_3,5.18 ।
स्तर्त् म्जैन्य् 3,5.8
पञ्चमाधिकरणमारचयति-
ऐन्द्रवायवशेषस्य सकृद्भक्ष उतासकृत् ।
पूर्वन्यायात्सकृत्प्राप्तौ द्विर्भक्षो वचनाद्भवेत्
ज्योतिष्टोमे यो ऽयमैन्द्रवायवग्रहःऽ तत्र संस्कार्यस्य सोमस्यैकत्वात्सकृदेव शेषकार्यम्- इति चेत् ।
मैवम् ।
ऽद्विरैन्द्रवायवस्य भक्षयति, द्विर्ह्येतस्य वषट्करोतिऽ इति वचनाद्विर्भक्षणम्
(षष्ठे सोमे शेषभक्षणाधिकरणे सूत्राणि 19-21)
सोमे ऽवचनाद् भक्षो न विद्यते । जैम्_3,5.19 ।
स्याद् वान्यार्थदर्शनात् । जैम्_3,5.20 ।
वचनानि त्व् अपूर्वत्वात् तस्माद् यथोपदेशं स्युः । जैम्_3,5.21 ।
स्तर्त् म्जैन्य् 3,5.9
षष्ठाधिकरणमारचयति -
सोमेष्वभक्षो भक्षो वा न भक्षो ग्रहहोमतः ।
अल्पोक्तेरस्ति शेषो ऽस्य भक्षो ऽपूर्ववचोबलात्
सोमयागेषु शेषभक्षो नास्ति, ऽयद्ग्रहाञ्जुहोतिऽ इति कृत्स्नग्रहेणाऽहुति श्रवणात्कुम्भीष्विव शेषाभावात्- इति चेत् ।
मैवम् ।
ऽअल्पं जुहोतिऽ इति विशेषवचनाच्छेषः सिध्यति ।
तद्भक्षणं त्वपूर्वार्थ प्रतिपादकवचनेभ्यो ऽवगम्यते ।
ऽआश्विनं भक्षयन्तिऽ द्विरैन्द्रवायवस्य भक्षयन्तिऽ ऽसदसि भक्षयन्तिऽ इत्यादीनि वचनान्यपूर्वार्थ प्रतिपादयन्ति ।
ततो भक्षविधानादस्ति सोमेषु भक्षः
(सप्तमे चमसिनां शेषभक्षाधिकरणे सूत्रम्-)
चमसेषु समाख्यानात् संयोगस्य तन्निमित्तत्त्वात् । जैम्_3,5.22 ।
स्तर्त् म्जैन्य् 3,5.10
सप्तमाधिकरणमारचयति-
किं प्रैतु होतुश्र्चमस इत्यभक्षो ऽथ भक्षणम् ।
अभक्षो ऽनुक्तितो होतुश्र्वमसेत्याख्ययास्तु तत्
ज्योतिष्टोमे श्रूयते- ऽप्रैतु होतुश्र्वमसः, प्र ब्रह्मणः, प्रोद्वातॄणां, प्र यजमानस्य, प्रयन्तु सदस्यानाम्ऽ इति ।
तत्र- वचनामावादभक्षः- इति चेत् ।
मैवम् ।
समाख्यागते चमसशब्दे भक्षणस्य प्रतीयमानत्वात् ।
ऽचम्वते भक्ष्यते सोमो ऽस्मिन्पात्रविशेषेऽ इति हि तद्व्युत्पत्तिः ।
तस्मात्-ःअस्ति तद्भक्षणम्
(अष्टमे- उद्वातॄणां सह सुब्रह्मण्येन भक्षाधिकरणे सूत्राणि - 23-26)
उद्गातृचमसमेकः श्रुतिसंयोगात् । जैम्_3,5.23 ।
सर्वे वा सर्वसंयोगात् । जैम्_3,5.24 ।
स्तोत्रकारिणां वा तत्संयोगाद् बहुश्रुतेः । जैम्_3,5.25 ।
सर्वे तु वेदसंयोगात् कारणाद् एकदेशे स्यात् । जैम्_3,5.26 ।
स्तर्त् म्जैन्य् 3,5.11-13
अष्टमाधिकरणमारचयति -
प्रोद्वातॄणामिति ह्येक उद्गाता भक्षयेदुत ।
सर्वे ऽपि किंवा सुब्रह्मण्येनोक्ताः सामगायिनः
सहितास्तेन ते वाऽद्य उद्गातृश्रुतितो ऽखिलाः ।
बहुत्वाद्गानयोगेन तृतीयो रूढिबाधिते
योगे समाख्यया दण्डिन्यायादन्त्यो ऽत्र भाष्यगः ।
सदसि स्थित्यभावेन तृतीयो वातिंकोदितः
पूर्वोदाहृतवाक्ये ऽप्रोद्वातॄणाम्ऽ इत्यत्रैकस्यैव भक्षः ।
उद्वीथशब्दाभिधेयायाः सामभक्तेरु- द्गातर्युद्गातृप्रातिपदिकस्य रूढत्वात् - इत्येकः पूर्वपक्षः ।
ऽउद्गातॄणाम्ऽ इत्यस्य बहुत्वस्यैकस्मि न्नसंभवादुद्गात्रोपलक्षिताः षोडशर्त्विजः सर्वे ऽपि भक्षयेयुः- इति द्वितीयः ।
उद्गीथप्रस्तावप्रति हारान्तामभागानुद्वातृप्रस्तोतृप्रतिहर्तारः प्रयोगकाले गायन्ति ।
ऽउदुत्कर्षेण गायन्तिऽ इति योगेनोद्वातारस्त्रयो भक्षयेयुः- इति तृतीयः पक्षः ।
ऽरूढिर्योगमपहरतिऽ इति न्यायादेक एवोद्गाता ।
तेन च बहुवचनोपपत्तये प्रत्यासन्ना उपलक्ष्यन्ते ।
प्रत्यासत्तिश्च प्रस्तोतृप्रतिहर्त्रोरिव सुब्रह्मण्यस्याप्यस्ति ।
सामवेदाध्यायित्वेन सुब्रह्मण्याह्वानरूपे तदीयकर्मण्यप्यौद्गात्रसमाख्यायाः सत्त्वात् ।
तस्मात्- ऽसुब्रह्मण्येन सहिताश्चत्वारः सामगा भक्षयेयुःऽ- इत्ययमन्त्यः पक्षो भाष्यकारस्याभिमतः ।
वार्तिककारस्तु - सदसो भक्षणस्थानत्वात्सुब्रह्मण्यस्य सदस्यप्रवेशात्तेन विरहिता अवशिष्टाः सामगा भक्षयन्ति- इति तृतीयं पक्षमङ्गीचकार ॥ म्जैन्य्च्_3,5.11-13 ॥
(नवमे प्रावस्तुतो ऽपि सोमभक्षणाधिकरणे सूत्राणि 27-30)
ग्रावस्तुतो भक्षो न विद्यते ऽनाम्नानात् । जैम्_3,5.27 ।
हारियोजने वा सर्वसंयोगात् । जैम्_3,5.28 ।
चमसिनां वा संनिधानात् । जैम्_3,5.29 ।
सर्वेषां तु विधित्वात् तदर्था चमसिश्रुतिः । जैम्_3,5.30 ।
स्तर्त् म्जैन्य् 3,5.14-15
नवमाधिकरणमारचयति-
किं स्याच्चमसिनामेव हारियोजनभक्षणम् ।
सर्वेषां वाग्रिमस्तेषां पूर्ववाक्येण संनिधेः
लिप्सन्ते सर्व एवेति हारियोजनवाक्यतः ।
प्रावस्तुतो ऽप्यस्ति भक्षश्चमसित्वमकारणम्
ऽहरिरसि हारियोजनःऽ इत्यनेन मन्त्रेण गृह्यमाणो ग्रहो हारियोजनः ।
होतृब्रह्मादय श्चमसिमः ।
यस्तु चतुर्णो होतॄणां मध्ये चतुर्थो ग्रावस्तुन्नामके ऽस्ति, नासौ चमसी ।
तत्र चमसिनामेव हारियोजनभक्षणम् ।
कुतः-"यथाचमसमन्यांश्चमसांश्चमसिनो भक्षयन्ति, अथैतस्य हारियोजनस्य सर्व एव लिप्सन्तेऽ इत्यत्र पूर्ववाक्ये चमसिनां संनिहित्वेनोत्तरवाक्ये सर्वशब्देन तेषामेवाभिधातव्यत्वात् ।
अतो नास्ति ग्रावस्तुतस्तत्र भक्षः- इति प्राप्ते-
ब्रूमः- अथशब्देनैवकारेण च चमसिमात्रशङ्कामपोद्य वाक्येन विहितस्य सर्वमक्षणस्य संनिधिमात्रेण संकोचायोगादस्ति ग्रावस्तुतो ऽपि भक्षः ।
तस्मात्- चमसित्वं न भक्षणे कारणम् ॥ म्जैन्य्च्_3,5.14-15 ॥
(दशमे वषट्करणस्यभक्षनिमित्तताधिकरणे सूत्रम् -)
वषट्काराच् च भक्षयेत् । जैम्_3,5.31 ।
स्तर्त् म्जैन्य् 3,5.16-17
दशमाधिकरणमारचयति-
आद्यमक्षो वषट्कर्तुर्विधिः प्राथम्य एव किम् ।
किंवा तद्युक्तभक्षे स्याद्वषट्कारनिमित्तके
अप्राप्तेरग्रिमो मैवं समासस्थित्यसंभवात् ।
विशिष्टस्य विधिस्तस्माद्वषट्कारो ऽपि कारणम्
ऽवषट्कर्तुः प्रथमभक्षःऽ इत्येवं श्रूयते ।
वषट्कर्ता होता ।
तस्य भक्षणं समाख्याया प्राप्तम् ।
प्राथम्यं त्वप्राप्तमिति तदेवात्र विधियते - इति चेत् ।
मैवम् ।
ऽप्रथमभक्षःऽ इत्यस्य समस्तपदत्वेन ऽयो भक्षः, स प्रथमःऽ इत्येयं विच्छिद्यान्वे तुमयोग्यत्वात्प्राथम्पविशिष्टभक्षणमत्र विधीयते ।
तस्मिन्भक्षणे वषट्कारः कारणम् ॥ म्जैन्य्च्_3,5.16-17 ॥
(एकादशे होमाभिषवयोरपि भक्षनिमित्तताधिकरणे सूत्रम्-)
होमाभिषवाभ्यां च । जैम्_3,5.32 ।
स्तर्त् म्जैन्य् 3,5.18-19
एकादशाधिकरणमारचयति-
आख्यावचोवषट्कारा एव किं भक्षहेतवः ।
किंवाभिषवहोमौ च तत्राऽद्यो ऽस्तूक्तया दिशा
हविर्धाने ऽभिषुत्याथ हुत्वा सदसि भक्षयेत् ।
इति श्रुतत्वतस्तौ च भक्षहेतू यथेत्तरे
ऽप्रैतु होतुश्चमसःऽ इत्यत्र समाख्या भक्षहेतुः ।
हारियोजने वाक्यम् ।
ऽवषट्कर्तुः प्रथमभक्षःऽ इत्यत्र वषट्कारः ।
इत्येवमुक्तत्वात्रय एव भक्षहेतवः- इति चेत् ।
मैवम् ।
ऽहविर्धाने ग्रावभिरभिषुत्याऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षान्भक्षयन्तिऽ इति श्रूयते ।
उत्तरवेद्याः प्रतीचीने सदसः प्राचीने मण्डले ऽमिषवः ।
उत्तरवेद्यां होमः ।
सदसि भक्षणम् ।
तत्र- अभिषवहोमयोर्वचनान्तरप्राप्तयोरविधेयतया तौ निमित्तत्वेनानूद्य भक्षणं विधीयते ।
तस्मात्- समाख्यादिवदेतयोरपि भक्षणहेतुत्वमस्ति ॥ म्जैन्य्च्_3,5.18-19 ॥
(द्वादशे वषट्कर्त्रादीनां चमसे सोमभक्षाधिकरणे सूत्राणि 33-35)
प्रत्यक्षोपदेशाच् चमसानाम् अव्यक्तः शेषे । जैम्_3,5.33 ।
स्याद् वा कारणभावाद् अनिर्देशश् चमसानां कर्तुस् तद्वचनत्वात् । जैम्_3,5.34 ।
चमसे चान्यदर्शनात् । जैम्_3,5.35 ।
स्तर्त् म्जैन्य् 3,5.20-21
द्वादशाधिकरणमारचयति-
हेतुसंघे विकल्पः किं बाधो वाथ समुच्चयः ।
साम्याद्विकल्पो बाध्यन्तां सावकाशाः समाख्यया
नैव वाचनिकं बाध्यं भक्षणे ऽत्र विभागशः ।
सिद्धेविकल्पो नो युक्तः स्वीकार्यो ऽतः समुच्चयः
ऽप्रैतु होतुश्चमसः, प्र ब्रह्मणःऽ- इत्यत्र चिमसिषु समाख्या भक्षणे हेतुः ।
ऽवषट्कर्तुः प्रथमभक्षःऽ इत्यत्र वषट्कारो होतुर्भक्षहेतुः ।
ऽहविर्धाने ग्रावमिरभषुत्याऽहवनीये हुत्वा सदसि भक्षयन्तिऽ इत्यत्राभिषवसहितो होमो ऽध्वर्योर्भक्षहेतुः ।
तत्र चमसवषट्कारयोः संघो होतरि प्राप्तः ।
चमसाभिषवसंघो ऽध्वर्यौ प्राप्तः ।
तत्र हेतुद्वयस्य समानबलत्वाद्विकल्पे सत्यन्यतर निमित्तकृतमेवं भक्षणम्- इत्याद्यः पक्षः ।
वषट्कारादिहेतोश्चमसेतरग्रहे सावकाशत्वान्निरवकाशया चमसिसमाख्यया तद्बाधे सति चमसिषु पाक्षिकमपि वषट्कारादि हेतुकं भक्षणं नास्ति- इति द्वितीयः पक्षः ।
ऽवषट्कर्तुःऽ इत्यादिवाक्यस्य प्रबलत्वात्समाख्यया बाधो न युक्तः ।
मिरवकाशतया सापि प्रबला- इति चेत् ।
तर्हि प्रमाणद्वयेन पृथग्भक्षणे विहिते समुच्चयो ऽभ्युपेयः, न च व्रीहियववद्विकल्पः ।
तत्र पुरोडाशानिष्पादनस्य दृष्टप्रयोजनस्यैकत्वात् ।
इह तु नियमादृष्टार्थे भक्षणम् ।
तच्चादृष्टं यथावचनं द्विविधम् ।
तस्मात्समुच्चयः ॥ म्जैन्य्च्_3,5.20-21 ॥
(त्रयोदशे होतुः प्रथमभक्षाधिकरणे सूत्राणि 36-39)
एकपात्रे क्रमाद् अध्वर्युः पूर्वो भक्षयेत् । जैम्_3,5.36 ।
होता वा मन्त्रवर्णात् । जैम्_3,5.37 ।
वचनाच् च । जैम्_3,5.38 ।
कारणानुपूर्व्याच् च । जैम्_3,5.39 ।
स्तर्त् म्जैन्य् 3,5.22-23
त्रयोदशाधिकरणमारचयति-
एकपात्रे किमध्वर्युरद्यात्पूर्वप्रुतेतरः ।
तद्धस्ते पात्रसंस्थानात्तस्य प्रथमभक्षणम्
पाहि होतेव नः पूर्वमिति मन्त्रेण पूर्वता ।
वषट्कर्तुस्तदुक्तेश्च न्यायबाध्यं वचो नहि
एकस्मिन्पात्रे वहनां क्वचिद्विहितं भक्षणम्- तत्र- अध्वर्युः प्रथमं भक्षयेत्पात्रसंनिधानात् - इति चेत् ।
मैवम् ।
लिङ्गवाक्याभ्यां होतुः प्रथममक्षावगमात् ।
ऽहोतेव नः प्रथमः पाहिऽ इति ऋत्विजो ऽध्वर्यु संबोध्यैवं प्रार्थयन्ते- ऽयथा होतास्मत्तः पूर्वे भक्षयित्वा शेषप्रदानेनास्मान्पालितवान्, तथा त्वमपि वाहिऽ इति ।
तदेतद्धोतुः प्रथमभक्षे लिङ्गम् ।
वाक्यं चैवमाम्नातम्- ऽवषट्कर्तुः प्रथमभक्षःऽ इति ।
तत्र विशिष्टविधानात्प्राथम्यमिप सिध्यति ।
न चैतद्वचनं पात्रसंनिधिरूपेण न्यायमात्रेण बाधितुं शक्यम् ।
तस्मात् - होता प्रथमं भक्षयेत् ॥ म्जैन्य्च्_3,5.22-23 ॥
(चतुर्दशे भक्षस्यानुज्ञापूर्वकत्वाधिकरणे सूत्रम् -)
वचनाद् अनुज्ञातभक्षणम् । जैम्_3,5.40 ।
स्तर्त् म्जैन्य् 3,5.24
चतुर्दशाधिकरणमारचयति-
नानुज्ञापूर्वको भक्षस्तत्पूर्वो वात्र लाघवात् ।
आद्यो नानुपहूतेन पेय इत्युक्तितो ऽन्तिमः
अनुज्ञाभक्षयोर्द्वयोरनुष्ठितौ गौरवाद्भक्षमात्रम् - इति चेत् ।
मैवम् ।
ऽतस्मात्सोमां नानुपहूतेन पेयःऽ इति वचनेनानुज्ञाया आवश्यकत्वात्
(पञ्चदशे वैदिकवचनेनानुज्ञापनाधिकरणे सूत्रम्)
तदुपहूत उपह्वयस्वेत्य् अनेनानुज्ञापयेल् लिङ्गात् । जैम्_3,5.41 ।
स्तर्त् म्जैन्य् 3,5.25
पञ्चदशाधिकरणमारचयति-
किमनुज्ञा लौकिकोक्त्या वेदोक्त्या वा यथा तथा ।
अविशेषादुपह्वानमन्त्रलिङ्गात्तु वैदिकी
ऽउपहूत उपह्वयस्यऽ- इत्ययं मन्त्रो लिङ्गेन मन्त्रमनुज्ञायां विनियुङ्क्ते ।
तस्मात्- वैदिकोक्त्या तदनुज्ञानम्
(षोडशे वैदिकवाक्येन प्रतिवचनाधिकरणे सूत्रम्-)
तत्रार्थात् प्रतिवचनम् । जैम्_3,5.42 ।
स्तर्त् म्जैन्य् 3,5.26-27
षोष्ठशाधिकरणमारचयति -
उपह्वयस्वोपहूत इत्यशेषो द्वयोर्भवेत् ।
अनुज्ञानुज्ञापनयोरथवासौ विभज्यते
विभागकरणाभावादशेषश्र्चेन्न लिङ्गतः ।
उपह्वयेत्वनुज्ञप्तावनुज्ञाने तथेतरः
ऽउपहूत उपहूवयस्वऽ इत्यस्मिन्मन्त्रे मध्यमपुरुषेकवचनान्तो भागः पश्चात्पठितो ऽपि प्रश्चसमत्वात्प्रथमभाविन्यनुज्ञापने समर्थः ।
प्रथमैकवचनान्तस्तु प्रथमपठितो ऽप्युत्तरसमानत्वा त्पश्चाद्भाविन्यामनुज्ञायां समर्थः ।
तस्मात्- लिङ्गेन विभज्य विनियुज्यते ॥ म्जैन्य्च्_3,5.26-27 ॥
(सप्तदशे- एकपात्राणामनुज्ञापनाधिकरणे सूत्रम् - )
तदेकपात्राणां समवायात् । जैम्_3,5.43 ।
स्तर्त् म्जैन्य् 3,5.28
सप्तदशाधिकरणमारचयति-
उपह्वानमशेषाणामुत स्यादेकपात्रिणाम् ।
अदृष्टहेतोराद्यः स्याद्दृष्टाधिक्यादितो ऽन्तिमः
अनुज्ञापनस्यादृष्टं प्रयोजनम् ।
तच्च विभिन्नपात्रेष्वपि समानम्- इति चेत् ।
न ।
दृष्टप्रयोजनस्य सद्भावात् ।
साधारणे वस्तुनि कथंचिद्भागाधिक्ये ऽपराधो भवति ।
अतो न्यूनाधिकत्वपरिहारनिमित्तमनुज्ञापनमेकपात्रिणामेव
(अष्टादशे स्वयंयष्टुर्भक्षास्तित्वाधिकरणे सूत्राणि 44-45)
याज्यापनयेनापनीतो भक्षः प्रवरवत् । जैम्_3,5.44 ।
यष्टुर् वा कारणागमात् । जैम्_3,5.45 ।
प्रवृत्तत्वात् प्रवरस्यानपायः । जैम्_3,5.46 ।
स्तर्त् म्जैन्य् 3,5.29-30
अष्टादशाधिकरणमारचयति-
होतुर्याज्यापनीतौ किं न वषट्कारभक्षयोः ।
अपनीतिरुतापायो नापनीतिर्विभेदतः
यजमानेन यष्टव्यं न विनेष्टिर्वषट्कृतिम् ।
वषट्कारो याज्ययातः सहापैत्यदनं तथा
ज्योतिष्टोम ऋतुयाजनामकेषु यागेष्वाम्नायते-"यजमानस्य याज्या सो ऽभिप्रेष्यति- होतरेतद्यज- इति, स्वयं वां निषद्य यजति"इति ।
हौत्रे काण्डे समाम्नाता याज्याः समाख्यया होतुः प्राप्ताः ।
तासु काचिद्याज्या होतुरपनीय यजमानस्य विधीयते ।
ततो यजमानः स्वेच्छया होतारं वा प्रेष्यति, स्वयं वा याज्यां पठति ।
तत्र त्वपाठपक्षे याज्या होतुरपनीयते, न तु वषट्कारभक्षावपनीयेते ।
तयोर्याज्यायामनन्तर्भावात् ।
अतो होता वषट्करोति भक्षयति च इति प्राप्ते, -
ब्रूमः- ऽस्वयं वा निषद्य यजतिऽ इति पक्षस्वीकाराद्यजमानेन स्वयं यागः कर्तव्यः ।
स च यागो वषट्कारमन्तरेण न संभवति ।
ऽयाज्याया अधि वषट्करोतिऽ इति तद्विधानात् ।
ननु- यजमानो याज्यां पठतु, होता वषट्करोतु- इति चेत् ।
मैवम् ।
ऽअनवानं यजतिऽ इति याज्यावषट्कारयोर्मध्ये श्वासनिषेधेनैककर्तृकत्वावगमात् ।
अतो याज्यया सह वषट्कारो होतुरपैति ।
तदपाये वषट्कारनिमित्तो भक्षश्च होतुरपेत्य यजमाने निविशते ॥ म्जैन्य्च्_3,5.29-30 ॥
(एकोनविंशे फलचमसस्येज्याविकारताधिकरणे सूत्राणि 47-51)
फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् । जैम्_3,5.47 ।
इज्याविकारो वा संस्कारस्य तदर्थत्वात् । जैम्_3,5.48 ।
होमात् । जैम्_3,5.49 ।
चमसैश् च तुल्यकालत्वात् । जैम्_3,5.50 ।
लिङ्गदर्शनाच् च । जैम्_3,5.51 ।
स्तर्त् म्जैन्य् 3,5.31-33
एकोनविंशाधिकरणमारचयति-
न्यप्रोधपिष्टं सोमस्य स्थाने क्षत्रियवैश्ययोः ।
भक्षमात्रे विकुर्यात्तत्सोमयागे ऽपि वा तथा
बिभक्षयिषया वाक्यमुपक्रम्योपसंहृतम् ।
भक्षं यच्छेदिति ततो विकारो भक्षमात्रगः
फलाख्यचमसेनासौ यजेतेति श्रुतत्वतः ।
इज्यायां च विकारो ऽस्ति यागार्था भक्षसंस्कृतिः
ज्योतिष्टोमे श्रूयते- ऽयदि राजन्यं वैश्यं वा याजयेत्, स यदि सोमं बिभक्षयिपेत्, न्यग्रोधस्तिभिनीराहृत्य ताः संपिष्य दधन्युन्मृज्य तमस्यै भक्षं प्रयच्छेत्, न सोमम्ऽ इति ।
स्तिभिन्यो मुकुलानि ।
तत्र- उपक्रमोपसंहारयोर्भक्षविषयत्वाद्भक्षमात्रे सोमः पिष्टेन विक्रियते - इति चेत् ।
मैवम् ।
ऽयदान्याश्चमसाञ्जुह्वति, अथैतस्य दर्भतरुणकेनोषहत्य जुहोतिऽ इति श्रुतम् ।
तत्र फलचमसरूपेण यथोक्तपिष्टेन यागमङ्गीकृत्य तरुणकगुणो विधीयते ।
किंच - इष्टद्रव्य संस्कारो हि भक्षः ।
स च यागमन्तरेणानुपपन्नः ।
तस्मात्- यागे ऽपि विकारः ॥ म्जैन्य्च्_3,5.31-33 ॥
(विंशे ब्राह्मणानामेव राजन्यचमसानुप्रसर्पणाधिकरणे सूत्रे 52-53)
अनुप्रसर्पिषु सामान्यात् । जैम्_3,5.52 ।
ब्रह्मणा वा तुल्यशब्दत्वात् । जैम्_3,5.53 ।
स्तर्त् म्जैन्य् 3,5.34-35
विंशाधिकरणमारचयति-
राजसूये क्वचित्कर्तुश्चमसो दशभिर्जनैः ।
मक्ष्यः किं तत्र राजन्या भक्षका ब्राह्मणा उत
आद्यो भानात्संख्ययैकजैतेर्विप्राः शतं दश ।
चमसानद्युरित्युक्त्या राजपात्रं च विप्रगम्
मूल पाठ: Jaiminīyanyāyamālāvistara a metrical exposition of Jaimini's Mīmāṃsāsūtra, with Mādhava's prose commentary · Edition: Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0