जैमिनीयन्यायमालाविस्तर · अध्याय 3.3
तस्मिन्नेव भक्षमन्त्रे ऽगायत्रच्छन्दस इन्द्रपीतस्यऽ इति श्रूयते ।
ऽगायत्रमेव छन्दो यस्यऽ इति मन्त्रपदे समासाभिधानादेकच्छन्दोयुक्त ऐन्द्रे सोमे भक्षमन्त्रः- इति चेत् ।
मैवम् ।
बहुच्छन्दोयुक्ते ऽपि बहुव्रीहेः समानत्वात् ।
एवकारं परित्यज्य ऽगायत्रं छन्दो यस्यऽ इति विग्रहसंभवात् ।
एकच्छन्दस्कस्तु सोमो न क्वाप्यस्ति ।
तस्मान्नानाछन्दस्के सोम ऐन्द्रप्रदान एव मन्त्रः, नान्यत्र ।
तदेवं कृत्वाचिन्तात्रयं समाप्तम् ।
द्विविधकृत्वाचिन्तोद्घाटना तु प्रागेव सिद्धान्तिना दर्शिता ॥ म्जैन्य्च्_3,2.44-46 ॥
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य द्वितीयः पादः
अथ तृतीयाध्यायस्य तृतीयः पादः ।
(प्रथमे - उच्चैस्त्वादीनां वेदधर्मताधिकरणे सूत्राणि 1-8) ।
श्रुतेर् जाताधिकारः स्यात् । जैम्_3,3.1 ।
वेदो वा प्रायदर्शनात् । जैम्_3,3.2 ।
लिङ्गाच् च । जैम्_3,3.3 ।
धर्मोपदेशाच् च न हि द्रव्येण संबन्धः । जैम्_3,3.4 ।
त्रयीविद्याख्या च तद्विद् धि । जैम्_3,3.5 ।
व्यक्तिक्रमे यथाश्रुतीति चेत् । जैम्_3,3.6 ।
न सर्वस्मिन् निवेशात् । जैम्_3,3.7 ।
वेदसंयोगान् न प्रकरणेन बाध्यते । जैम्_3,3.8 ।
स्तर्त् म्जैन्य् 3,3.1-3
तृतीयपादे प्रथमाधिकरणमारचयति-
कर्तव्यमुच्चैः सामगर्भ्यामुपांशु यजुषेत्यमी ।
मन्त्राणां वाथ वेदानां धर्मा मन्त्रगता यतः
विध्युद्देशे मन्त्रवाचिशब्दाः प्रोक्ता ऋगादयः ।
ऋग्वेदो ऽग्नेः समुत्पन्न इत्युपक्रमवेदगीः
असंजातविरोधातस्तद्वशादुपसंहृतेः ।
नयने सति वाक्येन धर्माणां वेदगामिता
ज्योतिष्टोमे श्रूयते- ऽउच्चैऋचा क्रियते ।
उपांशु यजुषा ।
उच्चैः साम्नाऽ इति ।
तत्र विधिवाक्ये मन्त्रवाचिनामृगादिशब्दानां प्रयोगान्मन्त्रधर्मा उच्चैस्त्वादयः ।
तथा सति यजुर्वेदोत्पन्ना अध्वर्युणा प्रयुज्यमाना अप्यृच उच्चैरेव पठितव्याः- इति चेत् ।
मैवम् ।
असंजातविरोधित्वेन प्रबलमुपक्रममनुसृत्य तद्वशेनोपसंहारस्य नैतव्यत्वात् ।
उपक्रमे हि वेदशब्दः श्रुतः- ऽत्रयो वेदा असृज्यन्त ।
अग्नेऋग्वेदः ।
वायोर्यजुर्वेदः ।
आदित्यात्सामवेदःऽ इति ।
अत उपक्रमगतवेदानुसारेण विध्युद्देशगतानामप्यृगादिशब्दानां वेदपरत्वे सत्यृचो ऽपि यजुर्वेदोत्पन्ना उपांशु पठनीयाः ।
ननु- उपक्रमो ऽत्रार्थवादत्वाद्दुर्बलः ।
उपसंहारो विध्युद्देशत्वात्प्रबलः- इति चेत् ।
बाढम् ।
लब्धात्मनो हि विध्युद्देशस्य प्राबल्यम् ।
इह तु प्रथमतो बुद्ध्यींत्पादक उपक्रमः ।
तदानीमलब्धात्मत्वान्न तस्य बाधकत्वम् ।
पश्चात्तु वाक्यैकत्वाय तदविरोधेनैवाऽत्मानं लप्स्यते ।
तदेवमुपक्रमोपसंहारैकवाक्यताबलेन निर्णयाद्वाक्यविनियोगो ऽयम् ॥ म्जैन्य्च्_3,1.1-3 ॥
(द्वितीये-आधाने गानस्योपांशुताधिकरणे सूत्रम्) ।
गुणमुख्यव्यतिक्रमे तदर्थत्वान् मुख्येन वेदसंयोगः । जैम्_3,3.9 ।
स्तर्त् म्जैन्य् 3,3.4-6
द्वितीयाधिकरणमारचयति-
यजुर्वेदस्थमाधानं तदङ्गं साम तत्र किम् ।
उच्चैरुपांशु वा गानमुच्चैः शीघ्रप्रतीतितः
उत्पत्तेर्विनियोगो ऽत्र प्रबलो ऽनुसृतिर्यतः ।
मुख्यस्याङ्गेन कर्तव्या तस्माद्गान उपांशुता
आधानस्यात्र मुख्यत्वं गानस्य गुणताथवा ।
विनियोगस्य मुख्यत्वमुत्पत्तेर्गुणतास्त्विह
आधाने वामदेव्यादिसामान्यङ्गत्वेन विहितानि ।
तत्र- यद्यप्येतानि यजुर्वेदगतस्याऽधानस्याङ्गानि, तथापि सामवेदे तेषामुत्पन्नत्वात्, उत्पत्तेश्च शीघ्रबुद्धिहेतुत्वात्सामवेदधर्मेण गेयानि - इति चेत् ।
न ।
विनियोगस्य प्रबलत्वात् ।
स च यजुर्वेदे श्रुतः- ऽय एवं विद्वान्वामदेव्यं गायतिऽ इति ।
गुणेन हि मुख्यस्यानुसरणं न्याय्यम् ।
को गुणः, किं मुख्यम्- इति चेत् ।
अत्राङ्गित्वादाधानं मुख्यम्, सामगानमङ्गत्वेन गुणः ।
तथा साति ऽधर्मः शिरःऽ - इत्यादय आधानाङ्गभूता मन्त्रा यथोपांशु पठ्यन्ते, तथा सामान्यप्याधानानुसारेणोपांशु गेयानि ।
अथवा विनियोगो ऽनुष्ठापकविधित्वान्मुख्यः ।
उत्पत्तिविधिरतथाविधत्वाद्गुणः ।
तस्मात्- अत्र विनियोगवेदानुसारेणोपांशुगेयानि ॥ म्जैन्य्च्_3,1.4-6 ॥
(तृतीये ज्योतिष्टोमस्य याजुर्वेदिकताधिकरणे सूत्रम् -) ।
भूयस्त्वेनोभयश्रुति । जैम्_3,3.10 ।
स्तर्त् म्जैन्य् 3,3.7-8
तृतीयाधिकरणमारचयति-
ज्योतिष्टोमो यजुःसामवेदयोरस्ति तत्र किम् ।
उच्चैस्त्वमुत नीचैस्त्वं हेत्वभावादनिर्णयः
यजुष्यधिगते द्रव्यदेवते तत्र तद्विधिः ।
तद्वशात्स्वरनिर्णीतेरुपांशु स्यादनुष्ठितिः
ऽज्योतिष्टोमेन स्वर्गकामो यजेतऽ इत्येतद्वाक्यं वेदद्वये समाम्नातम् ।
तत्र-ऽको विधिः, कश्च गुणविधानायानुवादः, इति जिज्ञासायां नियामकहेतोरप्रतिमानात् ऽएतस्य वेदस्य धर्मो ऽनुष्ठेयःऽ इत्यनिर्णयः- इति चेत् ।
न ।
सोमद्रव्यस्य, इन्द्रवाय्वादिदेवतायाश्च यजुर्वेदे ऽधिगतत्वादङ्गबाहुल्यश्रवणाच्च तत्रैव विधिः, इति - उपांशुप्रयोगः ॥ म्जैन्य्च्_3,1.7-8 ॥
(चतुर्थे प्रकरणस्य विनियोजकताधिकरणे सूत्रम् - )
असंयुक्तं प्रकरणाद् इति कर्तव्यतार्थित्वात् । जैम्_3,3.11 ।
स्तर्त् म्जैन्य् 3,3.9-10
चतुर्थाधिकरणमारचयति -
न क्रत्वङ्गं प्रयाजादि क्रत्वङ्गं वा न चाङ्गता ।
प्रक्रियाया अमानत्वान्नैराकाङ्क्ष्येण वाक्ययोः
प्रयाजादेः फले ऽपेक्षा कथंभावे ऽपि च क्रतोः ।
तेन प्रकरणाम्नानं तस्मादङ्गाङ्गिता तयोः
सार्धपादद्वये विनियोजकत्वेनोक्तानि यानि श्रुतिलिङ्गवाक्यानि, तेभ्यो ऽतिरिक्तं प्रकरणनामकं किंचित्प्रमाणं न वेदे पश्यामः ।
नहि पदतत्सामर्थ्यान्वयैरसंतृष्टः कश्चिद्वेदभागः केनचिदाम्नायते ।
एकवाक्यतामापन्नो वाक्यसमूहः प्रकरणम-इति चेत् ।
न ।
वाक्ययोः सतोः पश्चादेकताक्यताया अभावात् ।
न हि ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ ऽसमिधो यजतिऽ इत्यनयोर्वाक्ययोः परस्पराकाङ्क्षास्ति, येन वाक्यैकवाक्यता कल्प्येत ।
तस्मात् - न प्रयाजादीनां दर्शपूर्णमासाङ्गत्वम्- इति प्राप्ते, -
ब्रूमः- प्रयोजादयः फलहेतवः, पुरुषप्रवृत्तिरूपत्वात्, सेवादिवत् ।
दर्शपूर्णमासावुपकरणैरुपकार्यौ, करणत्वात्, प्रदीपोपकृतचक्षुर्वत् ।
तथा सति ऽकिं प्रयाजादेः फलम्, किंवा दर्शपूर्णमासयोरुपकरणम्ऽ इत्याकाङ्क्षायां संपन्नवाक्यैकवाक्यतारूपं प्रकरणम् ।
तेन च प्रयाजादीनामङ्गत्वं प्रतीयते ॥ म्जैन्य्च्_3,1.9-10 ॥
(पञ्चमे क्रमस्य विनियोजकत्वाधिकरणे सूत्रम् - ) ।
क्रमश् च देशसामान्यात् । जैम्_3,3.12 ।
स्तर्त् म्जैन्य् 3,3.11-14
पञ्चमाधिकरणमारचयति-
दब्धिर्नामेति मन्त्रो ऽङ्गमुपांशुयजतेर्न वा ।
साधारणत्वाल्लिङ्गादेर्मानाभावादनङ्गता
मन्त्राणां कर्मणां चात्र क्रमेणाऽम्नानमीक्ष्यते ।
प्रक्रियावत्क्रमो मानं यथासंख्यं ततो ऽङ्गता
क्रमः समानदेशत्वं पाठादर्थाच्च पाठतः ।
यथासंख्यं संनिधिश्च यथासंख्यमुदाहृतम्
शुन्धत्वमिति सांनाय्यपात्राङ्गं संनिधेर्मतम् ।
पशुधर्मोर्ऽथसादेश्यादग्नीषोमीयतो भवेत्
दर्शपूर्णमासयोर्याजमाने - मन्त्रकाण्डे कश्चिन्मन्त्र आम्नायते-ऽदब्धिरस्यदब्धो भूयासम्, अमुं दभेयम्ऽ इति ।
अस्य मन्त्रस्योपांशुयाजाङ्गतायां श्रुतिवाक्ये न विद्येते ।
ब्राह्मणे विनियोगमनाम्नायार्थविवरणस्यैवाऽभ्नानात् ।
ऽएतया वै दब्ध्या देवा असुरानदभ्नुवन् ।
तयैव भ्रातृव्यं दभ्नोतिऽ इति ब्राह्मणम् ।
दब्धिर्धातुकमायुधम् ।
आग्नेयाग्नीषोमीययोरप्यनिष्टनिवारकत्वाल्लिङ्गं साधारणम् ।
प्रकरणं च त्रयाणामेकमेव ।
ततो मानाभावादयं मन्त्रो नोपांशुयाजाङ्गम् - इति प्राप्ते, -
ब्रूमः- आध्वर्यवे काण्ड आग्नेयोपांशुयाजाग्नीषोमीयकर्माणि क्रमेणाऽम्नातानि ।
याजमाने च काण्डे तद्विषया मन्त्राः क्रमेणाऽम्नाताः- ऽअग्नेरहं देवयज्ययान्नादो भूयासम्ऽ, ऽदब्धिरस्यदब्धो भूयासममुं दभेयम्ऽ,ऽअग्निषोमयारेहं देवयज्यया वृत्रहा भूयासम्ऽ इति ।
तत्र यथा वाक्यद्वयानुसंधान संपन्नं प्रकरणं पृथक्प्रमाणम्, तथा प्रकरणद्वयानुसंधानसंपन्नः क्रमः कुतो न मानं स्यात् ।
न चास्य प्रकरणे ऽन्तर्भावः ।
द्वयोर्वाक्ययोरिव प्रकरणयोरेकवाक्यत्वाभावात् ।
तस्मात्क्रमप्रमाणेन मध्यवर्तिन उपांशुयाजस्य मध्यवर्ती मन्त्रो ऽङ्गम् ।
ऽसमानदेशत्वं क्रमःऽ इति क्रमस्य स्वरूपम् ।
तच्च द्विविधम्- पाठकृतमर्थकृतं च ।
तत्र पाठकृतमपि द्विविधम्- यथासंख्यं संनिधिश्चेति ।
तयोराद्यस्य दब्धिमन्त्र उदाहरणम् ।
"शुन्धध्वं दैव्याय कर्मणे"-इत्ययं मन्त्रः शोधनीयेषु वस्तुषु साधारणोभासते ।
तत्र सांनाय्यपात्राणि कुम्भीशाखापवित्रादीन्यनन्तरेषु ऽमातरिश्वनःऽ- इत्यादिमन्त्रेष्ववभासन्त इति संनिधिना तत्पात्रप्रोक्षणे ऽशुन्धध्वम्ऽ इति मन्त्रो विनियुज्यते ।
अनुष्ठानसादेश्यान्पशुधर्माणामग्नीषो मीयाङ्गत्वम् ।
तदेवं क्रमस्य त्रैविध्यं द्रष्टव्यम् ॥ म्जैन्य्च्_3,1.11-14 ॥
(षष्ठे समाख्याया विनियोजकताधिकरणे सूत्रम् । )
आख्या चैवं तदर्थत्वात् । जैम्_3,3.13 ।
स्तर्त् म्जैन्य् 3,3.15-16
षष्ठाधिकरणमारचयति-
वेदत्रयोक्तधर्माणामृत्विग्भिः संगतिस्त्रिभिः ।
अनियत्या नियत्या वा नियतिर्नानिरूपणात्
हौत्रत्वादिसमाख्यानं नियतेर्गमकं स्वतः ।
निर्बाधं चान्यवत्तच्च तेनात्र विनियोजकम्
याज्यापुरोनुवाक्यंपाठादयो धर्मा ऋग्वेदे प्रोक्ताः ।
दोहननिर्वापादयो यजुर्वेदे ।
आज्यस्तोत्रपृष्ठस्तोत्रादयः सामवेदे ।
तत्र ऽअस्यैवैते धर्माःऽ इति नियामकस्य दुर्निरूपत्वाद्येन केनाप्यृत्विजा यः को ऽपि धर्मैच्छयासंगच्छते- इति चेत् ।
मैवम् ।
ऽहौत्रम्, आध्वर्यवम्, औद्रात्रम्ऽ इति समाख्यानेन नियतिर्बोध्यते ।
न च समाख्यानस्य बाधकं किंचित्पश्यामः ।
तस्मादबोधकत्वबाधितत्वयोरप्रामाण्यकारणयोरभावाच्छ्रुति लिङ्गादिपञ्चकवत्प्रमाणेन समाख्यानेन धर्मा व्यवस्थाप्यन्ते ॥ म्जैन्य्च्_3,1.15-16 ॥
(श्रुत्यादीनां पूर्वपूर्वबलीयस्त्वाधिकरणेषु [7-12] सूत्रम्) ।
श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये पारदौर्बल्यम् अर्थविप्रकर्षात् । जैम्_3,3.14 ।
स्तर्त् म्जैन्य् 3,3.17-19
सप्तमा(श्रुतिप्राबल्या)धिकरणमारचयति-
ऐन्द्र्योपस्थीयतां वह्निरितीन्द्राग्न्योर्विकल्पनम् ।
समुच्चयो वोते शक्र एवाग्निः केवलो ऽथवा
विकल्पः श्रुतिलिङ्गाभ्यां गुणावृत्त्या समुच्चयः ।
श्रतिः शक्त्यनुसारेति शक्र एको ऽत्र लिङ्गतः
शक्तिरुक्ता श्रुतिः शीघ्रा लिङ्गं क्षुत्यनुमापकम् ।
नैराकाङ्क्ष्यात्मके बोधे श्रुत्याग्नौ केवले स्थितिः
ऽऐन्द्या गार्हपत्यमुपतिष्ठतेऽ इति श्रूयते ।
ऽकदाचन स्तरीरसि नेन्द्र सश्चसि दाशुषेऽ इत्यसावृगैन्द्री ।
तत्रेन्द्रस्य प्रकाशनात् ।
ऽभो इन्द्र, कदाचिदपि घातको न भवसि ।
किंत्वाहुतिं दत्तवते यजमानाय प्रीयसेऽ इत्यर्थः ।
तत्र-इन्द्रप्रकाशनसामर्थ्यरूपाल्लिङ्गान्मन्त्रस्येन्द्रविषयक्रिया साधनत्वं गम्यते ।
यद्यसौ मन्त्र इन्द्रप्रधानकक्रियायाः साधको न भवेत्, तदानीमनेन मन्त्रेणेन्द्रप्रकाशनं व्यर्थे स्यात् ।
तस्मात् ऽएतन्मन्त्रकरणकक्रियां प्रतीन्द्रः प्रधानम्ऽ इत्येतादृशबुद्ध्यीं- त्पादनं लिङ्गविनियोगः ।
ऽकासौ क्रियाऽ इति विशेषजिज्ञासायाम् ऽऐन्द्योपतिष्ठतेऽ इत्यनेनाविरुद्धपद- द्वयरूपेण वाक्येनोपस्थानक्रियायां पर्यवसानं क्रियते ।
तथासति ऽऐन्द्रमन्त्रेणेन्द्रमुपतिष्ठेतऽ इत्ययमर्थः पर्यवस्यति ।
तथा ऽगार्हपत्यम्ऽ इति द्वितीयान्तपदरूपया श्रुत्या गार्हपत्यस्य प्राधान्यं गम्यते ।
तच्च गुणभूतां यत्किंचित्करणकक्रियामन्तरेण न संभवति ।
ततः ऽतादृशीं कांचित्क्रियां प्रति गार्ह्यत्यः प्रधानम्ऽ इत्येतादृशबुद्ध्यींत्पादनं श्रुतिविनियोगः ।
ऽऐन्द्या, उपतिष्ठतेऽ इति पदद्वयेन मन्त्रविशेषक्रियाविशेषयोः पर्यवसानं भवति ।
तथा सति ऽऐन्द्रेण मन्त्रेण गार्हपत्यमुपतिष्ठतेऽ इत्यर्थो भवति ।
तदेवं श्रुतिलिङ्गयोर्विरोधे सति प्रमाणत्वाविशेषाद्ब्रीहियववद्विकल्पः- इत्येकः पूर्वपक्षः ।
इन्द्रगार्हपत्ययोः प्रधानत्वाविशेषदुपस्थानस्य च गुणत्वात् ऽप्रतिप्रधानं गुणःऽ इति न्यायेनोपस्थानावृत्या श्रुतिलिङ्गयोः समुच्चयः- इति द्वितीयः पूर्वपक्षः ।
श्रुतिर्विनियुञ्जाना वस्तुसामथ्यमनुकृत्यैव विनियुङ्क्ते ।
अन्यथा ऽवह्निना सिञ्चेत्ऽ ऽवारिणा दहेत्ऽ इत्यपि विनियुज्येत ।
तत उपजीव्यत्वेन लिङ्गस्य प्रबलत्वादिन्द्र एव मन्त्रेणोपस्थेयः- इति तृतीयः पूर्वपक्षः ।
ऐन्द्रमन्त्रस्य गार्हपत्ये मुख्यवृत्त्या शक्त्यभावे ऽपि गौणवृत्त्या शक्तिरस्तीति ऽनिवेशनःऽ- इत्यस्मिन्नुदाहरणे पूर्वमेव दर्शितम् ।
तथा सति सामर्थ्याभावकृतप्रतिबन्धाभावान्निर्विघ्ना श्रुतिः शीघ्रं विनियुङ्क्ते, लिङ्गं तु विलम्बते ।
मन्त्रपदान्यादौ स्वाभिधेयमर्थे प्रतिपादयन्ति ।
तत ऊर्ध्व मन्त्रस्य सामर्थ्ये निरूप्यते ।
पश्चात्सामर्थ्यवशात्साधनत्ववाचिनी प्राधान्यवाचिनी च श्रुतिः कल्पते ।
सा च श्रुतिः ऽमन्त्रेणेन्द्रमुपतिष्ठेतऽ इति विनियुङ्क्ते ।
तथा सति प्रत्यक्षश्रुतौ स्वाभिधेयप्रतिपादनविनियोगयो र्मध्यवर्तिनौ सामर्थ्यनिरूपण- श्रुतिकल्पनव्यापारौ न स्त इति प्राबल्यात्तया लिङ्गं बाध्यते ।
न च - प्रत्यक्षश्रुतिविनियोगवेलायामलब्धात्मकत्वेनाप्राप्तं लिङ्गं कथं बाध्येत- इति शङ्कनीयम् ।
भविष्यत्प्रप्तिमतिबन्धस्यैवात्र बाधत्वात् ।
श्रुत्या विनियुक्तस्य मन्त्रस्य पुनर्विनियोगाकाङ्क्षाया अनुदयात्कथं विनियोजकं लिङ्गं प्राप्स्यति ।
तस्मात् - गार्हपत्योपस्थाने मन्त्रः प्रत्यक्षश्रुत्या विनियुज्यते ॥ म्जैन्य्च्_3,1.18-19 ॥
स्तर्त् म्जैन्य् 3,3.20-22
अष्टमा (वाक्याद्यपेक्षया लिङ्गस्य प्राबल्या) धिकरणमारचयति-
स्योनं त इति पूर्वार्ध तस्मिन्सीदेति चोत्तरम् ।
सदने सादने चायं सर्वै वार्ऽधे व्यवस्थिते
तच्छब्दादेकवाक्यत्वे भवेदाद्यः श्रुतिं प्रति ।
लिङ्गस्य संनिकृष्टत्वाद्वाक्यबाधे व्यवस्थितिः
उदाहृतिरियं वाक्यबाधे न त्वैन्द्रियेत्यसौ ।
बाधादूर्ध्व निरर्थत्वादप्रामाण्यप्रसङ्गतः
दर्शपूर्णमासयोः श्रूयते- ऽस्योनं ते सदनं कृणोमि घृतस्य धारया सुपेवं कल्पयामि ।
तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेघ सुमनस्यमानःऽ इति ।
ऽभोः पुरोडाश, तव समीचीनं स्थानं करोमि ।
तच्च स्थानं घृतस्य धारया सुष्ठु सेवितुं योग्यं कल्पयामि ।
भो व्रीहिसारभूत, त्वं समाहितमनस्कस्तस्मिन्समीचीने स्थान उपविश ।
तत्र स्थिरो भवऽ इत्यर्थः ।
तत्र-ऽतस्मिन्ऽ इत्यनेन तच्छब्देन प्रकृतवाचिना पूर्वोत्तरार्धयोरेकवाक्यत्वे सति मन्त्रद्वयाभावात्सर्वो ऽप्ययं मन्त्रः स्थानकरणे ऽङ्गं स्यात् ।
मन्त्रविनियोजिका श्रुतिरेवं कल्पनीया- ऽसर्वेणानेन मन्त्रेण स्थानं कर्तव्यम्ऽ इति ।
तथा ऽसर्वेण मन्त्रेण पुरोडाशः स्थापनीयः, इत्यपि कल्पनीया ।
सदनाङ्गत्ववत्प्रतिष्ठापनाङ्गत्वस्यापि तद्वाक्यबोधितत्वात् ।
तथा सति सदनस्थापनयोरस्य मन्त्रस्य विकल्पः समुच्चयो वा निजेच्छया भविष्यति- इति प्राप्ते,-
ब्रूमः- यदेतत्पूर्वोत्तरार्धयोः परस्परान्वयेन संपन्नमेकं वाक्यम्, तदेतदुत्तराधस्य सदनकरणे शक्तिमकल्पयित्वा कृत्स्नं मन्त्रं सदने विनियोक्तुं नार्हति ।
तथा पूर्वार्धस्य स्थापने शक्तिमकल्पयित्वा न तत्र प्रभवति ।
अतो लिङ्गकल्पनव्यवधानेन वाक्यं श्रुतिं प्रति विप्रकृष्यते ।
प्रत्यक्षं तु लिङ्गद्वयं संनिकृष्यते ।
तथा सति लिङ्गेन वाक्यबाधादर्थद्वयमुभयोर्व्यवस्थितम् ।
ननु-ऽऐन्द्या गार्हपत्यम् ।
इत्यत्रापि पदद्वयान्वयरूपस्य वाक्यस्य विनियोजकत्वप्रतीतेर्लिङ्गवाक्यविरोधाय तदेवोदाह्नियताम्- इति चेत् ।
न ।
तत्र लिङ्गेन वाक्ये बाधिते सत्येकैकपदस्यार्थप्रत्यायकत्वाभावेन श्रुतिकृतविनियोगस्याप्यसिद्धेरप्रामाण्यमेवोदाहृतस्य प्रसज्येत ।
इह तु महावाक्ये बाधिते ऽप्यवान्तरवाक्ययोरर्थप्रतीतौ लिङ्गविनियोगः सिध्यतीत्येतदेवोदाहरणम् ॥ म्जैन्य्च्_3,1.20-22 ॥
स्तर्त् म्जैन्य् 3,3.23-24
नवमा(वाक्यस्य प्रकरणाद्यपेक्षया प्राबल्या)धिकरणमारचयति-
अग्नीषोमाविदं हव्यमजुषेतामितीरितात् ।
अपच्छिद्येदमित्यादिः सर्वशेषो भवेन्न वा
प्रक्रियातो मवेन्मैवं प्रक्रियान्तरिता त्रिभिः ।
वाक्यं द्वयन्तरितं तेन भवेत्प्रकरणाद्बलि
सूक्तवाके श्रूयते- ऽअग्निषोमाविदं हविरजुषेताम्, अवीवृधेताम्, महोज्यायो ऽक्राताम् ।
इन्द्राग्नी इदं हविरजुषेताम्, अवीवृघेताम्, ऽमहो ज्यायो ऽक्राताम्ऽ इति ।
तत्र-देवतावाचकमग्नीषोमादिपदं पौर्णमास्यादिकाले यथादेवतं विभज्य प्रयोक्तव्यम्- इति पूर्वपादे निर्णीतम् ।
यत्तु ऽइदं हविःऽ- इत्यादिकमवशिष्टं पदजातं, तदग्नीषोममन्त्रगतमप्यमावास्यायामग्नीषोमपदपरित्यागेन पठनीयम् ।
एवम्- इन्द्राग्निमन्त्रगतमपि पौर्णमास्यामिन्द्राग्निपदपरित्यागेन पठनीयम् ।
तथा सत्येषां मन्त्रभागाणां सर्वशेषत्वबोधको दर्शपूर्णमासप्रकरणपाठो ऽनुगृह्यते- इति प्राप्ते, ब्रूमः- अग्नीषोममन्त्रशेषस्येन्द्राग्निपदान्वयाश्रवणात् ।
प्रकरणेन प्रथमे तदन्वयरूपं वाक्यं कल्पनीयम् ।
तेन च वाक्येनेन्द्रादिप्रकाशनसामर्थ्यरूपं लिङ्गं कल्प्यते ।
तच्च लिङ्गम् ऽअनेन मन्त्रभागेणेन्द्राग्निविषयक्रियानुष्ठेयाऽ इति विनियोजिकां तृतीयाश्रुतिं कल्पयति ।
ततः प्रकरणविनियोगयोर्मध्ये त्रिभिर्व्यवधानं भवति ।
अग्नीषोमपदान्वयरूपं तु वाक्यं श्रूयमाणत्वाल्लिङ्गश्रुतिभ्यामेव व्यवधीयते ।
तस्माद्वाक्येन प्रकरणस्य बाधितत्वात्तच्छेषस्तत्रैव व्यवतिष्ठते ॥ म्जैन्य्च्_3,1.23-24 ॥
स्तर्त् म्जैन्य् 3,3.25-26
दशमा(प्रकरणस्य क्रमाद्यपेक्षया प्राबल्या)धिकरणमारचयति-
राजसूये ऽभिषेच्याख्ययागे ये देवनादयः ।
तच्छेषास्ते ऽखिलार्था वा तच्छेषास्तस्य संनिधेः
राजसूयकथंभावानुवृत्तेः सर्वशेषता ।
कल्प्याकाङ्क्षाभिषेच्यस्य प्रक्रिया प्रबला ततः
राजसूये पश्विष्ठिसोमयागा बहवः प्रधानभूताः ।
तत्राभिषेचनीयाख्यः कश्चित्सोमयागः ।
तस्य संनिधौ देवनादयः श्रूयन्ते-ऽअक्षैर्दीव्यति ।
राजन्यं जिनाति ।
शौनःशेपमाख्यापयतिऽ इति ।
जिनाति जयति ।
बह्वृचब्राह्मणे समाम्नातं शुनः शेपविषयमुपाख्यानं शौनःशेपम् ।
तत्र संनिधिबलाद्देवनादयो ऽभिषेचनीयाङ्गम्- इति चेत् ।
मैवम् ।
राजसूयस्य कथंभावाकाङ्क्षायामनुवृत्तायां विहिता देवनादयः प्रकरणेन राजसूयशेषाः ।
राजसूयश्च बहुयागात्मक इति तत्रत्यसर्वयागशेषत्वम् ।
न चाभिषेचनीयस्य काचिदाकाङ्क्षा देवनादिष्वस्ति ।
ज्योतिष्टोमविकृतित्वेनातिदिष्टैः प्राकृताङ्गैरेव तदाकाङ्क्षानिवृत्तेः ।
संनिहितविधिबलादाकाङ्क्षोत्थाप्यते- इति चेत् ।
अत एवाऽकाङ्क्षारूपमवान्तरप्रकरणमादौ परिकल्प्य तद्द्वारा वाक्यलिङ्गश्रुतीकल्पनया संनिधिर्विप्रकृष्यते ।
राजसूयाकाङ्क्षारूपं तु महाप्रकरणं कॢप्तत्वादेकर्या कक्षया संनिकृष्यते ।
तस्मात्-प्रकरणेन संनिधिबाधात्सर्वशेषा देवनादयः ॥ म्जैन्य्च्_3,1.25-26 ॥
स्तर्त् म्जैन्य् 3,3.27-28
एकादशा(क्रमस्य समाख्यापेक्षया प्राबल्या)धिकरणमारचयति-
शुन्धध्वमिति मन्त्रो ऽङ्गं पौरोडाशिकशोधने ।
सांनाय्यपात्रशुद्धौ वा प्रथमो ऽस्तु समाख्यया
पौरोडाशिकमित्यत्र प्रकृत्या तद्धितेन वा ।
संनिध्यनुक्तितः कल्प्यः कॢप्तत्वाच्चरमः क्रमात्
ऽशुधध्वं दैव्याय कर्मणेऽ इत्ययं मन्त्रः ऽपौरोडाशिकम्ऽ इति याज्ञिकैःसमाख्याते काण्डे पठितत्वात्समाख्यया पुरोडाशकाण्डोक्तानामुलूखलजुह्वादीनामपि शोधने ऽङ्गम्- इति चेत् ।
मैवम् ।
ऽपौरोडाशिकम्ऽ इति समाख्यायां प्रकृतिः पुरोडाशमात्रमभिधत्ते ।
तद्धितप्रत्ययश्च काण्डम् ।
न चैतावता कृत्स्नपुरोडाशपात्राणां मन्त्रसंनिधिः प्रत्यक्षो भवति, किंत्वर्थापत्त्या कल्प्यते ।
यद्युक्तसंनिधिर्न स्यात्, तदा मन्त्रप्रतिपादकग्रन्थस्य पौरोडाशिकसमाख्या न स्यात् ।
न ह्यग्न्यसंनिहितानाम् ऽइषे त्वा-ऽ दिमन्त्राणामाग्नेयकाण्डसमाख्या भवति ।
संनिहितानां तु ऽयुञ्जानः प्रथमं मनःऽ- इत्यादिमन्त्राणां भवत्येषा समाख्या ।
तस्मात्- काण्डसमाख्यया संनिधिं परिकल्प्य तत्संनिध्यन्यथानुपपत्त्या परस्पराकाङ्क्षारूपं कृत्स्नं पात्रप्रकरणं कल्पयित्वा तद्द्वारा वाक्यलिङ्गश्रुतीः कल्पयित्वा तया श्रुत्या विनियोग इति समाख्याया विप्रकर्षः ।
सांनाय्यपात्राणां शोधने मन्त्रसंनिधिस्तु प्रत्यक्षः ।
इध्माबर्हिः संपादनस्य मुष्टिनिर्वापस्य चान्तरालं सांनाय्यपात्राणां देश उक्तः ।
मन्त्रश्वेध्माबर्हिर्निर्वापविषययोर्मन्त्रानुवाकयोमध्योमऽनुवाके पठ्यते ।
तेन च प्रत्यक्षसंनिधिना प्रकरणादीनां चतुर्णामेव कल्पनात्संनिधिः संनिकृष्यते ।
तस्मात्- क्रमेण समाख्यां बाधित्वा ऽसांनाय्यपात्रशोधनशेषो मन्त्रःऽ इत्ययं चरमः पक्षो ऽभ्युपेयः ॥ म्जैन्य्च्_3,1.27-28 ॥
स्तर्त् म्जैन्य् 3,3.29-30
द्वादशा(बाधयोग्यता)धिकरणमारचयति-
बाधो न युक्तो युक्तो वा प्राप्त्यप्राप्त्योर्न युज्यते ।
अप्रवृत्तं प्रसक्तं यद्धिया तस्यास्तु बाध्यता
प्रमाणतः प्रसक्तस्य बाधो दाशमिको ऽत्र तु ।
विभ्रमेण प्रसक्तस्य तस्मादप्रप्तबाधनम्
प्राप्तस्य प्रवृत्तिरस्तीति न तन्निवारणं शक्यम् ।
अप्राप्तस्य बाधविषयत्वेनावस्थानमेव नास्ति ।
तस्मात्-न युक्तो बाधः- इति चेत् ।
मैवम् ।
बुद्ध्याविषयीकृतस्य वारयितुं शक्यत्वात् ।
न चैतदत्यन्तं प्रवृत्तम् ।
अनुष्ठानरूपफलपर्यवसानाभावात् ।
नाप्यत्यन्तमप्रवृत्तम् ।
तद्बुद्धेरुत्पन्नत्वात् ।
अतो नोक्तदोषद्वयम् ।
दशमे चोदकप्रमाणेनावबुद्धोर्ऽथो बाध्यत इति प्राप्तबाधः ।
इह तु पूर्वपूर्वप्रमाणविरुद्धैरुत्तरोत्तरैः प्रमाणाभासैरवबुद्धस्येत्यप्राप्तबाधः ॥ म्जैन्य्च्_3,1.29-30 ॥
(त्रयोदशे द्वादशोपसत्ताया अहीनाङ्गताधिकरणे(अहीनन्याये) सूत्रे-15-16) ।
अहीनो वा प्रकरणाद् गौणः । जैम्_3,3.15 ।
असंयोगात् तु मुख्यस्य तस्माद् अपकृष्येत । जैम्_3,3.16 ।
स्तर्त् म्जैन्य् 3,3.31-33
त्रयोदशाधिकरणमारचयति-
तिस्त्र एव हि साह्ने स्युरहीने द्वादशेत्यतः ।
ज्योतिष्टोमे द्वादशत्वमथवाहगणे भवेत्
अस्तु प्रकरणादाद्यो नाहीमत्वं विरुध्यते ।
प्रकृतित्वान्न केनापि हीनो ऽतो ऽत्र विकल्प्यताम्
साह्लाद्भिन्नाहीनसंज्ञा रूढैपाहर्गणे भवेत् ।
षष्ठीश्रुत्या द्वादशत्वं प्रक्रियातो ऽपकृष्यताम्
ज्योतिष्टोमप्रकरणे श्रूयते-ऽतिस्त्र एव साह्नस्योपसदो द्वादशाहीनस्यऽ इति ।
एकेनाह्ना निष्पाद्यत्वात्साह्नो ज्योतिष्टोमः ।
दीक्षादिवसादूर्ध्वे सोमाभिषवदिवसात्पूर्व कर्तव्या होमा उपसदः ।
तासां द्वादशत्वं प्रकरणबलाज्ज्योतिष्टोमे निविशते ।
अहीनशब्दश्च तस्मिन्नेव कल्पते ।
ज्योतिष्टोमस्य निखिलसोमयागप्रकृतित्वेन सर्वेषामङ्गानां तत्रोपदेशे सति तदुपदेशविकलविकृतीनामिव हीनत्वाभावात् ।
अतो द्वादशत्वत्रित्वयोर्विकल्पः- इति प्राप्ते, -
ब्रूमः- आवृत्तसोमयागरूपो द्विरात्रत्रिरात्रादिरहर्गणः ।
तस्मिन्नहीनशब्दो रूढः ।
यौगिकत्वे तु ऽन हीनःऽ इति विगृह्य समासे कृते सत्ययज्ञादिशब्दबदाद्युदात्तः स्यात् ।
मध्योदात्तस्त्वाम्नायते ।
रूढिश्च विग्रहनिरपेक्षत्वाच्छीप्रबुद्धिहेतुः ।
अतो ज्योतिष्टोमवाचिनः साह्नशब्दाद्भिन्नेयमहीनसंज्ञा ज्योतिष्टोमाद्भिन्नमहर्गणमभिधत्ते ।
तस्मिन्नहर्गणे षष्ठीश्रुत्या तदुक्तं द्वादशत्वं निवेश्यते ।
तत्सिद्धये प्रकरणादिदमपनेतव्यम् ॥ म्जैन्य्च्_3,1.31-33 ॥
(चतुर्दशे कुलायादौ प्रतिपदौरुत्कर्षाधिकरणे सूत्राणि 17-19) ।
द्वित्वबहुत्वयुक्तं वा चोदनात् तस्य । जैम्_3,3.17 ।
पक्षेणार्थकृतस्येति चेत् । जैम्_3,3.18 ।
न प्रकृतेर् एकसंयोगात् । जैम्_3,3.19 ।
स्तर्त् म्जैन्य् 3,3.34-36
चतुर्दशाधिकरणमारचयति-
युवं हीति द्वयोः कर्त्रोर्बहूनां चैत इत्यमूम् ।
कुर्यात्प्रतिपदं ज्योतिष्टोमे साहर्गणे ऽथवा
एकस्य शक्तिराहित्ये द्वाभ्यां बहुभिरेव वा ।
ज्योतिष्टोमस्य कार्यत्वात्प्रकृते ऽत्रैव सा भवेत्
यजमानस्य नानात्वं साक्षाद्विकृतिषु श्रुतम् ।
उत्कृष्य प्रतिपत्तेन कुलायादिषु नीयताम्
ज्योतिष्टोमे श्रूयते- ऽयुवं हि स्थः स्वर्पतीऽ- इति द्वयोर्यजमानयोः प्रतिपदं कुर्यात् ।
एते असृग्रमिन्दवःऽ- इति बहुभ्यो यजमानेभ्यःऽ इति ।
स्तोत्रस्योपक्रमे पठनीयामृचं प्रतिपच्छब्दो ऽभिधत्ते ।
सा चोदाहृता प्रतिपत्प्रकरणाज्ज्योतिष्टोमे निविशते ।
न च तत्र यजमासद्वित्वबहुत्वयोरसंभवः ।
एकस्य यजमानस्य द्रव्यलाभादिना तदशक्तौ नित्यकर्मणः परित्यागासंभवेन द्वाभ्यां बहुभिर्वा तस्यावश्यकर्तव्यत्वात्- इति प्राप्ते, -
ब्रूमः- यजमानद्वित्वं कुलायनामके यज्ञे साक्षादाम्नातम्-ऽएतेन राजपुरोहितौ सायुज्यकामौ यजेयाताम्ऽ इति ।
यजमानबहुत्वं सत्रेष्वाम्नातम्- ऽचतुर्विंशतिपरमाः सत्त्रमासीरन्ऽ इति ।
ततो द्विशब्दबहुशब्दरूपाभ्यां श्रुतिभ्यां प्रकरणं बाधित्वा कुलायादिषु यथोक्तप्रतिपदोरुत्कर्षः कर्तव्यः ।
न चाशक्तावपि यजमानद्वित्वबहुत्वे संभवतः ।
अशक्तेन स्वीकृतस्य पुरुषान्तरस्य प्रतिविधित्वे यजमानत्वाभावात् ।
ऽयजमानस्य प्रतिनिधिर्नास्तिऽ इति वक्ष्यते ।
यद्यन्यः पुरुषः स्वयमेव प्रवर्तते तदानीं स्वकीयमेव प्रयोगं कुर्यात्, नत्वशक्तस्य साहाय्यमाचरेत् ।
तस्मात्- श्रूयमाणस्य यजमानैकत्वस्य कालादिवदनुपादेयाङ्गत्वेन त्यक्तुमशक्यत्वान्न ज्योतिष्टोमे यजमानस्य द्वित्वबहुत्वे संभवतः ॥ म्जैन्य्च्_3,1.34-36 ॥
(पञ्चदशे जाघन्या अनुत्कषार्धिकरणे सूत्राणि 20-23) ।
जाघनी चैकदेशत्वात् । जैम्_3,3.20 ।
चोदना वापूर्वत्वात् । जैम्_3,3.21 ।
एकदेश इति चेत् । जैम्_3,3.22 ।
न प्रकृतेर् अशास्त्रनिष्पत्तेः । जैम्_3,3.23 ।
स्तर्त् म्जैन्य् 3,3.37-38
पञ्चदशाधिकरणमारचयति-
संयाजयन्ति जाघन्या पत्नीरेतत्पशावुत ।
दर्शादौ तत्पशौ युक्तं जाघन्याः समवायतः
जाघनी नाम भागो ऽसौ दर्शादौ समवैति हि ।
नोत्क्रष्टव्यं न संस्कार्या साधनत्वात्तृतीयया
दर्शपूर्णमासप्रकरणे श्रूयते-ऽजाघन्या पत्नीः संयाजयन्तिऽ इति ।
जाघनी पशोः पुच्छम् ।
पत्नीशब्दो ऽत्राऽहुतिचतुष्टयात्मकस्य कर्मणो नामधेयैकदेशः ।
अत एव श्रूयते-ऽपञ्च प्रयाजा इज्यन्ते, चत्वारः पत्नीसंयाजाःऽ इति ।
तत्र तृतीयाहुतौ देवपत्नीनां देवतात्वात्तद्द्वारा कर्मनाम्नः पत्नीसंयाजशब्दस्य प्रवृत्तिः ।
तत्र जाघनीमुद्दिश्य पत्नीसंयाजसंस्कारो विधीयते ।
जाघनी च पशौ समवेता न तु दर्शपूर्णमासयोः ।
अतः प्रकरणादुत्कृष्य पशौ निवेशनम्- इति प्राप्ते, -
ब्रूमः- जाघनीशब्देन पशोर्भामो ऽभिधीयते ।
स च दर्शपूर्णमासयोः पशुयागत्वाभावे ऽपि क्रयादिना संपादयितुं शक्यते ।
न चात्र पशौ विद्यमानायां जाघन्यां पत्नीसंयाजैः संस्कार्यत्वम् ।
तृतीयया साधनत्वावगमात् ।
तस्मात्-न प्रकरणादुत्कर्षः ॥ म्जैन्य्च्_3,1.37-38 ॥
(षोडशे संतर्दनस्य संस्थानिवेशाधिकरणे सूत्राणि 24-31) ।
संतर्दनं प्रकृतौ क्रयणवदनर्थलोपात् स्यात् । जैम्_3,3.24 ।
उत्कर्षो वा ग्रहणाद् विशेषस्य । जैम्_3,3.25 ।
कर्तृतो वा विशेषस्य तन्निमित्तत्वात् । जैम्_3,3.26 ।
क्रतुतो वार्थवादान् उपपत्तेः स्यात् । जैम्_3,3.27 ।
संस्थाश् च कर्तृवद् धारणार्थाविशेषात् । जैम्_3,3.28 ।
उक्थ्यादिषु वार्थस्य विद्यमानत्वात् । जैम्_3,3.29 ।
अविशेषात् स्तुतिर् व्यर्थेति चेत् । जैम्_3,3.30 ।
स्याद् अनित्यत्वात् । जैम्_3,3.31 ।
स्तर्त् म्जैन्य् 3,3.39-40
षोडशाधिकरणमारचयति-
संतृद्येद्दीर्घसोमे तत्प्रकृतौ विकृताबुत ।
दीर्घस्य सोम इत्युक्ते प्रकृतावस्तु तर्दनम्
सामानाधिकरण्यस्य षष्ठीतो बलवत्त्वतः ।
दैर्ध्ययुक्तौक्थ्यसंस्थादावुत्कर्षो ऽन्यत्र बाधनात्
ज्योतिष्टोमे श्रूयते- ऽदीर्घसोमे संतृद्येद्धृत्यैऽ इति ।
सोमयागविशेषो दीर्घसोमः ।
तस्मिन्सोमाभिषवाधारयोरधिषवणफलकयोः संतर्दनं कार्यम् ।
अन्योन्यवियोगेन शैथिल्यं मा भूदिति दृढसंश्लेषः संतर्दनम् ।
तदेतत्प्रकरणबलात्प्रकृतौ निविशते ।
न च तत्र दीर्घसोमत्वानुपपत्तिः ।
ऽदीर्घस्य सोमःऽ इत्येवं दीर्घशब्दस्य यजमानविशेषणत्वेनाप्युपपत्तेः- इति प्राप्ते-
ब्रूमः- ऽषष्ठीसमासात्कर्मधारयो बलीयान्ऽ इति (निषादस्थपत्यधिकरणे) वक्ष्यते ।
तथा सति दीर्घत्वं सोमस्य धर्मः, न तु यजमानस्य ।
नन्वेवमपि प्रकृतिभूतस्य सोमस्येष्टिपश्वपेक्षया दीर्घत्वमस्त्येव - इति चेत् ।
न ।
सोमशब्देनैव तदवगतौ दीर्घशब्दस्य वैयर्थ्यात् ।
न हीष्टिपश्वपेक्षया ह्रस्वः कश्चित्सोमो ऽस्ति, यस्य व्यावृत्तये दीर्घशब्दः प्रयुज्येत ।
तस्मात्प्रकृतिरूपं ह्रस्वं सोयं व्यावर्तयितुमयं दीर्घशब्दः ।
विकृतिषूक्थ्यादिषु ग्रहाधिक्याद्दीर्घत्वम् ।
द्विरात्रादिषु चाऽवृत्त्या दीर्घत्वम् ।
तस्माद्वाक्येन प्रकरणं बाधित्वा विकृतिषु तन्निवेशः ।
प्रकृतौ तु दीर्घशब्दस्य बाधः पूर्वमुक्तः ।
संतर्दनबाधश्च साक्षाच्छ्रूयते- ऽहनू वा एते यज्ञस्य यदधिषवणे न संतृणत्ति, असंतृष्णे हि हन्ऽ इति ।
तस्मात्- न प्रकृतौ निवेशः ॥ म्जैन्य्च्_3,1.39-40 ॥
(सप्तदशे प्रवर्ग्यनिषेधाधिकरणे सूत्रे 32-33) ।
संख्यायुक्तं क्रतोः प्रकरणात् स्यात् । जैम्_3,3.32 ।
नैमित्तिकं वा कर्तृसंयोगाल् लिङ्गस्य तन्निमित्तत्वात् । जैम्_3,3.33 ।
स्तर्त् म्जैन्य् 3,3.41-41
सप्तदशाधिकरणमारचयति-
न प्रवृञ्ज्यादाद्ययज्ञे क्रतौ सो ऽनुष्ठितावुत ।
प्रतिषेधः क्रतौ युक्त उक्ता ह्यस्याऽद्ययज्ञता
प्रवृणक्त्युपसद्भ्यः प्रागिति वाक्यात्क्रतौ विधेः ।
आद्यप्रयोगे प्राथम्यान्निषेधः क्वचिदेव सः
ज्योतिष्टोमे प्रवर्ग्याख्यं कर्म प्रकृत्य श्रूयते- ऽन प्रथमयज्ञे प्रवृञ्ज्यात्ऽ इति ।
सो ऽयं प्रतिषेधो ज्योतिष्टोमक्रतौ द्रष्टव्यःऽ न तु तदीयप्रथमप्रयोगे ।
कुतः ।
ऽएववाव प्रथमोऽ यज्ञो यज्ञानां यज्ज्योतिष्टोमःऽ इति तस्य प्रथमयज्ञत्वामिधानात्- इति चेत् मैवम् ।
ऽपुरस्तादुपसदां प्रवर्ग्ये प्रवृणक्तिऽ इति वाक्येन क्ततौ प्रवर्ग्यस्य विहितत्वात् ।
न च विधिनिषेधवाक्ययोः समानबलत्वादनिर्णयः ।
निषेधवाक्ये प्रथमशब्देन निषेधस्य प्रयोगपरत्वनिर्णयात् ।
प्रथमद्वितीयादिशब्दाः क्रियाया आवृत्तौ मुख्याः, तत्संबन्धाद्वस्तुषूपचर्यन्ते ।
प्रथममध्येतव्यत्वात्प्रथमं काण्डम्, तदनन्तरमध्येतव्यत्वाद्द्वितीयं काण्डम् ।
एवम्- आदावुत्पन्नत्वात्प्रथमः पुत्रः, तदनन्तरमुत्पन्नत्वाद्द्वितीयः ।
तथा सति प्रयोगक्रियाया आवृत्तिविशेषे प्रथमशब्दो मुख्यः ।
तदावृत्तिविषयतया यज्ञे लाक्षणिकः ।
त्वत्पक्षे ऽपि क्रतौ मुख्यो यज्ञशब्दः, प्रयोगे लाक्षणिकः स्यात्- इति चेत् ।
बाढम् ।
तथाप्यसंजातविरोधिनिलाक्षणिकत्वकल्पनाद्वरमुत्तर पदे तत्कल्पनम् ।
तस्माज्ज्योतिष्टोमस्य प्रथमप्रयोगे प्रवर्ग्यनिषेधः ।
ननु-सप्तसंस्थायुक्तस्य ज्योतिष्टोमस्य प्रथमसंस्थारूपो ऽग्निष्टोमः, तत्रायं निषेधः पर्यवस्यति ।
विधिश्च तत्र श्रूयते- अग्निष्टोमे प्रवृणक्तिऽ इति ।
एवं तर्ह्यधिकारिभेदेन विधिनिषेधयोर्व्यवस्थास्तु ।
तथा हि श्रूयते- ऽकामं तु यो ऽनूचानः स्यात्, तस्य प्रवञ्ज्यात्ऽ इति ।
तस्मात्- अनूचानव्यतिरिक्तकर्तृके ऽग्निष्टोमप्रथमप्रयोग एवायं निषेधः ॥ म्जैन्य्च्_3,1.41-42 ॥
(अष्टादशे पौष्णपेषणस्य विकृतौ विनियोगाधिकरणे सूत्रम्-) ।
पौष्णं पेषणं विकृतौ प्रतीयेताचोदनात् प्रकृतौ । जैम्_3,3.34 ।
स्तर्त् म्जैन्य् 3,3.43-44
अष्टादशाधिकरणमारचयति-
प्रपिष्टभागः पूषेति प्रकृतौ विकृतावुत ।
इष्टिप्रकरणादेव प्रकृताविति युज्यते
संतर्दनादिवद्वाक्याद्विकृतौ पूषसंभवात् ।
सिद्धस्य पुनरप्युक्तिरधिकस्य विवक्षया
दर्शपूर्णमासप्रकरणे श्रूयत्- ऽतस्मात्पूषा प्रपिष्टभागो ऽदन्तको हिऽ इति ।
तत्र- दन्तरहितस्य पूष्णः पिष्टभागत्वं संतर्दनप्रतिपदादिवत्सिद्धम् ।
तथाप्युत्तरा ।
धिकरणे तस्मिन्नेव विषये विशेषं वक्तुमिह प्रस्तूयते ॥ म्जैन्य्च्_3,1.43-44 ॥
(एकोनविंशे पौष्णपेषणस्य चरावेव निवेशाधिकरणे-सूत्राणि 35-38) ।
तत्सर्वार्थम् अविशेषात् । जैम्_3,3.35 ।
चरौ वार्थोक्तं पुरोडाशे ऽर्थविप्रतिषेधात् पशौ न स्यात् । जैम्_3,3.36 ।
चराव् अपीति चेत् । जैम्_3,3.37 ।
न पक्तिनामत्वात् । जैम्_3,3.38 ।
स्तर्त् म्जैन्य् 3,3.45-46
एकोनविंशाधिकरणमारचयति-
चरौ पशौ पुरोडाशे चरावेवोत पेषणम् ।
विशेषादर्शनादेतत्सर्वेष्वपि विधीयते
प्राप्तत्वान्न पुरोडाशे हृदाद्याकारनाशनात् ।
न पशौ पारिशेष्येण चरावेव हि पेषणम्
ऽपौष्णं चरुमनुनिर्वपेत्ऽ इति चरुर्विहितः ।
ऽपौष्णं श्याममालमेतान्नकामःऽ इति पशुविधिः ।
ऽपशुमालभ्य पुरोडाशं निर्वपतिऽ इत्येतच्चोदकेन पौष्णपशौ प्राप्तम् ।
तत्र- ऽयद्देवत्यः पशुस्तद्देवत्यः पुरोडाशःऽ इति न्यायेन पुरोडाशस्य पूषा देवता ।
तत्र पूर्वोक्तं पेषणं विषयीकृत्योच्यमानाः संशयपूर्वोत्तरपक्षा विस्पष्टाः ॥ म्जैन्य्च्_3,1.45-46 ॥
(विंशे पौष्णपेषणस्यैकदेवत्ये निवेशाधिकरणे सूत्राणि 39-46) ।
एकस्मिन्न् एकसंयोगात् । जैम्_3,3.39 ।
धर्मविप्रतिषेधाच् च । जैम्_3,3.40 ।
अपि वा सद्वितीये स्याद् देवतानिमित्तत्वात् । जैम्_3,3.41 ।
लिङ्गदर्शनाच् च । जैम्_3,3.42 ।
वचनात् सर्वपेषणं तं प्रति शास्त्रवत्वाद् अर्थाभावाद् विचराव् अपेषणं भवति । जैम्_3,3.43 ।
एकस्मिन् वार्थधर्मत्वाद् ऐन्द्राग्नव् अदुभयोर् न स्याद् अचोदितत्वात् । जैम्_3,3.44 ।
हेतुमात्रम् अदन्तत्वम् । जैम्_3,3.45 ।
वचनं परम् । जैम्_3,3.46 ।
स्तर्त् म्जैन्य् 3,3.47-48
विंशाधिकरणमारचयति-
द्विदेवके ऽपि किं पिंष्यादुत पूषैकदैवके ।
द्विदेवके ऽपि तत्पूष्णः सत्त्वात्पेषणभागिनः
देवता विफलत्वेन पेषणं न प्रयोजयेत् ।
यागस्य तत्त्वे भागोक्तेर्न यागान्तरगामि तत्
मूल पाठ: Jaiminīyanyāyamālāvistara a metrical exposition of Jaimini's Mīmāṃsāsūtra, with Mādhava's prose commentary · Edition: Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0