जैमिनीयं ब्राह्मणम् · अध्याय 2
जैमिनीयं ब्राह्मणम्
द्वितीयं काण्डम्(गवामयनम्)
वाग् एषा यत् पृष्ठानि। ताम् एतां विप्रयुञ्जते। तां विहरन्ति।
सा प्रथमम् अहः प्राप्य रथन्तरं भवति। इयम् एव पृथिवी। वाग् वै रथन्तरम्। सैषा वदति।
सा द्वितीयम् अहः प्राप्य बृहती भवति याम् इमां श्रेष्ठी वाचं वदतीत्य् अवोचद् इति। सा हि दूराच् छ्रूयते॥
सा तृतीयम् अहः प्राप्य वैरूपा भवति यद् इदं तिर्यग् वाच एहि प्रेह्य् आहरोपाहराशय पाययेति।
सा चतुर्थम् अहः प्राप्य विराड् भवति। तूष्णीं निषद्यम्। एतद् ध वै वैराज्यं वाचो यत् तूष्णींनिषद्यं याम् इमां श्रेष्ठिनस् तूष्णीम् आसीनस्यैव जिज्ञासन्ते।
सा पञ्चमम् अहः प्राप्य शक्वरी भवति यया प्रशिष्टश् शक्नोति।
सा षष्ठम् अहः प्राप्य रेवती भवति। ययान्नाद्यं प्रदीयते।
सा न मासि - मास्य् आत्तव्या। लेलिभस्यैतद् आजानं याम् इमां लेलिभा वाचं वदन्ति। इमां वा अयं ह्यो ऽवदद् इमां पूर्वेद्युर् इमां पूर्वसमाम्। समानीं बत वाचं वदति न बतैनं पर्येतीति। एवं तद् यन् मासि - मासि पृष्ठान्य् उपयन्ति
अथ यथा तूष्णीम् आसित्वा यद् एव कल्याणं यत् पुण्यं तद् व्याहरेत्। सा व्याहृतं बत व्याहार्षीद् व्याहर्ता बतेति। एवं तद् यद् उपरिष्टात् संवत्सरस्य पृष्ठान्य् उपयन्ति। अभ्य् एव रथन्तरेण क्रन्दति, रेत एव बृहता सिञ्चति, गर्भान् एव वैरूपेण दधाति, जनयत्य् एव वैराजेन, वर्धयत्य् एव शक्वरीभिर्, अन्नाद्यम् एव रेवतीभिः प्रदीयते। तत् कुतो मासि - मासि जनिष्यते। यो वै मास्यो गर्भो ऽवपद्यते -- ऽस्रावीद् इति वै तम् आहुः। स यथा सामि गर्भाः पतेयुर् यथा वामा ओषधीर् लिलियुस् ताः किंदिता स्युश् शुष्येयुर् एवैवं तद् यन् मासि - मासि पृष्ठान्य् उपयन्ति
अथ यथो संवत्सरं भृत्वा गर्भं जनयेद् ऋतौ पक्वा ओषधीः प्रचिनुयुस् तासां कामान् कुर्वीरन्न् एवं तद् यद् उपरिष्टात् संवत्सरस्य पृष्ठान्य् उपयन्ति। अथ ह स्माह चित्रो गांग्यायनि स्पन्दनैषा बहुदोहिनी यत् पृष्ठानि। को ऽहरह स्पन्दनायै धारयितॄन् एषिष्यति। न वा एता-य् अव्यूढे दुह्रे, नो वा एतान्य् उपरिष्टाद् व्यूढे दशरात्रे गायत्र्या परिहृतानि दुह्रे। स यथा स्पन्दनां रज्जुभिर् व्यपतत्य दुह्युर् एवम् एतान्य् उपरिष्टाद् य्यूढे दशरात्रे गायत्र्या परिहृतानि दुह्रे। स यथा उपसृजेद् एवं तद् यद् गायत्रमुखस् त्र्यहो, यथाभिदध्याद् एवं तद् यद् गायत्रमध्यो, यथापहृत्य दुह्याद् एवं तद् यद् गायत्रोत्तमः। तस्माद् उपरिष्टाद् एवोपेत्यानीति।
तद् उ होवाच शाट्यायनिर् यो वा एष चन्द्रमा एष वाव संवत्सर, एष प्रजापतिर्, एष मास इति। एतावान् वावैष यावान् मासः। एतं वावैष आप्त्वा पुनः पल्येते। स पञ्चदश रात्रीर् ऊर्ध्व एति पञ्चदशार्वाङ्। या आपूर्यते ता ऊर्ध्व एत्य्, अथ या अपोछस् ता अर्वाङ्। स आपूर्यमाणो ऽमुं लोकं गच्छति। सो ऽमुना लोकेन संस्पृश्यान्नं भवति। स यद् अस्य तत्र स्वद्यं तत् स्वद इत्यपोछन्न् इमं लोक आगच्छति। स इमा अप ओषधीः प्रविशति। स इमा अप ओषधीः प्रविश्यास्व् अप्स्व् ओषधीष्व् आत्मानं न्युद्यापूर्यमाणो ऽमुं लोकं गच्छति
स एवम् एव पुनः पल्ययमानस् संवत्सरम् आप्नोति। य यावद् ध वै द्वादशभिस् संवत्सरैर् अवरुन्द्धे तावद् एकेनैव संवत्सरेणावरुन्द्धे, य एवं विद्वान् मासि-मासि पृष्ठान्य् उपैति।
तान् एतांश् चतुरो ऽभिप्लवान् उपयन्ति। तेषां चतुर्विंशती रात्र्यः। चतुर्विंशत्यर्धमासस् संवत्सरः। तद् एषां मासि - मसि संवत्सर आप्तो भवति।
पृष्ठ्यं पञ्चमम् उपयन्ति। तद् एषाम् उपरिष्टात् संवत्सरस्य मासि - मासि पृष्ठान्य् उपेतानि भवन्ति।
अथ ह स्माह महित्थश् शैनमिषिर् यं वा इमम् आहुर् अपृष्ठो ऽधुकोष्णीषः कुलस्य - कुलस्योद्भिदा वेष्टत इत्य् एष ह वाव सो ऽपृष्ठो ऽधुवकोष्णीषो य एव निर्हृतपृष्ठ्यष् षडहः। ते किं तत् पृष्ठ्यस्य षडहस्य स्तोमान् एव कुर्वन्त आद्रियेरन्। अभिप्लवान् एवैतान् पञ्चोपेत्योपरिष्टाद् एव पृष्ठान्य् उपेत्यानीति
आसौ वा आदित्यो ऽत्राग्र आसीद् यत्रैतच् चात्वालम्। स इदं सर्वं प्रातपत्। तस्य देवाः प्रदाहाद् अभिभयुः। ते ऽब्रुवन् -- सर्वं वा अयम् इदं प्रधक्ष्यति। एतम् ऊर्ध्वम् उदूहामेति। तं षड्भिर् मासैर् ऊर्द्वम् उदोहन्। तम् एकविंशे विषुवत्य् अध्यादधुः। स एष एकविंशे विषुवत्य् अध्याहितस् तपति। तद् ये च ह वा इत ऊर्ध्वा लोका ये चामुतो ऽर्वाञ्चस् तेषाम् एष एतद् उभयेषां विषुवति। तद् यद् उभयेषां विषुवति तस्माद् विषुवान् सः। यथा वै रथनाभाव् अरास् समग्रा एवं हैतस्मिन् सर्वे लोकास् समग्राः। तान् वा एतान् एके परस्ताद् विषुवत ऊर्ध्वान् एव षडहान् उपयन्ति। यथैवैव आ विषुवत उपयन्त्य् एवम् एवापि पराञ्चः। पराङ् वै स्वर्गो लोकः। पराञ्च एतं स्वर्गं लोकं रोहाम। प्रत्यवरोहस् स यद् अर्वाञ्च उपेयाम। अथैवम् अप्रत्यवरूढम् इति वदन्तस् ते ये ह ते तथोपयन्ति य एवं तस्माद् आदित्याद् अर्वाञ्चो लोकास् तान् एवाप्नुवन्ति। यद्य् अपि बहून् संवत्सरान् उपयन्त्य् अथ तान् एवाप्नुवन्ति। अथ य एवैतान् पराचश् चार्वाचश् च षडहान् उपयन्ति त एवैतान् उभयान् लोकान् आप्नुवन्ति पराङ् इयान् अर्वाङ् इति
स इमं लोकम् अन्तिकाद् अभ्यतपत्। ते वायुम् अवस्तात् पर्यौहन्। तेनैनम् अशमयन्। अपो ह वा एष एतद् बिभर्ति। ते ऽद्भिर् एवैनं तद् अशमयन्। सो ऽमुं परं लोकं प्रातपत्। ते चन्द्रमसं परस्तात् पर्यौहन्। तेनैनम् अशमयन्। प्रजापतिर् वै चन्द्रमाः। प्रजापतिनैवैनं तद् अशमयन्।
त्रिषु ह वा अयम् इदं लोकेषु पवते। त्रिषु तत आदित्यस्, त्रिषु नक्षत्राणि, तस्मात् तान्य् अणिष्ठाणि परार्ध्यानीत्य् एते ह वाव द्वादश देवलोकाः। अथ यथोषसो वा यद् वैवम् एवान्ये लोकाः।
स इमं लोकम् ओकं प्रजानन्न् अभ्यवाविध्यत् तन्त्रिभिः। स्वरसामभिर् अवस्ताद् उपादधुः। सो ऽमुं परं लोकं प्रापश्यत्। तम् उ देवा विध्यत् तन्त्रिभिः। स्वरसामभिः परस्ताद् उपादधुः। तम् एतद् अत्रास्पृण्वन्। यद् अस्पृण्वंस् तत् स्वराणां स्वरत्वम्।
सप्तदशा स्वरसामानो भवन्ति। अन्नं वै सप्तदशम्। अन्नाद्य एवैनं तद् अध्यादधुः। अथो प्रजापतिर् वै सप्तदशः। प्रजापतिनैवैनं तद् अन्नाद्ये ऽध्यादधुः। स एषो हि पूर्वे ऽन्नाद्ये ऽध्याहितस् तपति। ते वा एते स्वरसामान एकपञ्चाशत् सत्रिंशिनीर् विराजस् संपद्यन्ते, पञ्चविंशतिर् अवस्तात् पञ्चविंशतिः परस्तात्। अथ यैकपञ्चाशी तस्याम् एष एतन् मध्य व्यूह्याध्याहितस् तपति। तं न शोको न हिमो नाशनायति न पिपासति नास्य का चनावृत्तिर् अस्ति। न ह वा अशनायति न पिपासति नास्य का चनावृत्तिर् भवति य एवं वेद
स यथा सर्पिषः कुम्भं वा मधुकुम्भं वा जालोदितशयं ह्रियेरन्नवम् एवैष एताभिर् विराड्भिः परिगृहीतः। प्राञ् च प्रत्यञ् च यत एताभिर् धृतः। तान् वा एतान् एके स्वरसाम्नो ऽग्निष्टोमान् एव कुर्वन्ति, स्तोत्रबृहतीम् इदं कुर्म इति वदन्तः। ये वै त्रयो ऽग्निष्टोमाष् षट्त्रिंशत् तानि स्तोत्राणि। द्वादशैकस्य द्वादशैकस्य द्वादशैकस्य तत् षट्त्रिशत्। षट्त्रिंशदक्षरा वै बृहती। बृहती स्वर्गो लोकः। सैतं स्पृशति। ते बृहत्यैतं स्वर्गं लोकं गच्छामेति। ते ह ते गच्छन्त्य् एव यथा त्व् ऋते ऽन्नाद् गच्छेद् एवम्।
अथ यद् उक्थ्या भवन्ति। पशवो वा उक्थ्यानि। अन्नं पशवः। स यथान्नेन सह श्रेयांसं प्रतिनन्दन्तम् उपेयाद् एवम् एवैनम् एतद् उक्थ्यै स्वरसामभिर् उपयन्ति। अथो हैतौ देवतत्त्वाव् एव यद् विश्वजिदभिजितौ। अन्नम् एतद् यत् स्वरसामानः। स यथा सूनायाम् अन्नम् आधाय श्रेयस उपहरेद् एवम् एवास्मा एतद् विश्वजिदभिजिद्भ्याम् एतद् अन्नम् उपहरति। अथो हैषा शान्तिर् एव क्रियते। अग्निष्टोमसाम स्याद् आग्निमारुतं शस्त्रं विषुवान्। क एतांस् त्रीन् अग्नीन् अभ्युपेत्य शोभयतः प्रदग्धो हैव शयीत। तद् यद् उक्थान्य् अन्तरेण भवन्ति। पशवो वा उक्थानि। अन्नं पशवः. अन्नेनैतम् अशमयन्। नार्मेधेनैव तच् छमयित्वा ऽन्तत उयन्ति
ता उ वा एतौ विश्वजिदभिजितौ। अष्टाव् अन्यस् सत्रिंशिनीर् विराजस् संपद्यन्ते ऽष्टाव् अन्यः। अयं वै लोको ऽभिजिद् असौ विश्वजित्। पशव स्वरसामानः। तद् यद् अभिजिता स्तुत्वा स्वरसामभि स्तुवते ऽस्मिन्न् एवैतल् लोके पशून् प्रतिष्ठापयन्ति। अथ यत् स्वरसामभि स्तुत्वा विश्वजिता स्तुवते तस्माद् अमुतः प्रदानात् पशवो जीवन्ति। तस्य वा एतस्य वैषुवतस्याह्नो दश च पञ्चविंशानि स्तोत्राणि भवन्ति द्वे च स्तोत्रिये। ततो यानि दश पञ्चविंशानि स्तोत्राणि महाव्रतं तत्। तैर् अस्य वैषुवते ऽहनि महाव्रतम् उपेतं भवति। अथ ये द्वे स्तोत्रिये आदित्य एव स एतस्मिन्न् अहन् प्रतिष्ठितः।
अथ ह स्म वा एतत् पुरा त्रिर् महाव्रतम् उपयन्त्य् आरम्भणीये ऽहन् वैषुवते महाव्रतीये। तस्य वा एतस्यारम्भणीयस्याह्नश् चतुर्दश च पञ्चविंशानि स्तोत्राणि भवन्ति दश च स्तोत्रियाः. ततो यानि चतुर्दश पञ्चविंशानि स्तोत्राणि महाव्रतं तत्। तैर् अस्यारम्भणीये ऽहनि महाव्रतम् उपेतं भवति। अथ या दश स्तोत्रिया दशाक्षरा विराट्। अन्नं विराट्। तेनो हावसेन यन्त्य् आ वैषुवताद् अह्नः। अथ ये द्वे स्तोत्रिये विषुवतो ऽतिरिच्येते तद् उ हान्नपानम्। द्वयम् उ ह वा अन्नस्य रूपं यच् चैवाश्नाति यच् च पिबति। स यथाश्नंश् च पिबंश् चेयाद् एवम् एवैतद् एताभ्यां यन्त्य् आ महाव्रतीयाद् अह्नः। त एतं स्वर्गं लोकम् आगच्छन्ति। एतन् महाव्रतीयम् अहः। एष वाव स्वर्गो लोको यन् महाव्रतीयम् अहः। स य एतद् एवं वेद त्रिरुपेतम् अस्य महाव्रतं भवति, गच्छति स्वर्गं लोकम्
तद् आहुस् तम् ईं हिन्वन्त्य् अग्रुव इत्य् एवैतस्याह्नः प्रतिपत् कार्येति। तम् अर्केभिस् तं सामभिर् इति शीर्ष्णस्, तद् इद् आस भुवनेषु ज्येष्ठम् इत्य् आत्मनः। तत् तद् इतीव वा एतेनाह्ना चरन्ति। ततो ह वै प्रजापतिः। ततो ह वा एष सर्वासां देवतानाम्. तत् पितैतद् अहः, प्रजेतराणि। स यथा पुत्रः पितरम् आगत्य तत ततेति ह्वयेत्, तादृक् तत्। सो वा उभयरूपा भवति। तम् इति वै पुंसो रूपम्, अग्रुव इति स्त्रियै। उभयम् उ ह वा एतद् भूत्वा प्रजापतिः प्रजज्ञे। तद् आहुर् अभ्युदिते वैषा प्रतिपत्। योगे त्व् आगते पवस्व वाचो अग्रिय इत्य् एव प्रतिपत् कार्येति। मनो वै प्रजापतिः। मनो वै वाचो ऽग्रम्। तद् एनं तत् स्वेनैव रूपेणारभन्ते। सो वै मिथुना - भवति। पवस्वेति वै पुंसो रूपं, वाच इति स्त्रियै. तद् एतन् मिथुनं प्रजननं क्रियते। मिथुनेन जायते य एवं वेद। तस्माद् एषैव प्रतिपत् कार्या। उपास्मै गायता नर इति द्वितीया। तद् एतस्माद् अह्नो नयन्ति। दविद्युतत्या रुचेति तृतीया, प्रत्यक्षम् एतस्याह्नो रूपम्। तम् ईं हिन्वन्त्य् अग्रुव इति चतुर्थी, याभ्युदिता प्रतिपत् तां नेद् अन्तरयामेति
सना च सोम जेषि चेति दशर्चं भवति। ऋषयो वा एतद् ऋद्धिकामा उपोत्थानं प्रियं वाचो ऽपश्यन्। अथा नो वस्यसस् कृध्य् अथा नो वस्यसस् कृधीति तेनास्तुवत। ततो वै ते सर्व एवार्ध्नुवन्। सर्वे हैवर्ध्नुवन्ति य एवं विद्वांस एतेन दशर्चेन स्तुवते। तस्मिन् ह स्माह शक्तिर् विराजं गेयां सना च सोम जेषि च पवमान महि श्रव एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्ताष्टौ नव दश हुंभा ओइ भूर् इति। तद् आहुः कृत्रिमेवैषा विराड् उपाकार्येव। संपदं लोभयति। ओम् इत्य् एतद् एवाक्षरं गेयम् इति। एतद् ध वा इदं सर्वम् अक्षरम्। यथा सूच्या पलाशानि संतृण्णानि स्युर् एवम् एतेनाक्षरेणेमे लोकास् संतृण्णाः। दशधा वा एतद् अतिविध्येमान् क्षरति शतधेमान् सहस्रधेमान्। तस्माद् एतद् एवाक्षर गेयम् इति पर्यासो भवति। यः पर्यासे कामस् स न उपाप्तो ऽसद् इति। ताः पञ्चविंशति स्तोत्रियास् संपद्यन्ते। पञ्चविंशो वै प्रजापतिः। प्राजापत्यं महाव्रतं तत् सलक्ष्म क्रियते
अथ ह स्माहार्यकचित् सर्वम् एवैतद् अहश् चतुर्विंशं कार्यम्। एकम् एवैतत् स्तोत्रं पञ्चविंशं कुर्युः। अभ्यारोहो वा एष एकस्य स्तोत्रस्य यत् सर्वं पञ्चविंशं कुर्वन्ति। तथैतत् स्तोत्रम् अनभ्यारूढं भवतीति।
तद् उ होवाच शाट्यायनिः कर्तपत्यम् एवैतद् यन् न्वावैकस्यै स्तोत्रियायै छिद्यते यद् द्वाभ्यां यत् तिसृभ्यः। तस्य न्व् एव प्रायश्चित्तिं विन्दन्ति वा न वा ऽथ किं यद् एकादशभ्यश् छिद्यते। को तस्य प्रायश्चित्तिः। एकदेवत्यं वा एतद् अहः प्राजापत्यम् एव। प्रजापतिं वैवैतेनाह्ना परिवैविषति। तस्मात् सर्वम् एवैतद् अहः पञ्चविंशं कार्यम् इति।
तस्य त्रीणि शतानि स्तोत्रिया भवन्ति द्वाषष्टिश् च। ततो यानि हि त्रीणि शतानि विराट् सा। अथ या षष्टिर् ऊधस् तत्। अथ ये द्वे स्तनाव् एव ताव् एतस्यैवाह्नो दोहाय
सुषमिद्धो न आ वहेत्य् आप्रीर् आज्यं भवति। यत्र ह वै क्व चाप्रीर् आज्यं प्रजापतेर् एव तत्। प्रजापतिम् एव तेनाप्रीणन्ति।
ता नश् शक्तं पार्थिवस्येति मैत्रावरुणम्। तद्वद् अह भवति। अनिरुक्तम् उ वै प्राजापत्यम्। प्राजापत्ये ऽहंस् तत् तत्सलक्ष्म क्रियते।
मह इन्द्रो य ओजसेत्य् ऐन्द्रं भवति। निष्कस्य हैतन् मणे रूपम्। तस्मान् निष्कं मणिं स्रज पुरस्ताद् बिभ्रति।
तद् इद् आस भुवनेषु ज्येष्ठम् इति रथस्य हैतद् रूपम्। तस्मात् तम् अभिहायैव तिष्ठन्ति। मह स्तवानो अद्रिव इति हस्तिनो हैतद् रूपम्। तस्मात् तं पार्श्वत इवाधिरोहन्ति। तानि वा एतानि महद्रूपाणि संपद्यन्ते। महद्रूपो वै प्रजापतिः। प्राजापत्यं महाव्रतं तत् तत्सलक्ष्म क्रियते। उप हैनम् एतानि रूपाण्य् अक्रीतानि तिष्ठन्ते य एवं वेद।
इयं वाम् अस्य मन्मन इत्य् ऐन्द्राग्नं भवति। इन्द्राग्नी पूर्व्यस्तुतिर् अभ्राद् वृष्टिर् इवाजनीति वा आहुर् जातम् । जायन्त उ एतेनाह्ना। यथा ह वा इदम् आण्डान् निर्भिद्येरन्न् एवम् एवैतस्माद् अह्नो निर्भिद्यन्ते।
शृणुतं जरितुर् हवम् इन्द्राग्नी वनतं गिरः।
ईशाना पिप्यतं धियः॥
मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये।
मा नो रीरधतं निदे॥
इति पाप्मन एवैषोपहति(तिः)
उच्चा ते जातम् अन्धसेति माध्यंदिनस्य पवमानस्यान्धस्वतीर् गायत्र्यो भवन्ति प्राजापत्याः. प्राजापत्ये ऽहंस् तत् तत्सलक्ष्म क्रियते। तासु गायत्रम् उक्तब्राह्मणम्। अथामहीयवं प्राजापत्यं साम प्राजापत्ये ऽहन् क्रियते। अहर् एव तद्रूपेण समृद्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् अर्धुकं भवति। अथ दोहादोहीयं दुग्ध्या एव, एतस्याह्नो दोहाय। अथ हरिश्रीर्निधनम्. श्रीर् वै हरिश्रीर्निधनम्। एतेन वा इन्द्रस् सर्वेषां देवानां श्रियम् अगच्छत्। श्रियम् एवैतेन गच्छन्ति। ता दश स्तोत्रिया गायत्र्यां संपद्यन्ते। दशाक्षरा विराट्। अन्नं विराट्। मुखं गायत्री छन्दसाम्। मुखत एवैतद् आत्मनो ऽन्नाद्यं दधते। पुनानस् सोम धारयेत्य् उभयरूपा बृहती भवति। एषा ह वा उभे सामनी उद्ययाम । तस्माद् एतां कुर्वन्त्य् एव बृहत्साम्नः कुर्वन्ति रथन्तरसाम्नः।
आ पृछ्येन सधस्थेन प्रत्नेन वरुणेन च।
पिबाच्युद् इन्द्र त्वं सोमम् ऋचोर् गर्भे अध्याहितः॥
इति यत्र ह वै क्व चैषा बृहती क्रियते न हैव तस्येन्द्र ईशेत तं नागच्छेत्
तासु रौरवं प्रज्ञातम् अग्निष्टोमसाम नेद् अन्तरयामेत्य् अथार्कपुष्पम् -- अन्नं वा अर्कः। तस्यैतत् पुष्पं यद् आरण्यम्। तद् ध्य् अरण्ये जायत -- आरण्यस्यैवान्नाद्यस्यावरुद्ध्यै। अथाभीशवं तृप्त्या एव। तर्पयन्त्य् एवैनम् एतेन। अथ पञ्चविंशत्यक्षरनिधनम् आङ्गिरसम्। अङ्गिरसो वा ऋद्धिकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते सर्व एवार्ध्नुवन्। सर्वे हैवर्ध्नुवन्ति य एवं विद्वांस एतेन साम्ना स्तुवते। तत् पञ्चविंशत्यक्षरनिधनं भवति। पञ्चविंशो वै प्रजापतिः। प्राजापत्यं महाव्रतं तत् तत्सलक्ष्म क्रियते। अथ नौधसं प्रज्ञातं ब्रह्मसाम। प्रज्ञातं ब्रह्मसाम नेद् अन्तरयामेत्य् अथ पृश्नि -- अन्नं वै पृश्नि -- अन्नाद्यस्यैवावरुद्ध्यै। अथ रौहिणकम्। एतेन वै प्रजापतिर् एकशफानां पशूनां कामम् आरोहत्। तद् यत् कामम् आरोहत् तद् रौहिणकस्य रौहिणकत्वम्। कामं पशूनां रोहति य एवं वेद। यथा ह वा इम आरण्याः पशवो मृगा एवम् एते ऽग्र एकशफाः पशव आसुः। तान् एतैर् एव रौहिणकस्य किटकिटाकारैर् ग्रामम् उपानयत्। तत् त्रयोदशनिधनं भवति त्रयोदशस्य मास उपाप्त्यै। तद् वा अशीतिभिस् संपन्नम्। आशयन्त्य् एवैनम् एतेन। अथ दैर्घश्रवसम् -- अन्नं वै दैर्घश्रवसम् -- अन्नाद्यस्यैवावरुद्ध्यै। अथ समन्तम्, समन्ताः प्रजापशुभिर् असामेति। अथ यौधाजयं त्रिणिधनं, सवनानां क्लृप्त्यै। अथौशनम् अन्त्यं साम। अन्त्येन साम्नान्त्यं स्वर्गं लोकम् अश्नवामहा इति
तद् आहुस् तवश्शाव्यम् एवैतस्याह्नः पृष्ठं कार्यम् इति। तस्यैषा कल्याण्य् एव प्रशंसा, न त्व् एवास्मिन् द्वौ संपादयतः। वामदेव्यम् एवैत्य् आहुः। वामदेव्यं हि (?)। तद् ध वै प्रत्यक्षं वामदेव्यं यद् राजनम्। तस्य प्राणेन प्रस्तौति। ऋचा वै वामदेव्यस्य प्रस्तौति। प्राणेनैतस्य हिं हिं हिं प्राणो ऽसद् इति वै हिंकुर्वन्ति। यथा ह वै वयस आशय एवं राजनस्य वामदेव्यम्। प्रजापतिर् वै पितादित्यः पुत्रः। प्रजापतिर् वामदेव्यम् आदित्यो राजनम्। तस्माद् एष एतयोर् आभावत्तरं तपति। एतद् ध्य् अस्मात् तेजो निर्भिन्नम्। तद् वा अशीतिभिस् संपन्नम्। एकैकस्यां स्तोत्रियायां द्वे द्वे अशीत्यौ संपद्येते। ताः पञ्चाशद् अशीतयस् संपद्यन्ते। द्वे ह वा अशीत्याव् अहश् चैव रात्रिश् च। ताभ्याम् एनम् आशयन्ति। आशयन्त्य् एवैनम् एताभ्याम्। तस्य यन् निधनं पृष्ठान्य् एव तानि
वाग् इति रथन्तरम्। इळेति वैरूपम्। तच् छक्वर्यस् तद् रेवतयः। स्वर् इति वैराजम्। बृहद् इति बृहत्। भा इत्य् असौ वा आदित्यः। भा इत्य् एतद् एवास्य निधनम्। एतस्य सलोमताम् अश्नुते य एवं वेद। तद् एतत् सर्वाणि पृष्ठान्य् अभिवदत्य् एतेन सामनिधनेन। त उ वै पञ्च पञ्चविंशास् सामनिधनानां संस्तुतानां संपद्यन्ते। तान् उ एतान् निधनैर् एव होतानुशंसति।
तद् आहुर् आत्मनाग्रे प्रतिपद्यम् अथ शीर्ष्णा। आत्मा वा अग्रे ऽथ शिर इति। तद् उ ह तद् यथा कर्तं पतेत् तादृक् तद् यत् पञ्चविंशाद् आत्मनस् त्रिवृच् छिरो ऽभि प्रत्यवरोहेयुः। शीर्ष्णैव प्रतिपद्यम्। सर्वा ह वा एतद् देवता स्तोत्रं प्रत्युपतिष्ठन्ति - मया प्रतिपत्स्यते मया मयेति। स यदि शीर्ष्णा प्रतिपद्येत यैव शिरः प्रतिपद्देवता भवति ताम् एव तेनर्ध्नोति। यति पक्षेण यैव पक्षौप्रतिपद्देवता भवति ताम् एव तेनर्ध्नोति। यदि पुच्छेन यैव पुच्छं प्रतिपद्देवता भवति ताम् एव तेनर्ध्नोति। यद्य् आत्मना यैवात्मनः प्रतिपद्देवता भवति ताम् एव तेनर्ध्नोति। अन्तरिता इतरा देवता भवन्ति। सर्वा उ ह वै देवता(श्) शीर्षन्न् एव - इमे वै वसवः
इमे रुद्रा इम आदित्या इमे विश्वे देवाः। अयम् एवायं लोक इदम् अन्तरिक्षम् अयम् असौ लोक इमा दिश श्रोत्रम् इदं रथन्तरम् इदं वामदेव्यम् इदं बृहद् इदं यज्ञायज्ञीयम्। तद् एतच् छीर्ष्णा प्रतिपद्यमानस् सर्वाभिर् देवताभिस् सर्वैर् एभिर् लोकैस् सर्वैस् सामभिर् अनन्तरायं प्रतिपद्यते। स यद् इतो ऽन्येनांगेन प्रतिपद्यत यैव तत्प्रतिपद्देवता स्यात् ताम् एवर्ध्नुयात्। अन्तरिता इतरा देवता स्युः। अथैतच् छीर्ष्णा प्रतिपद्यमानस् सर्वाभिर् एव देवताभिर् अन्तरायं प्रतिपद्यते। अथो हैतद् देवतानां प्रियं यच् छीर्ष्णा प्रतिपद्यते सर्वा नो नापरात्सीर् इति
रेतो वा एतद् अग्रे प्रविशति यद् गायत्रम्। ततो ऽन्यान्य् अंगानि विक्रियन्ते। प्राणो वा एष प्रविशति यद् गायत्रम्। तम् अन्यान्य् अंगान्य् उपसंसीदन्ति। स इमान् प्राणान् आकाशान् अभिनिर्मन्थति। प्राणो वै गायत्रः। गायत्रं शिर एव। तदायतनो वै प्राणो यच् छिरः। तस्मात् त्रिवृतैव शीर्ष्णा प्रतिपद्यम् अथ पञ्चदशेन पक्षेणाथ सप्तशेनाथैकविंशेन पुच्छेनाथ पञ्चविंशेनात्मना। तद् ऊर्ध्वाः कीर्तिम् ऊर्ध्वा श्रियम् ऊर्ध्वा स्वर्गं लोकं रोहन्ति। अथो हैषां तैर् एव ज्योतिष्टोमस्य स्तोमैश् शिवैश् शान्तैर् एतद् अहः परिष्टुतं भवति। अथो हैषाम् एत एव ज्योतिष्टोमस्य स्तोमाश् शिवाश् शान्ताः परिमाद्भाजनं भवन्ति
तद् एतत् सर्वपृष्ठं सर्वस्तोमम् अहः। तद् यद् एतेन सामनिधनेन सर्वाणि पृष्ठान्य् अभिवदति तेन सर्वपृष्ठम्। अथ यद् एते ज्योतिष्टोमस्य स्तोमाश् शिवाश् शान्ताः परिमाद्भाजनं भवन्ति तेन सर्वस्तोमम्। संपदा हैव त्रिणवत्रयस्त्रिंशौ स्तोमाव् अभि पद्यते। सर्वपृष्ठेन हास्य सर्वस्तोमेनैतेनाह्ना स्तुतं भवति य एवं वेद। तेन हैतेनैके ऽपि तृतीयं कृत्वा स्तुवत एकं वावेदं सामेति वदन्तः। तेषां ह तेषाम अमुष्मिन् लोके नैव शिरश् चान्यानि चांगानि विज्ञायन्ते
पिण्डाः पिण्डा इव हि भवन्त्य् अक्रताः. यथाङ्गम् एव स्तोतव्यम्। ते हैवामुष्मिन् लोके साङ्गास् सतनवो ऽमृतास् संभवन्ति।
अथ हैके सकृद् एव शीर्ष्णे हिंकुर्वन्ति -- पराङ् एतद् यच् छिर इति वदन्तः। त्रिस् त्रिर् इतरेभ्यो ऽङ्गेभ्यः। ते त्रयोदश हिंकारास् संपद्यन्ते। एवं त्रयोदशस्य मास उपाप्तिर् इति। तद् उ ह शश्वन् न तथा। त्रिर् एव शीर्ष्णे हिंकुर्वन्तस् त्रिस् त्रिर् इतरेभ्यो ऽङ्गेभ्यः। ते पञ्चदश हिंकारास् संपद्यन्ते। पञ्चदशो वा इन्द्रः। ऐन्द्रं महाव्रतं तत् तत्सलक्ष्म क्रियते
तद् आहुर् नौधसम् एवैतस्याह्नो ब्रह्मसाम कार्यम् इति। तद् ध तत् पक्षम् अनुवदति। रथन्तरम् एव श्यैतम् एव कार्यम् इति। तद् उ ह तत् पक्षम् एवानुवदति। बृहद् एव पञ्चनिधनम् एव वामदेव्यं कार्यम् इति। आत्मानं हैव तद् अनुवदति। श्रायन्तीयम् एव कार्यम् इति। न ह वै किं चन श्रायन्तीयम् अनुवदति। महावैष्टम्भम् एव कार्यम्। तद् दिङ्निधनं भवति। दिशो वै पृष्ठानि। इयम् एव प्राची दिग् रथन्तरम् इयं बृहद् इयं वैरूपम् इयं वैराजम् अमूर् मह नाम्नीर् इमा रेवतयः। दिग्भ्यो वा एतस्मा अन्नाद्यं हरन्ति। दिग्भ्यो वा अस्मा अन्नाद्यं ह्रियते य एवं वेद। अथो हैषाम् एतेनैव सर्वाणि पृष्ठानि ब्रह्मसामवन्ति भवन्ति। तस्माद् उ हैतत् सामैतस्माद् अह्नो नान्तरित्यम्। तद् उ सतोबृहतीषु भवत्य् उत्क्रान्त्या एवानपभ्रंशाय
तद् आहुर् इलान्दम् एवैतस्याह्नो अग्निष्टोमसाम कार्यम् इति। तस्यैषा कल्याण्य् एव प्रशंसा। अतिरिच्यते यद् व्यवच्छिन्द्युरा(?)मणीय तद् यद् अदः पक्षम्। इलान्दं तद् आर्भवस्य पवमानस्यानुष्टुभि कार्यं, यद् अभ्युदितं तन् नेद् अन्तरयामेति।
वारवन्तीयम् एव कार्यम् इति। तस्यैषा कल्याण्य् एव प्रशंसा। निषिद्धम् इव तु यावद् धैव कृत्वो यजते तावद् बुभूषति तावत् कामयते -- श्रेयान् स्यां श्रेयान् स्याम् इति। तद् आर्भवस्यैव पवमानस्य गायत्र्यां कार्यं, यद् अभ्युदितं तन् नेद् अन्तरयामेति।
तद् उ वा आहुर् यद् वावान्या वाङ् नातिवदति तद् एतस्याह्नो ऽग्निष्टोमसाम कार्यम्। यज्ञायज्ञीयं वावान्या वाङ् नातिवदति। वाग् वै यज्ञायज्ञीयम्। कुतो हि वाग् वाचम् अतिवदिष्यति। तस्माद् एतस्याह्नो यज्ञायज्ञीयम् एवाग्निष्टोमसाम कार्यम् इति। अथैतच् चतुस्त्रिंश - संमितम् अनुष्टुभि कुर्वन्ति। त्रयस्त्रिंशद् वै देवताः। प्रजापतिश् चतुस्त्रिंशः। सप्रजापतिका एवैतेन देवा ऋध्नुवन्ति। अथ यद् आरम्भणीये ऽहंस् त्रयस्त्रिंशत्संमितम् भवति देवता एव तेनर्ध्नुवन्ति। अथैतेन सप्रजापतिका एवैतेन देवता अन्तत ऋद्ध्वाप्त्वोत्तिष्ठन्ति
तद् आहुः कां देवतां दीक्षमाणा अनुनिषीदन्ति काम् अनूत्तिष्ठन्तीति। स ब्रूयाद् अग्निं देवतानां दीक्षमाणा अनुनिषीदन्त्य् आदित्यम् अनूत्तिष्ठन्तीति। तस्माद् दीक्षितान् सत आहुर् आसत इति, यद्य् अपि ते शयीरन्न् अथोत्तिष्ठेयुः। अग्निर् हि देवानाम् आसीनानां श्रेष्ठः। अग्निदेवत्या हि तर्हि भवन्ति। तस्माद् उत्थितान् सत आहुर् उदस्थुर् इति, यद्य् अपि त आसीरन्न् अथो शयीरन्। आदित्यो हि देवानाम् उत्थितानां श्रेष्ठः। आदित्यदेवत्या ह तर्हि भवन्ति।
तद् आहुः के भूत्वोत्तिष्ठन्तीति। स ब्रूयान् मनुष्या भूता दीक्षन्ते देवा भूत्वोत्तिष्ठन्तीति।
त एतद् ऋग्रेतसं यजूरेतसं ब्रह्मणि योनौ रेतो दधतो यन्ति। अग्नाव् एव तद् आहुतीभिर् अभिजुह्वतो यन्ति। तस्माद् दीक्षोपसत्सु वीव ग्लायन्ति। तरुणम् इव तर्हि रेतो भवति। तस्माद् उ स्त्री दुर्हृदिनी वीव ग्लायति। तरुणम् इव हि तर्हि रेतो भवति। तान् स्तुतिशस्त्रैस् त्रिर् वर्धयन्तो ऽभिशृण्वन्तो यन्ति। तस्माद् गर्भा अनश्नतस् संभवन्ति
त ऋङ्मया यजुर्मयास् साममया ब्रह्ममया हिरण्मया अमृतास् संभवन्ति। ऋङ्मयो ह वै यजुर्मयस् साममयो ब्रह्ममयो हिरण्मयो ऽमृतस् संभवति, ऋङ्मयान्य् अस्यास्थानि भवन्ति य एवं वेद। तान् उद्गाता पुरस्तात् संवत्सरस्य जनयित्वा होत्रे प्रयच्छति। तान् होता सूक्तैस् सूते। तत् सूक्तानां सूक्तत्वम्। ताञ् छस्त्रैः प्रशास्ति। तच् छस्त्राणां शस्त्रत्वम्। तान् उक्थैर् उत्थापयति। तद् उक्थानां उक्थत्वम्। तेभ्य एतद् देव्यं मध्व् अशीतीर् अन्नाद्यं प्रयच्छति। मधु हास्यास्मिंश् च लोके ऽमुष्मिंश् चान्नं भवति य एवं वेद। अक्षरेणाक्षरेणो हास्मै विद्यास् सर्वान् कामान् दुह्रे। तस्मात् संवत्सर एव शस्यं संवत्सरे प्रोच्यम्। तस्माद् ब्राह्मणो हतो न स्तायाद्भवति। तस्माद् रेतस् सिक्तं न स्तायाद्भवति। तस्माद् उ हैवं विद्वान् न स्तायाद्भवति। अशीतिभिर् वै देवा इमान् लोकान् इमान् अध्वन् आश्नुवत। तद् अशीतीनाम् अशीतित्वम्। तिसृभिर् एवेमं लोकम् आश्नुवत, तिसृभिर् अन्तरिक्षं, तिसृभिर् अमुं, चतसृभिर् एव दिश आश्नुवत, चतसृभिर् अवान्तरदेशान्, एकयामूम् ऊर्ध्वा, द्वानवाशीतयो ऽभवन्। नव प्राणाः। अश्नुते प्राणान्। सप्राणस् संभवति। सर्वम् आयुर् एति। नाकामो म्रियते
अथैषौदुम्बरी राजासन्दी। तस्यै बृहद्रथन्तरे पूर्वौ पादौ, वैरूपवैराजे अपरौ, शाक्वररैवते अनूच्यानि, ऋचः प्राचीनम् आताना, यजूंषि तिरश्चीनं , सामान्य् आस्तरणं, वाकोवाक्यम् अतीरोका, श्रीर् उपबर्हणम्। तस्यै प्रजापतिश् च बृहस्पतिश च पूर्वौ पादाव् अधारयेतां, सोमश् च वरुणश् चापरौ। तस्याम् एतम् आदित्यम् अभ्यषिञ्चन्त। वसवो राज्याय रुद्रा वैराज्यायादित्या स्वाराज्याय विश्वे देवास् साम्राज्याय मरुतस् सार्ववश्याय साध्याश् चाप्त्याश् च पारमेष्ठ्याय। तन् न हैतावत् कयाचन देवतया जितं यावद् आदित्येन। ये हि सुता देवानाम् आसंस् त एनम् असुवत। तस्मिन् दिशो अपित्वम् ऐच्छन्त यथा राजनि विजितिन्य् अपित्वम् इच्छन्त एवम्। ता अब्रवीत् -- प्रदानं मे प्रयच्छतेति। सेयं प्राची दिक् प्रायच्छन् मद् उदयेत्य् अहश् च सत्यं च। माम् अभ्य् उदयेत्य् ऊर्ध्वा दिक् प्रायच्छत् क्षत्रं च राष्ट्रं च। माम् अभ्य् अपक्रामेति दक्षिणा दिक् प्रायच्छद् अन्नं च रथं च। माम् अभ्य् अपक्रामेत्य् उदीची दिक् प्रायच्छद् रूपं च वर्णं च। समया माम् अयेत्य् अन्तरिक्षं प्रायच्छत् प्रकाशं चासंबाधं च। माम् अभ्य् अस्तम् अयेति प्रतीची दिक् प्रायच्छद् ऋतं च रात्रिं च। अनु माम् आ तपेति पृथिवी प्रायच्छत् --
-- क्षेमं च विमोकं च। अथ हाप श्रेयसीर् मेनिरे। ताः प्रति त्वा वयम् आतपाम इति यात्रां च प्रयां च प्रायच्छन्। अद्भिर ह वा एष एतद् एत्य् अपाम् एवायनेन। तासाम् एतासाम् ऊर्ध्वाश् छायाः, प्रति हैनं तद् आतपन्ति। स एवम् एता दिश उपाप्नोति। अस्यै प्राच्यै दिश उदेति। अभ्य् उदेतीमाम् ऊर्ध्वां दिशम्। षड् इत्थं मास एति, षड् इत्थ(म्)। समयान्तरिक्षम् एति। अभ्य् अस्तम् एतीमाम् अपरां दिशम्। अन्व् इमां पृथिवीम् आतपति। तद् यथा पतिर् जाया अनुसंचरेद् एवम् एवैना एष एतद् अनुसंचरति।
स ऐक्षताहम् एवेदं सर्वं संवृणजा इति। स वशम् एव दिव आदत्त, क्षत्रं नक्षत्राणाम्, आत्मानम् अन्तरिक्षस्य, रूपं वायोर्, आज्ञां मनुष्याणां, चक्षः पशूनाम्, ऊर्जम् अपां, रसम् ओषधीनां, चरथं वनस्पतीनां, शिश्नं वयसाम्, अर्चिषम् अग्नेर्, हृदयं पृथिव्यै, गन्धं हिरण्यस्य, स्तनयित्नुं वाचस्, सङ्गमं पितॄणां, भां चन्द्रमसः। तद् यद् एतेषां भूतानाम् आदत्त, तद् आदित्यस्यादित्यत्वम्। स य एतद् एवं वेदैष एवादित्यो भूत्वैतस्यां राजासन्द्याम् आस्ते
न ह ब्रूयात् -- सत्त्रम् आसिष्य इति। श्रमिष्यामीत्य् एव वक्तव्यम्। द्वे ह वाव देवते सत्त्रम् आसाते प्राणापानाव् एव। तयोस् सो ऽभ्यारोहः। तद् यत् ताव् इदं सत्त्रायेते तस्मात् तौ सत्त्रसदौ। तस्माद् उ श्रमिष्यामीत्य् एव वक्तव्यम्। तस्यैष श्लोकः --
सप्तर्षयः प्रतिहितास् सुभूते
सप्त पश्यन्ति बहुधा निविष्टौ।
सप्तैतं लोकम् उपयन्त्य् आपो
ऽस्वप्नजौ सत्त्रसदौ यत्र देवा॥
इति। सप्तर्षयः प्रतिहितास् सुभूत इति पुरुषो वै सुभूतम्। त इमे सप्तर्षयः प्रतिहिताः प्राणा एव। सप्त पश्यन्ति बहुधा निविष्टाव् इति बहुधा ह्य् एतौ निविष्टौ पश्यन्ति यत् प्राणापानौ। सप्तैतं लोकम् उपयन्त्य् आप इतीमा द्वयीर् आप इमा द्वयीर् इमा एका इमा द्वयीर् अवाचीः। अस्वप्नजौ सत्त्रसदौ यत्र देवा इत्य् एते एव ते देवते। स य एतद् एवं वेद --
--यदि च स ह सत्त्रम् आस्ते यदि च नाथ हास्यासितम् एव सत्त्रं भवति। य उ एवं विद्वाञ् छ्रमम् उपपरैत्य् एते एवास्य देवते भागास् सत्त्रम् आसाते सो ऽनार्तस् संवत्सरस्योदृचं गच्छति।
असाव् एव संवत्सरो यो ऽसौ तपति। तस्य यद् भाति तत् संवद्, यन् मध्ये कृष्णं मण्डलं तत् सर इत्य् अधिदेवतम्। अथाध्यात्मम्। अयम् एव संवत्सरो यो ऽयं चक्षुषि पुरुषः। तस्य यच् छुक्लं तत् संवद्, यन् मध्ये कृष्णं मण्डलं तत् सरः। तस्यैष श्लोकः --
मद् एवोदेति सूर्यो ऽस्तं मद् उ च गच्छति।
मां सर्वे देवा अन्वायत्ता माम् उ नात्येति किं चन॥
इति. मद् एवोदेति सूर्य इत्य् एवंविदो ह वाव सूर्य उदेति। अस्तं मद् उ च गच्छतीत्य् एवंविदो ह वावास्तम् एति। मां सर्वे देवा अन्वायत्ता इत्य् एवंविदं ह वाव सर्वे देवा अन्वायत्ता। माम् उ नात्येति किं चनेत्य् एवंविदं ह वाव न किं चनात्येति
तद् आहुः किं संवत् किं सरं किम् अयनम् इति। स ब्रूयात् त्रय्य् एव विद्या संवत्। तां हि सर्वे देवास् संवान्ताः। अहोरात्रे एव सरः। ते हीदं सर्वं सरतः। आदित्य एवायनम्। स ह्य् एषु लोकेष्व् एति। इत्य् अधिदेवतम्। अथाध्यात्मम्। अन्नम् एव संवत्। तद् धीदं सर्वं संवान्तम्। वाग् एव सरः। वाचा हि पुरुषस् सरति। प्राण एवायनम्. स ह्य् अस्मिन् सर्वस्मिन्न् एति। स य एवम् एतद् अधिदेवतं चाध्यात्मं च संवत्सरायणं वेदानार्त एव संवत्सरस्योदृचं गच्छति।
तद् आहुः कथं संवत्सर एकच्छन्दा बार्हतो भवतीति--
--अहोभिर् इति ब्रूयात्। कथम् अहोभिर् इति। अतिरात्राव्, आरम्भणीय महाव्रतीये अहनी, पृष्ठ्याभिप्लावाव्, अभिजि(त्), त्रय स्वरसामानः, प्रत्यञ्चस् त्रय स्वरसामानो, विश्वजिद्, गोआयुषी, दशरात्रो, वैषुवतम् एव सप्तत्रिंशम् एतस्मिन् स्वर्गे लोके ऽध्यूढम्। तस्यैष श्लोकः --
तां विंशति(स्) सप्तशतानि चाहु(ष्)
षट्त्रिंशिनीं बृहतीं कल्पमानाम्।
सानुष्टुब् भूत्वा पशुभिस् सयोनिर्
देवान् पितॄन् ददते मनुष्यांश् च॥
इति। तां विंशतिस् सप्तशतानि चाहुर् इत्य् अहोरात्रा एव ते। षट्त्रिंशिनीं बृहतीं कल्पमानाम् इत्य् एवं ह तद् अहोभि(ष्) षट्त्रिंशिनी बृहती कल्पते। सानुष्टुब् भूत्वा पशुभिस् सयोनिर् इतीयम् एव दिग् गाम् आहरद् इयम् अश्वम् इयम् अजाम् इयम् अविम्। अनुष्टुभे वा एतस्यै सत्यै दिशश् शुल्कम् आहरन्न् इत्य् एवं ह तत्। देवान् पितॄन् ददते मनुष्यांश् चेति। वाग वा अनुष्टुप्। वाचो वा इदं सर्वं यतम्। एवं वै संवत्सर एकच्छन्दा बार्हतो भवतीति
अयम् एव स्पृष्ट्यो यो ऽयं पवते। एतेन हीदं सर्वं स्पृष्टम्। स्पृष्ट्यो ह वै नामैषः। तं पृष्ठ्य इति परोक्षम् आचक्षते। सर्वान् कामान् स्पृशति य एवं वेद।
असाव् एवाभिप्लवो यो ऽसौ तपति। एष हीदं सर्वम् अभिप्लवते।
तद् आहुर् यत् पृष्ठ्याभिप्लवाव इत्य् आचक्षते ऽभिप्लवम् उ वै पूर्वम् उपयन्ति। कथं पृष्ठ्यः पूर्व उपेतो भवतीति। स ब्रूयाद् यद् एवायम् अवरो वायुः पवते पर आदित्यस् तेनेति। अथो यत् परं सन्तम् अभिप्लवम् अवरम् उपयन्ति व्यतिषंगायानिर्मार्गाय सर्वायुष्टायै।
तद् आहुर् यच् चत्वारो ऽभिप्लवस्य स्तोमाष् षट् पृष्ठ्यस्य कथं तत् सभारम् इति। स ब्रूयाद् यद् एवैते सदृशि देवते वायुश् चादित्यश च तेन सभारम् इति। अथो यद् ब्रह्माभिप्लवः क्षत्रं पृष्ठ्यस् तेनो एवेति
तद् आहुर् यद् एते पृष्ठ्यस्य विषमा स्तोमास् त्रिवृत् पञ्चद(श)स् सप्तदश एकविंशस् त्रिणवस् त्रयस्त्रिंश इति, कथम् एतत् समात् समम् उपेतं भवतीति। स ब्रूयाद् ब्रह्म वै त्रिवृत्। क्षत्रं पञ्चदशः। ब्रह्म वै क्षत्रा(ज्) ज्यायः। तेन समात् समम् उपेतं भवति। विट् सप्तदशः। क्षत्रम् उ वै विशो ज्यायः। तेन समात् समम् उपेतं भवति। एकविंशं स्तोमम् अनु शूद्रः। वैश्यो वै शूद्राज् ज्यायान्। तेन समात् समम् उपेतं भवति। त्रिणवं स्तोमम् अनु ग्राम्याः पशवः। शूद्रो वै ग्राम्येभ्यः पशुभ्य श्रेयान्। अत्ता हि स तेषाम्। तेन समात् समम् उपेतं भवति। त्रयस्त्रिंशं स्तोमम् अन्व आरण्याः पशवः। ग्राम्या वै पशव आरण्येभ्यः पशुभ्य श्रेयांसः। बिभ्यत इतरे चरन्त्य् अधिगन्तेतरेषां हन्ता। तेन समात् समम् उपेतं भवति।
तद् आहुः कस्माद् एकरूपो ऽभिप्लवो द्विरूपः पृष्ठ्यस् समान एव सन् व्यूढश् च समूढश् चेति। स ब्रूयाद् यस्माद् इदं ब्रह्म ब्रह्मैव । अथ यस्माद् उ क्षत्रियस् सन् ब्राह्मणो भवति तस्माद् एकरूपो ऽभिप्लवो द्विरूपः पृष्ठ्य इति।
तद् धैतद् एके ऽभिप्लवस्य षष्ठम् अहर् उक्थ्यं कुर्वन्त्य् एवं सभारम् इति। तद् उ होवाच शाट्यायनिर् मोहयन्ति ते ऽभिप्लवं ये तथा कुर्वन्ति। अब्रह्म तर्हि भवति। तस्मात् तथा न कार्यम् इति।
अथ हैके पृष्ठ्यस्य षष्ठाद् अह्नो द्विपद उद्धरन्त्य् एवं सभारम् इति। तद् उ होवाच शाट्यायनि स्वर्ग एष लोको यत् पृष्ठ्यष् षडहः। यजमान एष निदानेन यद् द्विपदः। तम् आयतनाच् च्यावयन्ति। स य एनांस् तथा चक्रुषो ब्रूयाद् आयतनाद् वा च्योष्यन्ते ऽस्माद् वा लोकाद् इति। तथा हैव स्युः। तस्मात् तथा न कार्यम् इति
तद् आहुर् यद् इदं प्रायणीयम् अहस् त्रिवृद् आचक्षते, प्रायणीयम् इत्य् अदश् चतुर्विंशं, कथम् एतत् त्रिवृता प्रयतं भवतीति। स ब्रूयाद् यद् एवैते चत्वारिंशत् त्रिवृतस् संपद्यन्ते तेन त्रिवृता प्रयतं भवतीति। स ब्रूयाद् यद् एवैते चत्वारिंशत् त्रिवृतस् संपद्यन्ते तेन त्रिवृता प्रयतं भवतीति। अथो यच् चतुर्विंशत्यक्षरा गायत्री तेनो एवेति।
तद् आहुः कथम् एतद् वैषुवतीयम् अहश् छन्दोम्यं भवतीति। स ब्रूयाद् यावन्ति सप्तानां चतुरुत्तराणां छन्दसाम् अक्षराणि तावत्य् एतस्याह्न स्तोत्रियाः। तेन छन्दोम्यं भवतीति।
तद् आहुर् यद् उपरिष्टाद् विषुवतश् छन्दोमान् उपयन्ति कथं पुरस्ताद् विषुवतश् छन्दोमा उपेता भवन्तीति। स ब्रूयाद् य एवैष आरम्भणीयस्याह्नश् चतुर्विंश(श्) छान्दोमिकस्तोमस् तेन पुरस्ताद् विषुवतश् छन्दोमा उपेता भवन्तीति। अथो यद् एव पृष्ठ्यस्य द्वे द्वे अहनी समस्ते छन्दोमास् संपद्यन्ते तेनो एवेति
तद् आहुर् यत् षट्कृत्वः पुरस्ताद् विषुवतः पृष्ठ्यान्य् उपयन्ति विश्वजिति सप्तमम् उपरिष्टात् कथं तत् सभारम् इति। स ब्रूयाद् यद् वा अर्वाचीनं विषुवतस् तद् अयं लोको, यद् ऊर्ध्वं विषुवतस् तद् असौ लोकः। आसन्न इव वा अयं लोकः। प्ररिक्त इवासाव् अन्यः. द्वितीयो ह्य् अयं लोकः। तद् यद् विश्वजिति सप्तमम् उपरिष्टात् पृष्ठ्यान्य् उपयन्त्य् एवं सभारम् इति। अथो य एवम् उ य एव विश्वजित् पृष्ठमयम् एव। गौर् वै रथन्तरम् अश्वो बृहद् अजा वैरूपम् अविर् वैराजं व्रीहयश् शक्वर्यो यवा रेवतयः। स एष रसस् संसिक्तो यत् पृष्ठानि। तस्यैषो ऽक्षो यद् गायत्रीषु बृहद् अग्निष्टोमसाम भवत्य् एतस्य रसस्यानपवर्दाय। अथ य एतन् निर्हृतपृष्ठम् उपयन्ति विषिक्तरसं ते विश्वजितं शून्यं उपयन्ति। ते न किं चन व्यश्नुवते। तस्मात् पृष्ठमय एव विश्वजित् कार्य इति
तद् धैतद् एके स्वरसाम्नां स्वराण्य् एव पृष्ठानि कुर्वन्ति। पृष्ठेन वा अहर् आख्यायते, स्वरसामान इत्येत आख्यायन्ते। तस्मात् स्वरसाम्नां स्वराण्य् एव पृष्ठानि कार्याणीति। ते चेत् स्वराणि पृष्ठानि कुर्युर् यानि ष्टं(?) भवन्ति तान्य् एकबृहतीषु कुर्युः। तद् उ होवाच शाट्यायनिर् वयं वाव प्रत्यक्षं स्वराणि पृष्ठानि कुर्मो ये बृहद्रथन्तरे कुर्मः। इदं वै रथनतरम् अदो बृहत्। आभ्याम् उ वै लोकाभ्याम् इदं सर्वं स्पृतम्। तस्माद् बृहद्रथन्तरे एव पृष्ठे कार्यं इति।
अथो हैते विच्छिन्नान् स्वरसाम्न उपयन्ति ये त्रीण्य् उपयन्ति। सर्वाण्य् एव कार्याणि। तथा द्वाभ्यां द्वाभ्याम् अहस् तायते। एवं संगृहीता स्वरसामानो भवन्त्य् अविच्छिन्ना, अथो पापवस्यसस्य व्यावृत्त्या इति।
तद् धैतद् एके विषुवतो बृहतीष्व् एव बृहत् पृष्ठं कुर्वन्ति --
--बार्हतो विषुवान्, बार्हतो वासाव् आदित्यः। बृहत्याम् एष एतद् अध्यूढस् तपति। तस्माद् बृहतीष्व् एव बृहत् पृष्ठं कार्यम् इति।
अथ हैके बृहतीष्व् एव दिवाकीर्त्यं पृष्ठं कुर्वन्ति। बृहत्यायतनानि पृष्ठानि। इदं वा अन्तरिक्षं बृहती। तस्याम् अयं वायुर् अन्तः पवते। तत् पृष्ठं, तस्या उ एव यद् द्वादशाक्षरं पदं तेन, जगतीषु कृतं भवति। एवं तृतीयसवनम् अयातयाम क्रियत इति। तद् उ होवाच शाट्यायनिर् जागतो विषुवान्। जागतम् एतत् साम। जागतो ऽसाव् आदित्यः। यदा ह्य् एष उदेत्य् अथ जगद् एतस्यैव प्रयाणम् अनु प्रैति। तस्माज् जगतीष्व् एव दिवाकीर्त्यं पृष्ठं कार्यम् इति। ततो यास् तिस्रो जगत्यश् चतस्रस् ता बृहत्यः। तेन बृहतीषु कृतं भवति। तास् संस्तुता अष्टाविंशतिर् बृहत्यस् संपद्यन्ते। तेनो एव बृहत्य् अन्तरिता भवति। अथो हैतत् प्राणस्यैव रेतो निर्मितं यद् दिवाकीर्त्यम्। प्रजननं जगती। सो ऽसाव् आदित्यः। तद् यज् जगतीषु दिवाकीर्त्यं पृष्ठं कुर्वन्ति स्वेनैवैनं तद् आयतनेन समृद्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् ऋधुकं भवति
तद् एतत् पृच्छन्ति किं तद् दिवाकीर्त्ये ऽहन् क्रियते येन प्रजाः प्रजनयति येन च प्रजा दाधारयति। स ब्रूयात् प्राणस्यैव रेतो निर्मितं यद् दिवाकीर्त्यम्। प्रजननं जगती। तेन प्रजाः प्रजनयति। अथ यत् प्राणो भूत्वा पराणि चावराणि चाहानि दाधर्ति तेनो एव प्रजा दाधारयति। प्राण एव दिवाकीर्त्यम्। चक्षुषी भ्राजाभ्राजे। श्रोत्रं विकर्णम्। वाग् दशस्तोभम्। त इमे प्राणा मध्यतो हिताः। तद् धै(त)द् एक उदित एवाज्यग्रहान् गृह्णन्ति। उदिते प्रातरनुवाकम् उपाकुर्वन्ति। दिवाकीर्त्यं वै नामैतद् अहः। तन् न रात्र्या संस्मजेयुर् इति। तद् उ होवाच शाट्यायनिस् सामभिर् वा अहान्य् अभिष्टुतान्य् ऋग्भी रात्रयः। सैषां रात्रिर् अनभिष्टुता शून्या भवति। अथो प्रजापतिर् एष यत् प्रातरनुवाकः। तम् आयतनाच् च्यावयन्ति। स य एनांस् तथा चक्रुषो ब्रूयाद् आयतनाद् वा च्योष्यन्ते ऽस्माद् वा लोकाद् इति, तथा हैव स्युः। तस्माद् यथैवेतरेषाम् अह्नां तथा कार्यम्।
प्राणापानाव् उपांश्वन्तर्यामौ। उदिते ऽन्यं जुह्वत्य् अनुदिते ऽन्यम्। बहिर् वै सन्तं प्राणम् उपजीवन्त्य् अन्तस् सन्तम् अपानम्। तद् यद् उदिते ऽन्यं जुह्वत्य् अनुदिते ऽन्यं, बहिस् सन्तं प्राणम् उपजीवामान्तस् सन्तम् अपानम् इति। अथ य एताव् उदिते जुह्वति, प्राणापानाव् उत्खिदन्ति। स य एनांस् तथा चक्रुषो ब्रूयात् प्राणापानाव् उदखात्सुर् मरिष्यन्तीति, तथा हैव स्युः। तस्माद् यथैवेतरेषाम् अह्नां तथा कार्यम्
तानि वा एतानि दीक्षमाणाद् उत्क्रामन्त्य् अग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुबन्धः पितृयज्ञो गृहमेधो ब्रह्मौदनो मिथुनम्। तद् यद् दीक्षोपसत्सु स्वाहेति व्रतयति, तेनास्य दीक्षोपसत्स्व् अनन्तरितम् अग्निहोत्रं भवति। यद् उपांश्वन्तर्यामाव् उदिते ऽन्यं जुह्वत्य अनुदिते ऽन्यं, तेन सुत्यायाम्। यत् पुरोडाशस् तेन पौर्णमासम्। य(द्) दधि तेनामावास्यम्। यत् पयस्या तेन चातुर्मास्यानि। यत् पशुम् आलभन्ते तेन पशुबन्धः। यद् उषासनान्य् उपास्यन्ति तेन पितृयज्ञः। यद् धानाः करम्भो भवति तेन गृहमेधः। यत् सौम्यम् आहरन्ति तेन ब्रह्मौदनः। यत् पत्नीस् संख्यापयन्ति तेन मिथुनम्।
तद् धैक आहुः प्राणेन त्वा संभवामनीत्य् एव प्रतिष्णाम् अभिप्राण्यानीति। तद् उ होवाच शाट्यायनिर् अवकीर्णरूपम् इवैतत्। एको वाव पुमान् प्राणावे विद्ययैवैतद् अनन्तरितम् अथो यद् एव यज्ञायज्ञीयस्य स्तोत्रे संख्यापयन्ति
तद् आहुर् यद् अन्यैर् अन्यैः सामभि स्तुवते ऽन्या अन्या अनुशंसन्त्य्
अथ कस्मात् समाना गृहा इति। स ब्रूयाद् अन्नं वै साम। अन्नम् ऋक्। प्राणा गृहाः। अन्यद् अन्यद् वै प्राणेभ्यो ऽन्नम् आहरन्ति। तस्माद् अन्यैर् अन्यैः सामभि स्तुवते ऽन्या अन्या अनुशंसन्ति समाना एव गृहा इति।
प्राणा एव साम। तन् मूलम्। अथ यथा वृक्षस्य स्कन्धांसि वा शाखा वा पलाशानि वैवम् अन्यानि सामानि। स य एतद् एवं वेद सर्वाण्य् एवास्य सामानि विदितानि भवन्ति।
वाग् एवर्क्। तन् मूलम्। अथ यथा वृक्षस्य स्कन्धांसि वा शाखा वा पलाशानि वैवम् अन्या ऋचः। स य एतद् एवं वेद सर्वा एवास्यर्चो विदिता भवन्ति।
मन एव यजुः। तन् मूलम्। अथ यथा वृक्षस्य स्कन्धांसि वा शाखा वा पलाशानि वैवम् अन्यानि यजूंषि। स य एतद् एवं वेद सर्वाण्य् एवास्य यजूंषि विदितानि भवन्ति
तद् आहुः किं नातिष्टुवन्ति, किं नातिशंसन्ति, किं नातिगृह्णन्तीति। स ब्रूयात् प्राणम् एव नातिष्टुवन्ति। स्तुते वै प्राण एव परिशिष्यते। वाचम् एव नातिशंसन्ति। शस्ते वै वाग् एव परिशिष्यते। मन एव नातिगृह्णन्ति। गृहीते वै मन एव परिशिष्यते। नातिष्टुतं नातिशस्तं नातिगृहीतम् एवंविदम् संपन्नम् एव भवति।
अथ ह वै समृद्ध एव यज्ञ उपासितव्यः। यद् अधीयन्न् अनुपहन्यमानः करोति तत् स्वर्ग्यम्। स्वर्ग्यं म एतत्, स्वर्गलोक एतेन भविष्यामीत्य् एव तद् विद्यात्। अथ यद् दुरधीयन्न् उपहन्यमानो विषिञ्चन् करोति, पुष्टिस् सा प्रजननम्। पुष्टिर् म एषा प्रजननं, बहुर् भविष्यामि प्रजनिष्य इत्य् एव तद् विद्यात्
अथ ह वै त्रयः पूर्वे ऽग्नय आसुर् भूपतिर् भुवनपतिर् भूतानां पतिः। अयं वै लोको भूपतिर्, अन्तरिक्षं भुवनपतिर्, असाव् एव लोको भूतानां पतिः। अथ हायं भूतिर् नाम। तेषां ह वषट्कारश् शीर्षाणि चिच्छेद। त इमास् तिस्रः पृथिवीः प्रविविशुः। तस्माद् यद् अग्निहोत्रस्य वाज्यस्य वावस्कन्देत् तद् अभिमृशेद् भूपतये स्वाहा, भुवनपतये स्वाहा, भूतानां पतये स्वाहेति। एतेषु हैवास्याग्निषु हुतम् अस्कन्नं भवति।
अथ ह वै त्रयः पूर्व ऋषय आसुश् शूर्पंयवम् अध्वाना अन्तर्वान् कृषिस् सोल्वालाः। ते ह यज्ञस्य कृन्तत्राणि ददृशुः। तस्यैताः प्रायश्चित्तीर् ददृशुः - शं च म, उप च म, आयुश् च मे, भूयश् च मे, यज्ञ शिवो मे संतिष्ठस्व, यज्ञ स्विष्टो मे संतिष्ठस्व, यज्ञारिष्टो मे संतिष्ठस्वेति। तस्माद् एता दर्शपूर्णमासाभ्यां वा चातुर्मास्यैर् वा पशुबन्धेन वा सौम्येन वाध्वरेणेष्ट्वोपरिष्टाज् जपेत। यद् एवात्र यज्ञस्य विधुरं भवति तद् एव तेन शमयति।
प्राण एवाविषुवतो व्यानो विषुवान् अपानो यद् ऊर्ध्वं विषुवतः। अपानो वा इदं सर्वम् आहरति। तस्माद् वयं परस्ताद् विषुवतो ऽर्वाचष् षडहान् उपैमः
तद् ध क्रतुजिज् जानकिर् इयपिं सौमापं पप्रच्छ - प्राणेन स्वी(3)द् अपानेना(3) अस्मिञ् जीवति मर्त्यः। तद् ब्रूतात् संगतेभ्यः कुरूणां ब्राह्मणेभ्य इति। स होवाचेहैवाहं त्वां प्रतिवक्ष्यामीति। तं ह प्रत्युवाच - न प्राणेन नापानेन। अस्मिञ् जीवति मर्त्ये व्यानो ऽध्यक्षः पशोस् सतं विष्वंचमीय्यत इति। पुरुषो वै पशुः। पशुरुत् पशुस् सः। व्यानो ह वा एतं विष्वंचमीय्यते।
तान् वा एतान् एके परस्ताद् विषुवत ऊर्ध्वान् एव षडहान् उपयन्ति। यं वैवैतं पृष्ठ्यं पूर्वम् उपैमस् तेन व्यावृत्ता भवन्ति। अथो एवम् अजामीति। तद् उ होवाच शाट्यायनिर् उभये वा एत ऊर्ध्वा भवन्ति ये चोर्ध्वा ये चार्वाा़ञ्चः। सवनैर् वा एत ऊर्ध्वा भवन्त्य् आप्नुम उ तं कामं य आवर्तेष्व् इति।
तद् आहुर् यद् यथापां विवर्त एवम् एते यद् गोआयुषी। कतरेषाम् एते अह्ना(म्)। परेषाम् अवरेषाम् इति। उभयेषाम् एवेति ब्रूयात्। उभयानि ह वा एते अहानि संगृह्य तिष्ठतः पराणि चावराणि च। तस्मात् त्र्यहेणान्यत् तनुमहे त्र्यहेणान्यत्। स द्व्यहस् सन् षडहो भवति। तद् ऊर्ध्वे गोआयुषी भवत ऊर्ध्वो दशरात्रः।
तद् धैतद् एके विहृते गोआयुषी उपयन्ति - उपरिष्टाद् विश्वजित आयुः पुरस्ताद् दशरात्रस्य गाम्। एवम् अजामीति। अथो एवम् एवैतयोः पुरोपाययनम्। तत् प्रमत्ता नैमिशीया अतीयुः। ते ऽत्र पुरस्ताद् दशरात्रस्य सहोपेयुः। तत इदम् अर्वाचीनम् एवोपयन्ति।
तद् उ होवाच शाट्यायनिः। प्राणापानाव् एतौ यद् गोआयुषी। अन्नपाने ते विच्छिन्दन्ति ये विहरन्ति। अथो एष वाव देवयानः पन्था यद् गोआयुषी। स्वर्ग एष लोको यद् दशरात्रः। स एतेन देवयानेन पथैतं स्वर्गं लोकं गच्छन्ति। अथ य एते विहरन्त्य् एतं देवयानं पन्थानं विच्छिन्दन्ति ते न किं चन व्यश्नुवते। तस्मात् सहैवोपेत्ये इति
गोबलं ह वार्ष्णं शाट्यायनिर् उवाच -- पितृमान् असि भगवः पितामहवान्। संवत्सराय दीक्षिष्ये ऽनु मा शाधीति। तथेति होवाच। अयनं ते वक्ष्यामि, यद् विद्वान् अनार्तस् संवत्सरस्योदृचं गच्छत्य् उत्थायो योगक्षेमी पणाय्यो भवतीति। तान् वा एतान् द्वादश मासो यन्तीति होवाच। ततो यांश् चतुरो मासो यन्त्य् अग्नेर् एव तान् अयनेन यन्ति। अग्निं चैव तेन देवतानाम् उपाप्नुवन्तीमं च लोकम् इति। अथ यान् अपरांश् चतुरो मासो यन्ति वायोर् एव तान् अयनेन यन्ति। वायुं चैव देवतानाम् आप्नुवन्त्य् अन्तरिक्षलोकं चेति। यान् अपरांश् चतुरो मासो यन्त्य् आदित्यस्यैव तान् अयनेन यन्ति। आदित्यं चैव तेन देवतानाम् उपाप्नुवन्त्य् अमुं च लोकम् इति
एतद् वा अयनम् इति होवाच। तद् यद् वा इदम् आहुर् अनयेनागाद् इति। य एवैतद् अविद्वांसस् संवत्सराय दीक्षन्ते ते ऽनयनेन यन्ति। अथ य एतद् एवं वेदानार्त एव संवत्सरस्योदृचं गच्छत्य् उत्थायो योगक्षेमी पणाय्यो भवति। त एतं स्वर्गं लोकम् आगच्छन्ति।
एतन् महाव्रतीयम् अहः। एष वाव स्वर्गलोको यन् महाव्रतीयम् अहः। तत् पञ्चविंशं भवति। ततो या विंशतिर् विराट् सा। अथ याश् चतस्र इमा एव ताश् चतस्रो दिशः। अथ या पञ्चविंशीयम् एव सोर्ध्वा दिक्। दिशो वै यत्र समुदश्रयन्त तद् एषो ऽत्यग्रो नाम लोको ऽभवद् य एष तपति। एतम् एवैतत् पञ्चविंश्याभ्यारोहन्ति। एतस्य सलोकतां गच्छन्ति।
तद् आहुर् यद् एतेनाह्ना भूयिष्ठम् ईप्सन्ति यन् महाव्रतीयेनाथ कस्माद् अयं वारणः पञ्चविंशस्तोमः क्रियत इति। कृत्स्नस्यान्नाद्यस्यावरुद्ध्या इति ब्रूयात्। पुरुषम् एव पञ्चभि स्तोत्र्याभिर् अवरुन्द्धे गां पञ्चभिर् अश्वं पञ्चभिर् अजां पञ्चभिर् अविं पञ्चभिः। स एष कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्या अन्ततः पञ्चविंशस्तोमः क्रियत इति।
अथ याव् अतिरात्रौ प्रतिष्ठैव सा। अस्मिन्न् एव लोके प्रायणीयेनातिरात्रेण प्रतिष्ठाय प्रयन्ति। अमुष्न् लोक उदयनीयेनातिरात्रेण प्रतिष्ठायोद्यन्ति। ते हाप्य् अबुभूषन्त इव भवन्ति, प्रत्य् इव तिष्ठन्ति
अथैषौदुम्बरी राजासन्दी। तां हैके प्राचीम् एव निदधति। उदीचीम् एव निदध्यात्। तस्या इमाव् अवान्तरदेशौ पूर्वौ पादाव् इमाव् अपरौ। तां हेके प्राचीम् एवाधिरोहन्ति। तद् उ होवाच शाट्यायनिर् उदञ्चो वै सामार्त्विज्यं कुर्वन्ति। उदीचीनदेवत्या उद्गातारः। उदीच्यैवारुह्येति। तां हैके नमस्कारेणैवाधिरोहन्ति नमस् ते ऽस्तु भगवति विद्य त्वा सा नश् शिवैधीति। तूष्णीं हैवैके अधिरोहन्ति। मनो वै प्रजापतिः। प्राजापत्यम् एतद् अहर् इति। ताम् अनेनाग्रे ऽधिरोहेद् अथानेनाधानेनाथानेनामृतं गमयेयम् इति।
अथास्मा आरूढाय वाणं शततन्त्रिम् आहरन्ति। तम् एतेन संतानेन संतनोति --
भूर् भुव स्वर्
वदा वदा वदा वदी वदा वदोरुः
पृथुस् सुगस् सुगन्तुः
कर्मः करणः करः करिष्यन्।
ऐन्द्री वाचं बृहतीं विश्वरूपाम्।
शतायुषं प्रवद देव वाण॥
इति। अथेन्द्रणतया चेषीकया वेतसशाखया चोल्लिखति -- मनो ज्योतिर् इति, वाक् सत्यम् इति, मानो भद्र इति। तं प्रयच्छति
अथैता अन्याः परिमादः कुरुते। अथ स्तुते। अथ शीर्ष्णाग्रे स्तुते ऽथ दक्षिणेन पक्षेणाथोत्तरेणाथ पुच्छेनात्मनोत्तमेन। तत् सलोमाय।
शीर्ष्णोद्गाता प्रतिपद्यत आत्मना होता। यां ह्य् एव प्राह तया प्रतिपद्यते। अथ यद् अन्यां प्राहान्यया प्रतिपद्यते, विलोम तत्।
अथ हैक आत्मनैवाग्रे प्रतिपद्यन्ते। तद् उ होवाच शाट्यायनिर् यथान्धो द्वारम् ऋच्छेत् तादृक् तद् इति।
अथ हैके स्तुत्वैवोपावरुह्यैतद् अहश् शस्यमानम् ईक्षमाणा आसते। तद् उ होवाच शाट्यायनिर् ईश्वरः पापीयान् भवितोर् यस् तथा करोति। क्षत्रं वै साम। विट् छस्त्रम्। उपर्य् एवासीत । राजानम् एवाह्रियमाणं प्रत्यवरोहेत्। तथास्य राजा प्रत्यवरूढो भवति। तस्यै प्रत्यवरोहो --
मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम्।
पिपृतां नो भरीमभिः॥
इति। ताम् एताम् आसन्दीम् उत्तरतः पर्याहृत्य निदधति
तद् आहुर् यद् विहृतम् एतद् अहश् शस्यते, विहृतासु स्तुध्वा(3) अविहृतास्(3) इति। विहृतास्व् इति ब्रूयात्। य एता राजन्यस्य देवतास् ताभिर् विहृतं भवति।
तद् यद् गायत्रीषु शिरो भवति, बृहतीषु च ककुप्सु च पक्षौ, द्विपदासु च पुच्छं, त्रिष्टुप्स्व आत्मा, कथम् अतो विहृतं भवतीति। एतस्यात्मनः पञ्चविंशं शतं त्रिष्टुभो भवन्ति। ततो यच् छतम् आयुष् टत्। अथ याः पञ्चविंशतिः पुरुषस् सः। पञ्चेमाः पञ्चेमाः पञ्चेमाः पञ्चेमाश् चत्वारि प्राङ्गाणि। आत्मा पञ्चविंशः। स एष शतायुः पुरुषः।
तद् आहुर् यद् अन्यास् त्रिष्टुभस् संपूर्णाक्षरासु स्तुवत इति। स ब्रूयात् त्रैष्टुभो वै पुरुषस् त्रिष्टुब्योनिः। तानीमानि पुरुषस्यान्यूनानि। तस्माद् व्यूनाक्षराः। अथ यद् विषमेण समस् तेनो संपूर्णाक्षरा इति।
तद् आहुर् यत् पञ्चविंशः पुरुषः पुरुषस्यैतत् स्तोत्रम् इत्य् आहुः। अथ कस्माद् एतानि विषमाणि सामानि क्रियन्ते पुरुषस्य सर्वताया इति। स ब्रूयान् मनो वै प्रजापतिः। प्रजापतिः पुरुषः। तस्यैषो अन्तर् आत्मा यद् एताः पञ्चविंशति स्तोत्र्याः। अथो यथा पुरुषस्य केशा नखा लोमानि श्मश्रूणि तादृक् तत्। यद् एतानि विषमाणि सामानि क्रियन्ते पुरुषस्य सर्वताया इति
तद् आहुर् यद् बृहत्यायतनानि पृष्ठानि कथम् अतो बृहतीषु कृतं भवतीति। एतस्यात्मनो द्वापञ्चाशं शतं बृहतयो भवन्त्य् एका च ककुप्। तेन बृहतीषु कृतं भवति। तेनो एव ककुप् पृष्ठेभ्यो न च्यवत इति।
तद् आहुः किंछन्दाः पञ्चविंश स्तोम इति। पंक्तिछन्दा इति ब्रूयात्। एतद् ध वै प्रत्यक्षं पञ्चविंशस्य स्तोमस्य छन्दो यत् पंक्तिः। एतस्यात्मनस् सप्तत्रिंशं शतं पंक्तयो भवन्त्य् अर्धपंक्तिश् च। तेन पंक्तिश् छन्दाः। ता उ एव द्वानवतिर् अतिछन्दसः। अतिछन्दा वै सर्वाणि छन्दांस्य् अभिभवति। तद् वा अस्य तत् सर्वाण्य् एव छन्दांस्य् उपेतानि भवन्ति।
तद् आहुः कथम् एतत् सर्वम् अहः पञ्चविंशं भवतीति। संपदेति ब्रूयात्। कथं संपदेति। पद्येति नव शीर्ष्णो गायत्र्यः। तासां सप्तविंशतिः पदानि। षट् छतं पक्षयोर् द्वाचत्वारिंशत् पुच्छस्य। तद् यानीमानि सप्तविंशतिश् शीर्ष्णः पदानि ततो द्वे आदाय षट् छत उपदधति। अथ पञ्चविंशः परिशिष्यते। ततो यच् छतं चत्वारस् ते पञ्चविंशाः। अथ यान्य् अष्टाव् अतिरिच्यन्ते तानि द्वाचत्वारिंशत्य् उपदधति। तौ द्वौ पञ्चविंशौ। पञ्चविंश एव पञ्चविंशम्। सर्वं पञ्चविंशं भवतीति
एष वाव यज्ञानां विषुवान् यद् अग्निष्टोमः। ते ये प्राञ्चो हविर्यज्ञा औपवसथात् ते ऽपियन्ति। अथ य उत्तरे यज्ञक्रतवस् सुत्यायां ते ऽपियन्ति। यत् त्रिवृद् बहिष्पवमानं ये त्रिवृत स्तोमास् तेन ते ऽपियन्ति। यत् पञ्चदशान्य् आज्यानि पञ्चदशो माध्यंदिनो ये पञ्चदशा स्तोमास् तेन ते ऽपियन्ति। यत् सप्दशानि पृष्ठानि सप्तदश आर्भवो ये सप्तदशा स्तोमास् तेन ते ऽपियन्ति। यद् एकविंशम् अग्निष्टोमसाम य एकविंशा स्तोमास् तेन ते ऽपियन्ति। यद् एकविंशं सर्वे स्तोमा अभिसंपद्यन्ते तेन सर्वे स्तोमा अपियन्ति।
अयम् एवाग्निष्टोमो यो ऽयं पवते। ते ये प्राञ्चो यज्ञक्रतवो ऽग्निस् ते निदानेन। अथ य उत्तरे यज्ञक्रतव आदित्यस् ते निदानेन। यदा वा अग्रिर् उद्वायति वायुम् एवाप्येति। यद् आदित्यो ऽस्तम् एति वायुम् एवाप्येति। तस्य वा एतस्य तथैव वाग्निष्टोमस्य चतुर्विंशति स्तुतशस्त्राणि। एवं चतुर्विंशतिः पुरोवातो दक्षिणतोवातः पश्चाद्वात उत्तरतोवात ऊर्ध्वोवात इति। प्राण एवाग्निष्टोमस्तोमः। ते ये प्राञ्चो यज्ञक्रतवो वाक् ते निदानेन। अथ य उत्तरे यज्ञक्रतवश् चक्षुस् ते निदानेन --
--यदा वै तूष्णीम् आस्ते प्राणम् एव वाग् अप्येति। यदा स्वपिति प्राणम् एव चक्षुर् अप्येति। तद् यद् एवंविद् वदति हविर्यज्ञैर् अस्य तद् इष्टं भवति। यत् प्राणित्य् अग्निष्टोमेनास्य तद् इष्टं भवति। यद् वीक्षत उत्तरैर् अस्य तद् यज्ञक्रतुभिर् इष्टं भवति। तद् यद् एवंविद् वदति यत् प्राणिति यद् वीक्षत एतैर् हास्य तत् सर्वैर् यज्ञक्रतुभिर् इष्टं भवति।
स एष समानप्रायणस् समानसंबन्धनस् संवत्सरः। तस्य मन एव प्रायणं, वाक् संबन्धनम्। स एष संवत्सरो ऽग्निष्टोमान् एवाभिसंपद्यते। षड् अतिरात्रस्यातियन्ति, त्रीण्य् उक्थानि त्रिदेवत्यस् सन्धिः। त्रीण्य् आरम्भणीयस्याह्नो ऽतियन्ति। अथ यत्र ह क्व चाभिप्लवस् सप्त ते ऽग्निष्टोमाः। षट्कृत्वः पृष्ठ्यम् उपयन्ति। द्वयोष् षड् अतियन्ति द्वयोष् षट्। सो ऽग्निष्टोमः। द्वयोष् षट्। तद् अमूनि षड् उपदधाति। सो ऽग्निष्टोमः। अग्निष्टोमो ऽभिजित्। नव स्वरसाम्नाम् अतियन्ति। तद् अमूनि त्रीण्य् उपदधाति। सो ऽग्निष्टोम। अग्निष्टोमो विषुवान्। प्रतीचां स्वरसाम्नां नवातियन्ति। पञ्चकृत्वः पृष्ठ्यम् उपयन्ति। द्वयोष् षड् अतियन्ति। द्वयोष् षट्। सो ऽग्निष्टोमः। एकस्य त्रीणि। तान्य् एषु नवसूपदधाति। सो ऽग्निष्टोमः। अग्निष्टोमो विश्वजित्। गोआयुषोष् षड् अतियन्ति। द्वादशाग्निष्टोमा दशरात्रः। अग्निष्टोमो महाव्रतीयम् अहः। षड् अतिरात्रस्यातियन्ति। तद् अमूनि षड् उपदधाति। सो ऽग्निष्टोमः। द्वादशकृत्वष् षोडशिनम् उपयन्ति। सो ऽग्निष्टोमः। यद्य् उ वा अतिरात्रे षोडशिनम् उपयन्ति। मोहयन्त्य् अमूं विराजस् संपदम्। अतीमाम् अग्निष्टोमसंपदं रिच्यते। स ह सो ऽनिधानो वज्रो हिनस्ति। अथ वा अनिधानो वज्रः। स एष समानप्रायणस् समानसंबन्धनस् संवत्सरः। तस्य मन एव प्रायणं, वाक् संबन्धनम्। स एष संवत्सरो ऽग्निष्टोमान् एवाभिसंपद्यते। संपदा हाग्निष्टोमायनं भवति। उपाप्तान्य् उ तान्य् अहानि भवन्ति यानि संवत्सरे चित्रियाणि। तेन हैतेनायनेनोभौ कामाव् उपाप्नोति यश् चाग्निष्टोमायने यश् च मासि पृष्ठे
द्वया ह वै पूर्व ऋतव आसुः -- प्राणर्तवो देवर्तवः। अथेम एतर्ह्य् ऋतव एव। प्राण एव वसन्त आस। वाग् ग्रीष्मः। चक्षुर् वर्षाः। आर्द्रम् इव वै चक्षुर्, आर्द्रा इव वर्षाः। श्रोत्रं शरत्। मनो हेमन्तः। या इमाः पुरुष आपस् स शिशिरः। अथ देवर्तवः। वायुर् एव वसन्त आस। अग्निर् ग्रीष्मः पर्जन्यो वर्षाः। आदित्यश् शरत्। चन्द्रमा हेमन्तः। या अमूर् दिव्या आपस् स शिशिरः। स यस् स प्राणो वसन्त आस, यो वायुर् वसन्तस्, सो ऽयम् एतर्हि वसन्तः। अथ या वाग् ग्रीष्म आस, यो ऽग्निर् ग्रीष्मस्, सो ऽयम् एतर्हि ग्रीष्मः। अथ यश् चक्षुर् वर्षा आसुर् , याः पर्जन्यो वर्षास्, ता इमा एतर्हि वर्षाः। अथ यन् मनो हेमन्त आस, यश् चन्द्रमा हेमन्तस्, सो ऽयम् एतर्हि हेमन्तः। अथ या इमाः पुरुष आपश् शिशिर आसुर्, या अमूर् दिव्या आपस् स शिशिरस्, सो ऽयम् एतर्हि शिशिरः
त एते षड् ऋतवष् षड् दिशः। त एत ऋतवो दिग्भिर मिथुना -- वसन्तेनेयं प्राची दिङ् मिथुना, ग्रीष्मेणेयं, वर्षाभिर् इयं, शरदेयं, हेमन्तेनासौ, शिशिरेणेयम्। तद् यथा पतिं जाया अनिमेषम् ईक्षेरन्न् एवम् एवैना एवंविदं दीक्षमाणम् ईक्षन्ते। तद् यद् दिग्भिर् ईक्षितस् तस्माद् दीक्षितः। स दीक्षिष्यमाण आदित्यम् उपतिष्ठेत त्वं देवत दीक्षितासि। सा दीक्षमाणस्य तेज इन्द्रियं वीर्यं यश आदत्से। मा मे तेज इन्द्रियं वीर्यं यश आदिथाः। तव दीक्षाम् अनु दीक्ष इति।
अथर्तून् अन्व आरोहति।
य ऋतव ऋतुभ्यो ऽध्य आसन्
पुरा सूर्याचन्द्रमसश् च पूर्वे।
येभिः प्रजानन् प्रदिशो दिशश् च
तान् अन्व् आरोहामि तपसा ब्रह्मणा च॥
इति प्राणर्तून् अन्व् आरोहति।
य ऋतवश् चन्द्रमसो ऽधि पूर्व
ऋचं वाचं ब्रह्माणम् आबभूवुः।
इत्य् एवंविदं ह्य् आभवन्।
येभिः प्रजानन् प्रदिशो दिशश् च
तान् अन्व् आरोहामि तपसा ब्रह्मणा च॥
इति देवर्तून् अन्व् आरोहति।
य एक ऋतुस् त्रय ऋतवश् च
ये षट् चतुर्विंशतिर् ऋतवो ये
द्वादश सप्तदशान्य् उत विंशतिश् च
तान् अन्व् आरोहामि तपसा ब्रह्मणा च।
इतीमान् ऋतून् अन्व् आरोहति। स एवम् एतैस् तैर् ऋतुभिः परिगृहीतः। स यथा तैर् ऋतुभिः परिगृहीत एवम् एवानार्तस् संवत्सरस्योदृचं गच्छति। ऋतुर् ऋतुर् हैवंविदे कल्पते
केशी ह दार्भ्यो दर्भपर्णयोर् दिदीक्षे। अथ ह सुत्वा याज्ञसेनो हंसो हिरण्मयो भूत्वा यूप उपविवेश। तं ह केशी शुनीति नाम्नाभ्युवाद। स ह चुक्रोध - स्थविरो ऽस्मि पञ्चालानां राजा। स उ वै दीक्षितो ऽस्मि। को नु मार्हेन् नाम्नैवाभिवदितुम् इति। स होवाच -- मा क्रुधः। अभिवदिता ते तेनास्मि, यद् अहम् एतस्यै विशस् त्वत्पूर्वो राजासम्। अभिवदितो वाव ते तेनास्मि, यद् दीक्षितो ऽसि। इष्टापूर्तस्य त्वम् अक्षितिं वेत्थ। दीक्षाम् अहं वेद। संप्रब्रुवामहा इति। स होवाच -- अग्निर् दीक्षितः पृथिवी दीक्षा, वायुर् दीक्षितो ऽन्तरिक्षं दीक्षा, आदित्यो दीक्षितो द्यौर दीक्षा, प्रजापतिर् दीक्षित मनो दीक्षा। स दीक्षेत -- यया दीक्षयाग्निर् दीक्षितस् तया दीक्षया दीक्षे, यया दीक्षया वायुर् दीक्षितस् तया दीक्षया दीक्षे, यया दीक्षयादित्यो दीक्षितस् तया दीक्षया दीक्षे, यया दीक्षया प्रजापतिर् दीक्षितस् तया दीक्षया दीक्ष इति
अथ हेतर उवाच। ब्रह्मणे ददद् ब्रूयाद् ब्रह्मन् मनस् ते ददानि, तद् अनेन निष्क्रीणानि, ब्रह्मन्न् इदं ददानीति -- यद् दास्यन् स्यात्। स यन् मनो ददाति -- चन्द्रमा वै मनश् - चन्द्रमसम् एवास्मै तद् ददाति। तद् यावच् चन्द्रमा न क्षीयते, तावद् अस्य तद् दत्तं न क्षीयते।
होत्रे ददद् ब्रूयाद् धोतर् वाचं ते ददानि, ताम् अनेन निष्क्रीणानि, होतर् इदम् ददानीति - यद् दास्यन् स्यात्। स यद् वाचं ददात्य् - अग्निर् वै वाग् - अग्निम् एवास्मै तद् ददाति। तद् यावद् अग्निर् न क्षीयते, तावद् अस्य तद् दत्तं न क्षीयते।
अध्वर्यवे ददद् ब्रूयाद् अध्वर्यो प्राणं ते ददानि, तम् अनेन निष्क्रीणान्य्, अध्वर्यो इदं ददानीति - यद् दास्यन् स्यात्। स यत् प्राणं ददाति - वायुर् वै प्राणो - वायुम् एवास्मै तद् ददाति। तद् यावद् वायुर् न क्षीयते, तावद् अस्य तद् दत्तं न क्षीयते।
उद्गात्रे ददद् ब्रूयाद् उद्गातश् चक्षुस् ते ददानि, तद् अनेन निष्क्रीणान्य्, उद्गातर् इदं ददानीति - यद् दास्यन् स्यात्। स यच् चक्षुर् ददात्य् - आदित्यो वै चक्षुर् - आदित्यम् एवास्मै तद् ददाति। तद् यावद् आदित्यो न क्षीयते, तावद् अस्य तद् दत्तं न क्षीयते।
सदस्याय ददद् ब्रूयात् सदस्यात्मानं ते ददानि, तम् अनेन निष्क्रीणानि, सदस्येदं ददानीति - यद् दास्यन् स्यात्। स यद् आत्मानं ददात्य् - आकाशो वा आत्मा - आकाशम् एवास्मै तद् ददाति। तद् यावद् आकाशो न क्षीयते, तावद् अस्य तद् दत्तं न क्षीयते।
होत्रकेभ्यो ददद् ब्रूयाद् धोत्रका श्रोत्रं वो ददानि, तद् अनेन निष्क्रीणानि, होत्रका इदं ददानीति - यद् दास्यन् स्यात्। स यच् छ्रोत्रं ददाति - दिशो वै श्रोत्रं - दिश एवैभ्यस् तद् ददाति। तद् यावद् दिशो न क्षीयते, तावद् अस्य तद् दत्तं न क्षीयते।
प्रसर्पकेभ्यो ददद् ब्रूयात् प्रसर्पका लोमानि वो ददानि, तान्य् अनेन निष्क्रीणानि, प्रसर्पका इदं ददानीति - यद् दास्यन् स्यात्। स यल् लोमानि ददात्य् - ओषधिवनस्पतयो वै लोमान्य् - ओषधिवनस्पतीन् एवैभ्यस् तद् ददाति। तद् यावद् ओषधिवनस्पतयो न क्षीयन्ते, तावद् अस्य तद् दत्तं न क्षीयते।
सैषेष्टापूर्तस्याक्षितिः। स य एवम् एताम् इष्टापूर्तस्याक्षितिं वेद, न हास्येष्टापूर्तं क्षीयते।
तद् उ वा आहुर् वाग् वाव दीक्षितो, वाग् दीक्षा, वाग् इदं सर्वं क्षियति। वाचि वावेदं सर्वं क्षितम् इति वाव तौ तत् संप्रोचाते।
तद् उ होवाच शाट्यायनी रथन्तरेण दीक्षे, वामदेव्येन दीक्षे, बृहता दीक्ष इत्य् एव दीक्षेत। अथ विमुञ्चेत बृहता विमुु़ञ्चे, वामदेव्येन विमुु़ञ्चे, रथन्तरेण विमुञ्च इति। सैषा दीक्षायै युक्तिश् च विमुक्तिश् च। स य एवम् एतां दीक्षायै युक्तिं च विमुक्तिं च वेद, वसीयान् एव भवति
हृत्स्वाशया आल्लकेयो दन्तालस्य धौम्यस्यान्तेवास्य् आस। अथ ह दन्तालो धौम्यस् त्रयं वेदम् आ प्रपदं विदांचकार। तस्माद् ध सामवेदम् अनूच्य व्याजहार -- संवत्सराय दीक्षिष्य इति। अथ ह स्म ततः पुरो विपृच्छमानाश् चरन्ति -- संवत्सराय दीक्षिष्यामह इति। अथो ह स्म समवसायान्योऽन्यस्य वरणम् आक्रोशमाना निभृत्यम् अनुपृच्छन्त आसते। ते ह स्म यावन्तस् संपादयन्ति, ते ह स्म दीक्षन्ते। शश्वद् धैषा तद् आशीर् एव। तत् सत्त्रं भवति, यत् तम् एव ब्राह्मणं कृत्वोत्तिष्ठन्ति येनाब्राह्मणोक्तेन सह दीक्षन्ते। तस्माद् अब्राह्मणोक्तेन सह दीक्षेत। तस्य ह स्मास्य राजन्यबन्धोश् शार्दूलाजिनं मणिं हिरण्यम् उपावहितं भवति। तद् ध स्म श्रोत्रियायोपप्रहित्याह - संवत्सराय दीक्षिष्ये, ऽनु मा शाधीति। तस्मै ह स्म राजन्यबन्धवे वक्तव्यं मन्यन्ते
स ह तथैव पल्ययमानस् सोमशुष्मं सात्ययज्ञिम् आजगाम। तं होवाच प्राचीनयोग्य, संवत्सराय दीक्षिष्ये। भगवो ऽनु नश् शाधीति। तथेति तं ह वदन्न् अभिराधयांचकार। तं होपेयाय। तस्मै यदेमां क्लृप्तिं प्रोवाचाभ्यूहम् अनुजगौ प्रस्तावप्रतिहारान् विदधाव् अथ हैनम् अनुशशास। अयं वाव संवत्सर इति होवाच। तस्यायम् एव देवयानः पन्था, इमे वर्तन्याव् इयं गतिर् इति। स यद् एतद् एवं वेद, अनार्त एवं संवत्सरस्योदृचं गच्छति। पुरुषो वै प्रजापतिः। प्रजापतिस् संवत्सरः। स यो ह पुरुषो, य एवायम् अन्तरिक्ष आकाश, एष एव स पुरुषः। तद् यद् दृश्वद् अन्तरिक्षे न रमते पूर्णत्वैतन् न रमते। अथो यद् अस्मिन् सर्वस्मिन् अन्तर् ईक्षते तस्माद् अन्तरिक्षम्। अथो यद् इदं सर्वं युते तस्माद् वायुः। अथो यद् इदं सर्वं वाति तस्माद् वातः। तस्यैतस्याकाशस्यात्मा दमुमूढो यद् इदं सर्वं वाति तस्माद् वातः। तस्यैतस्याकाशस्यात्मा दमुमूढो यद् असाव् आदित्यः। स एष आदित्ये पुरुषः। अथ यत् ततः पर आकाशस् तस्यैष आत्मा समुमूढो यच् चन्द्रमाः। स एष चन्द्रमसि पुरुषः। स न नाना मन्तव्य इति ह स्माह शाट्यायनिः। य एवायं चक्षुषि पुरुष, एष एवादित्य, एष चन्द्रमसीति। तम् अनयैव पुरुषविधयाप्नोति
प्राण एव प्रायणीयो ऽतिरात्रः। प्राणो हीदं सर्वं प्राणेत। तद् यत् प्राणेत तस्मात् प्राणः। वाग् एवारम्भणीयम् अहः। वाचा हि सर्वस् संवत्सरस् सर्वे यज्ञक्रतव आरब्धाः। तस्माद् आरम्भणीये ऽहन् सर्वाणि रूपाणि क्रियन्ते। सर्वाणि ह रूपाणि वाचि। अयम् एको ऽभिप्लवो ऽयम् एको ऽयम् एको ऽयम् एकः। तस्यास्याभिप्लवस्येदं प्रथमम् अहः। तस्येदम् एव प्रातस्सवनम्, इदं माध्यंदिनं सवनम्, इदं तृतीयसवनम्। इदम् एव द्वितीयम् अहः. तस्येदम् एव प्रातस्सवनम्, इदं माध्यंदिनं सवनम्, इदं तृतीयसवनम्। इदम् एव वैरूपं तृतीयम् अहः। तस्येदम् एव प्रातस्सवनम्, इदं माध्यंदिनं सवनम्, इदं तृतीयसवनम्। इदम् एव वैराजं चतुर्थम् अहः। तस्येदम् एव प्रातस्सवनम्, इदं माध्यंदिनं सवनम्, इदं तृतीयसवनम्। इदम् एव शाक्वरं पञ्चमम् अहः। तस्माद् अनेनोपसंगृह्य शक्नोति। तस्येदम् एव प्रातस्सवनम्, इदं माध्यंदिनं सवनम्, इदं तृतीयसवनम्। इदम् एव रैवतं षष्ठम् अहः। तस्माद् अनया प्राश्नाति। तस्येदम् एव प्रातस्सवनम्, इदं माध्यंदिनं सवनम्, इदं तृतीयसवनम्। एवम् अस्याभिप्लवस्यैवम् अस्यैवम् अस्य। अयम् एवात्मा पृष्ठ्यः। इम एव नव प्राणाः। त्रिवृत् प्रायणीयम् अहर्, यत् प्राणा इदं सर्वं प्राणेत। तद् यत् प्राणेत तस्माद् अप्य् एतत् प्रायणीयम् अहः। इमा एव ग्रीवाः पञ्चदशम् अहः। ओजो वै वीर्यम्। ग्रीवा ओजः। वीर्यं पञ्चदशः। तस्मात् पशवो ग्रीवाभिर् भारं वहन्ति। अष्टाव् इमे जत्रवो, ऽष्टाव् इम, ऊर्ध्वो जत्रुस् सप्तदशः। तद् एव सप्तदशम् अहः। इदम् एवोदरम् एकविंशम् अहः। सर्वे वै स्तोमा एकविंशम् अभिसंपन्नाः। सर्वम् अन्नाद्यम् उदरे प्रतिष्ठितम्
त्रयोदशेमाः परिशवस्, त्रयोदशेमा, अण्डपरिशुस् सप्तविंशी। तद् एव त्रिणवम् अहः। त्रयस्त्रिंशद् इमानि पृष्टिकाण्डानि सह किंकालुकाभिः। तद् एव त्रयस्त्रिंशम् अहः। अयम् अभिजिद् अयं विश्वजिच् शुक्लं कृष्णं कनीनिका। त इमे त्रय स्वरसामान, इमे त्रयो, ऽयं विषुवान्। प्राणापानाव् एव गोआयुषी। इम एव दश प्राणा दशरात्रः। मन एव महाव्रतीयम् अहः । उदान एवोदयनीयो ऽतिरात्रः।
ते एते दश प्राणा दश स्तोमा दश छन्दांसि। इमे ह सप्त मुख्याः प्राणा, द्वाव् अवाञ्चौ, नाभ्यां दशमः। इमे ह पृष्ठ्यस्य षडहस्य स्तोमाः। छन्दोमाः पञ्चविंशः। चतुर्धा इमान्य् उ ह सप्त चतुरुत्तराणि छन्दांसि सद्विपदाविराडतिच्छन्दाः। प्राण एव गायत्री, चक्षुषी उष्णिक्ककुभौ, श्रोत्रं जगती, वाग् अनुष्टुब्, मनो बृहत्य्, आत्मा पंक्तिर्, बलं त्रिष्टुप्। प्रतिष्ठा द्विपदा, मांसानि विराट्, शरीराण्य् अतिच्छन्दाः। तेषाम् एषां सप्तानां चतुरुत्तराणां छन्दसां द्वादशैकविंशास् संपद्यन्ते
गायत्र्या उष्णिहो ऽनुष्टुभश् चतुरशीतिर् अक्षराणि। ते चत्वार एकविंशाः। पंक्तेश्च त्रिष्टुभश् च चतुरशीतिर् अक्षराणि। ते चत्वार एकविंशाः। बृहत्यै च जगत्यै च चतुरशीतिर् अक्षराणि। ते चत्वार एकविंशाः। अथ त्रयाणां छन्दसां दशशतम् अक्षराणि। विंशत्यक्षरा द्विपदा। त्रिंशदक्षरा विराट्। षष्ट्यक्षरातिच्छन्दाः। तानि दशशतम् अक्षराणि संपद्यन्ते। ततो द्वे आदत्ते। अथ द्वादश त्रिवृतस् संपद्यन्ते। तान् इमान् द्वादश त्रिवृतो द्वादशस्यैकविंशेषूपदधाति। ते द्वादश सत्रिंशिनो मासास् संपद्यन्ते। तद् एतच् छन्दांसि त्रिवृतं चैव स्तोमम् अभिसंपद्यन्ते --
--एकविंशं च वा पञ्च प्राणं चाग्नीञ् चादित्यं च।अथ ये द्वे अक्षरे ते बृहद्रथन्तरे, ते अहोरात्रे। सो ऽर्धमासस् स मासस् स ऋतुस् स संवत्सरः। तद् आहुर् यत् प्राणाश् छन्दांसि छन्दांसि स्तोमा इत्य् आहुः, कथं यजमानः प्राणैश् छन्दांस्य् अप्येति। छन्दोभि स्तोमान्, स्तोमैर् बृहद्रथन्तरे, बृहद्रथन्तराभ्याम् अहोरात्रे, अहोरात्राभ्याम् अर्धमासम्, अर्धमासेन मासं, मासेनर्तुम्, ऋतुना संवत्सरम्। कुतस् संवत्सरो जायते, क्व प्रतिष्ठित इति। स विद्याद् -- अहम् एव संवत्सरो ऽस्मि, मयि प्रतिष्ठित इति। एवंविदो ह वाव संवत्सरो जायत, एवंविदि प्रतिष्ठितः।
अथो आहुर् - आदित्य एव संवत्सरः। एतं हि सर्वा श्रीस् सर्वं यशस् सर्वे देवास् समेतास्, तस्माद् आदित्य एव संवत्सर इति। तस्य यद् भाति तत् संवद्, यन् मध्ये कृष्णं मण्डलं तत् सर इत्य् अधिदेवतम्। अथाध्यात्मम्। अयम् एव संवत्सरो यो ऽयं चक्षुषि पुरुषः। तस्य यच् छुक्लं तत् संवद्, यन् मध्ये कृष्णं मण्डलं तत् सर इत्य अधिदेवतम्। अथाध्यात्मम्। अयम् एव संवत्सरो यो ऽयं चक्षुषि पुरुषः। तस्य यच् छुक्लं तत् संवद्, यन् मध्ये कृष्णं मण्डलं तत् सरः। अथो आहुर् - आदित्य एव संवच्, चन्द्रमास् सरः। तम् एष सरति। तं पौर्णमास्याम् आप्नोतीति। तद् उ वा आहुः - प्राण एव संवद्, वाक् सरः। एताभ्यां हि समश्नुत इति।
तस्य वा एतस्य संवत्सरस्याग्निष्टोमसामान्य् एव देवयानः पन्थाः --
- तानि वा एतानि रौहिणकानि नाम। एतैर् वै देवा स्वर्गं लोकम् आरोहन्। यद् अरोहंस् तस्माद् रोहिणकानि। तस्माद् वयम् अन्वहम् एवाग्निष्टोमसामानि कुर्मः।
अथ वर्तन्यौ बहद्रथन्तरे। एताभ्यां ह वा एष एतद् वर्तते। तस्माद् वयम् अतिरात्र उभे बृहद्रथन्तरे कुर्मः - कृत्स्नं नस् साम युक्तं यज्ञं वहत्, कृत्स्नेन साम्नोदृचम् अश्नवामहा इति। अथ गतिः। यश् चैवासाव् आदित्ये पुरुषो यश् चायम् अध्य् आत्मन् तद् एतत् प्रजापत्ययनम् इत्य् एवोपासितव्यम्। एतेन वा अयनेन प्रजापतिर् इमाम् ऋद्धिम् आर्ध्नोद् इमां व्यष्टिं व्याश्नुत। तद् याम् एव प्रजापतिर् ऋद्धिम् आर्ध्नोद् या व्यष्टिं व्याश्नुत, ताम् एवर्द्धिम् ऋध्नोति तां व्यष्टिं व्यश्नुते य एवं वेद
एष वाव दीक्षितो य एष तपति। स एष इन्द्रियं श्रैष्ठ्यम् अभि दीक्षितः। तस्य ये ऽर्वाञ्चो रश्मयस् तानि श्मश्रूणि, य ऊर्ध्वास् ते केशाः। अहोरात्रे एव कृष्णाजिनस्य रूपम्। अहर् एव शुक्लस्य रूपं, रात्रिः कृष्णस्य। अथ यद् एतन् मण्डलं ता आपस् तद् अन्नं तद् अमृतम्। तस्मिन्न् एतस्मिन् मण्डले तेजोमयश् छन्दोमयः पुरुषः। स प्राणस्, स इन्द्रस्, स प्रजापतिस्, स दीक्षितः। तद् एतद् दीक्षयैव संगृहीतम्। तत आभ्यः प्रजाभ्यो ऽन्नाद्यं विसृजते। तस्येमा एव दिशः पत्नय आसन्। तं हेमास् तिस्रो दिशो ऽतिचेरुः. इयं हैवास्यानुव्रततमास येयं दक्षिणा दिक्। तस्माद् एष एताम् एवाभ्युपावर्तते। यद्य् अप्य् उत्तरत उदेत्य् अथैताम् एवाभ्युपावर्तते। तस्माद् यास्य प्रिया जाया स्यात् तां दक्षिणार्ध्यां कुर्यात्
प्रथमां संनह्यति, प्रथमां वाचयति, प्रथमां पूर्णपात्र आगच्छत्य्, अनन्तरिताः पत्नय स्थ। उदग् उ यज्ञीयं कर्म संतिष्ठते। इति न्व् अधिदेवतम्।
अथाध्यात्मम्। अयम् एव दीक्षितो यो ऽयं चक्षुषि पुरुषः। तस्य यान्य् अर्वाञ्चि पक्षाणि तानि श्मश्रूणि, यान्य् ऊर्ध्वानि ते केशाः। यद् एव शुक्लं च कृष्णं च तत् कृष्णाजिनस्य रूपम्। शुक्लम् एव शुक्लस्य रूपं, कृष्णं कृष्णस्य। अथ यद् एतन् मण्डलं ता आपस् तद् अन्नं तद् अमृतम्। तस्मिन्न् एतस्मिन् मण्डले तेजोमयश् छन्दोमयः पुरुषः। स प्राणस्, स इन्द्रस्, स प्रजापतिस्, स दीक्षितः। स हैवंविद् दीक्षमाणो, यथैवैष एतद् इन्द्रियं ज्यैष्ठ्यं श्रैष्ठ्यम् अभि दीक्षित, एवम् एवेन्द्रियं ज्यैष्ठ्यं श्रैष्ठ्यम् अभि दीक्षितो भवति। तस्माद् उ हैवंविदि दीक्षित ईश्वरो राष्ट्राणि समुत्कम्पितोः क्षामरन्ध्र इव हि समाभवति। एवं ह्य् एतद् इन्द्रियं ज्यैष्ठ्यं श्रैष्ठ्यम् अभि दीक्षितो भवति। तस्माद् उ सर्वम् एवाभिवद्त्य् - आचार्यं पितरं क्षत्रियम्। एवं ह्य् एतद् इन्द्रियं ज्यैष्ठ्यं श्रैष्ठ्यम् अभि दीक्षितो भवति
विचक्षणवतीं वाचं वदति। अन्नं वै विचक्षणम्। अन्नवतीम् एव तद् वाचं वदति। विचक्षणवतीं वाचं वदति। सोमो वै विचक्षणः। अन्नम् उ वै सोमः. अन्नवतीम् एव तद् वाचं वदति। विचक्षणवतीं वाचं वदति। प्राणो वै विचक्षणः। तस्य वाग् एव मिथुनम्। मिथुनवतीम् एव तद् वाचं वदति। विचक्षणवतीं वाचं वदति। अन्नं वै विचक्षणम्। अन्नेन हीमाः प्रजा विपश्यन्ति। तत आभ्यः प्रजाभ्यो ऽन्नाद्यं प्रयच्छति। स यदास्मै व्रतं प्रयच्छेत्, सर्वम् एव व्रतयेत् -- सर्वस्यान्नाद्यस्यावरुद्ध्यै। यद्य् उ परिशिंष्याद्, व्रतप्रदं ब्रूयाद् - अशान वा पिब वेति। यद्य् उ व्रतप्रदो ऽनुच्छिष्टाशी वा स्यात् परि वा शिंष्यात्, तद् अद्भिर् अभ्युक्ष्य छायायां निषेक्तवै ब्रूयात्। तद् ओषधीभिर् अभिसंछादयितवै ब्रूयात्। तद् ओषधीनां मूलान्य् उपसिञ्चति। वर्षुकः पर्जन्यो भवति यत्रैवं विद्वान् दीक्षते। दीक्षिता उदशुश्रूषन्न् इतीहाहुः। स यदा दीक्षणीयेष्टिस् संतिष्ठेत, यदैनम् अध्वर्युर् अभ्यञ्जयेद् यदा संपवयेद् अथैतम् आदित्यम् उपतिष्ठेत त्वं देवता दीक्षितासि। सा दीक्षमाणस्येन्द्रियं ज्यैष्ठ्यं श्रैष्ठ्यं यश आदत्से। मा म इन्द्रियं ज्यैष्ठ्यं श्रैष्ठ्यं यश आदिथाः। तव दीक्षाम् अनु दीक्ष इति। तस्यैषा देवता दीक्षमाणस्येन्द्रियं ज्यैष्ठ्यै श्रैष्ठ्यं यशो नादत्ते
तम् अध्वर्युर् अभ्यज्य प्रपाद्यौद्ग्रहणानि जुहोति। यद् औद्ग्रह्णानि जुहोति यद् अस्मा औदुम्बरदण्डं प्रयच्छत्य् अथैतम् आहवनीयम् उपतिष्ठेत वाचा मे वाग् दीक्षताम् अग्नये समष्टवा उ, प्राणेन मे प्राणो दीक्षतां वायवे समष्टवा उ, चक्षुषा मे चक्षुर् दीक्षतां सूर्याय समष्टवा उ, मनसा मे मनो दीक्षतां प्रजापतये समष्टवा व् इति। तद् एताभिर् अनार्ताभिर् देवताभिर् इमा स्वा देवता दीक्षयति। अथाह अग्निर् दीक्षितः, पृथिवी दीक्षा, सा मा दीक्षा दीक्षेत, तया दीक्षया दीक्षे। वायुर् दीक्षितो, ऽन्तरिक्षं दीक्षा, सा मा दीक्षा दीक्षेत, तया दीक्षया दीक्षे। आदित्यो दीक्षितो, द्यौर् दीक्षा, सा मा दीक्षा दीक्षेत, तया दीक्षया दीक्षे। प्रजापतिर् दीक्षितो, मनो दीक्षा, सा मा दीक्षा दीक्षेत, तया दीक्षया दीक्षे। वाचं म ऋचो ऽनु दीक्षन्तां, मनो यजूंषि, प्राणं सामानि। श्रद्धां मे सोमो राजानु दीक्षताम्। ऋचा दीक्षे, यजुषा दीक्षे, साम्ना दीक्षे, पृथिव्या दीक्षे, ऽन्तरिक्षेण दीक्षे, दिवा दीक्ष इत्य् अत्र कृत्स्नो दीक्षितः। अथ यस्यादीक्षिता इमे लोका अदीक्षितानि छन्दांस्य् अदीक्षितस् सोमो राजा --
-- तं सकामम् अभ्यश्नुवीत। अथ हैवंविद् दीक्षमाण एव सर्वान् कामान् उपाप्नोति। तस्माद् दीक्षासु न राजानं परिवेविष्यात्। यद्व्रतो ह्य् एवैष भवति तद्व्रता इमे लोकास् तद्व्रतानि छन्दांसि तद्व्रतस् सोमो राजा। अथाह भूर् भुव स्वस् सुपोषः पोषैस् सुवीरो वीरैस् सुप्रजः प्रजयासम् इति। तद् एताम् अपरिमिताम् आशिषम् अन्त आशास्ते तपो मे प्रतिष्ठेति। तत् तपः प्रतिष्ठां कुरुते। श्रद्धा मे ऽक्षितिर् इति तच् छ्रद्धाम् अक्षितिं कुरुते। सत्यं मे गृहपतिर् इत्य् एष वै सत्यम्। सत्यं य एष तपति। सैषानार्ता देवता। तद् एताम् अनार्तां देवतां गृहपतिं कुरुते। स वा एष सुव्रतः। यद् ध्य् एषा खला स्यात् सर्वम् इदं प्रदहेत्। तस्माद् गृहपतिस् सुव्रत स्यात्। स यद् व् अदीक्षितव्रतं चरेद् अपापवद्यं वा पापं वदेन् मिथुनं वा चरेद् अन्यद् वा मिथ्याकुर्याद् एतम् एवादित्यम् एतैस् सर्वैर् जपैर् उपतिष्ठेत। ततो हैव दीक्षितः। स वा एष एतर्ह्य् अदीक्षितः। यद् व् एवास्मिन् दीक्षते यश आसीत् तद् व् एवास्मिन्न् अप्य् एतर्हि यशः। तद् आहुस् - स वाद्य दीक्षेत स वान्यं दीक्षयेद्, य एतस्य दीक्षितयशसस्य व्यवच्छित्तिं विद्याद् इति। कृष्णाजिनं वाव दीक्षितयशसम्। एतद् धि सर्वेषां वेदानां रूपम्। यानि शुक्लानि तानि साम्नां रूपं, यानि कृष्णाणि तान्य् ऋचाम्। यदि वेतरथा यान्य् एव बभ्रूणीव हरीणि तानि यजुषाम्। तस्माद् यद्य् अप्य् एनद्द्रुक्तो वस्ते दिदृक्षन्त एवैनम्। एतद् ध्य् अस्मिन् दीक्षितयशसं भवति
ते ये सकृष्णाजिना अपो ऽभ्यवयन्ति, य एतस्माद् दीक्षितयशसाद् अवच्छिद्यन्ते, ते सर्वम् आत्मानं प्रप्लाव्य पाप्मना सहोदायन्ति। स यदावभृथेष्टिस् संतिष्ठेताथोन्मुच्य कृष्णाजिनम् अद्भिर् अभ्युक्षेद् इन्द्रियाज् ज्यैष्ठ्याच् छ्रैष्ठ्यान् मा योषम् इति। अथ यम् अरातिं मन्यते, तस्मै प्रयच्छति। अथाप आचामति भक्षस्यावभृथो ऽसि, भक्षणस्यावभृथो ऽसि, भक्षितस्यावभृथो ऽसीति। स यद् एवात्रर्जीषे किं चित् सक्तं भवति, तस्यैष भक्षः। अथापः प्रविशति। न्यञ्चनं वा एतत् प्रपदनं यद् आपः। न्यञ्चनम् एवैतत् प्रपदनं प्रपद्यते पाप्मनो ऽनन्ववायाय। यद्य् आप स्यन्देरन्, प्रतिस्रोतं गाहेत पाप्मानं मे निर्वहान् इति। सर्वा उ ह त्वा आप स्यन्दन्ते। या उ ह स्थावरा अवाचीस् ता स्यन्दन्ते, ऽवाञ्चम् एवास्य ताः पाप्मानं निर्वहन्ति।
अन्यो ऽन्यस्य जायापती पृष्ठं प्रधावतः। वज्रो वा आपः। वज्रेणैव तत् सर्वं पाप्मानम् अपहनाते। अथो द्वन्द्वम् एव तन् मिथुनं प्रजननं कुर्वाते, प्रजात्यै। स्नात्वा क्षिप्र उदेयात्, क्षिप्रे पाप्मनो व्यावृत्त्या इति
उन्नेतर् उन् मा नयेत्य् आह। विष्णुर् वा उन्नेता। यज्ञो वै विष्णुः। यज्ञ एवैनं तत् सर्वस्मात् पाप्मनो विमुच्योन्नयति।
उद् वयं तमसस् परि सुवः पश्यन्तो ज्योतिर् उत्तरम्।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम्॥
इत्य् एतां जपन्न् उदैति। एतद् वै ज्योतिर् उत्तमं य एष तपति। सैषानार्ता देवता। तद् एताम् अनार्तां देवताम् आरभ्योदैति। औदुम्बरीर् आर्द्रास् सपलाशास् समिधः कुर्वत एधो ऽस्य् एधिषीमहीति। गत्वाहवनीये समिधम् अभ्यादधाति समिद् असि, तेजो ऽसि, तेजो मयि धेहि, स्वाहेति। अभ्याधायोपतिष्ठते
अपो ऽन्व् अचार्यं रसेन समसृक्ष्महि।
पयस्वं अग्न आगमं तं मा संसृज वर्चसा॥
इति। एवम् एव पत्नी गार्हपत्ये ऽभ्याधायोपतिष्ठते। आज्यस्थालीं सस्रुवाम् आदायोत्तरेणाग्नीध्रं च सदश् च परीत्यापरेण गार्हपत्यम् उपविश्योपस्थे कृष्णाजिनम् आधाय चतुर्गृहीतम् आज्यं गृहीत्वा जुहोति मयीन्द्रियं ज्यैष्ठ्यं श्रैष्ठ्यम् अग्निर् दधातु स्वाहेति। स यद् एवास्मिन् दीक्षिते यशो भवति, तद् अस्मिन्न् उत्थिते यशो भवति। तत् कृष्णाजिनं नातिपादयेत्, स्रुगवधानं वैनत् कुर्वीत, हविषो वाधिपेषणं, पुनर्दीक्षायै वैनन् निदधीत। एषा वै कैशिनी दीक्षा। एतां ह केशी दार्भ्यो दीक्षाम् उपनिषसाद
मृत्युप्रजापती यद् अयजेतां, तौ यज्ञाभ्याम् एवास्पर्धेताम्। अथ ह तर्हि यज्ञायुधान्य् आसुर् यथेमान्य् एतर्हीष्टीष्व् आयुधानि। तद् यद् यज्ञे स्तूयते यच् छस्यते यत् प्रचर्यते, सा प्रजापतेस् सेनास। अथ यद् वीणायां गीयते यन् नृत्यते यद् वृथाचर्यते, सा मृत्योस् सेनास। तयोर् ह समावत्याच् एव सेने आसतुर् -- यावत्य् एवेतरस्य तावतीतरस्य। तौ ह ज्योग् एवाविजयमानौ चेरतुर् बहून्य् एव वर्षाणि। स प्रजापतिर् अकामयत् - जयेयं मृत्युम् इति। स एतां यज्ञे संपदम् अपश्यद् एतत् संख्यानम्। तेन मृत्युम् अजयत्। तस्य पराजितस्य राजाशुच्यत्। स प्रत्यङ् पतित्वा पत्नीशालां प्रापद्यत। तस्मात् पत्नीभ्य हय च यस् संपदासुत इत्य् असुत इति हैतन्, न हि सो ऽसूयत। तस्य यानि स्तुतशस्त्राण्य् आसन् यद् एवैतद् वीणायां गीयते यन् नृत्यते यद् वृथाचर्यते, तान्य् एव तानि --
--अथ यो यूप आसीद्, य एवैष वीणायै दण्डस्, स एव सः। अथ या रशना आसन्, यान्य् एवैतानि वीणाया उपवाणानि, ता एव ताः। अथ यो द्रोणकलश आसीद्, यैवैषा वीणायै सूना, स एव सः। अथ यद् अधिषवणं चर्मासीद्, यद् एवैतद् वीणायै चर्म, तद् एव तत्। अथ य उपरवा आसन्, य एवैते वीणाया आकाशास्, त एव ते। अथ ये ग्रावाण आसन्, यान्य् एवैतानि वीणायै वादनानि, त एव ते। अथ यानि सप्त चतुरुत्तराणि छन्दांस्य् आसन्, या एवैतास् सप्त वीणायै तन्त्र्यस्, तान्य् एव तानि। अथ ये दशरात्रे स्तोमा आसन्, या एवैता दशांगुलयस् त एव ते। तद् आहुर् - नेतर्हि संसवो ऽस्ति। यो हि द्वितीयो यज्ञ आसीद्, अशुच्यत् सः। एक एव यज्ञः। प्रजापतिर् यज्ञ एवेति
अथ वा अतस् संख्यानस्यैव। तस्य वा एतस्य संवत्सरस्य सप्त विंशतिशतान्य् अहोरात्राणां भवन्ति। ता नवाशीतयः। अथास्य सवनानाम् अशीतिश् च सहस्रं च त्रीणि च। तावन्तः पवमानाः। तद् एतच् छ्लोकेनाभिगीतम् --
अष्टाव् एता नवतयो भवन्त्य् अहोरात्राणां परिवत्सरस्य। अशीतिर् अस्मिन् सवनानि त्रीणि च सहस्रं च , पवमानाश् च सर्वे॥
इति।
अथास्य स्तुतशस्त्राणां षष्टिशते च द्वे दश च सहस्राणि। अथास्मिन् धिष्णिया य अग्नयो विह्रियन्ते दश चैव सहस्राण्य् अष्टौ च शतानि त्रिंशतं च। तद् एतच् छ्लोकेनाभिगीतम् --
षष्टिशते द्वे मासि पृष्ठे स्तुशस्त्राणाम् आ शतं चा शतानि।
दश सहस्राणि शतान्य् अष्टौ संवत्सरे धिष्णियास् त्रिंशतं च॥
इति
तावन्ति तारकनक्षत्राणि तावन्ति ज्योतींषि तावन्तो ऽर्काः। आप्नोति ह वा एतानि तारकनक्षत्राण्य् आप्नोति ज्योतींष्य् आप्नोत्य् अर्कान् य एवं वेद। अथास्य स्तोत्र्याणां नवतिश् च सहस्राणि त्रीणि च शतानि षण्णवतिश् च। तद् एतच् छ्लोकेनाभिगीतम् --
स्तोत्र्या अस्य नवतिस् सहस्रा त्री च शता नवतिश् चोप षट् च।
ताभिस् संस्तुतो विवसान एति भूतं भविष्यद् भुवनं प्रजापतिः॥
इति।
अथास्य पदानां चत्वारि च सहस्रा त्रिंशं चायुतानि सप्त शतानि पञ्चाशतं पदानि। तद् एतच् छ्लोकेनाभिगीतम् -
चत्वारि सहस्रा त्रिंशं चायुतानि सप्त शतानि पञ्चाशतं पदानि।
संवत्सरस्य कविभि स्तुतस्यैतावती मध्यमा देवमात्रा॥
इति
अथास्याक्षराणाम् अयुतम् एकं प्रयुतानि षष्टिर् नियुते द्वे नव चाक्षराणि सप्त सहस्राणि दशतो दश। तद् एतच् छ्लोकेनाभिगीतम् --
अयुतम् एकं प्रयुतानि षष्टिर् नियुते द्वे नव चाक्षराणि।
सप्त सहस्राणि दशतो दशैतावान् आत्मा परमः प्रजापतेः॥
इति। तद् एतद् अनन्तं यत् संख्यानम्। तद् एतद् अमृतं यत् संख्यानम्। स एष सुकृतस् सो यत् संख्यानम्। अथ यद् असंख्यानं मर्त्यं तत्। तस्माद् उ सम् एव चक्षीत। सा हैषा देवानां सेना यत् संख्यानम्। मनुष्यसेनया वाव नु तं स्तृणुते यं तिस्तीर्षते। तादृग् इह तं स्तृणवा तं यं देवसेनया तिस्तीर्षाता इति। अथैते त्रयः पन्थानस् सुकृता देवयाना अक्षय्यः पद्यक्म्यश् च। ते विद्वांसो ऽभिवहन्ति ब्राह्मणं यत्र मृत्युर् भवत्य् अन्नम् अस्य। तद् एतच् छ्लोकेनाभिगीतम् --
त्रयः पन्थानस् सुकृता देवयाना अक्षय्यः पद्यक्म्यश् च।
ते विद्वांसो ऽभिवहन्ति ब्राह्मणं यत्र मृत्युर् भवत्य् अन्नम् अस्य॥
अक्षरशः पच्छो ऽमृतं लिहानाः --
--सुवर् आयन् देवता देवसत्त्रात्।
तपसा कर्म कवयो ऽनुगत्य
आह्नाय मृत्युम् अति मेधयायन्॥
विजानन्तो दहन्तो यन्ति शोकम्
मनीषिणो यद् अपक्षाः पतन्ति।
यत्रामृतं विद्यते नोत मृत्युस्
तत्र विद्वांसः कवयः क्षियन्ति॥
एवंविद्वांसो यजमानम् ऋत्विजो लोकान् पशून् अभि कामान् वहन्ति। स यज्ञेषु स्तुतशस्त्रम् अश्नुते ऽक्षय्या यस्य भवन्त्य् ऋत्विजो ऽध्वर्युर् होतोत सामगः। तस्मै छन्दांसि मधुधाराः क्षरन्ति। स यज्ञेषु स्तुतशस्त्रम् अश्नुते ऽक्षय्या यस्य भवन्त्य् ऋत्विजो ऽध्वर्युर् होतोत सामगः। तस्मै छन्दांस्य् अमृतकुल्या अभिवहन्ति ऊर्मिणी स्तोत्रशस्त्रैर् इति
एकैकम् उ ह वा एतेषाम् अक्षराणां यावतीयं पृथिवी तावत्। ऊर्जो ऽन्नाद्यस्य मधुनो ऽमृतस्य कामस्य - कामस्य पूर्णं पिब्दमानं तिष्ठति। तद् धैवंविद्वान् ब्राह्मणस् सहस्रं - सहस्रं देवयुगान्य् उपजीवति। तद् यद् आप्यते ऽथेतरद् उपसंक्रामत्य् अथेतरत् पुनर् आख्यायते। तस्माद् उ हैवंविदे ब्राह्मणाय दित्सन्त्य् अस्योर्जो ऽन्नाद्यस्य मधुनो ऽमृतस्य कामस्य - कामस्य लिप्सामहा इति। यथा ह वा इदं क्षेत्रपादं वा क्षेत्ररज्जुं वावक्रियासत एवम् एवैवंविदो ब्राह्मणाल् लोकम् अवक्रीणते। स यथा क्रये पर्यवेते क्षेत्रिणम् एव क्षेत्राण्य् अपियन्त्य् एवं लोकिनम् एव लोका अपियन्ति। स यद् ध वा अप्य् एवंविद्वान् ब्राह्मणः पूर्णां पृथिवीं प्रतिगृह्णीयाद्, एकम् एव तस्याक्षरं ज्यायः। तस्माद् उ हैवंविद्वान् ब्राह्मणो दद्याच् चैव प्रतिगृह्णीयात्
जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे। ते तद् उ ह कुरुपञ्चालानां ब्राह्मणा अभिसमाजग्मुः। स ह सहस्रं गवाम् अवरुन्धान उवाच - ब्राह्मणा एता वो, यो ब्रह्मिष्ठस् स उदजताम् इति। स होवाच वाजसनेयो, ऽर्वाचीर् एतास् सोम्येति। तं होचुस् त्वं नु नो ब्रह्मिष्ठो ऽसी3 इति। स होवाच नमो वो ब्रह्मिष्ठायास्तु। गोकामा एव वयं स्म अति। ते होचुः को न इमं प्रक्ष्यतीति। स होवाच विदग्धश् शाकल्यो ऽहम् अति। तं ह पुरस्कृतेयेयुः। तं ह प्रतिख्यायायन्तम् उवाच त्वां स्विच् छाकल्य ब्राह्मणा उल्मुकावक्षयणम् अक्रता3 इति। स होवाच - यदि तेनोल्मुकावक्षयणं स्मः प्रक्ष्यामो न्वै त्वाम् इति। तं ह पप्रच्छ कति देवा याज्ञवल्क्येति। स होवाच त्रयश् च त्रिंशच् च, त्रयश् च त्री च शता, त्रयश् च त्री च सहस्रा, यावन्तो निविदाभ्याहूता इति। ओम् इति होवाच
कत्य् एव देवा इति। त्रय इति। ओम् इति होवाच। कत्य एव देवा इति। द्वाव् इति। ओम् इति होवाच। कत्य् एव देवा इति। एक इति। (ओम् इति होवाच।
कतमे त्रयश् च त्रिंशच् च, त्रयश् च त्री च शता, त्रयश् च त्री च सहस्रेति)। महिमान एवैषां त इति होवाच। त्रयस्त्रिंशद् वावेति। कतमे त्रयस्त्रिंशद् इति। अष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रश् चैव प्रजापतिश् च त्रयस्त्रिंशाव् इति।
कतमे वसव इति। अग्निश् च पृथिवी च वायुश् चान्तरिक्षं चादित्यश् च द्यौश् च चन्द्रमाश् च नक्षत्राणि चैते वसवः। एतेषु हीदं सर्वं वसु हितम् इति। तस्माद् वसव इति।
कतमे रुद्रा इति दश पुरुषे प्राणा इति होवाच। आत्मैकादशः। ते यदोत्क्रामन्तो यन्त्य् अथ रोदयन्ति। तस्माद् रुद्रा इति।
कतम आदित्या इति। द्वादश मासास् संवत्सर इति होवाच। एत आदित्याः। एते हीदं सर्वम् आददाना यन्ति। तस्माद् आदित्या इति।
कतमे त्रय इति। इम एव लोका इति।
कतमौ द्वाव् इति। अहोरात्राव् इति।
कतम इन्द्रः, कतमः प्रजापतिर् इति। वाग् एवेन्द्रो, मनः प्रजापतिर् इति।
कतमैका देवतेति। प्राण इति। स होवाचानतिप्रश्न्यां वै मा देवताम् अत्यप्राक्षीः, पुरैतावतिथ्या मर्तासि। न ते शरीराणि चन गृहान् प्राप्स्यन्तीति। तद् ध वै तथैवास। स ह तथैव ममार। तस्य हापहारिणो ऽनन्तरेण शरीराण्य् अपजह्रुर् अन्यन् मन्यमानाः। तस्माद् उ ह नोपवदेत्। अपि ह्य् एवंवित् परो भवतीति
ब्रह्म च ह वै सुब्रह्म चैषु लोकेष्व् आसतुर् अस्मिन् भुवने। ततस् सुब्रह्मोच्चक्राम। असौ वा आदित्यो ब्रह्माथो वाग् एव सुब्रह्म। ते देवा इहैव वेद्या अन्तर्वेदि यज्ञेन ब्रह्म पर्यगृह्णन्। तद् इदम् अप्य् एतर्हि वेद्या अन्तर्वेदि यज्ञेन ब्रह्म परिगृहीतम्।
तद् आहुर् यद् अन्या होत्रा अन्तर्वेदि कुर्वन्त्य् अथ कथं सुब्रह्मण्यो बहिर्वेदि करोतीति। स ब्रूयाद् एष वेद्या आत्मा यद् उत्कर, एतत् प्रत्यक्षं ब्रह्म यत् सुब्रह्मण्या। यद् उत्करम् आस्थाय सुब्रह्मण्याम् आह्वयति तेनास्यान्तर्वेदि कृतं भवतीति।
सुब्रह्मण्यों सुब्रह्मण्यों सुब्रह्मण्योम् इति त्रिर् आह। वाग् वै सुब्रह्मण्या। तद् एतां वाचं प्रथमत आरभते. अथो ब्रह्म वाग्, रस ओंकारः। ताम् एतां वाचं रसेन प्रीणाति। तद् धैतद् एक ओं सुब्रह्मण्येत्य् आह्वयन्ति --
--प्राणो ह्य् अग्रे ऽथ वाग् इति। तद् ध तन् न तथा। यथा मध्व् आसिच्य लाजान् आवपेत्, तद् अन्यधेव स्यात्, तादृक् तत्। तस्मात् सुब्रह्मण्योम् इत्य् एवाह्वयेत्।
इन्द्रागच्छेति। इन्द्रम् एव तद् यज्ञ आह्वयति।
हरिव आगच्छेति। हरिभ्याम् आयाहीति वावैनं तद् आह। प्राणापानौ वास्य हरी। तौ हीदं सर्वं हर्तारौ हरत। अथो अहोरात्रौ वास्य हरी। तौ हीदं सर्वं हर्तारौ हरतः।
मेधातिथेर् मेषेति। मेधातिथेर् ह मेषो भूत्वा राजानं पपौ।
वृषणश्वस्य मेन इति। वृषणश्वस्य ह मेना भूत्वा मघवा कुल उवास।
गौरावस्कन्दिन्न् इति। ततो हैव गौरो भूत्वार्णवम् अवचस्कन्द।
अहल्यायै जारेति। अहल्यायै ह मैत्रेय्यै जार आस।
कौशिक ब्राह्मण कौशिक ब्रुवाणेति। यद् ध वा असुरैर् महासंग्रामं संयेते तद् ध वेदान् निराचकार। तान् ह विश्वामित्राद् अधिजगे। ततो हैव कौशिक ऊचे।
अथ ह वा एके कौशिक ब्राह्मण गौतम् ब्रुवाणेत्य् आह्वयन्ति --
--तद् उ ह वा आरुणिनैव यशस्विनोपज्ञातम्। तस्माद् उ तस्याशां नेयात्। तस्मात् कौशिक ब्राह्मण कौशिक ब्रुवाणेत्य् एवाह्वयेत्।
देवा ब्रह्माण आगच्छतागच्छतेति देवांश चैव तद् ब्राह्मणांश् च समामन्त्रयन्ते। ते हास्मै समामन्त्रितास् सुमतिम् इच्छन्ते। तस्माद् उ ह समामन्त्र्य मापराध्नुयान्, नेन् मोपवदाद् इति।
तद् आहुः - किंछन्दस् सुब्रह्मण्येति। त्रिष्टुब् इति ब्रूयात्। ऐन्द्री हि त्रिष्टुब् इति।
तद् आहुः - किंदेवत्या सुब्रह्मण्येति। ऐन्द्रीति ब्रूयात्। इन्द्रं ह्य् एनयाह्वयतीति। अथो ह ब्रूयाद् वैश्वदेवीति। विश्वान् ह्य् एनया देवान् आह्वयतीति।
तद् आहुर् - यद् अन्या होत्रा स्तोत्रवत्यश् शस्त्रवत्यो ऽथ क्व सुब्रह्मण्यायै स्तोत्रं क्व शस्त्रम् इति। स ब्रूयाद् एतस्याम् एवैतत् सर्वं यद् ऋक् साम यजुः। तेनास्य सुब्रह्मण्या स्तोत्रवती शस्त्रवती भवतीति।
तद् आहुः - किम् इव स्वित् सुब्रहण्यर्ग् इव स्वी3त् सामेवा3 उताहो यजुर् इवा3 इति। स ब्रूयान् नैवैषर्ङ् न यजुर् न साम। सर्वम् इवैव। सर्वम् इव ह्य् एव ब्रह्मेति।
अथ यां क्रीते राजनि सुब्रह्मण्याम् आह्वयति याम् एतां दक्षिणासु नीयमानासूत्करे तिष्ठन् सुब्रह्मण्याम् आह्वयति सैवेयम्। अथो यत् प्रायणं तद् उदयनम् असद् इति। अथो आगत एवेद्रस्, तं मा निर्वोचामेति। एषा ह वै धेनुः पञ्चवत्सा पञ्चपदा। यद् ध वा इदम् आहुः पांक्ताः पशव इत्य् एतद् ध तत्।
तां ह वा एके यथादेवताम् आह्वयन्ति। सर्वाग्नेयीम् अग्निष्टुत, ऐन्द्रीम् इन्द्रस्तोमस्य, वैश्वदेवीं वैश्वदेवस्य, अनिरुक्ताम् अनिरुक्तस्य। तद् उ ह शश्वन् न तथा। नो हि ब्रह्मणो व्यापादो ऽस्ति। यथानिपतितम् एवाह्वयेद् यथानिपतितम् एवाह्वयेत्
एकाहाः
अथैष उपशदः। कश्यपो वा अकामयत -- उपोप मा प्रजाः पशवः शीयेरन्न्, उपोप प्रजया पशुभिः प्रजायेयेति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै तम् उपोप प्रजाः पशवो ऽशीयन्त, उपोप प्रजया पशुभिः प्रजायत। उपोप ह वा एनं प्रजाः पशवः शीयन्त, उपोप प्रजया पशुभिः प्रजायते य एवं वेद। तस्य त्रिवृद् बहिष्पवमानं भवति। न्यूनं वै त्रिवृत्। न्यूनं प्रजननम्। तद् यत् प्रजननं तन् मा प्रजनयाद् इति। तस्यैकोत्तरा स्तोमा भवन्ति। अनन्तर्हिताद् अनन्तर्हितात् प्रजननात् प्रजाया इति। यद् व् एवैषैकैकका स्तोत्र्योपशीयते, तस्माद् उपशदः। तस्योभये स्तोमा भवन्त्य् अयुजश् च युग्मन्तश् च। एतद् वै दैव्यं मिथुनं प्रजननं यद् उभये स्तोमाः। तद् यद् दैव्यं मिथुनं प्रजननं, तन् मा प्रजनयाद् इति। तस्योभे बृहद्रथन्तरे सामनी भवतः। एतद् वै दैव्यं मिथुनं प्रजननं यद् उभे बृहद्रथन्तरे। तद् यद् दैव्यं मिथुनं प्रजननं, तन् मा प्रजनयाद् इति
तस्य वसिष्ठस्य जनित्रे आदिष्ट-सामनी पवमानयोर् भवतः। एतद् वै दैव्यं मिथुनं प्रजननं यद् वसिष्ठस्य जनित्रे। तद् यद् दैव्यं मिथुनं प्रजननं, तन् मा प्रजनयाद् इति। तस्य सविंशम् अग्निष्टोमसाम भवति। सा विराट्। अन्नम् विराट्। विराज्य् एव तद् अन्नाद्ये यज्ञस्यान्ततः प्रतितिष्ठति। तद् आहुर् अप्रजननी स्तोमो विराजम् अभि सम्पन्नो, नैनेन यजेतेति। तद् उ वा आहुः - प्रजनन एव। अन्नं वै विराट्। अशिताद् वै रेतस् सिच्यते। रेतसः प्रजाः प्रजायन्ते। तस्मात् प्रजनन एवेति। अथो आहुर् - अष्टादशम् एवाच्छावाकस्य कृत्वा सविंशम् आर्भवम् एकविंशम् अग्निष्टोमसाम कुर्याद् इति। तद् उ प्रज्ञात एकविंशे स्तोमे ऽन्तत स्तोत्राणां प्रतितिष्ठति।
अथैष शदः। आदित्यो वा अकामयत - अवशात्यैव सर्वं पाप्मानं स्वर्गं लोकम् अभ्य् उत्क्रामेयम् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै सो ऽवशात्यैव सर्वं पाप्मानं स्वर्गं लोकम् अभ्य् उदक्रामत्। स एषो ऽपहतपाप्मा तपति। अवशात्य हैव सर्वं पाप्मानं स्वर्गं लोकम् अभ्य् उत्क्रामति य एवं वेद। यद् व् एवैषैकैका स्तोत्र्यावशीयते, तस्माच् छदः
अथैष पुनस्तोमः। स हायम् ऋषिर् आगत्य न शशाकोत्थातुम् असुराशनेन। गरो हैनम् आविवेश, यद् वा मित्राय दुद्रोह, यद् विद्विषाणानाम् अशनम् आश. स हेन्द्रम् उवाच - न वै शक्नोम्य् उत्थातुम् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनैनम् अयाजयत्। तस्य त्रिवृत् प्रातस्सवनं भवति, त्रिवृत् तृतीयसवनम्। न्यूनं वै त्रिवृन्, न्यूनान् न क्षरति। तम् एताभ्यां त्रिवृद्भ्यां सवनाभ्यां यथा दृतिम् उभयत आहृत्य निक्षालयेद्, एवं हैवास्य सर्वं पाप्मानं निक्षालयांचकार। इतश् च ह वै स तद् ऊर्ध्वं इतश् चावाञ्चं पाप्मानम् अपजघ्ने। इतश् च हैवोर्ध्वम इतश् चावाञ्चं पाप्मानम् अपहते य एवं वेद।
स हातिप्ररिक्तो न शशाकोत्थातुम्। स हेक्षांचक्रे - कथं न्व् अहम् इमं पुनस् संश्रीणीयाम् इति। तम् एतेनैव पुनर् अयाजयत्। तेनैनं पुनस् समश्रीणात्। सास्य पुनस्तोमता। तस्य द्वादशं माध्यंदिनं सवनं भवति। द्वादश मासास् संवत्सरः। संवत्सरेणैवास्य तद् रिक्तम् आत्मानं मध्यतः पुनस् समश्रीणात्। स यथा जात्व् अप्रतिजगृहिवान् स्याद्, एवम् आस। यथा द्विदतः कुमारस्य सातं स्याद्, एवं हैवास्य सातम् आस। स यो गरगीर् मन्येताप्रतिगृह्यस्य प्रतिगृह्यानश्यान्नस्यान्नम् अशित्वा, स एतेन यजेत। एताभ्याम् एव त्रिवृद्भ्यां सवनाभ्याम् इतश् चोर्ध्वम् इतश् चावाञ्चं विश्वञ्चं गरं व्यस्यते
तस्य बृहत् पृष्ठं भवति। इदं वै रथन्तरम्, अदो बृहत्। आसन्नम् इव वा इदं, प्ररिक्तम् इवादः - प्ररिक्त्या एव। तस्य प्र यो रिरिक्ष ओजसेत्य् एतासु गारं ब्रह्मसाम भवति - गरस्यैवापहत्यै।
तद् उ वा आहुर् - या इद् वै ताः कामदुघा आसन्न् एतेन वाव ता यज्ञेन परिगृह्याहरताम् इति। तस्य त्रिवृत् प्रातस्सवनं भवति, त्रिवृत् तृतीयसवनं, द्वादशं माध्यंदिनं सवनम्। द्वादशाक्षरा वै जगती। पशवो जगती, पशवः कामदुघाः। ब्रह्म वै त्रिवृत्। ब्रह्मणा वा एनास् तद् उभयतः परिगृह्याजह्रतुः। तासाम् एका श्रवणा दुहे। तां भूमाव् उपोपतुः। ताम् एतां वक्रेण दारुणान्विच्छन्ति लांगलेन, दिश एका तां वणिज्यया, ब्रह्मैका तां ब्रह्मचर्येण, क्षत्रम् एका तां राजानुचर्येण। अथ यास् तिस्रः परिशिष्टा आसुस् तानि हैवोक्थानि चक्रतुः।
स एष उक्थ्यो यज्ञः। शश्वद् धैष एव प्रथम उक्थ्यानाम् - अथ ततो ऽग्निष्टोमा एव पराञ्चः। स यः पशुकाम स्यात्, स एतेन यजेत। तस्मिन्न् उ ह तर्ह्य् उभे बृहद्रथन्तरे कुर्युः। द्वया उ ह वै पशवः। राथन्तरा अन्ये, बार्हता अन्ये। ये ह वा अन्यतोदन्ताः पशवस् ते राथन्तरा, य उभयतोदन्तास् ते बार्हताः। उभयेषाम् एव पशूनाम् अवरुद्ध्यै। स उक्थ्यो भवति - पशवो वा उक्थानि - पशूनाम् एवावरुद्ध्यै। तस्योद्वंशीयम् अच्छावाकसाम भवति सर्वं पृष्ठरूपम् - पृष्ठानि वै पशवो - ऽभिपूर्वाणाम् एव पशूनाम् अवरुद्ध्यै
अथैतौ विराट्स्वराजौ। देवा वा अकामयन्त - विराजम् अन्नाद्यम् अवरुन्धीमहि, विराज्य् अन्नाद्ये प्रतितिष्ठेमेति। त एतं विराजं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। ततो वै ते विराजम् अन्नाद्यम् अवारुन्धत, विराज्य् अन्नाद्ये प्रत्यतिष्ठन्। विराजम् एवान्नाद्यम् अवरुन्द्धे विराज्य् अन्नाद्ये प्रतितिष्ठति य एवं वेद। स ह वै विराड् यत्रान्यस्य लोकं नाभिध्यायति । तम् एवैतेन जयति। तस्य दश त्रिवृन्ति स्तोत्राणि भवन्ति, तास् तिस्रो विराजः पञ्चदशे द्वे। सो विराट्। ताश् चतस्रो विराजस् संपद्यन्ते। अन्नं विराट्। विराज एवान्नाद्यस्यावरुद्ध्यै। तस्य रथन्तरं पृष्ठं भवति। इयं वै रथन्तरम्। इयम् उ वै विराट्। य उ वा अस्यै भूयिष्ठं परिगृह्णाति स विराजति। अन्नं विराट्। विराज एवान्नाद्यस्यावरुद्ध्यै। तस्येन्दुस् समुद्रम् उर्विया विभातीत्य् एतद् आदिष्टसाम माध्यंदिने पवमाने भवति पृथिव्यै साम। स्तोमम् एव तद्रूपेण समृद्धयन्ति
त उ वा अकामयन्त - विराजम् अन्नाद्यम् अवरुध्य स्वराज्यं लोकं गच्छेमेति। त एतं स्वराजं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। ततो वै ते विराजम् अन्नाद्यम् अवरुध्य स्वाराज्यं लोकम् अगच्छन्। विराजम् एवान्नाद्यम् अवरुध्य स्वाराज्यं लोकं गच्छति य एवं वेद। स ह वै स्वराड् यत्रान्यस्य लोकं नाभिध्यायति। तम् एवैतेन जयति। तस्य दश त्रिवृन्ति स्तोत्राणि भवन्ति। तास् तिस्रो विराजः। पञ्चदशं च सप्तदशं च द्वे। सो ऽनुष्टुप्। एषो ह वै छन्दसां स्वाराज्यं लोकम् आनशे यद् अनुष्टुप्। प्रजापतिर् वा अनुष्टुप्। प्रजापतिर् वै स्वाराज्यम्। अन्नम् उ वै विराट्। विराज्य् एव तद् अन्नाद्ये प्रतिष्ठाय स्वाराज्यं लोक्म् अगच्छन्। विराज्य् एव तद् अन्नाद्ये प्रतिष्ठाय स्वाराज्यं लोकं गच्छति य एवं वेद। तस्य बृहत् पृष्ठं भवति। अदो वै बृहत्। अदो वै स्वाराज्यम्। अमुम् एवैतेन स्वाराज्यं लोकम् अगच्छन्। अमुम् एवैतेन स्वाराज्यं लोकं गच्छति य एवं वेद। तस्येन्दुस् समुद्रम् उर्विया विभातीत्य् एतद् आदिष्टसामार्भवे पवमाने न भवतीति दिवस् सामैकारवद् भवति। अर्वाङ् इव ह्य् असौ लोकः। स्तोमम् एव तद्रूपेण समृद्धयन्ति। अथो यद् एकारवद् भवति स्वर्गाल् लोकान् नेत् पराञ्चो ऽतिपद्यामहा इति
अथैष ऋषभः। इन्द्रो वा अकामयत ऋषभस् सर्वासां प्रजानांं स्याम् ऋषभतां गच्छेयम् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स ऋषभस् सर्वासां प्रजानाम् अभवद् ऋषभताम् अगच्छत्। ऋषभ एव स्वानां प्रजानां भवत्य् ऋषभतां गच्छति य एवं वेद। तच् छ्रीर् वा ऋषभः। श्रियं वै स तद् अगच्छत्। ऋषभो वै राजा मनुष्याणाम्। ऋषभ ऋषभः पशूनाम्। ऋषभो ऽश्ववृषो वळवानाम्। ऋषभो बस्तो ऽजानाम्। ऋषभो वृष्णिर् अवीनाम्। ऋषभः कृष्ण एणीनाम्। ऋषभ ऋष्यो रोहिताम्। एते ह वा आसां श्रियः। श्रियं ह गच्छति य एवं वेद। स पञ्चदशो भवति। वज्रो वै पञ्चदशः। वज्र इन्द्रः। ऐन्द्र एष यज्ञस् तत् तत्सलक्ष्म क्रियते। तस्यैकविंशो माध्यंदिनो भवति। सा हास्य ककुप्। य उ ह वा एषां लोकानां श्रेष्ठास् ते ककुभः। अग्निर् वा अस्य लोकस्य ककुब्, वायुर् अन्तरिक्षस्य, आदित्यो दिवः। ककुभाम् एको भवति य एवं वेद। तस्य बृहत् पृष्ठं भवति। इन्द्रो वै बृहत्। श्रीः पृष्ठानि। इन्द्रम् एव तच् छ्रिया समृद्धयन्ति। तस्य ऋषभः पावमान ऋषभो वैदन्वत इत्य् एते आदिष्टसामनी पवमानयोर् भवतः। स्तोमम् एव तद्रूपेण समृद्धयन्ति
अथैष व्योमा। देवा वा अकामयन्त व्योम स्याम, व्योमानं लोकं गच्छेमेति। त एतं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। ततो वै ते व्योमासन् व्योमानं लोकम् अगच्छन्। व्योमा हैव भवति व्योमानं लोकं गच्छति य एवं वेद। स ह वै व्योमा यत्रान्यस्य लोकं नाभिध्यायति। तम् एवैतेन जयति। सप्तदशो भवति। प्रजापतिर् वै सप्तदशः। प्रजापतिर् वै व्योमा। व्योम्ना व्योमानं साम व्योम्ना व्योमानं लोकं गच्छामेति। तस्योभे बृहद्रथन्तरे सामनी भवतः। न ह वा एतयोर् अन्यतरद् व्योम। उभे ह वा एते व्योम। व्योम्ना व्योमानं साम व्योम्ना व्योमानं लोकं गच्छामेति। तस्यैकविंश आर्भवः पवमानो भवत्य् अग्निष्टोमसाम वा। द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य एकविंशः। एष उ ह वै व्योमा ये ऽर्वाञ्चः प्रजापतेर् देवाः। तेषां व्योम्ना व्योमानं साम व्योम्ना व्योमानं लोकं गच्छामेति। तस्यार्को देवानां परमे व्योमन्, अर्कस्य देवाः परमे वियोमन्न् इत्य् एते आदिष्टसामनी पवमानयोर् भवतः। स्तोमम् एव तद्रूपेण समृद्धयन्ति
अथैताव् उद्भिद् बलभिदौ। प्रजननकामो हैताभ्यां यजेत। त्रिवृत्पञ्चदशौ स्तोमौ भवतस् सप्तिसप्तदशाः। ऊनातिरिक्तौ मिथुनौ प्रजननी। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते। तत् तत् प्रजननं क्रियते। तस्माद् उ हाभ्यां प्रजननकामो यजेत। अथो आहुर् - ब्रह्मवर्चसकाम एवाभ्यां यजेतेति। षड् वा एतयोर् अन्यतरो गायत्रीर् अभिसंपद्यते, षड् अन्यतरः। ब्रह्म वै गायत्री। गायत्रीम् एतौ यज्ञाव् अभिसंपन्नौ। तस्माद् उ हाभ्यां ब्रह्मवर्चसकामो यजेत। अथो आहुर् - आयुष्काम एवाभ्यां यजेतेति। प्राणो वै गायत्री। गायत्रीम् एतौ यज्ञाव् अभिसंपन्नौ। तस्माद् उभाभ्याम् आयुष्कामो यजेत। अथो आहुस् - तेजस्काम एवाभ्यां यजेतेति। तेजो वै गायत्री। गायत्रीम् एव तौ यज्ञाव् अभिसंपन्नौ। तस्माद् उ हाभ्यां तेजस्कामो यजेत। अथो आहु - स्वर्गकाम एवाभ्यां यजेतेति। या वै षड् गायत्र्यश् चतस्रस् ता बृहत्यः। बृहती वै स्वर्गं लोकम् आनशे। तस्माद् उ हाभ्यां स्वर्गकामो यजेत। अथो आहुः - पशुकाम एवाभ्यां यजेतेति। या वै षड् गायत्र्यस् तिस्रस् ता जगत्यः। पशवो जगती। तस्माद् उ हाभ्यां पशुकामो यजेत
ते देवा एताव् उद्भिद्वलभिदाव् अपश्यन्। ताभ्यां एना अभिप्रावयन्। ते वलभिदैव वलम् अभिन्दन्। उद्भिदा गा उदसृजन्त। स वा एष त्रिवृत् पञ्चदशो वलभिद् भवति रथन्तरसामोत्सेधब्रह्मसामा। अथैष उद्भित् सप्तिसप्तदशो भवति बृहत्सामा निषेधब्रह्मसामा। तद् यथा ह वै मयूखो वा तीक्ष्णश् शंकुर् वैवम् एष यत् त्रिवृत् स्तोमः। तद् यथा मयूखेन वा तीक्ष्णेनाभिनिधाय शंकुना वा कूटेनाभिहन्याद्, एवमेवैतेन त्रिवृता स्तोमेन वलम् अभिनिधाय पञ्चदशेन वज्रेण व्यासुः। अथो आहुर् - अग्निर् एवैष यत् त्रिवृत् स्तोमः। वज्र एष यत् पञ्चदशः। तद् यथाग्निनाश्मानम् अभ्योप्य तं कूटेन भिन्द्याद्, एवम् एवैतेन त्रिवृताग्निना स्तोमेन वलम् अभ्योप्य पञ्चदशेन वज्रेण व्यासुर् इति। ता हान्तर एव तस्थुर् अयनम् अविन्दमानाः। ता होत्सेधेनैवोत्सिषिधुः। अथैष उद्भित् सप्ति सप्तदशो भवति। ततो याः सप्तत एव सप्ततयाः पशवो ऽथ यास् सप्तदश, स एव सप्तदशः प्रजापतिः। ताः पितरम् एव प्रजापतिं पश्यन्तीः प्रतिमोदमाना उदेयुः। ता होदेत्य महद् एवाभि विससृजिरे। तासां ह देवाः परावापाद् बिभयांचक्रुः। ता होत्सेधेनैवोत्सिध्य निषेधेन निषिध्यात्मन् दधिरे। स यः पशुकाम स्यात्, त एताभ्यां यजेत। वलभिदैव वलं भिनत्त्य्, उद्भिदा गा उत्सृजते। उत्सेधेनैवैना उत्सिध्य निषेधेन निषिध्यात्मन् धत्ते, अव पशून् रुन्द्धे, बहुपशुर् भवति
अथैतौ सत्राजित्पृतनाजितौ। देवासुरा वै संवत्सरे प्रजापताव् अस्पर्धन्तैषु च लोकेषु। ते देवा अकामयन्त - जयेम पृतनाम् इति। त एतं पृतनाजितं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। ततो वै ते तां पृतनाम् अजयन्। यत् पृतनाम अजयंस् तत् पृतनाजितः पृतनाजित्त्वम्। जयति पृतनां द्विषन्तं भ्रातृव्यं य एवं वेद। स चतुर्विंशो भवति। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सराद् एवैनांस् तद् अजयन्। तस्य रथन्तरं पृष्ठं भवति। इदं वै रथन्तरम्। अस्माद् एवैनांस् तल् लोकाद् अजयन्। तस्य द्वादश स्तोत्राणि भवन्ति। द्वादश मासास् संवत्सरः। मासश एवैनांस् तत् संवत्सराद् अजयन्। तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति। चतुर्विंशत्यर्धमासस् संवत्सरः। अर्धमासश एवैनांस् तत् संवत्सराद् अजयन्
ते जिताः पञ्चविंशम् एव पितरं प्रजापतिं प्रापद्यन्तामुं च लोकम्। तान् अकामयन्तात एनान् सत्रा जयेमेति। त एतं सत्राजितं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। तत एनान् सत्राजयन्। यत् सत्राजयंस् तत् सत्राजितस् सत्राजित्त्वम्। सत्रा द्विषन्तं भ्रातृव्यं जयति य एवं वेद। स पञ्चविंशो भवति। चतुर्विंशत्यर्धमासस् संवत्सरः। प्रजापतिः पञ्चविंशः। संवत्सराद् एवैनांस् तत् प्रजापतेर् अजयन्। तस्य द्वादश स्तोत्राणि भवन्ति। द्वादश मासास् संवत्सरः। मासश एवैनांस् तत् संवत्सराद् अजयन्. तस्य चतुर्विंशति स्तुशस्त्राणि भवन्ति। चतुर्विंशत्यर्धमासस् संवत्सरः। अभि पूर्वम् एवैनांस् तद् अर्धमासशस् संवत्सराद् अजयन्। ततो वै देवा अभवन् परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद
अथो आहुः प्रजाकाम एव प्रजापतिर् एतं पृतनाजितं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजतेति। तस्य द्वे अष्टाशीतिशते स्तोत्रिया भवन्ति। तन् न्यूनम्। न्यूनात् प्रजननम्। द्वे हि ते स्त्रिया ऊने यतः सा प्रजायते। तत् तत् प्रजननं क्रियते। स चतुर्विंशो भवति। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरः प्रजननं क्रियते। तस्य रथन्तरं पृष्ठं भवति। प्रजननं वै रथन्तरम्। तत् तत् प्रजननं क्रियते। तस्य द्वादश स्तोत्राणि भवन्ति। द्वादश मासास् संवत्सरः। संवत्सरः प्रजननम्। तत् तत् प्रजननं क्रियते। तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरः प्रजननम्। तत् तद् अभिपूर्वं प्रजननं क्रियते। प्र प्रजया पशुभिर् जायते य एवं वेद। ताः प्रजन्याकामयतान्नवतीर् म इमाः प्रजा स्युर् इति। स एतं सत्राजितं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। स पञ्चविंशो भवति। चतुर्विंशत्यर्धमासो वै संवत्सरः। अन्नाद्यं पञ्चविंशी। अन्नाद्यम् एवाभ्यस् तत् पञ्चविंश्या प्रायच्छत्। तस्य त्रीणि शतानि स्तोत्र्या भवन्ति। सा विराट्। अन्नं विराट्। एतद् एवाभ्यस् तद् अन्नाद्यं प्रायच्छत्। ता अस्यान्नवती प्रजा अभवन्। स यः कामयेत बहुभिः प्रजया पशुभिः प्रजायेयान्नवतीर् म इमाः प्रजा स्युर् इति, स एताभ्यां यजेत। बहुर् एव प्रजया पशुभिः प्रजायते ऽन्नवतीर् अस्य प्रजा भवन्ति
अथैष विराट् स्वराजौ। भ्रातराव् एतेन यज्ञेन यजेयाताम्। यौ कामयेयातां राज्यं न्व् अन्यतरो गच्छेत् स्वाराज्यम् अन्यतर इति, स वा एष विराजं चानुष्टुभं चाभिसंपद्यते। एतद् ध वै राज्यं यद् विराट्। अथैतत् स्वाराज्यं यद् अनुष्टुप्। विराजैव कनीयान् राज्यं गच्छति, अनुष्टुभा ज्यायान् स्वाराज्यं लोकम् । तस्योभे बृहद्रथन्तरे सामनी भवतः। एतद् ध वै राज्यं यद् रथन्तरम्। अथैतत् स्वाराज्यं यद् बृहत्। रथन्तरेणैव कनीयान् राज्यं गच्छति। बृहता ज्यायान् स्वराज्यं लोकम्। तस्य त्रीणि त्रिवृन्ति स्तोत्राणि भवन्ति, त्रीणि पञ्चदशानि, त्रीणि सप्तदशानि, त्रीण्य् एकविंशानि। त्रिवृद्भिर् एव कनीयान् राज्यं गच्छति, पञ्चदशैर् ज्यायान् स्वाराज्यं लोकम्। सप्तदशैर् एव कनीयान् राज्यं गच्छत्य, एकविंशैर् ज्यायान् स्वाराज्यं लोकम्
तद् आहुर् - भूतस्यैवैष यज्ञो न बुभूषतः। प्रजननी स्तोमो विराजं चानुष्टुभं चाभिसंपद्यते। संपन्नम् इव वा एतच् छन्दः पूर्णम् इव प्रजननं यद् विराट्। अन्त उ वा एष छन्दसां यत् अनुष्टुब् इति। तद् उ वा आहुर् - उभयोर् एवैष यज्ञो भूतस्य च बुभूषतश् चेति। तस्यैते त्रिवृत्पञ्चदशा स्तोमा भवन्ति सप्तदशैकविंशा ऊनातिरिक्ता मिथुनाः प्रजनयः। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वि मिथुनात् प्रजाः पशवः प्रजायन्ते। त्रिवृच् च पञ्चदशश् च तन् मिथुनं प्रजननम्। सप्दशश् चैकविंशश् च तन् मिथुनं प्रजननम्। तद् यन् मिथुनं प्रजननं तन् मा प्रजनयाद् इति। अथो यद् उभे बृहद्रथन्तरे सामनी भवत - एतद् वै दैव्यं मिथुनं प्रजननं यद् उभे बृहद्रथन्तरे - तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति। अनेन हत्वाप प्रजननतमो यद् विराजम् अभिसंपद्यते। अन्नं वै विराट्। अशिताद् वै रेतस् सिच्यते। रेतसः प्रजाः प्रजायन्ते। अथो यद् अनुष्टुभम् अभिसंपद्यत - आनुष्टुभो वै प्रजापतिः, प्रजापतिः प्रजननं - स यः प्रजननं स मा प्रजनयाद् इति
तस्य युवं हि स्थ स्वःपती इत्य् एषो प्रतिपत् कार्या। एषा वै द्वयोस् संयजमानयोः प्रतिपत्। तद् उ वा आहुः पवस्व वाचो अग्रिय, उपास्मै गायता नर इत्य् एते एव प्रतिपदौ कार्ये। एते वाव द्वयोः प्रतिपदौ कार्ये इति। तस्मिन्न् एतानि सामान्य् अवकल्पयन्ति गौषूक्ताश्वसूक्ते हाविष्मत - हाविष्कृते। ये द्वे द्वे सामनी यानि द्वयोस् संयजमानयोस् सामानि तानि। तस्य विराट् - स्वराजम् आर्भवस्य पवमानस्यानुष्टुभि कुर्वन्ति। विराट्- स्वराजो ह्य् एष यज्ञः। स्तोमम् एव समृद्धयन्ति
अथैष ज्येष्ठयज्ञः। यो ज्यैष्ठ्यकाम स्यात् स एतेन यजेत। स वा एषो ऽष्टाव् एकविंशान् अभिसंपद्यते। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। एष उ ह वा अग्रं ज्यैष्ठ्यम्। स यो ऽग्रं ज्यैष्ठ्यं स माग्रं ज्यैष्ठ्यं गमयाद् इति। तस्य सप्तदशाः पवमाना भवन्ति। प्रजापतिर् वै सप्तदशः। प्रजापतिर् वा अग्रं ज्यैष्ठ्यम्। सो यो ऽग्रं ज्यैष्ठ्यं स माग्रं ज्यैष्ठयं गमयाद् इति। तस्योत्तरावन्ति स्तोत्राणि भवन्ति। उत्तरावतीम् एवैनं तच् छ्रियम् उत्तरावन्तं स्वर्गं लोकं गमयन्ति। तस्य बृहत् पृष्ठं भवति। श्रीर् वै बृहज् ज्यैष्ठ्यम्। अदो वै बृहद् अदो वै ज्यैष्ठ्यम्। तद् एनं तच् छ्रियाम् एव मध्यतो ज्यैष्ठ्ये प्रतिष्ठापयन्ति। तस्य द्वादश स्तोत्राणि भवन्ति। द्वादश मासास् संवत्सरः । संवत्सरो वा अग्रं ज्यैष्ठ्यम्। स यो ऽग्रं ज्यैष्ठ्यं स माग्रं ज्यैष्ठ्यं गमयाद् इति। तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरो वा अग्रं ज्यैष्ठ्यम्। स यो ऽग्रं ज्यैष्ठ्यं गमयाद् इति। स यो ज्येष्ठो ज्यैष्ठिनेयस् समग्रिय स्यात्, स एतेन यजेत गच्छति ज्यैष्ठ्यं, न ज्यैष्ठ्याद् अवरोहति
अथैष दुराशः। पौर्णमासेन हविषेष्ट्वा आदित्याय चरुं निर्वपति। तस्मिञ् छतमानं हिरण्यं ददाति सुवर्णं चन्द्रमसे ऽपराह्णे। तस्मिञ् छतमानं हिरण्यं ददाति रजतम्। स एवम् एतौ पूर्वाह्णापराह्णाव् एतम् अपरपक्षं यजते। तस्याम् अमावास्यायां दीक्षोपरिष्टात् सुत्या। तद् वा एतत् सूर्याचन्द्रमसोर् एवायनम्। सूर्याचन्द्रमसौ वा अकामयेताम्। समानेन यज्ञेन समानीम् ऋद्धिम् ऋद्धनुयाव। अहर् एव नाव् अन्यतरो ऽभिजयेद्, रात्रिम् अन्यतर इति। ताव् एतं यज्ञम् अपश्यताम्। तम् आहरताम। तेनायजेताम्। ततो वै तौ समानेन यज्ञेन समानीम् ऋद्धिम् आर्ध्नुताम्। अहर् एवैनयोर् अन्यतरो ऽभ्यजयद्, रात्रिम् अन्यतरः। एषा ह वा एनयोः समान्य् ऋद्धिर्, यत् समाने लोके पूर्वाह्णापराह्णौ यजते। अहर् वै पूर्वपक्षो, रात्रिर् अपरपक्षो - ऽहोरात्रयोर् एवाभिजित्यै। बृहद्रथन्तरे भवतः। अहर् वै बृहद्, रात्री रथन्तरम् - अहोरात्रयोर् एवाभिजित्यै। रजतसुवर्णे भवतः। अहर् वै सुवर्णं, रात्री रजतम् - अहोरात्रयोर् एवाभिजित्यै। शतमाने भवतः। शतायुर् वै पुरुषः शतेन्द्रियः शतवीर्यस् -- तस्यैवेन्द्रियस्य वीर्यस्यावरुद्ध्यै
सप्तदश स्तोमो भवति। प्रजापतिर् वै सप्तदश। प्रजापति स्वर्गस्य लोकस्याभिनयिता। स मा स्वर्गं लोकम् अभिनयाद् इति। तस्य शतम् अनड्वाहो दक्षिणा भवन्ति। शतायुर् वै पुरुषः शतेन्द्रियः शतवीर्यस् - तस्यैवेन्द्रियस्य वीर्यस्यावरुद्ध्यै। सर्वे वह्नयो भवन्ति। वह्निना हि तत्र गच्छति यत्र जिगमिषति। सर्वे वरा भवन्ति। वर इव वै स्वर्गो लोक स्वर्गस्यैव लोकस्यर्द्ध्यै। एतद् अन्यद् दद्याद् अन्यथान्य स्तोत्रे स्तोत्रे सप्तदश सप्तदश निष्कान् दद्यात्। देवासुरा यज्ञे ऽस्पर्धन्त। ते यद् यद् एव देवा यज्ञे ऽकुर्वत, तत् तद् व् एवासुरा अन्वकुर्वत। ते देवा अब्रुवन् - यद् द् वाव वयं यज्ञे कुर्महे, तत् तन् नो ऽसुरा अनुकुर्वते। एत, हिरण्यसोमेन यजामहा इति। अथ ह तर्हि देवेष्व् एव हिरण्यम् आस, नासुरेषु। संवृक्तं ह देवैर् असुराणां हिरण्यम् आस। ते हिरण्यसोमेनायजन्त। ते स्तोत्रे स्तोत्रे सप्तदश सप्तदश निष्कान् अददुः। तद् एषाम् असुरा नोदाश्नुवत। ते ऽब्रुवन् -- दुराशं बतेदं देवा अक्रतेति। तद् एव दुराशस्य दुराशत्वम्। ततो वै देवा अभवन्, परासुराः। भवत्य् आत्मना, परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद। तस्य शुक्रचन्द्रे आदिष्टसामनी पवमानयोर् भवतः। सूर्याचन्द्रमसोर् ह्य् एष यज्ञः। स्तोमम् एव तद्रूपेण समर्धयन्ति
अथैषो ऽपचितिः। प्रजापतिः प्रजा असृजत। ता एनं सृष्टा नापाचायन्। सो ऽकामत - अपचितिम् आसु प्रजासु गच्छेयम् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै तं ता अपाचायन्। इन्द्रम् उ वै देवा नापाचायन्। स प्रजापतिम् उपाधावत् - न वै मेमे देवा अपचायन्तीति। तस्मा एतम् अपचितिं यज्ञं व्यदधात्। तम् आहरत्। तेनायजत। ततो वै तं देवा अपाचायन्। दर्भम् उ ह वै शातानीकिं पाञ्चाला राजानं सन्तं नापचायांचक्रुः। अपि ह स्मैनं कुमारा दर्भ दर्भेति ह्वयन्ति। तस्य हैतौ ब्राह्मणाव् आसतुर् अहीना आश्वत्थिः केशी सात्यकामिर् इति। तौ हैनम् उपसमेयतुः। स ह ध्यायन् निषसाद। तं होचतुः। किं नु राजन्यो ध्यायतीति। स होवाच - न हि मे ध्येयम्। पाञ्चाला वै मेमे राजानं सन्तं नापचायन्त्य्, अपि मा कुमारा दर्भ दर्भेति ह्वयन्ति। तद् एवैतद् ध्यायामीति। तं होचतुर् - अपचितिर् इति वा अयं यज्ञक्रतुर् अस्ति, तेन त्वा याजयावेति। तथेति। तेन हैनं याजयांचक्रतुः। स हैषु तथामात्रम् अपिचितिं जगाम, यद् अप्य् एतर्हि पाञ्चाला दर्भान् कुशा इत्य् एवाचक्षते
अस्य वा एतस्य गायत्रीम् एव प्रातस्सवनं संपद्यते, त्रिष्टुभं माध्यंदिनं सवनं, जगतीं तृतीयसवनम्। तद् यद् गायत्रीं प्रातस्सवनं संपद्यते - अष्टाक्षरा गायत्र्य्, अष्टौ वसवो - गायत्र्यैव तच् छन्दसा प्रजापतिश् चेन्द्रश् च वसुषु देवेषु प्रातस्सवने अध्य् अपचितिम् अगच्छताम्। अथ यत् त्रिष्टुभं माध्यंदिनं सवनं संपद्यत - एकादशाक्षरा त्रिष्टुप्, एकादश रुद्रास् - त्रिष्टुभैव तच् छन्दसा प्रजापतिश् चेन्द्रश् च रुद्रेषु देवेषु माध्यंदिने सवने ऽध्य् अपचितिम् अगच्छताम्। अथ यज् जगतीं तृतीयसवनं संपद्यते - द्वादशाक्षरा जगती, द्वादशादित्या - जगत्यैव तच् छन्दसा प्रजापतिश् चेन्द्रश् चादित्येषु देवेषु तृतीयसवने ऽध्य् अपचितिम् अगच्छताम्। अष्टाक्षरा गायत्री। एकादशाक्षरा त्रिष्टुप्। द्वादशाक्षरा जगती। वाग् इति यज्ञायज्ञीयस्य निधनम्। तद् द्वात्रिंशत्। द्वात्रिंशदक्षरानुष्टुप्। विश्वेषां देवानाम् अनुष्टुप्। अनुष्टुभैव तच् छन्दसा प्रजापतिश् चेन्द्रश् च विश्वेषु देवेषु तृतीयसवने ऽध्य् अपचितिम् अगच्छताम्। एतावन्तो वै देवाः। एतावन्ति देवजातानि। तेष्व् एव तद् अध्य् अपचितिम् अगच्छताम्
गायत्रो वै ब्राह्मणः। त्रैष्टुभो राजन्यः। जागतो वैश्यः। आनुष्टुभः शूद्रः। तद् यद् गायत्रीं प्रातस्सवनं संपद्यते, गायत्र्यैव तच् छन्दसा दर्भः शातानीकिर् ब्राह्मणे मनुष्ये ऽध्य् अपचितिम् अगच्छत्। अथ यत् त्रिष्टुभं माध्यंदिनं सवनं संपद्यते, त्रिष्टुभैव तच् छन्दसा दर्भः शातानीकी राजन्ये मनुष्ये ऽध्य् अपचितिम् अगच्छत्। अथ यज् जगतीं तृतीयसवनं संपद्यते, जगत्यैव तच् छन्दसा दर्भः शातानीकिर् वैश्ये मनुष्ये ऽध्य् अपचितिम् अगच्छत्। अष्टाक्षरा गायत्री। एकादशाक्षरा त्रिष्टुप्। द्वादशाक्षरा जगती। वाग् इति यज्ञायज्ञीयस्य निधनम्। तद् द्वात्रिंशत्। द्वात्रिंशदक्षरानुष्टुप्। आनुष्टुभः शूद्रः। अनुष्टुभैव तच् छन्दसा दर्भः शातानीकिः शूद्रे मनुष्ये ऽध्य् अपचितिम् अगच्छत्। एतावन्तो वै मनुष्याः। एतावन्ति मनुष्यजातानि। तेष्व् एव तद् अध्य् अपचितिम् अगच्छत्
तद् आहु- कैतस्य यज्ञस्य विधृतिः कापचितिर् इति। स ब्रूयाद् यद् एव सवनात् सवनं न समैति। यद् अमैव सवनं संपद्यते सैवैतस्य यज्ञस्य विधृतिस् सापचितिर् इति। तस्य आहुर् दविद्युतत्या रुचेत्य् एव प्रतिपदं कार्याम्। एषा वै गणिनी प्रतिपद् बहुरूपा। गणा इव वै तं सचन्ते य श्रियम् अश्नुत इति। तद् उ वा आहुः पवस्व वाचो अग्रिय, उपास्मै गायता नर इत्य् एते एव प्रतिपदौ कार्ये। एते वाव गणिन्यौ प्रतिपदौ बहुरूपे। अथो उभे ह्य् अत्र सामनी क्रियेते। तस्माद् एते एव प्रतिपदौ कार्ये इति। बृहद्रथन्तरे भवतः। ब्रह्म वै रथन्तरं, क्षत्रं बृहत्। ब्रह्म च वै क्षत्रं चापचिते रूपम्। भद्रेश्रेयसी भवतः। भद्रेण वै देवा भद्रा अभवञ् छ्रेयसा श्रियम् अगच्छन्। सहोमहसी भवतः। सहसा वै देवा असुरान असहन्त। महसा महो ऽभवन्। भ्रर्ग यशसी भवतः। भर्गेण वै देवा भर्गो ऽभवन्। यशसा यशो ऽगच्छन्। उत्सेधनिषेधौ भवतः। उत्सेधेन वै देवा औत्सेध्यम् उदसेधन्। निषेधेन निषेद्यं न्यषेधन्। सदोविशीयं च विशोविशीयं च भवतः। सदोविशीयेन वै देवा विशम् असीदन्। विशोविशीयेन विशो विशो राजानो ऽभवन्। धर्मविधर्मणी भवतः। धर्मेण वै देवा धर्मो ऽभवन्। विधर्मणा विधर्मापाघ्नत। तस्मिन् एता उभयीर् द्विपदातिच्छन्दसः क्रियन्ते, ज्येष्ठानि च ह्रसिष्ठानि च छन्दांसि। पशवो वै छन्दांसि। तस्माद् भूतम् उभये पशव उपतिष्ठन्ते ज्येष्ठाश् च ह्रसिष्ठाश् च य एवं वेद। तस्याश्वरथश् चतुर्युग् दक्षिणा भवति। सर्वे शतक्रियो ऽश्वाः। स रुक्मी प्रावेपी सर्वाभरण्य् अंशुमान् भवति। तस्य वैयाघ्रः परिवारो भवति, द्वैपो धन्वधिर्, आर्क्ष उपासंगः। खाड्ग - कवचो ऽध्यास्थाता भवति संनद्धस् संनद्धसारथिर् आवृतः प्रतिहिताभ्याम्। निष्की स्रग्वी संग्रहीता भवति। एतद् वै त्विषे रूपम् एतद् अपचितेः। तस्मिन्न् एतद् अपचितं धनं ददाति। अपचिता एवापचितं धनं ददानीति। स्तोमम् एव तद्रूपेण समृद्धयन्ति
अथैताव् अभिभूश् च विनुत्तिश् च । देवासुरा अस्पर्धन्त। ते देवा अकामयन्त -- अभीमान् असुरान् भवेमेति। त एतम् अभिभवं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। तेनासुरान् अभ्यभवन्। यद् अभ्यभवंस् तद् अभिभुवो ऽभिभूत्वम्। अभि ह वै द्विषन्तं भ्रातृव्यं भवति य एवं वेद। तस्य त्रिवृताव् अभितो भवतः। ब्रह्म वै त्रिवृत्। ब्रह्मणा वा एनांस् तद् अभ्यभवन्। ब्रह्मणैव द्विषन्तं भ्रातृव्यम् अभिभवति य एवं वेद। ते जितास् त्रयस्त्रिंशम् एव पितरं प्रजापतिं प्रापद्यन्त। यथा ज्येष्ठायां वरिष्ठायां पर्ययेतरंस् तथा तान् अकामयन्तात एनान् विनुदहेमहीति। त एतं विनुत्तिं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। तत एनान् व्यनुदन्त। यद् व्यनुदन्त तद् विनुत्तेर् विनुत्तित्त्वम्। वि ह वै द्विषन्तं भ्रातृव्यं नुदते य एवं वेद। तस्य त्रिवृतौ मध्ये भवतः। ब्रह्म वै त्रिवृत्। ब्रह्मणा वा एनांस् तद् व्यनुदन्त। ब्रह्मणैव द्विषन्तं भ्रातृव्यं विनुदते य एवं वेद
अथो आहुर् अग्निर् एवैष यत् त्रिवृत् स्तोमः। तद् यथा भ्रमलान् संसन्नान् अग्निना ऽभ्यौषेद् एवम् एवैनांस् तत् त्रिवृता अग्निना स्तोमेन त्रयस्त्रिंशाभ्याम् उभयत उपमार्याभ्यौषन्। ते विपलाय्येमाम् उपासर्पन्न् इति। ततो वै देवा अभवन् परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद। अथो आहुः पुरोधाकाम एवैनेन यजेत यद् अभिभूर् इति। तस्य त्रिवृताव् अभितो भवतस् त्रयस्त्रिंशौ मध्ये। ब्रह्म वै त्रिवृत् क्षत्रं त्रयस्त्रिंशः। ब्रह्मणैव तद् उभयतः क्षत्रं परिगृह्णाति। यदो वै ब्रह्मणा क्षत्रं परिगृह्णात्य् अथ स तस्य पुरोधां गच्छति। गच्छति पुरोधां पुर एनं दधते। अथो आहुर् अन्तस्थाकाम एवैनेन यजेत यद् विनुत्तिर् इति। तस्य त्रिवृतौ मध्ये भवतस्, त्रयस्त्रिंशाव् अभितः। ब्रह्म वै त्रिवृत्, क्षत्रं त्रयस्त्रिंशः। क्षत्रेणैव तद् उभयतो ब्रह्म परिगृह्णाति। यदो वै क्षत्रेण ब्रह्म परिगृह्णात्य् अथ स तस्यान्तस्थान् तिष्ठति। तिष्ठत्य अन्तस्थान् नान्तस्थायां जीयते। अथो आहू राजानौ हेद् वा एतौ स्तोमौ स्तोमराजाव् इति
तस्य वा एतस्याभिभुवस् त्रिवृताव् अभितो भवतस् त्रयस्त्रिंशौ मध्ये। तयोष् षट्षष्टि स्तोत्र्याः। ततो याष् षष्टिर् आसन्दी सा। अथ याश् चतस्र आसन्दीपादास् ते। अथ ये द्वे यजमान एवैष द्विपाद् एतस्यां राजासन्द्याम् अध्यूढः। गच्छति राज्यं य एवं वेद, यद्य् अस्मिन् लोके नाथ वा अमुष्मिन्। अथो आहुर् यस्य द्वाव् एतौ त्रिवृतौ मध्ये सा हेद् वा अप्य् आसन्दीति। मध्ये विनतेव वा आसन्दी। मध्ये विनत इवैष । सा ह वै सुषिमत्तरा या मध्ये विनता। गच्छति राज्यं य एवं वेद, यद्य् अस्मिन् लोके नाथ वा अमुष्मिन्। अथो आहुः पुनर् असौ हेद् वा एतौ यज्ञक्रतू इति। षड् वा एतयोर् अति ऊर्ध्वा स्तोमा उद्यन्ति। षड् अमुतो ऽर्वांचष् षड्भिर् एवेत ऊर्ध्वं स्वर्गं लोकं गच्छति, प्रत्य् एवामुतष् षड्भिर् अवरोहति, गच्छति स्वर्गं लोकं, प्रत्य् अस्मिन् लोके तिष्ठति। अथो ह वेद यो ऽसाव् आसं सो ऽयम् अस्मीति पुनर् हैवास्मिन् लोक आजायते। अथो आहु स्वर्गकाम इद् य आभ्याम् अपियजेतेति
तयोर् वा एतयोस् सह त्रिवृतौ सह पञ्चदशौ सह सप्तदशौ सहैकविंशौ सह त्रिणवौ सह त्रयस्त्रिंशौ। स यथा द्वाभ्यां द्वाभ्यां प्रतितिष्ठन्न् इयाद्, एवम् एवैताभ्यां स्वर्गे लोके प्रतितिष्ठति। अथो आहुर् अन्विष्टीनां हेद् वा एतौ यज्ञक्रतू इति। स यत् संवत्सरभृता वा संवत्सरभृता वाग्निना चित्येन यजेत। स एताभ्यां यजेत। सद्यो हैवास्य संवत्सर ऋतुशो मासशो ऽर्धमासशो ऽन्विष्टो भवति। तद् यत् पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्य - ऋतवो वै पृष्ठानि। संवत्सर ऋतवस् - तेनर्तुशः। अथ यद् द्वादश स्तोत्राणि भवन्ति द्वादश मासास् संवत्सरस् तेन मासशः। अथ यच् चतुर्विंशति स्तुतशस्त्राणि भवन्ति, चतुर्विंशत्यर्धमासस् संवत्सरस् - तेनार्धमासशः। सद्यो हैवास्य संवत्सरो ऽन्विष्टो भवति य एवं वेद
अथैष मनुस्तोमः। मनुर् वा अकामयत - बहुः प्रजया पशुभिः प्रजायेय, मानवीः प्रजास् सृजेयेति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स बहुः प्रजया पशुभिः प्रजायत। ता इमा मानवीः प्रजा असृजत। स यः कामयेत - बहुः प्रजया पशुभिः प्रजायेय मानवीः प्रजाः सृजेयेति, स एतेन यजेत। बहुर् एव प्रजया पशुभिः प्रजायते मानवीः प्रजास् सृजते। तस्य पृष्ठ्यस्य षडहस्य स्तोमा भवन्ति। ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरः प्रजननम्। स यः प्रजननं स मा प्रजनयाद् इति।
तस्योभये स्तोमा भवन्त्य् अयुजश् च युग्मन्तश् चैव। तद् वै दैव्यं मिथुनं प्रजननं यद् उभये स्तोमाः। तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति।
तस्य व्यतिषिक्ता स्तोमा भवन्ति - व्यतिषिक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते - प्रजात्या एव। तस्योभे बृहद्रथन्तरे सामनी भवतः। एतद् वै दैव्यं मिथुनं प्रजननं यद् उभे बृहद्रथन्तरे। तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति।
तस्य छन्दोमाः पवमाना भवन्ति। पशवो वै छन्दोमाः। पशवः प्रजननम्। तद् यत् प्रजननं तन् मा प्रजनयाद् इति।
तस्य मानवं ब्रह्मसाम भवति। ब्रह्म वै ब्रह्मसाम। यजमानकामो एष यद् ब्रह्मसाम, स्व एव तद् आयतने यजमानं कामैस् समृद्धयन्ति।
स उक्थ्यो भवति। प्रजा वै पशव उक्थानि। प्रजा वै पशवः प्रजननम्। तद् यत् प्रजननं तन् मा प्रजनयाद् इति
अथो आहुर् अन्विष्टीनां हेद् वा एष एको यज्ञक्रतुर् इति। स यस् संवत्सरभृता वा संवत्सरभृता वाग्निना चित्येन यजेत स एतेन यजेत। सद्यो हैवास्य संवत्सर ऋतुशो ऽर्धमासशो मासशो रात्रिशो ऽन्विष्टो भवति। तद् यत् पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्य् - ऋतवो वै पृष्ठानि, संवत्सर ऋतवस् - तेनर्तुशः। अथ यत् पञ्चदश स्तोत्राणि भवन्ति - पञ्चदश वार्धमासस्य रात्रयस् - तेनार्धमासशः। अथ यत् त्रिंशत् स्तुशस्त्राणि भवन्ति - त्रिंशन् मासस्य रात्रयस् - तेन मासशः। अथ यत् त्रीणि शतानि स्तोत्रिया भवन्ति - तावतीः संवत्सरस्य रात्रयस् - तेन रात्रिशः। सद्यो हैवास्य संवत्सरो ऽन्विष्टो भवति य एवं वेद। ताः प्रजन्याकामयत स्वर्गं लोकं गच्छेयम् इति। स एतम् उत्तरम् मनुस्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। तस्य पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्य् - ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सर स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै। तस्योर्ध्वा स्तोमा भवन्त्य् - ऊर्द्ध्वो वै स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै। तस्योभे बृहद्रथन्तरे सामनी भवत स्वर्ग्ये, स्वर्गस्यैव लोकस्य समष्ट्यै। तस्य पञ्चविंशं ब्रह्मसाम भवति। अन्नं वै पञ्चविंशम्। यजमानकामो वा एष यद् ब्रह्मसाम। स्व एव तद् आयतने यजमानम् अन्नाद्येन समृद्धयन्ति। स उक्थ्यो भवति - प्रजा वै पशव उक्थानि। प्रजा वै पशव स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै
अथो आहुर् अन्विष्टीनां हेद् वा एष एको यज्ञक्रतुर् इति। तत एव रात्रिम् उपयन्ति। अतिरात्रेण वै देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। ते स्वर्गं लोकं गत्वा सार्धमेवाव्यवसिता आसत। दिशौ प्रजानानास् ते अकामयन्त - दिशः प्रजानीयामेति। अहोरात्रयोर् ह वै परस्तात् स्वर्गो लोकः। त एतान्य् उपरिष्टाद् रात्रेश् चत्वारि स्तोत्राण्य् अपश्यन्। तैर् अस्तुवत। तैर् एव स्तुत्वा दिशः प्राजानन्। ततो वै ते यत्र यत्र स्वर्गस्य लोकस्याकामयन्त तत् तद् व्यवास्यन्। यत्र यत्र ह वै स्वर्गस्य लोकस्य कामयते तत् तद् व्यवस्यति य एवं वेदेति ह स्माह जानश्रुतेयः। अथ ह स्माह वैतहव्यः। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टाः प्राद्रवन्। तान् अग्निष्टोमेनाविवारयिषत। ते तद् अत्याद्रवन्। तान् उक्थ्येनाविवारयिषत। ते तद् अत्याद्रवन्। तान् षोडशिनाविवारयिषत। ते तद् अत्य् एवाद्रवन्। तान् पर्यायैः पर्यायम् ऐत्। यत् पर्यायैः पर्यायम् ऐत् तत् पर्यायाणां पर्यायत्वम्। तान् आश्विनेन क्रतुना पर्यगृह्णात्। तेषां परिगृहीतानां यथा क्षुद्रा मत्स्या अक्ष्योर् अक्ष्य् अतिशीयेरन्न् एवम् एव ये क्षुद्राः पशव आसुस् ते अतिशेरुः। तान् अकामयताप्त्वैनान् आत्मन् यच्छेयम् इति। स एतान्य् उपरिष्टाद् रात्रेश् चत्वारि स्तोत्राण्य् अपश्यत्। तैर् अस्तुत। तैर् एवैनान् आप्त्वात्मन्य् अयच्छत्। यद् आप्त्वात्मन्य् अयच्छत् तस्माद् अप्तोर्यामः। यद् व् एवाप्तश इव सोमस्य प्रभावयन् नन्वैतस्माद् अप्तोर्यामः
ता द्वाषष्टि स्तोत्रियास् संपद्यन्ते। ततो याष् षष्टिस् सा विराट्। पशवो विराट्। अथ ये द्वे यजमान एवैष द्विपात् परस्तात् पर्यूढः। पशूनां गुप्त्यै पशूनाम् अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। अथो आहुर् एकम् एवैतत् स्तोत्रं सत् तच् चतुर्धा विहृत्य स्तुयुष्, षड्भिर् एव होत्रे स्तुयुष्, षड्भिर् मैत्रावरुणाय, षड्भिर् ब्राह्मणाच्छंसिने, षड्भिर् अष्छावाकाय। तद् उ होतैवानुशंसेद् इति। ताश् चतुर्विंशति स्तोत्र्यास् संपद्यन्ते। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरः प्रजापतिः। प्रजापतिर् एवैष परस्तात् पर्यूढः। पशूनां गुप्त्यै, पशूनाम् अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। तद् उ वा आहुस् त्रिवृत् पञ्चदशं सप्तदशम् एकविंशम् इत्य् एवैतानि स्तोत्राणि स्युः। एकविंशं वा अनु सर्वे यज्ञक्रतवस् संतिष्ठन्ते। अथो एष वाव दृढः प्रतिष्ठित स्तोमो यद् एकविंशः। तस्माद् एकविंश एव स्तोमो ऽन्तकः कार्य इति। तद् आहुः पृष्ठरूपैर् एवान्वियुर् इति
अभि त्वा वृषभा सुत इत्य् आर्षभम्। अभीति रथन्तरस्य रूपम्। तेन रथन्तरस्य रूपान् न यन्ति। यद् अद्य कच् च वृत्रहन्न् इति शाकलं हिंकारवद्, वामदेव्यस्य रूपम्। तेन वामदेव्यस्य रूपान् न यन्ति। तम् इन्द्रं वाजयामसीत्य् एदावसुनिधनं बहिर्निधनं बृहतो रूपम्। तेन बृहतो रूपान् न यन्त्य् - अथो पशवो वै वसु - पशूनाम् एवावरुद्ध्यै। अथो हैनांस् तद् इदं वस्व् इत्य् एवाप्त्वोपेयायेदं विष्णुर् विचक्रम इतीळानां संक्षारः - पशवो वा इळानां संक्षारः - पशूनाम् एवावरुद्ध्यै। एतद् ध वा एनांस् तन् निजुह्व एहीळा एहीळा इति - पशवो वा इळा - तस्मात् एतान्य् अतिरिक्तोक्थानि कार्याणीति। तद् उ होवाच ताण्ड्यः - प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रमन्। सो ऽग्निम् अब्रवीद् एतान् मे वारयस्वेति। तान स जराबोधीयेन नावारयत। स इन्द्रम् अब्रवीद् एतान् मे वारयस्वेति। तान् स सत्रासाहीयेन नावारयत। स ईशानं देवम् अब्रवीद् एतान् मे वारयस्वेति। तान् स मार्गीयवेण नैवावारयत। स विष्णुम् अब्रवीद् एतान् मे वारयस्वेति। तान् स वैष्णवीषु वारवन्तीयेनैवावारयत। यद् अवारयत तद् वारवन्तीयस्य वारवन्तीयत्वम्। तस्माद् एतान्य् अतिरिक्तोक्थानि कार्याण्य् एवेति
अथैष गोसवः। स्वर्गकामो हैतेन यजेत। स वा एष षट्त्रिंशो भवति। षट्त्रिंशदक्षरा वै बृहती। बृहती स्वर्गो लोकः। साम्राज्यं बृहत्याम् एव। तत् स्वर्गे लोके साम्राज्यै प्रतितिष्ठन्तो यन्ति। बृहत्य् उ ह वा इमान् सर्वान् लोकान् अक्षरैर् व्याप्नोति - दशभिर् एवाक्षरैर् इमं लोकं व्याप्नोति, दशिभर् अन्तरिक्षं, दशभिर् अमुं, चतुर्भिर् दिशो, द्वाभ्याम् अहोरात्रे। सा येमांल् लोकान् व्याप्नोति तयेमांल् लोकान् व्याप्नवानीति। तस्य स्तोत्रं स्तोत्रं चतुरश् चतुरस् त्रिवृतो ऽभिसंपद्यते। त्रिवृतं वा अन्ये स्तोमा अभिसंपद्यन्ते त्रिवृत् स्वर्गं लोकम्। स यथा क्षिप्राश्वेन चतुर्युजा यत्र जिगमिषेत् तद् गच्छेद् एवम् एवैतेन स्वर्गं लोकं गच्छति। तस्योभे बृहद्रथन्तरे सामनी भवत स्वर्ग्ये, स्वर्गस्य लोकस्य समष्ट्यै। स उक्थ्यो भवति - प्रजा वै पशव उक्थानि। प्रजा वै पशव स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै। तस्य द्वादश सहस्राणि दक्षिणा भवन्ति - द्वादश मासास् संवत्सरस्, संवत्सर स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै। तस्य व्रतम्। उप मातरम् इयाद् उप स्वसारम् उप सगोत्राम्। उपावहायोदकम् आचामेद्, उपावहाय तृणान्य् आछिन्द्यात्। यत्र यत्रैनं विष्ठा विन्देत्, तत् तद् वितिष्ठेत। अनडुहो ह लोकं जयति। तेन हैतेन जनको वैदेह इयाक्षांचक्रे। तम् उ ह ब्राह्मणा अभितो निषेदुः। स ह पप्रच्छ - क स्तोम इति। स होवाच सुदक्षिणः क्षैमिर् नायं त्रिवृद् एवाहुर् इति। तस्य किं व्रतं, का दक्षिणा इति। तस्मा उ हैतत् प्रोवाच। स होवाच - उद् एवास्य दक्षिणा आशंसे, व्रतं त्व् एवास्य नोदाशंस इति। तेनो ह स नोपदधर्षेष्टुम्। तेनो ह पुण्यकेशो यौधेनिर् ईजे शैब्यो राजा। तं ह सभायाम् एव विष्ठा विवेद. सह तद् एवोदावृणान उवाच - स्थविरयज्ञो वाव किलायम् आस। स्थविर एवानेन यज्ञेन यजेत। स्थविरस्य ह्य् एवेदं सर्वम् अनुज्ञातम् इति। स हैष स्थविरयज्ञ एव। तेन हैतेनोत्तरवयस्ये यजेत
अषैष विवधः। पशुकामो हैतेन यजेत। स वा एष षट् च पंक्तीर् अभिसंपद्यते दश च स्तोत्र्याः। ततो याष् षट् पंक्तयः पशवस् ते। अथ या दश स्तोत्र्याः पशूनाम् एव स दोहः। पय एवैषां तत्। ते उ एव द्वे पञ्च पञ्च पञ्चिन्यौ पंक्त्यौ संपद्येते। त उ ते पशव एव। तस्य सविंशं प्रातस्सवनं भवति, सदशंमाध्यंदिनं सवनं, सविंशं तृतीयसवनम्। तद् यथा ह वै विवधस्योभयतस् स गुरु सविवधतायै। तादृक् तद् यत् सदशं माध्यंदिनं सवनं भवति। सविंशे अभितः पूर्वार्धं च जघनार्धं च भूयिष्ठं भाजयन्ति। तस्मात् पशवः पूर्वार्धेन च जघनार्धेन च भूयिष्ठं भुञ्जन्ति वहन्ति। पूर्वार्धेन दुह्रे च जघनार्धेन प्र च जनयन्ति। उभयं धेनुपयसं चानुडुत्पयसं चावरुन्धे य एवं वेद। तस्मिन्न् उ ह तर्ह्य् उभे बृहद्रथन्तरे कुर्युर् - द्वया उ ह वै पशवो राथन्तरा अन्ये बार्हता अन्ये। ये ह वा अन्यतोदन्ताः पशवस् ते राथन्तरा, य उभयतोदन्तास् ते बार्हता - उभयेषाम् एव पशूनाम् अवरुद्ध्यै. स उक्थ्यो भवति - पशवो वा उक्थानि - पशूनाम् एवावरुद्ध्यै। तस्योद्वंशीयम् अच्छावाकसाम भवति सर्वपृष्ठरूपं - पृष्ठानि वै पशवो - ऽभिपूर्वाणाम् एव पशूनाम् अवरुद्ध्यै
अथैष सद्यःक्रीः। ते वृता नापाक्रामन्। त एत्यायाजयन्। तेभ्य एतां वाचं वळवां श्वेतां भूतां अश्वाभिधान्यभिहिताम् आनयन्न् - इमां प्रतिगृह्णीतेति। ते ऽब्रुवन् - श्रेयसीयम् अस्मन् , नो इमाम् उद्यंस्याम इति। सा क्रुद्धा - न मा प्रत्यगृह्णन्न् इति सिंह्य् उभयतोमुखी भूत्वोर्ध्वोदक्रामत्। सोभयान् देवासुरान् अन्तरातिष्ठद् यं देवानाम् उपाप्नोद् यं असुराणां तद् आददाना। ताम् उपैव देवा आमन्त्रयन्तोपासुराः। सा देवान् अभ्युपावर्तमानाब्रवीत् - किं मे तत स्याद्, यद् वो ऽभ्युपावर्तेयेति। पूर्वां त्वाग्नेर् आहुतिर् अश्नुवीतेति। ताम् अध्वरे ऽवाकल्पयन्। सैषोत्तरवेदिः। ताम् एतां पूर्वाम् अग्नेर् आहुतिर् अश्नुते
धारयन्त्य् अग्निं, व्याघारयन्त्य् उत्तरवेदिम्। एतद् एनां तत् पूर्वाम् अग्नेर् आहुतिर् अश्नुते। अथैतेभ्य एतम् आदित्या आदित्यम् एवाश्वं श्वेतं भूतम् अश्वाभिधान्यभिहितम् आनयन्न् - इमम् उ वै प्रतिगृह्णीतेति। ते ऽब्रुवन् श्रेयान् उ वावायम् अस्मन्, नो वावेमम् उद्यंस्याम इति। तान् देवाश् चर्षयश् चोपसमेत्याब्रुवन् - विच्छेत्स्यन्ते वा अदक्षिणा यज्ञाः, प्रतिगृह्णीतेति। तद् एवाभ्यनूच्यते -
आदित्या ह जरितर् अंगिरोभ्यो ऽश्वं दक्षिणाम् अनयंस्
तं ह जरितर् न प्रत्यायंस् तं ह जरितर् न प्रत्यगृह्णंस्
ताम् उ ह जरितः प्रत्यायंस् ताम् उ ह जरितः प्रत्यगृह्णन्न्
अहा नेद् असन्न् अपुरोगवाणि यज्ञा नेद् असन्न् अविचेतनासः
आदित्य रुद्रा वसवस्त्वेळत इदं राधः प्रतिगृह्णीह्य् अंगिर
इदं राधो बृहत् पृथु देवा ददतु वो वरम्
तद् वो अस्तु सुचेतनं
युष्मे अस्तु दिवे दिवे प्रत्य् एव गृभायत॥
इत्य् एवैनान् प्रत्यग्राहयन्। ततो वा आदित्याः पूर्वे स्वर्गं लोकम् अगच्छन्न्, अहीयन्तांगिरसः। स यो भ्रातृव्यवान् स्याद् यो ऽभिचरेद्, य स्पर्धेत, स एतेन यजेत। हीयते ऽस्य पाप्मा भ्रातृव्यो, गच्छति स्वर्गं लोकम्। यवोर्वरा वेदिर् भवति। सा हि पुराकृता हि भवति। यवानाम् उत्तरवेदिः। यवैर् वा आदित्या अंगिरसां यज्ञम् अयुवत। यद् यज्ञं यवैर् अयुवत तद् यवानां यवत्वम्। यवैर् एव द्विषतो भ्रातृव्यस्य यज्ञं युते। खलेवला यूपस्फ्याग्रो भवत्य् ऐन्द्रः। विजित्यै सह पशू आलभन्ते समष्ट्यै। पुमान् गौस् सोमक्रयणो भवति - वीर्यं वै पुमान् - वीर्यवन्तो ऽसामेति। साण्डो भवति सेन्द्रत्वाय। कुंभ्या वसतीवर्य्यो भवन्ति यः पुरेजानस् तस्य गृहेभ्यः। ता हि पुरागृहीता भवन्ति। सर्पिष्मन्तम् अशित्वा निपद्यते। यम् एवामुं दीक्षणीयम् अश्नाति स एवास्य सो ऽशितो भवति। प्रियायै जायाया अन्तरोरु शेते निपद्यमानः। तपस्यम् एवास्य तद् धिरण्यम् मुख आधाय शेते। सत्यं वै हिरण्यम्। सत्यम् एवास्य तद् उदितं भवति
अश्व श्वेतो दक्षिणा भवति - स्वर्ग्यो वा अश्व - स्वर्गस्यैव लोकस्य समष्ट्यै। अश्वरथस् सोमप्रवाको भवति योजनं परमम्। एतद् ध वै परमाणाम् अध्वानाम् अवमं यद् योजनम् अवमानां वा परमम्। तस्मिन् दधिदृतिर् उपावहितो भवति। तस्य यत् सर्पिस् संपतति तद् आज्यकुंभे ऽवास्यन्ति। तद् धि सद्योजम् इव द्विक्रोशम् इत्थं द्विक्रोशम् इत्थम् ऋत्विजो विनिहिता भवन्ति। त एनं प्रातर् उपसमेत्य याजयन्ति। स जुह्वत् त्रिर्निमीलयति त्रिर् वीक्षते। ता एव दीक्षोपसदः
स त्रिवृद् रथन्तरसामा भवति - ब्रह्म वै त्रिवृत्। ब्रह्म रथन्तरं - ब्रह्मणा स्वर्गं लोकं गच्छामेति। अथो आहुस् त्रिवृद् व बृहत्साम स्याद् इति। ब्रह्म वै त्रिवृत्, क्षत्रं बृहत्। ब्रह्मणा च क्षत्रेण च संयुग्भ्यां स्वर्गं लोकं गच्छामेति। तद् उ वा आहुस् त्रिवृद् एव रथन्तरसामा स्यात्। ब्रह्म वै त्रिवृत्। ब्रह्म वै रथन्तरम्। ब्रह्म वै स्वर्गस्य लोकस्येशे। तस्मिंस् त्रिवृद् एव रथन्तरसामा स्याद् इति। तस्मिन्न् आहुर् इयवन्ति सामानि कार्याण्य् - इयवद्भिर् वै देवा स्वर्गं लोकम् अगच्छन्न् - इयवद्भि स्वर्गं लोकं गच्छामेति। अथो आहुर् यान्य् एवाग्नियोनीनि सामानि तानि कार्याणि। अशृत इव वा एष यत् सद्यःक्रीः। अग्निर् वा अशृतस्य श्रपयितेति। तद् उ वा आहुर् अग्निष्टोमसामान्य् एव कार्याणीति। एतानि वा अग्नियोनीनि यद् अग्निष्टोमसामानि। तस्माद् अग्निष्टोमसामान्य् एव कार्याण्य् - इत्यथैष क्षिप्रात् क्षेपीयान् - क्षिप्रात् क्षेपीय स्वर्गं लोकं गच्छामेति। तस्य द्वादश स्तोत्राणि भवन्ति - द्वादश मासास् संवत्सरस्, संवत्सर स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै। तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति - चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सर स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै
अथैताव् अनुक्रियौ। आदित्याश च वा अंगिरसश् च स्वर्गे लोके ऽस्पर्धन्त। त आदित्याः पूर्वे स्वर्गं लोकम् अगच्छन्। ते ऽङ्गिरसो ऽकामयन्त - वयम् अपि तं लोकं गच्छेम यम् आदित्या अग्मन्न् इति। त एतं यज्ञम् अपश्यन्। तम् एव सन्तं परोक्षेणैव तम् आहरन्। तेनायजन्त। ते वळवाम् एव श्वेतां दक्षिणां नीत्वादित्यैस् सलोका अभवन्। ते हैत आदित्याश् चांगिरसश् च सलोकाः। सलोको ह वा आदित्यैश् चांगिरोभिश् च भवति य एवं वेद। अथो आहुर् - यस्माद् एव श्रेयान् भ्रातृव्य स्यात् सो ऽनेन यजेतेति। पूर्वप्रेत इव ह वा एष य श्रेयान्। पूर्वप्रेतान् इव वा एतेन ते तान् आप्नुवन्। आप्त्वा श्रेयांसं वसीयान् आत्मना भवति
गोधूमोर्वरा वेदिर् भवति। सा हि पुराकृता भवति। गोधूमानाम् उत्तरवेदिः परोक्षतायै। खलेवला यूपस्फ्याग्रो भवत्य् ऐन्द्रः। विजित्यै सह पशू आलभन्ते समष्ट्यै। स्त्रीगौस् सोमक्रयणी भवति परोक्षतायै। कुंभ्या वसतीवर्यो भवन्ति यः पुरेजानस् तस्य गृहेभ्यः। ता हि पुरागृहीता भवन्ति। सर्पिष्मन्तम् अशित्वा निपद्यते। यम् एवामुं दीक्षणीयम् अश्नाति स एवास्य सो ऽशितो भवति। प्रियायै जायाया अन्तरोरु शेते निपद्यमानः। तस्यम् एवास्य तद् धिरण्यम् मुख आधाय शेते। सत्यं वै हिरण्यम्। सत्यम् एवास्य तद् उदितं भवति। रजतं भवति परोक्षतायै। वळवा श्वेता दक्षिणा भवति परोक्षतायै। अश्वतरीरथस् सोमप्रवाको भवति त्रैपदं परमं परोक्षतायै। तस्मिन् दधिदृतर् उपावहितो भवति। तस्य यत् सर्पिस् संपतति तद् आज्यकुंभे ऽवास्यन्ति। तद् धि सद्योजम् इवाध्यर्धक्रोशे ऽध्यर्धक्रोश ऋत्विजो विनिहिता भवन्ति। त एनं प्रातर् उपसमेत्य याजयन्ति। स जुह्वत् त्रिर निमीलयति त्रिर् वीक्षते। ता एव दीक्षोपसदः। स वा एषो ऽष्टादशपवमानो भवति। परोक्षं त्रिवृत्। अग्निष्टोमयज्ञा वा आदित्या उक्थ्ययज्ञा अंगिरसः। स एष उक्थ्यो निदानेन सन्न् अग्निष्टोमः प्रत्याह्रियते क्षिप्रतायै। अथैष चतुर्विंशपवमानो भवति। परोक्षं त्रिवृद् उ एव। स वा एषो ऽतिरात्रो निदानेन सन् षोडशीमान् वा अग्निष्टोमः प्रत्याह्रियते क्षिप्रतायै
अथैष परिक्रीः। खण्डिकश् च हौद्भारिः केशी च दार्भ्यः पाञ्चालेषु पस्पृधाते। स ह खण्डिकः केशिनम् अभिप्रजिघाय। सद्यःक्रिया वै स्यो यक्ष्यत इति। अथ हैतेन प्रोच्य भ्रातृव्याय यजन्ते। तस्य हैते ब्राह्मणा आसुर् - अहीना आश्वत्थिः, केशी सात्यकामिर्, गङ्गिना राहक्षितो, लुशाकपिः खार्गलिर् इति। ते हैनम् उपसमेयुः. स ह ध्यायन् निषसाद। तं होचुः - किं नु राजन्यो ध्धायतीति। स होवाच - न हि मे ध्येयम्। यूयं ब्राह्मणा अनुब्रूथ - आदित्याश् चाङ्गिरसश् च स्वर्गे लोके ऽस्पर्धन्त। त आदित्याः पूर्वे स्वर्गं लोकम् अगच्छन्न् अहीयन्ताङ्गिरस इति। स य एतेन प्रोच्य भ्रातृव्याय यजते, स एव भवति, परास्य द्विषन् भ्रातृव्यो भवति
तम् उ वै मायं खण्डिको ऽभिप्राहैषीत् - सद्यःक्रिया वै स्यो यक्ष्यत इति। स एव नूनं भविष्यति, परा स्यो भविष्यतीत्य एवैतद् ध्यायामीति। तं होचुः परिक्रीर इति वा अयं यज्ञक्रतुर् अस्ति। तेन त्वा याजयामेति। तथेति। तेन हैनं याजयांचक्रुः। तस्य वा एतस्य तृचस्य तृचस्यैकैकया स्तुवन्ति। ब्रह्म वै प्रथमा स्तोत्रिया, क्षत्रं द्वितीया, विट् तृतीया। अवलम्भ उ ह वै ब्रह्मणः। क्षत्रं च विट् च। क्षत्रं चो ह वै विशं चानु भ्रातृव्यलोकः। स ये द्वे अवचिच्छेद, भ्रातृव्यलोकम् एव तद् अवचिच्छेद। आत्मा वै प्रथमा स्तोत्रिया, जाया द्वितीया, प्रजा तृतीया। अवलम्ब उ ह वा आत्मनो जाया च प्रजा च। जायां चो ह वै प्रजां चानु भ्रातृव्यलोकः। स ये द्वे अवचिच्छेद, भ्रातृव्यलोकम् एव तद् अवचिच्छेद
ततो वै स खण्डिकं निःसारयांचकार। ततो वै केशी दार्भ्यो ऽभवत्, परा खण्डिकः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति, य एवं वेद। तस्य तिसृषु बहिष्पवमानं भवति, चतसृष्व् आज्यानि, पञ्चसु माध्यंदिनः पवमानश्, चतसृषु पृष्ठानि, सप्तस्व् आर्भवः पवमान, एकस्याम् अग्निष्टोमसाम। ताश चतुर्विंशति स्तोत्र्यास् संपद्यन्ते। चतुर्विंशत्यर्धमासम् संवत्सरः। संवत्सराद् एव तत् खण्डिकम् औद्भारिं केशी दार्भ्यो नुनुदे, संवत्सराद् अन्तरियाय। संवत्सराद् एव द्विषन्तं भ्रातृव्यं नुदते, संवत्सराद् अन्तरेति, य एवं वेद
अथैष एकत्रिकः। प्रजननकामो हैतेन यजेत। प्रजापतिर् वा अकामयत - बहुः प्रजया पशुभिः प्रजायेयेमां व्यष्टिं व्यश्नुवीयेति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। स ऐक्षत केन स्तुवीयेति। स आत्मानम् अपश्यत्। तेनास्तुत। स ऐक्षत केन न्वेव स्तुवीयेति। स प्राणापानव्यानान् अपश्यत्। तैर् अस्तुत। स आत्मना स प्राणापानव्यानैस् स आत्मना स प्राणापानव्यानैस् स एवम् एव विपर्यासं यज्ञं समस्थापयत्। ततो वै स बहुः प्रजया पशुभिः प्रजायतेमां व्यष्टिं व्याश्नुत यास्येयम्। बहुर् एव प्रजया पशुभिः प्रजायत इमां व्यष्टिं व्यश्नुते य एवं वेद
तेन हैतेनोदरश् शाण्डिल्य इयक्षाञ्चक्रे। तस्य ह मनस्य् एवास - एकत्रिकेण यजेयेति। न ह तु कस्मै चनोवाच। अथ हास्य जाया गन्धर्विण्य् आस। तां हायं गन्धर्व उपन्येयाय। तां होवाचैकत्रिक इति वै यज्ञक्रतुर् दारुण इवास्ति। तेन वै ते पतिर् यक्ष्यत इति। सा हेयं पतिं पपप्रच्छ - एकत्रिक इति वै यज्ञक्रतुर् दारुण इवास्ति। सत्यं त्वं तेन यक्ष्यसा3 इति। स होवाच - यद् अहम् इदम् वैव कस्मै चनावोचं, मनस्य् एव मे ऽभूत्, कस् त इदम् अवोचद इति। यो मायं गन्धर्व उपन्यैतीति। तं वै त्वं पृच्छताद् इति होवाच। यष्टव्यं तेना3, न यष्टव्या3म् इति। तं ह पप्रच्छ - यष्टव्यं तेना3, न यष्टव्या3म् इति। स होवाच - यथा वा एनं स वेदैवम् एनं वयं विद्मः। अन्यतर इति वा एनं स वेदान्यतर इति वा एनं स वेदान्यतर इत्य् एनं वयं विद्मः। यस् त्व् अस्येत्थं स्तोत्रं विद्यात्, स एनेन यजेतेति, यथैनेनादः प्रजापतिस् तुष्टुवे। तेनो ह स नोपदधर्षेष्टुम्
शश्वद् धोदरश् शाण्डिल्यस् तेनैव पणाय्यतां जगाम यद् अस्य मनस्य् एवासैकत्रिकेण यजेयेति। स वा एषो ऽन्यतर इव यज्ञक्रतुस् सुपणाय्यो वैनेनेष्ट्वा भवति सुपापीयान् वा। तस्यैकस्यां बहिष्पवमानं संपद्यते उपास्मै गायता नर इति। तिसृषु माध्यंदिनः पवमानो - गायत्रम् एव गायत्र्याम् , उत्सेधस् सतोबृहत्याम्, सैवेळा, तन् निधनम्, औशनम् एव त्रिष्टुभि। एतस्याम् आर्भवः पवमानो ऽया रुचा हरिण्या पुनान इति। एतस्याम् अतिच्छन्दसि गायत्रपार्श्वम्। स एव स्वरस् तन् निधनम्. सप्तपदा भवति। सप्त वै छन्दांसि। अतिछन्दा वै सर्वाणि छन्दांस्य् अभिभवति। तद् अस्य तत् सर्वाण्य् एव छन्दांस्य् उपेतानि भवन्ति। तद् आहुः पञ्चनिधनम् एव वामदेव्यं कार्यम्। पञ्चछन्दा आर्भवः पवमानस् सप्तसामा। यद् अह पञ्चनिधनानि, तेन छन्दांसि प्रतिविभवति। यद् उ वै सप्तपदा तेन सामान्य् अत्रेव विभवतीति। तद् उ वा आहुर् गायत्रपार्श्वम् एव कार्यम्। स एव स्वरस्, तन् निधनम्। आत्मा वै स्वरः, प्रजा निधनम्। एतद् एव समृद्धतरम् इव यद् गायत्रपार्श्वम्। तस्माद् गायत्रपार्श्वम् एव कार्यम् इति। ताश् चतुर्विंशति स्तोत्र्यास् संपद्यन्ते। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरः प्रजननम्। स यः प्रजननं स मा प्रजनयाद् इति
अथैष बृहस्पतिसवः। प्रजापतिः प्रजास् ससृजानस् स व्यस्रंसत। सो ऽन्नं भूतो ऽशयत्। तस्य सर्वे देवा ममत्विन आसन् - मम ममेति। ते ऽब्रुवन् - वीदं भजामहा इति। तस्य विभागे न समपादयन्। ते ऽब्रुवन् - आजिम् अस्यायामेति। त आजिम् आयन्। स बृहस्पतिर् आजिसरणं पन्थानम् अपश्यत्। स पूर्वः परीत्य रथेन वृत्वातिष्ठत्। ते देवास् तन् नाविन्दन् येनात्यसरिष्यन्। शश्वद् ध वावान् एव रथयानाय तावान् आजिर् आस। ततो वै स तम् आजिम् उदजयत्। यद् बृहस्पतिर् उदजयत्, तस्माद् बृहस्पतिसवः। तम् आजिम् उज्जिगिवांसम् इन्द्रो ऽब्रवीत् - पुरस् त्वा दधे। माम् अनेन यज्ञेन याजयेति। तथेति। तं पुरो ऽधत्त। तेनैनम् अयाजयत्। ततो वा इन्द्रस् सर्वेषां देवानां श्रैष्ठ्यम् अगच्छत्। गच्छति स्वानां श्रैष्ठ्यं य एवं वेद।
स वा एष द्वयोर् एव यज्ञो - ब्राह्मणस्य चैव राजन्यस्य च। यद् बृहस्पतिर् उदजयत्, तेन ब्राह्मणस्य। यद् इन्द्रो ऽयजत, तेनो राजन्यस्य। स उ हेन्द्रस्यैवैकस्य पुरोहित आस, नेतरेषां देवानाम्। सो ऽकामयत - सर्वेषां देवानां पुरोधां गच्छेयम् इति। स एतेनैव यज्ञेनायजत। ततो वै स सर्वेषां देवानां पुरोधाम् अगच्छत्। बृहस्पतिर् वै देवानां पुरोहितः
स त्रिवृद् रथन्तरसामा भवति। ब्रह्म वै त्रिवद्, ब्रह्म रथन्तरम्। ब्रह्मणा वाव स तद् ब्रह्मवर्चसम् आर्ध्नोत्। ब्रह्मणैव ब्रह्मवर्चसम् ऋध्नोति य एवं वेद।
तस्य त्रयस्त्रिंशद् दक्षिणा भवति। त्रयस्त्रिंशद् वै देवताः। देवतानाम् एव पुरोधाम् आश्नुत। अश्वश् चतुस्त्रिंशः। प्रजापतेर् वा एतद् रूपं यद् अश्वः. सप्रजापतिकानाम् एव तेन देवतानां पुरोधाम् आश्नुत। तस्यैता यथापूर्वम् अनुसवनं दक्षिणा ददात्य् - अष्टौ प्रातस्सवने ददात्य्, एकादश माध्यंदिने सवने, द्वादश तृतीयसवने, ऽनूबंध्यायाम् एकाम्, उदवसानीयायाम् एकाम्। अनुसवनम् अश्वं तृतीयशः। तद् या अष्टौ प्रातस्सवने ददात्य् - अष्टौ वसव - वसूनाम् एव पुरोधाम् आश्नुत। अथ या एकादश माध्यंदिने सवन - एकादश रुद्रा - रुद्राणाम् एव तेन पुरोधाम् आश्नुत। अथ या द्वादश तृतीयसवने - द्वादशादित्या - आदित्यानाम् एव तेन पुरोधाम् आश्नुत। अथ याम् अनूबंध्यायाम् एकां - मित्रावरुणयोर् एव तेन पुरोधाम् आश्नुत। अथ याम् उदवसानीयायाम् एकां - कर्म कर्म मे दक्षिणावद् असद् इति। अथ यम् अनुसवनम् अश्वं तृतीयशः - प्रजापतेर् एव तेन पुरोधाम् आश्नुत
तद् आहुर् - मनसैव प्रातस्सवने दद्यान्, मनसा तृतीयसवने, माध्यंदिन एव सवने दद्याद् इति। तद् उ वा आहुर् - अतीर्थं वै प्रातस्सवनं दक्षिणानाम्, अतीर्थं तृतीयसवनम्। माध्यंदिन एव सवने दद्यात्। तद् एव तीर्थं, तद् आयतनम्। नैवेतरयोः सवनयोर् मनसा चन ददद् आद्रियतेति। ब्रह्मणे ऽश्वं ददाति। ब्रह्मणो ह्य् एवैकं दक्षिणा। तद् यदा माध्यंदिनीयाश् चमसाः प्रतिष्ठेरन्न् अथ जघनेनाहवनीयं प्राचीनग्रीवं कृष्णाजिनम् उपस्तृणीतेति ब्रूयाद् उदीचीनग्रीवं वा। तद् यजमान आस्ते। स हुतानां चमसानाम् उन्मार्ष्टि - देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्यै त्वा वाचो यन्तुर् यन्त्रेण बृहस्पतेस् त्वा साम्राज्येन ब्रह्मणाभिषिंचामीति। मुखं विमार्ष्टि। स सोमाभिषिक्तस् तेजस्वी ब्रह्मवर्चसी भवति। त्रिर् उत्क्रोशन्ति - त्रयो वा इमे लोका - एष्व् एवास्य तल् लोकेषु श्रुतिं दधति
तस्याष्टशतं स्तोत्रिया भवन्ति। ततो यच् छतं सा विराट्। क्षत्रं विराट्। अथ या अष्टौ सा गायत्री। तेजो ब्रह्मवर्चसं गायत्री। तेज एव तद् ब्रह्मवर्चसं क्षत्रस्य पुरस्ताद् दधाति। तस्माद् ब्राह्मणः क्षत्रियस्य पुरोहितः। स यः पुरोधाकाम स्यात् स एतेन यजेताश्नुते पुरोधाम्। तं हैक एकछन्दसम् एव कुर्वन्ति, गायत्रम् एव सर्वम् - गायत्रो वै बृहस्पतिः. ब्रह्म वै गायत्री। ब्रह्म बृहस्पतिर् - ब्रह्मणा वा ब्रह्मवर्चसम् ऋध्नवामेति। ते ये ह ते तथा कुर्वन्त्य् अग्निं चैव तेन देवतानाम् उपाप्नुवन्ति, गायत्रीं च छन्द, इमं च लोकम्। अन्तरिता हैषाम् इतराश् च देवता भवन्तीतराणि च छन्दांसीतरे च देवा इतरे च लोका इतरे च कामाः। तस्माद् यथाछन्दसम् एव कार्यं सर्वासां देवतानां सर्वेषां छन्दसां सर्वेषां देवानां सर्वेषां लोकानां सर्वेषां कामानाम् उपाप्त्यै। तस्य बृहद् बार्हस्पत्यम् आदिष्टसामार्भवे पवमाने भवति। बृहस्पतिसवो ह्य् एषः। स्तोमम् एव तद्रूपेण समृद्धयन्ति
अथैष इन्द्राग्न्योः कुलायः। इन्द्राग्नी वा अकामयेतां - सदृशानाम् एव सतां देवानां श्रेष्ठतां गच्छेव, समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयावेति। ताव् एतं यज्ञम् अपश्यताम्। तम् आहरताम्। तेनायजेताम्। ततो वै तौ सदृशानाम् एव सतां देवानां श्रेष्ठताम् अगच्छतां, समानेन यज्ञेन समानीम् ऋद्धिम् आर्ध्नुताम्। तद् ब्रह्म वा अग्निः। क्षत्रम् इन्द्रः। स वा एष त्रिवृत् पञ्चदशो भवति। ब्रह्म वै त्रिवृत्। क्षत्रं पञ्चदशः। त्रिवृतैवाग्नि श्रेष्ठताम् अगच्छत् पञ्चदशेनेन्द्रः। तस्योभे बृहद्रथन्तरे सामनी भवतः। ब्रह्म वै रथन्तरं, क्षत्रं बृहत्। रथन्तरेणैवाग्नि श्रेष्ठताम् अगच्छद्, बृहतेन्द्रः। तौ यौ ब्राह्मणश् च राजन्यश् च कामयेयातां, सदृशानाम् एव सतां स्वानां श्रेष्ठतां गच्छेव, समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयावेति, ताव् एतेन यजेयाताम्। सदृशानाम् एव सतां स्वानां श्रेष्ठतां गच्छतस्, समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुतः। त्रिवृतैव ब्राह्मण श्रेष्ठतां गच्छति, पञ्चदशेन राजन्यः। रथन्तरेणैव ब्राह्मण श्रेष्ठतां गच्छति, बृहता राजन्यः। तद् यद् एतानि त्रिवृत् - पञ्चदश स्तोत्राणि व्यतिषक्तानि भवन्ति -
- तस्माद् इन्द्राग्न्योः कुलायः। तद् आहुस् सत्रे तद् व्यतिषक्तं यत् त्रिवृत् - पञ्चदशम्। त्रिवृत् पञ्चदशम् इत्य् एवैतानि स्तोत्राणि व्यतिषक्तानि भवन्ति। षड् एव त्रिवृन्ति स्तोत्राणि स्युः, षट् पञ्चदशानीति। यान्य् एवार्वाञ्चि माध्यंदिनात् तान्य् एव त्रिवन्ति स्युर्, यान्य् ऊर्ध्वं तानि पञ्चदशानीति। पञ्चदशस् त्व् एव माध्यंदिन स्यात्, त्रिवद् धोतुः पृष्ठम्। तस्मिन् पञ्चदशे माध्यंदिने रथन्तरम् अवकल्पयन्ति। ब्रह्म वै रथन्तरं, क्षत्रं पञ्चदशः। ब्रह्मैव तत् क्षत्रे प्रतिष्ठापयन्ति। अथ यत् त्रिवृद् धोतुः पृष्ठं भवति - ब्रह्म वै त्रिवृत्, क्षत्रं बृहत् - क्षत्रम् एव तद् ब्रह्मन् प्रतिष्ठापयन्ति। ताव् एताव् एवम् अन्यो ऽन्यस्मिन् प्रतिष्ठाय श्रेष्ठताम् अगच्छताम्। तयोर् हैतयोर् अजय्यम् एव। अजय्यां ह वै कीर्तिम् अजय्यां श्रियम् अजय्यं स्वर्गं लोकं जयति य एवं वेद। यद् व् एवैते त्रिवृत्पञ्चदशे स्तोत्रे व्यतिषक्ते भवतो - व्यतिषक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते - प्रजात्या एव। अथो प्राणा वै स्तोमा, व्यतिषक्ता वा इमे प्राणा अनिर्मार्गाय। तस्मात् त्रिवृत्तपञ्चदशान्य् एवैतानि स्तोत्राणि व्यतिषक्तानि स्युर् इति। तस्यैन्द्राग्नं सामादिष्टसाम माध्यंदिने पवमाने भवति। इन्द्राग्न्योर् ह्य् एष यज्ञः। स्तोमम् एव तद्रूपेण समृद्धयन्ति
अथैषो ऽग्निष्टुत्। इन्द्रं वै भूतानि पर्यचक्षत त्रिशीर्षाणं त्वाष्ट्रम् अवधीद्, यतीन् सालावृकेभ्यः प्रादाद्, अरुर्मुखान् अवधीद्, बृहस्पतेः प्रत्यवधीत्, संधां संहिताम् अतीत्य नमुचेर् आसुरस्य शिरः प्राच्छैत्सीद् इत्य् एतेभ्यो देवकिल्बिषेभ्यस् स हारण्य एव चचारानभ्यवयन् देवान्। स उ ह देवान् उवाच - याजयत मेति। नेति होचुः। एता वै त्वया संधा अतीता एतानि देवकिल्बिषाणि कृतानि न त्वा याजयिष्याम इति। अथो हास्याग्निर् एव सखितम इवास देवेषु। स उ हाग्निम् उवाच त्वं मा याजयेति। तथेति होवाच। स वै नु तं देवेष्व् इच्छामि येन त्वा सह याजयेयम् इति। स ह तं देवेषु न विवेद येनैनं सहायाजयिष्यत्। स होवाच न वै नु तं देवेषु विन्दामि येन त्वा सह याजयेययम् इति। तं वै मा त्वम् एव याजयेति। तथेति। सो ऽग्रिर् आत्मन एवाध्य् एतम् अग्निष्टुतम् अतनुत। तेनैनम् अयाजयत्। तस्य सद्यस् सर्वं पाप्मानं निरदहत्। यथाहिर् अहिच्छव्यै निर्मुच्येत यथा मुञ्जाद् इषीकां विवृहेद् एवम् एव सर्वस्मात् पाप्मनो निरमुच्यत। स एषो ऽपहतपाप्मा तपत्य् एष ह वा इन्द्रः। स य उक्तोक्त स्याद् यो अभ्याख्यायेत स एतेन यजेत। सद्यो हैवास्य सर्वं पाप्मानं निर्दहति। स यथाहिर् अहिच्छव्यै निर्मुच्येत यथा मुञ्जाद् इषीकां विवृहेद् एवम् एव सर्वस्मात् पाप्मनो निर्मुच्यते
स यो मुखेन पापं कृत्वा मन्येत, त्रिवृताग्निष्टुता यजेत। एष ह वै मुखेन पापं करोति, यो ऽवाद्यं वदति। मुखं वै त्रिवृत् स्तोमानाम्। मुखाद् एव तेन पाप्मानम् अपघ्नते। अथ यो बाहुभ्यां पापं कृत्वा मन्यते, पञ्चदशेनाग्निष्टुता यजेत। एष ह वै बाहुभ्यां पापं करोति, यो ऽनिघात्स्यस्य निहन्ति। बाहू वै पञ्चदश स्तोमानाम् । बाहुभ्याम् एव तेन पाप्मानम् अपघ्नते। अथ उदरेण पापं कृत्वा मन्येत, सप्तदशेनाग्निष्टुता यजेत। एष ह वा उदरेण पापं करोति, यो ऽनाश्यान्नस्यान्नम् अत्ति। उदरं वै सप्तदश स्तोमानाम्. उदराद् एव तेन पाप्मानम् अपघ्नते। अथ यः पद्भ्यां पापं कृत्वा मन्येत, एकविंशेनाग्निष्टुता यजेत। एष ह वै पद्भ्यां पापं करोति, यो जनम् एति। प्रतिष्ठा वा एकविंश स्तोमानाम्। पद्भ्याम् एव तेन पाप्मानम् अपघ्नते। अथो आहुर् य एवायं ज्योतिष्टोमो ऽग्निष्टोमस् तेनैव यजेतेति। तस्य यत् त्रिवृद् बहिष्पवमानं भवति मुखाद् एव तेन पाप्मानम् अपघ्नते। अथ यत् पञ्चदशान्य् आज्यानि भवन्ति पञ्चदशो माध्यंदिनो बाहुभ्याम् एव तेन पाप्मानम् अपघ्नते। अथ यत् सप्दशानि पृष्ठानि भवन्ति, सप्तदश आर्भव, उदराद् एव तेन पाप्मानम् अपघ्नते। अथ यद् एकविंशम् अग्निष्टोमसाम भवति, पद्भ्याम् एव तेन पाप्मानम् अपघ्नते
त्रिवृता तेजस्कामो ब्रह्मवर्चसकामो ऽग्निष्टुता यजेत, पञ्चदशेन वीर्यकामस्, सप्तदशेन पशुकामः प्रजननकाम, एकविंशेन प्रतिष्ठाकामस्, त्रिणवेनौजस्कामस्, त्रयस्त्रिंशेन श्रीकामः। तद् उ वा आहुर् वदनम् एवैतत् सर्वं य एवायं चतुष्टोमो ऽग्निष्टोमः। तेनैव यजेतेति। अयं वै त्रिवृद् अयं पञ्चदशो ऽयं सप्तदशो ऽयम् एकविंशः। इमान् वै प्राणान् अग्निर् अन्वायत्तः। स यो ऽनूचानस् सन् न विरोचेत, स एतेन यजेतेति। यथा ह वै निष्कश् शमलगृहीत, एवं स यो ऽनूचानस् सन् न विरोचते। अग्ना उ वा एतं प्रास्यन्ति यम् अग्निष्टुता याजयन्ति। तद् यथा निष्कं शमलगृहीतम् अग्नौ प्रास्य तस्यायोघनेन सर्वं शमलं निर्हन्याद्, एवं हैवास्य सर्वं पाप्मानं निर्घ्नन्ति। सो ऽपहतपाप्मा तेजस्वी ब्रह्मवर्चसी भवति।
अथो आहुर् - यस्मिन्न् एव पशव्ये सति पशवो न रमेरन्, स एनेन यजेतेति। यथा ह वै जरत्कक्ष, एवं स यस्मिन् पशव्ये सति पशवो न रमन्ते। तस्य रेवतीष्व् अग्निष्टोमसाम भवति। आपो वै रेवतयः। अग्ना उ वा एतं प्रास्यन्ति, यम् अग्निष्टुता याजयन्ति
तद् यथा जरत्कक्षम् अग्निनोपदीप्य तम् अद्भिर् उपसिञ्चेत्, तस्मिन् कल्याण्य ओषधयो जायेरंस्, तासु पशवो रमेरन्न्, एवं हैवास्मिन् सर्वे पशवो रमन्ते। तस्याग्न आयूंषि पवस इत्य् एषाग्निपावमानी प्रतिपद् भवति। तद् आहुर् वीव वा एतैः प्राणैर् ऋध्यन्ते ये पावमानीभिः प्रतिपद्यन्त इति। तद् यद् एषाग्निपावमानी प्रतिपद् भवतीति प्राणो वै वायुः - प्राणैर् एव तत् समृद्ध्यन्ते। अग्ने पावक रोचिषेत्य - अन्नं वै पावकम् - अन्नाद्येनैवैनं तत् समृद्धयन्ति। अथो वायुर् वै पावकः, प्राणो वै वायुर्, अभिपूर्वम् एवैनं तत् प्राणैस् समृद्धयन्ति। अग्निश् शुचिव्रततम इत्य् अशुचिर् इव वा एष भवति यो ऽभ्याख्यायते। शुचिम् एवैनम् एतेन पूतं मेध्यं कुर्वन्ति। तस्य यज्ञयज्ञा वो ऽग्नय इत्य् एता माध्यंदिनस्य पवमानस्य बृहत्यो भवन्ति। अग्ना उ वा एतं प्रास्यन्ति यम् अग्निष्टुता याजयन्ति। उत त्राता तनूनाम् इत्य् अग्नय एव तद् वैश्वानराय यजमानस् तन्वं परिदत्ते। तस्य पाहि नो अग्न एकये त्य् एतासु नार्मेधस्यर्क्षु रथन्तरं पृष्ठं भवति। एताभिर् वै नृमेधा औशिजो ऽग्नेर् हरांस्य् अपैरयत। अग्नेर् एवैताभिर् हरांस्य् अपेरयते। तस्य शं नो देवीर् अभिष्टय इत्य् एतास्व् अपोनप्त्रियास्व् अग्निष्टोमसाम भवति। आपो वा अपोनप्त्रियः। अग्ना उ वा एतं प्रास्यन्ति यम् अग्निष्टुता याजयन्ति
तद् यथाग्निदग्धम् अद्भिर् अभिषिंचेत् तादृग् एव तच् छान्त्यै। तद् आहुर् - योम् वा अग्निदग्धम् अद्भिर् अभिषिञ्चति भूयो वैतत् प्रमृच्यति किलासं वा भवति। आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिर् इत्य् एतास्व् एव वायुमतीषु कार्यं - वायुर् वै शान्तिश् - शान्त्या एवानिर्दाहायेति। तद् आहुर् यो वा अग्नीन् उपदीप्य वातेनोपवाजयति भूयो वै तद् दीप्यते। दीप्तिर् वावैषेति। तद् उ वा आहुस् - तद् वाव यजमान इच्छेद् यत् स दीप्येत। यद् उ दीप्त्यै, वायुर् एव दीप्त्यै। यद् उ शान्त्यै, वायुर् एव शान्त्यै। तस्माद् एतास्व् एव वायुमतीषु कार्यम् इति। तस्याजा च हिरण्यं दक्षिणा। आग्नेयी वा अजाग्नेयं हिरण्यम्। अथो आहुर् - अनड्वान् दक्षिणेति। वहति वा अनड्वान्, वहत्य् अग्निर् देवेभ्यो हविः। स्तोमम् एव तद्रूपेण समृद्धयन्ति
अथैष इन्द्रस्तोमः। इन्द्रो वा अकामयत - सर्वेषां देवानां श्रेष्ठतां गच्छेयम् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स सर्वेषां देवानां श्रेष्ठताम् अगच्छत्। गच्छति स्वानां श्रेष्ठतां य एवं वेद। इन्द्रे ह वा अग्रे यज्ञ आस। श्रीर् ह वा अस्मिंस् तद् आस। यज्ञम् उ ह वाव देवानां श्रीः। तम् उ ह वृत्रो ऽभिववृधे। स देवान् उपाधावद् - युष्माभिर् बलेनेमं वृत्रं हनानीति। तम् अब्रुवन् - स वै नो यस् ते ऽयं निष्केवल्यो यज्ञस्, तं प्रयच्छेति। तस्माद् राजनि विजिगीषमाणे विशः प्रदानम् इच्छन्ते। तस्माद् उ राजा विजिगीषमाणो विश एव प्रदानं प्रयच्छति। स वसुभ्य एव प्रातस्सवनं प्रायच्छद्, रुद्रेभ्यो माध्यंदिनं सवनम्, आदित्येभ्यस् तृतीयसवनं विश्वेभ्यश् च देवेभ्यः। तैर् बलेनेन्द्रो वृत्रम् अहन्। अजयन् देवा असुरान्। स वृत्रं हत्वा विजित्य पृथग् एवैषाम् इमा श्रियो दीप्यमाना अपश्यत्। तम् अभिशस्तिर् अविन्दन्। स ऐक्षत - कथं न्व् अहम् एषाम् इमा श्रियस् संवृञ्जीयेति। स एतेनैव यज्ञेनायजत। तेनैषां सर्वा श्रियस् समवृंक्त। वृंक्ते द्विषतो भ्रातृव्यस्य श्रियं य एवं वेद
स ऐन्द्रीष्व् एव सर्वो भवति। ऐन्द्रीष्व् एव प्रातस्सवनं भवत्य्, ऐन्द्रीषु माध्यंदिनं सवनम्, ऐन्द्रीषु तृतीयसवनम्। तद् यद् गायत्रं सत् प्रातस्सवनम् ऐन्द्रीषु क्रियते वसूनाम् एव तेन यज्ञं समवृंक्त। अथ यत् त्रैष्टुभं सन् माध्यंदिनं सवनम् ऐन्द्रीषु क्रियते, रुद्राणाम् एव तेन यज्ञं समवृंक्त। अथ यज् जागतं सत् तृतीयसवनम् ऐन्द्रीषु क्रियत, आदित्यानाम् एव तेन यज्ञं समवृंक्त, विश्वेषां च देवानाम्। त एनम् आत्तयज्ञा उपासीदन् विशस्, ते सामयज्ञेनो ऽन्वाभजेति, यथा भर्तारं भार्या उपसीदन्ति तथा। स वसून् एव प्रातस्सवने ऽन्वाभजद्, रुद्रान् माध्यंदिने सवने, आदित्यांस् तृतीयसवने विश्वांश् च देवान्। यथा राजा विजित्य स्वे वित्ते भार्यान् अन्वाभजेद् एवम् एवैनांस् तद् अन्वाभजत्। तस्माद् इन्द्राय वसुमते रुद्रवत आदित्यवते विश्वदेव्यावत इत्य् अन्वाहुस्। स पञ्चदशो भवति। वज्रो वै पञ्चदशः। वज्र इन्द्रः। ऐन्द्र एष यज्ञस् तत् तत्सलक्ष्म क्रियते। स उक्थ्यो भवति। विड् वा उक्थानि। क्षत्रम् एव तद् विश्य् अध्यूहन्ति। तस्मा(त्) क्षत्रियो विश्य् अध्यूढः। स य श्रीकाम स्यात् स एतेन यजेत। क्षत्रं श्रीः, क्षत्रयज्ञ एषो, ऽश्नुते श्रियम्
अथैष विघनः। प्रजापतिर् देवान् असृजत - वसून् रुद्रान् आदित्यान्। तेभ्यो यज्ञं चेमांश् च लोकान् प्रायच्छत्। वसुभ्य एव प्रातस्सवनं प्रायच्छद्, रुद्रेभ्यो माध्यंदिनं सवनम्, आदित्येभ्यस् तृतीयसवनम्। वसुभ्य एवेमं लोकं प्रायच्छद्, रुद्रेभ्यो ऽन्तरिक्षम्, आदित्येभ्यो ऽमुम्। अथेन्द्रम् असृजत। स इदम् एषां सर्वं विभक्तम् अपश्यत् । सो ऽब्रवीद् यद् इदम् एषां सर्वं विभक्तम्, अथ कस्मै माम् असृष्टा इति। एतेषां त्वा, इत्य् अब्रीवीच्, छ्रैष्ठ्यायाधिपत्यायासृक्षीति। सो ऽहं कथम् एषां श्रेष्ठो ऽधिपति स्याम् इति। परेह्य् एनान् ब्रूहीत्य् अब्रवीद्, युष्माकं मा प्रजापति श्रैष्ठ्यायाधिपत्यायासृष्टेति। स एत्याब्रवीद् - युष्माकं मा प्रजापति श्रैष्ठ्ययायाधिपत्यायासृष्टेति। ते ऽब्रुवन् - वयं वाव श्रेष्ठा स्मो, वयम् अधिपतयो, ये ज्येष्ठा स्म इति नाजानन्। स पुर् एत्याब्रवीन् - न वा अमी तज् जानन्ति यत् त्वम् आत्थेति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनैनम् अयाजयत्। स हेष्ट्वैव सर्वा मृधो व्यहत।यद् व्यहत, तद् विघनस्य विघनत्वम्। वि ह वै द्विषन्तं भ्रातृव्यं हते य एवं वेद
तं विजिग्यानं सर्वे देवा अभितस् समन्तं पर्यविशन् - वसवः पुरस्ताद्, रुद्रा दक्षिणत, आदित्याः पश्चान्, मरुत उत्तरतो, विश्वे देवा उपरिष्टात्, साध्याश् चाप्त्याश् चाधस्ताद्, अभितो ऽङ्गिरसः। एषा वै दैवी श्रीर् दैवी सभा दैवी संसत्। गच्छति ह वा एतां दैवीं श्रियं दैवीं सभां दैवीं संसदं य एवं वेद। स वा एष षड् बृहतीर् अभिसंपद्यते। षड् वा ऋतवस् संवत्सरश्रीः। श्रियां वावैनं तद् अध्यौहत्। स एष ऋतुषु च संवत्सरे चैतस्यां श्रियाम् अध्यूढस् तपति। तस्य प्रत्नं पीयूषं पूर्वं यद् उक्थ्यम् इत्य् एताः सतोबृहतयो भवन्ति गायत्री भाजनम्। ब्रह्म वै गायत्री. क्षत्रं बृहती। ब्रह्मैव तद् यशसानक्ति। ब्रह्मणो ऽस्य त(त्) सतः क्षत्रस्येव प्रकाशो भवति य एवं वेद
तासु व्यतिषक्तासु स्तुवन्ति - व्यतिषक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते - प्रजात्या एव। अथो व्यतिषक्तो वै पुरुषः। पाप्मभिर् व्यतिषक्ताभिर् एव तद् व्यतिषक्तान् पाप्मनो ऽपहते। तासु गायत्रम् उक्तब्राह्मणम्। अथामहीयवम् उक्तब्राह्मणम्। अथ सौपर्णम् उक्तब्राह्मणम्। अथ सत्रासाहीयं विजित्यै। सत्रा तम् अभिषहा तं यो ऽस्याभिषं ह्यो ऽसद् इति। अथोत्सेधनिषेधौ पापवस्यसस्यैवोत्सिद्ध्यै च निषिद्ध्यै च। अथ विशोविशीयं च सदोविशीयं च। विशोविशीयेन वा इन्द्रो देवान् अभ्यारोहत्। तान् सदोविशम् इत्य् एव सदोविशीयेन विशम् अकुरुत। अथैतास् त्रिष्टुभो भवन्ति। तासु ब्रह्मसाम। ब्रह्म वै ब्रह्मसाम। क्षत्रं त्रिष्टुप्। यजमानकामो वा एष यद् ब्रह्मसाम। स्व एव तद् आयतने यजमानं कामैस् समृद्धयन्ति
ताः पदब्राह्मणा भवन्ति। तद् इद् आस भुवनेषु ज्येष्ठम् इति प्रजापतिर् हि सः। प्रजापतिर् ह्य् एष भुवनेषु ज्येष्ठः। यतो जज्ञ उग्रस् त्वेषनृम्ण इति इन्द्रो हि सः। सद्यो जज्ञानो नि रिणाति शत्रून् इति सद्यो ह्य् एव स जज्ञानस् सर्वा मृधो व्यहत। अनु यं विश्वे मदन्त्य् ऊमा इत्य् ऋतवो वा ऊमास् - त एवैनं तद् अनुमदन्ति। वावृधानश् शवसा भूर्योजाश् शत्रुर् दासाय भियसं दधातीतीन्द्रो ह सः। अव्यनच् च व्यनच् च सस्नि सं ते नवन्त प्रभृता मदेष्व् इति यच् च ह वै व्यनिति, यच् च न, तत् सर्वम् एतस्यैव श्रियै तत् स्थानम्। त्वे क्रतुम् अपि वृञ्जन्ति विश्वे द्विर् यद् एते त्रिर् भवन्त्य् ऊमा इति - ऋतवो वा ऊमास् - त एवैते द्विस् त्रिर् भवन्ति। स्वादो स्वादीय स्वादुना सृजा सम् इति प्रजा वै स्वादुः प्रजायै या प्रजा सा स्वादो स्वादु। अदः सु मधु मधुनाभि योधीर् इति प्रजा वै मधु प्रजायै या प्रजा सा मधोर् मधु। अपि ह प्रजायै प्रजां पश्यते य एवं वेद। तासु श्यैतम् उक्तब्राह्मणम्
अथैतानि गोनामामि भवन्ति - पशवो वै गोनामानि - पशूनाम् एवावरुद्ध्यै। एकपदा प्रथमा भवति, त्रिपदे उत्तरे द्वे। तानि सप्तपदानि संपद्यन्ते। सप्तपदा वै शक्वर्यः। शाक्वराः पशवः। अभिपूर्वाणाम् एव पशूनाम् अवरुद्ध्यै। तद् आहुर् अपावमान्यो न पवमाने कार्या इति। तद् उ वा आहुः - पावमान्य एवामुष्य वा एताश् चन्द्रमस ऋचः। एष वै पवमान, एष सोमो राजा। तस्मात् कार्या एवेति।
सुमन्मा वस्वी रन्ती सूनरी सुरूप वृषन्न् आ गहि।
इमौ भद्रौ धुर्याव् अभि ताव् इमा उपसर्पतः॥
नीव शीर्षाणि मृढ्वं मध्य आपस्यति।
शृंगेभिर् दशभिर् दिशन्॥
इति ये ह वा एत आदित्यस्य रश्मय एतानि ह वा एतस्य शृंगाणि। मध्य उ ह वा एष एतत् अपाम्। तासु वारवन्तीयम् । यद् अनेन कर्मणावारुत्स्महि, तन् नो वारवन्तीयेन वारितम् अन्तत उपतिष्ठाता इति। तद् उ वा आहुर् यद् वावान्या वाङ् नातिवदति तद् एतस्याह्नो ऽग्निष्टोमसाम कार्यम्। यज्ञायज्ञीयं वावान्या वाङ् नातिवदति। वाग् वै यज्ञायज्ञीयम्. कुतो हि वाग् वाचम् अतिवदिष्यति। तस्माद् एतस्याह्नो यज्ञायज्ञीयम् एवाग्निष्टोमसाम कार्यम् इति
अथैष वैश्वदेवः। प्रजननकामो हैतेन यजेत। प्रजापतिर् वा अकामयत - बहुः प्रजया पशुभिः प्रजायेय, वैश्वदेवीः प्रजास् सृजेयेति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स बहुः प्रजया पशुभिः प्रजायत, वैश्वदेवीः प्रजा असृजत। स यत् कामयेत बहुः प्रजया पशुभिः प्रजायेय, वैश्वदेवीः प्रजास् सृजेयेति, स एतेन यजेत। बहुर् एव प्रजया पशुभिः प्रजायते, वैश्वदेवीः प्रजास् सृजते। तद् यद् एष वैश्वदेवो भवति वैश्वदेवीनाम् एव प्रजानां सृष्ट्यै। स सर्व एव वैश्वदेवीषु भवति वैश्वदेवीनाम् एव प्रजानां प्रजात्यै।
स त्रिवृद् भवति - न्यूनं वै त्रिवृत्। न्यूनं प्रजननम् - तद् यत् प्रजननं तन् मा प्रजनयाद् इति।
तस्य रथन्तरं पृष्ठं भवति - प्रजननं वै रथन्तरं - तद् यत् प्रजननं तन् मा प्रजनयाद् इति।
स उक्थ्यो भवति - प्रजा वै पशव उक्थानि। प्रजा वै पशवः प्रजननं - तद् यत् प्रजननं तन् मा प्रजनयाद् इति
अथो आहुस् सप्तदश एव स्याद् इति - प्रजापतिर् वै सप्तदशः। प्रजापतिः प्रजननं - स यः प्रजननं स मा प्रजनयाद् इति।
अथो आहुस् त्रिणव एव स्याद् इति। त्रयो ह ते त्रिवृतः। न्यूनं वै त्रिवृत्। न्यूनं प्रजननम्। तद् यत् प्रजननं तन् मा प्रजनयाद् इति।
अथो आहुस् त्रयस्त्रिंश एव स्याद् इति। प्रजापतिर् वै त्रयस्त्रिंशः । प्रजापतिः प्रजननम्। स यः प्रजननं स मा प्रजनयाद् इति।
तद् उ वा आहुस् सप्तदश एव स्यात्। एष ह वाव प्रजापतिर् यत् सप्तदशः। तस्मात् सप्तदश एव स्याद् इति। स उ एव त्रिवृतं च स्तोमं गायत्रीं च छन्दो ऽभिसंपद्यते। एतद् वै दैव्यंमिथुनं प्रजननं यत् त्रिवृच् च स्तोमो गायत्री च छन्दः। तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति।
स उक्थ्यो भवति - विड् वा उक्थानि - वैश्वदेवीनाम् एव प्रजानां प्रजात्यै। स हैष भूर् एव नाम यज्ञक्रतुः। एतेन ह वै यज्ञेनेष्ट्वा प्रजापतिर् अभवत्। यद् अभवत् तस्माद् भूः। भवति य एवं वेद। स वा एष वैश्यस्येव यज्ञो, ब्राह्मणस्याग्निष्टुद्, राजन्यस्येन्द्रस्तोमः। यर्हि वा एतैर् एवं व्याकृतैर् ईजिरे, प्रोक्ता ह स्म मनुष्या विज्ञायन्ते। ब्राह्मणो वदति, राजन्यो वदति, वैश्यो वदतीति। अथ यद् इदम् एतर्हि यथोपवादम् एतैर् यजन्ते ततो ह नाप्रोक्ता विज्ञायन्ते
अथैष उपहव्यः। प्रजापतिः प्रजा असृजत। तासां सृष्टानां नावेन्वो एव प्रजा अविदुः प्रजापतिर् नो ऽसृष्टेति। स ऐक्षत कथं न्व् इमा अहं प्रजास् सृजेय तासां सृष्टानां न विद्याम इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो ऽनेनैव ता उपाह्वयत। यद् उपाह्वयत तद् उपहव्यस्योपहव्यत्वम्। स सप्तदशो ऽनिरुक्तासु भवति। यथा ह वै वना कक्षा एवं सप्तदशो ऽनिरुक्तासु। स यथा वनात् कक्षात् परीत्यार्भवेद् एवम् एवैताभिर् दृष्टवतीभिर् आविर्बभूव। यद् आदर्शि गातुवित्तम इत्य् एतासु दृष्टवतीष्व् अग्निष्टोमसाम भवति। ततो वै तं ता अविदुर् अस्य वै वयं स्मो ऽयं वास्माकम् आसेति। अथो हाभ्यो ऽन्नम् एव भूतो ददृशे। ता एनम् अन्नकाशिनीः प्रजा अभ्युपाववृधुः। तद् यस्माद् राजन्याद् विशो ऽपक्रामेयुर् ब्राह्मणाद् वा स जातास् स एतेन यजेत। तस्मिन्न् ऋत्विज उपह्वयेत। एता उ ह वै यजमानस्य विशो यद् ऋत्विजः
तस्य रथन्तरं पृष्ठं भवति। अन्नं वै रथन्तरम्। अथो हास्मिन् बह्व् एव पक्वान्नं दद्यात्। ता एनम् अन्नकाशिनीः प्रजा अभ्युपावर्तन्ते। प्रजापतिर् यज्ञम् असृजत। तं देवेभ्यः प्रायच्छत्। स यज्ञं प्रदाय रिरिचानो ऽमन्यत। स ऐक्षत कथं न्व अहम् इमं यज्ञं पुनर् उपह्वय इति। स एतेनैव यज्ञेनायजत। तेनैनं पुनर् उपाह्वयत। यद् उपाह्वयत तद् व् एवोपहव्यस्योपहव्यत्वम्। तद् यं सकृदिष्टिनं यज्ञो नोपनमेत्, स एतेन यजेत। अपक्रान्तो ह वा एतस्माद् यज्ञो भवति। यं सकृदिष्टिनं यज्ञो नोपनम्त्य्, एतेन हैवैनं पुनर् उपह्वयते। उप हैनं यज्ञो नमति य एवं वेद
द्वया उ ह वा अग्रे प्राजापत्या आसुर् देवाश् चैवासुराश् च। ततो हाभिराधयत्तरा इव देवा आसुर् अनभिराधयत्तरा इवासुराः। स प्रजापतिर् अकामयत देवा एव स्युः, परासुरा भवेयुर् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। तस्मिन् देवान् उपाह्वयत। अथासुरान् दीर्घवंशेनान्तरगृह्णात्। ततो वै देवा अभवन्, परासुराः। भवत्य् आत्मना, परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद। स यो भ्रातृव्यवान् स्याद् यो ऽभिचरेद् य स्पर्धेत स एतेन यजेत। तद् ये ऽस्य प्रति कामीना इवर्त्विज स्युस् तान् उपाह्वयेत। अथेतरान् दीर्घवंशेनान्तर्गृह्णीयात्। तेषाम् एवानुपहवम् अनु द्विषन्न् अस्य भ्रातृव्यः पराभवति, श्रियम् आत्मनाश्नुते
अथैष तीव्रसोमः। प्रजाकामो हैतेन यजेत। तनुर् इव ह वा एष यो ऽप्रजः। प्रजयो ह वै पुरुषस् तीव्रो बहुलः। प्रजया तीव्रो बहुलो ऽसानीति। अथो आहुः पशुकाम एवैनेन यजेतेति। तनुर् इव ह वा एष यो ऽपशुः। पशुभिर् ह वै पुरुषस् तीव्रो बहुलः। पशुभिस्तीव्रो बहुलो ऽसानीति। स सप्तदशो भवति। एष ह वै तीव्रो बहुलो यत् सप्तदशः। प्रजया पशुभिस् तीव्रो बहुलो ऽसानीति। तस्योभे बृहद्रथन्तरे सामनी भवतः। एते ह वै तीव्रे बहुले यद् उभे बृहद्रथन्तरे। प्रजया पशुभिस् तीव्रो बहुलो ऽसानीति। तस्य वडवा गर्भिणी दक्षिणा भवति। एषा ह वै तीव्रा बहुला यद् वडवा। तीव्रा तेन बहुला यद् गर्भिणी। तीव्रा तेन बहुला यद् उभयतोदती। तीव्रा तेन बहुला यद् एका सती बह्वीर् गा अर्हति। प्रजया पशुभिस् तीव्रो बहुलो ऽसानीति। अथो आहुर् धेनुशतम् एवास्य नानावत्सं दक्षिणा स्याद् इति। एतद् ध वै तीव्रं बहुलं यद् धेनुशतम्। तीव्रं तेन बहुलं यच् छतम्। तीव्रं तेन बहुलम् यद् अस्य पयः। तीव्रं तेन बहुलं यद् अस्य शतं वत्साः। प्रजया पशुभिस् तीव्रो बहुलो ऽसानीति
इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानः परां परावतम् अगच्छत्। तं देवा अन्वैच्छन्। तं नान्वविन्दन्। ते ऽब्रुवन्न् अभिषुणवामैव। तत आगमिष्यतीति। ते ऽभ्यषुण्वन्। तेषां ह सर्वम् एव प्रातस्सवनं नाजगाम। ते ह स्म चमसान् उरस्य् उपनिग्राहम् अभ्युन्नयन्ते - नेद् अपेन्द्रस्य सोमस्य भक्षयामेति। स उ ह माध्यन्दिने सवन आजगाम। ते होत्क्रोदं चक्रिरे यथा श्रेष्ठिन्य् आगत उत्क्रोदं कुर्वते तथा। तद् उ वा आहुर् अच्छावाकस्येद् वाव स्तोत्रे प्रातस्सवन आजगाम। अन्तरितो वै तथा यज्ञाद् अभविष्यद्, यद् अच्छावाकस्य स्तोत्रे प्रातस्सवने नागमिष्यद् इति। तस्माद् एतस्य यज्ञस्याच्छावाकस्य स्तोत्रे भक्षयन्ति। तस्माद् व् अच्छावाकायोभाव् अध्वर्यू प्रत्यागृणीतः सर्वे चमसाध्वर्यवः। उत्क्रोदम् एव तत् कुर्वते। तद् यस्माच् छ्रीर् अपक्रामेत्, स एतेन यजेत। श्रीर् वै तेषां सापाक्रामद् यद् एषां श्रेष्ठ्य् अपाक्रामत्। ताम् एतेनैवान्विन्दन्। अनु ह तां श्रियं विन्दति नास्मात् सा श्रीर् अपक्रामति य एवं वेद
त्रिशीर्षा ह वै त्वाष्ट्र आस। तस्य ह त्रीणि मुखान्य् आसुस् सोमपानम् एकं सुरापानम् एकम् अन्नादनम् एकम्। प्रस्तौति ह स्मैकेनैकेन गायति प्रतिहरत्य् एकेनाश्रावयत्य् एकेन प्रत्याश्रावयत्य् एकेन शंसत्य् एकेन । स ह स्मैकात्येवानुपरि सर्वं यज्ञं संस्थापयति। सहेयद्वीर्यावान् आस। स उ हासुरीपुत्र आस। स ह स्म प्रत्यक्षं देवेभ्यो वदति, परोक्षम् असुरेभ्यः। यस्मा उ ह वै भूयः कामयते तस्मै परोक्षं वदति। तस्माद् उ हेन्द्रो बिभयांचकार यच् चासुरीपुत्र आस, यद् उ चेयद्वीर्यावान् आस। स हेक्षांचक्रे - असुर्यो वा अयम् आसुरीपुत्रः। स प्रत्यक्षम् अस्मभ्यं वदति परोक्षम् असुरेभ्यः। हन्तैनं हनानीति
तस्य ह वज्रेण शीर्षाणि प्रचिच्छेद। तान्य् एव वयांस्य् अभवन्। तद् यत् सोमपानम् आसीत् स कपिञ्जलो ऽभवत्। तस्मात् स बभ्रुर् इव। बभ्रुर् इव हि सोमः। अथ यत् सुरापानम् आसीत् स कलविंको ऽभवत्। तस्मात् स मत्त इवावक्रन्दति। अथ यद् अन्नादनम् आसीत् स तित्तिरिर् अभवत्। तस्मात् स बहुरूप इव। बहुरूपम् इव ह्य् अन्नम्। तस्माद् उ तस्य वृश्चिकश् शंकुलिष्ठ इत्य् एतद् अन्नम्। स त्वष्टा हतपुत्रो ऽपेन्द्रं सोमम् आजह्रे। स इन्द्र ईक्षांचक्रे - अस्माच् चेद् वै मा यज्ञाद् अन्तरेत्य्, अन्तरितो वै तथा यज्ञाद् भवानि, हन्तैनं हनानीति
तं ह वज्रहस्तो ऽभिदुद्राव। स त्वष्टा प्रत्यङ् पतित्वा पत्नीः प्रपेदे। तं ह तत्र नानुप्रपेदे। तस्मात् त्वष्टारं पत्नीषु संयजन्ति। तस्माद् उ पत्नीः प्रपन्नं न हन्यात्। उदेयायेन्द्रः। स हविर्धानयोर् एव द्रोणकलशे सोमं राजानं संपवितुम् उपेयाय। तं ह द्रोणकलशेनैव प्रतिधाय पीत्वा प्रवव्राज। अनूदेयाय त्वष्टा। स ह पप्रच्छ - अस्ति किंचित् परिशिष्टा3म् इति। अस्त्य् अयं संस्राव इति होचुः। तं हाग्नौ प्रवर्तयांचकारेन्द्रशत्रुर् वर्धस्व स्वाहेति। तं यत् प्रावर्त्तयत् स एव वृत्रो ऽभवत्। स वर्तमान एवाग्नीषोमाव् अभिसंबभूव। तस्माद् आहुर् अग्नीषोमाव् असुर्याव् इति। सहस्रेषु मात्रमूर्ध्वमुददिति। ततो ह स्मानावच्छां क्षितिस् त्रयीविद्भ्यां सर्वां श्रियं सर्वम् अन्नाद्यम् अपि यद् इदं त्रिरात्रे सहस्रं प्रोच्यते तद् अभिसंबभूव। तस्य हेदं सर्वं बलिकृद् आस। कीलालं ह स्मास्मै नद्यो वहन्ति। अथ हाभियुग्वानो नामाष्टौ देवानां सहचरा आसुर्, अष्टौ पितॄणाम्, अष्टौ मनुष्याणाम्, अष्टाव् असुराणाम्। तेषां ह स्मेन्द्रो मायया ऽष्टमो भवति वृत्रं जिघांसन्। तस्माद् उ हैनम् इन्द्र एव जघान। यद् इन्द्रशत्रुर् वर्धस्व स्वाहेति प्रवर्तयांचकार, अथ यद् ध प्रावर्तयिष्यद् इन्द्रस्य शत्रुर् वर्धस्व स्वाहेति
शश्वद् धैनं नाहनिष्यत्। तम् अयम् इन्द्रं सोमो राजा पीतो अनुपहूतो ऽहिनोत्। तस्य ह सर्वेभ्य एव छिद्रेभ्यः प्रेयाय, मुखाद् एव न। तस्माद् उ ह भिषज्य आस। तस्येदवायोय सैव सुरावारिटका बभूव। यच् छिश्नात् सा परिस्रुक्। त्रिर् निरष्ठीवत्। तद् यत् प्रथमं निरष्ठीवत् तद् एव कर्कन्ध्व् अभवद्, यद् द्वितीयं तद् बदरं, यत् तृतीयं तत् क्वलम्। तस्माद् एतेषाम् अन्नं चैव रसाः खाट्कृत्य चतुर्थं निरष्ठीवत्। तद् एवाम्रम् अभवत्। तम् एवं सन्तं देवो अभितो निषेदुः। अयं न एको वीरो ऽभूत्। स इत्थं न्यगात्। क्व भवाम इति। स होवाच न वै विद्म य भुवम् इति। किम् इति। चुक्षुषामि वा इति। अथ ह स्म ततः पुरा क्षुत्वैव म्रियन्ते। तं होचुः - क्षुहि, जीवेति त्वा वक्ष्याम इति. स ह क्षुवाव। तं ह जीवेत्य् ओचुः। स ह जिजीव। तस्माद् इदम् अप्य् एतर्हि चुक्ष्वांसम् आहुर् जीवेति। तस्माद् उ यम् एव मन्येत तं ब्रूयाज् जीवेति। तस्य यन् नस्त इयाय --
-ताव एव सिंह्याव् अभवताम्। यद् अक्षिभ्यां तौ शार्दूलौ, यत् कर्णाभ्यां तौ वृकौ वैलूषौ, यद् अपपक्षाभ्यां ताव् अपाष्टिहौ। तस्माद् एते वयसां वीर्यावत्तराः। इन्द्रो ह्य् एतेषाम् आजानम्। अथ यद् अवाग् इयाय तद् इदं क्षुद्रं श्वापदं बभूव। स ह विषिक्तश् शिश्ये। अपि ह तृणैर् अभिविलूढ आस। तं होचुः क्वेवासि क्वेव त्वाभिषज्याम इति। तस्माद् इदम् अप्य् एतर्हि उपतापिनं पृच्छन्ति क्वेव ते रुजति क्वेव ते ऽभिषज्याम इति। स ह तृणान्य् अभिपरिदिशन्न् उवाचेदम् इवैवम् आभितो ऽस्मीदम् इवैवम् आभितो ऽभिषज्यतेति। तद् अग्निम् अब्रुवन्न् इदं दहेति। तद् अग्निर् अदहत्। तत् पर्जन्यम् अब्रुवन्न् इदम् अभि वर्षेति। तत् पर्जन्यो ऽभ्यवर्षत्। तत् कल्याण्य ओषधयो ऽजायन्त। ता धेनूभिर् आधयन्। तत् पयो ऽदुहन्। त एतं यज्ञम् अपश्यन्। तम् आहरन्। तेनैनम् अयाजयन्। तस्य प्रतिधुक् प्रातस्सवने वानयत्। प्रतीव वा अनेनाधायीति तस्मात् प्रतिधुक्। श्रितं माध्यंदिने सवने, श्रेष्ठेव वा अनेनेति तस्माच् छ्रितम्। दधि तृतीयसवने, ऽधायीव वा अनेनेति तस्माद् दधि। स यथा च ह पुर आसातितरां ह तत आस। स यस् सोमवामी वा सोमातिपवितो वा स्यात् स एतेन यजेत। यथा च ह पुरा भवत्य् अतितरां ह ततो भवति। तस्माद् उ ह सोमवामिनं वा सोमातिपावितं वा न परिचक्षीत। इन्द्रो ह्य् अपि तथास
अथैष ऋतपेयः। देवेभ्यो वा ऊर्ग् अन्नाद्यम् उदक्रामत्। सोमाहुतिर् ह वा एभ्यस् सोच्चक्राम। सो एव विराट्। ते देवा अब्रुवन्न् एतेमां विराजम् अन्विच्छामेति। ते तपो ऽतप्यन्त। त एत विराजं यज्ञम् अपश्यन्। तम् आहरन्त। तम् अभ्य् अदीक्षन्त। त एकम् अहर् नाश्नन्। तस्यै नियानम् अन्ववापश्यन्। ते ऽब्रुवन् भूयो न्व् एव तपस् तप्यामहा इति। ते द्वितीयम् अहर् नाश्नन्। तस्यै घोषम् उपाशृण्वन्। ते ऽब्रुवन् भूयो न्व् एव तपस् तप्यामहा इति। ते तृतीयम् अहर् नाश्नन्। तां परापश्यन् यथा महान्तं गिरिम् उ दीक्षितं यथा वा महद् अभ्रम् एवम्। ताम् अभिक्रामम् अपक्रामम् अभ्यत्सरन्। य उ ह वै मृगं पराङ् एवाभित्सरति, नैनं स गृह्णाति। अथ य एनम् अभिक्रामम् अपक्रामम् अभित्सरति, स एवैनं गृह्णाति। तां दशमेनैवाह्नावरुन्धत। दशाक्षरा विराट्। अन्नं विराट्। विराज एवान्नाद्यस्यावरुद्ध्यै
तस्यापश् च घृतं च व्रतम्। अशीरा वा आपो ऽशरीरं घृतम् अशरीरा स्वधा। अशरीरेणाशरीरां स्वधाम् अवरुणधामहा इति। एतावच्छो व्रतयति। एतावती वै पुरुषस्य मात्रा - नेत् पुरुषम् अतिव्रतयानीति। अथो हैतत् पर्वश एवात्मनो ऽङ्गानि प्रतिसंदधाति. सर्पिष्मान् अन्तरेण भवति - समष्ट्यै। सप्तदशस्तोमो भवति। प्रजापतिर् वै सप्तदशः। प्रजापतिर् नष्टस्यानुवेत्ता। स यो नष्टस्यानुवेत्ता, तेनेमां स्वधाम् अनुविन्दामेति। तस्योभे बृहद्रथन्तरे सामनी भवतो - यद्य् अस्मिन् लोके रथन्तरेणानुविन्दाम, यद्य् अन्तरिक्षे वामदेव्येन, यद्य् अमुष्मिन् लोके बृहतेति। तस्यौदुम्बरस् सोमचमसो दक्षिणा भवत्य् - ऊर्ग् वा अन्नम् उदुंबरम् - ऊर्ज एवान्नाद्यस्यावरुद्ध्यै। अथो अशरीरो वै सोमो, ऽशरीरा स्वधा - ऽशरीरेणाशरीरां स्वधाम् अवरुणधामहा इति
तद् आहुर् हुतो देया3 अहुता3 इति। अहुत इत्य् आहुः। यातयामेव वै तथा स्याद् यद् धुतं दद्याद् इति। तद् उ वा आहुर् हुत एव देयः। देवानां वा एष भागः। को देवानां भागं दातुम् अर्हति। तस्माद् धुत एव देय इति। यादृग् अह वा अस्मिन् लोके अन्नं ददाति, तादृग् अस्यामुष्मिन् लोके ऽन्नं भवति। एतद् उ ह वा अमुष्मिन् लोके परमम् अन्नाद्यं यत् सोमपीथः। एषा हैवास्य सोमाहुतिर् अमुष्मिन् लोके ऽन्नं भवति।
ऋतं सत्यं वदन्तो भक्षयन्ति। ऋतेन हि ते तां सत्येनान्वविन्दन्। ऋतम् अमृतम् इत्य् आह। ऋतेन हि ते तद् अमृतम् अन्वविन्दन्। ओ यि ज्वरा ओयि जूवेति सामनिधने भवतो वाचस् सत्ये। वाचो हि ते तां सत्येनान्वविन्दन्।
तेन हैतेनाथो दिवो गार्ग्य ईजे केशी दार्भ्य ऋजिश्वा वातवात इति। स हर्जिश्वा वातवातो ऽवतताम। तम् उ ह वृषशुष्मेण कुमारेणार्जिश्वनेनाक्ताक्षेणोपनिषेदुर् - यद्य अयम् उ रिष्यत्य् अनेनेदं समापयिष्याम इति। स ह तताम। स ह तान्तः परं लोकं जगाम। स हामुष्मिन् लोके पितरम् आजगाम
तस्य ह कल्याणो लोक आस। स होवाच - तत, कस्यायं लोक इति। ममेति होवाच. अथ हान्यो लोकः कल्याणतर आस। कस्यो असाव् इति। तवेति होवाच। स होवाच - तत, यत् त्वं मद् भूयो ददिवान् असि, भूयस् ते मद् अनूक्तम्. अथ कथं तवायं लोको, ऽसौ ममेति। स होवाच - व्रतपयोद्ध्यो वै किल पुत्रकासौ लोक आस। व्रतोपयोधितर एव नौ त्वम् असि। तस्माद् अयं मम लोको ऽसौ तवेति। गच्छेति होवाच, सं वावाप्स्यसि। यं वाव कामं कमितासि, स ते कामस् समर्धिता। वक्रितास् त्व् एवांगुलीः कुरुताद् इति। स ह समाप। स ह समाप्योवाचापिपात्र एव स्यो ब्राह्मणानाम् अस्त्व् इति। स हापिपात्र एव ब्राह्मणानाम् आस। ततो ह वा इदम् अर्वाचीनम् आर्जिश्वना अपिपात्राः
अथैष चितिस्तोमः। प्रजननकामो यजेत। तस्य पृष्ठस्य षडहस्य स्तोमा भवन्त्य् - ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरः प्रजननं - स यः प्रजननं स मा प्रजनयाद् इति। तस्योभये स्तोमा भवन्त्य् अयुजश् च युग्मन्तश् च। एतद् वै दैव्यं मिथुनं प्रजननं यद् उभये स्तोमाः। तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति। तस्योभे बृहद्रथन्तरे सामनी भवतः। एतद् वै दैव्यं मिथुनं प्रजननं यद् उभे बृहद्रथन्तरे। तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति। तस्य द्वादश स्तोत्राणि भवन्ति - द्वादश मासास् संवत्सरः। संवत्सरः प्रजननं - स यः प्रजननं स मा प्रजनयाद् इति। तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति - चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरः प्रजननं - स यः प्रजननं स मा प्रजनयाद् इति। अथो आहु स्वर्गकाम एवैनेन यजेतेति। तस्य पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्य् - ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सर स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै। तस्योभे बृहद्रथन्तरे सामनी भवत स्वर्ग्ये, स्वर्गस्यैव लोकस्य समष्ट्यै। तस्य द्वादश स्तोत्राणि भवन्ति - द्वादश मासास् संवत्सरः। संवत्सर स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै। तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति - चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सर स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै
तस्य द्व्युत्तराण्य् उत्तराणि स्तोत्राणि भवन्ति। द्विपाद् वै यजमानः। यजमानम् एव तत् स्वर्गे लोके प्रतिष्ठापयति। अथो आहुर् इष्टके एवैते उपधीयेतेति। अथो द्यावापृथिवी एवाथो बृह्द्रथन्तरे एवाथो अहोरात्राव् एवाथो अवस्रवाव् एवाथो अपच्छादावैव। छदिर् इव ह खलु वा एष यज्ञक्रतुः। न ह वै छदिष्मतो गृहान् अतिवर्षति. नैनं पाप्मातिवर्षति य एवं वेद। अथो आहुर् अन्विष्टीनां हेद् वा एष एको यज्ञक्रतुर् इति। स यस् संवत्सरभृता वा संवत्सरभृता वाग्निना चित्येन यजेत, स एतेन यजेत। सद्यो हैवास्य संवत्सर ऋतुशो मासशो ऽर्धमासशो रात्रिशो ऽन्विष्टो भवति। तद् यत् पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्य् - ऋतवो वै पृष्ठानि। संवत्सर ऋतवस् - तेनर्तुशः। अथ यद् द्वादशस्तोत्राणि भवन्ति - द्वादश मासास् संवत्सरस्- तेन मासशः। अथ यच् चतुर्विंशति स्तुतशस्त्राणि भवन्ति - चतुर्विंशत्यर्धमासस् संवत्सरस् - तेनार्धमासशः। अथ यच् चतुर्विंशति स्तुतशस्त्राणि भवन्ति - चतुर्विंशत्यर्धमासस् संवत्सरस् - तेनार्धमासशः। अथ यत् त्रीणि षष्टिशतानि स्तोत्र्या भवन्ति - तावतीस् संवत्सरस्य रात्रयस् -तेन रात्रिशः। सद्यो हैवास्य संवत्सरो ऽन्विष्टो भवति य एवं वेद
अथैतौ राशि-मरायौ। प्रजननकामो हैताभ्यां यजेत। प्रजापतिर् वा अकामयत बहुः प्रजया पशुभिः प्रजायेय। द्वन्द्वं प्रजाः पशून् सृजेयेति। स एतौ यज्ञाव् अपश्यत्। ताव् आहरत। ताभ्याम् अयजत। ततो वै स बहुः प्रजया पशुभिः प्रजायत। द्वन्द्वं प्रजाः पशून् असृजत। स यः कामयेत बहुः प्रजया पशुभिः प्रजायेय, द्वन्द्वं प्रजाः पशून् सृजेयेति, स एताभ्यां यजेत। बहुर् प्रजया पशुभिः प्रजायते, द्वन्द्वं प्रजाः पशून् सृजते। स राशिश् चतुश्चत्वारिंशो भवति, रथन्तरसामा। ब्रह्म वै रथन्तरं, क्षत्रं चतुश्चत्वारिंशः। ब्रह्मणा च क्षत्रेण च सयुग्भ्यां बहुः प्रजया पशुभिः प्रजाया इति। यद् व् एवैतानि स्तोत्राणि बहुलान्य् उदपद्यन्त इव तस्माद् राशिः। अष्टाचत्वारिंशो मरायो भवति बृहत्सामा। ब्रह्म वा अष्टाचत्वारिंशः, क्षत्रं बृहत्। द्वे हि ते गायत्र्यौ यद् अष्टाचत्वारिंशः। ब्रह्मणा च क्षत्रेण च सयुग्भ्यां बहुः प्रजया पशुभिः प्रजाया इति। यद् व् एवैतानि स्तोत्राणि ज्यायांसीव च भवन्ति तस्मान् मरायः। ज्यायान् ह्य् एव राशेर् मरायो भवति
तौ वा एतौ भूमैव स्तोमानाम्। तौ यौ भूमा स्तोमानां ताभ्यां बहुः प्रजया पशुभिः प्रजाया इति। तयोस् सह दीक्षा, सह क्रयस्, सहोपसदः। क्रीत्वा तु नानोपनह्यन्ति। नानर्त्विजो भवन्ति। तद् आहुस् संसवो वा एष यन् नानर्त्विजो भवन्ति। यन् न्वाव दूरात् संसूयते तद् अरमणीयम्। अथ किं यद् अन्तिकात् समाना एवर्त्विज स्युर् इति। नो ह तु तथा सद्यस् संतिष्ठेयातां नानैवर्त्विज स्युः। ते वाव समानं प्रवरं प्रवृणते, समानीम् आशिषम् आशासते। तस्मान् नानैवर्त्विज स्युर् इति। अथो आहू राशिनैव पूर्वेणेष्ट्वावभृथाद् उदेत्य मरायाय दीक्षेतेति। अयमौ ह तु तथा स्याताम्। समानी हि यमयोर् योनिस्, सह जायेते, सह वर्धेते। तस्मात् सहैव स्याताम् इति। ताभ्यां हैताभ्याम् उग्रायुधो मानश्चित्त ईजे। अथो अलन्दो वात्स्यस् तयोर् ह परश्शता अन्यस्मिन् समा आसुः, परश्शता अन्यस्मिन्। तथा बहुर् ह प्रजज्ञाते। बहुः प्रजया पशुभिः प्रजायते य एवं वेद
अथैते ज्योतिर् गौर् आयुर् इति स्तोमा भवन्ति। गौर् आयुर् अस्कन्दत्। ततो ज्योतिर् अजायत। अयं वै लोक आयुर् असौ गौर् इदम् एवान्तरिक्षं ज्योतिः। तम् एतं पुरस्ताद् अकुर्वातां, यथा पुत्रम् एवम्। इतो वा अयम् ऊर्ध्वो लोको ऽर्वाङ् असाव् अमुतः। तद् इदम् एनयोः पुरस्ताज् ज्योतिः पर्यूढं, तेन पश्यामः। तौ योगम् उपप्रयन्ताव् अन्तम् अभि ज्योतिर् व्युदौहताम्। स यथा पितरौ पुत्रं पूर्वं यन्तं पश्चाद् अन्वियातां , तादृक् तत्। एतन् मिथुनीस्तोमा भवन्ति यद् विज्यन्ते। मध्ये वै जायापत्योः पुत्रः शेते। तौ यथा मिथुनीभविष्यन्ताव् इत्थाद् वेत्थाद् वा पुत्रं परिहरेयातां तादृग् एवैतत्। त एत ऊनातिरिक्ता मिथुना प्रजनय स्तोमाः। स यः कामयेत बहुः प्रजया पशुभिः प्रजायेयेति स एतैर् यजेत। बहुर् एव प्रजया पशुभिः प्रजायते
अथैष शुनस्कर्णस्तोमः। शुनस्कर्णो ह वै वार्ष्ण्यकः पुण्यकृद् आपापकृद् आस। स ह चकमे - पुण्यम् एवास्मिन् लोके कृत्वा पापंकृत्य स्वर्गं लोकं गच्छेयम् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स पुण्यम् एवास्मिन् लोके कृत्वा पापंकृत्य स्वर्गं लोकम् अगच्छत्। स यः पुण्यकृत् कामयेत पुण्यम् एवास्मिन् लोके कृत्वा पापंकृत्य स्वर्गं लोकं गच्छेयम् इति, स एतेन यजेत। पुण्यम् एवास्मिन् लोके कृत्वा पापंकृत्य स्वर्गं लोकं गच्छति। स त्रिवृद् भवति। पराङ् इव ह वा एषः। स्वर्गम् एव लोकम् अभिनिर्मृष्टो यत् त्रिवृत् स्तोमः। पराङ् एवैतेन स्वर्गं लोकम् एति। तस्य परांच्य् एव स्तोत्राणि भवन्ति, पराञ्चि शस्त्राणि, पराञ्चि पृष्ठानि, पराचीर् विष्टुतयः। पराङ् एव सर्वो भवति। प्रवतीषु स्तुवन्ति। पराञ्चम् एवैनं तद् अमुं लोकं गमयन्ति
तस्य वामदेव्यं पृष्ठं भवति स्वारम्। स्वाराणि सर्वाणि सामान्य् अवकल्पयन्ति। प्राणो वै स्वरः। प्राणैर् एव तत् प्राणान् उद्गाता यजमानस्य निस्वरति। तद् आहुर् यज्ञायज्ञीयस्य स्तोत्रे जघनेन गार्हपत्यं दक्षिणा प्रावृत्य निपद्येत। तत एव स्वर्गं लोकम् एतीति। तद् उ वा आहुर् विकर्षो वै तथा यज्ञस्य भवति यद् असंस्थिते निपद्येत। यदैव सर्वं कर्म संतिष्ठेत यदा वशया चरेयुः। अथ जघनेनाहवनीयं दक्षिणा प्रावृत्य निपद्येत। तत एव स्वर्गं लोकम् एतीति। असौ वा आदित्य आहवनीयः। एष वै स्वर्गो लोकः। एतस्मिन् एव तत् स्वर्गे लोके ऽन्तत प्रतितिष्ठति
अथैष मनुस्तोमः। मनुश् च वै यमश् च वैवस्वताव् आस्ताम्। सो ऽकामयत मनुर् अस्मै मां लोकाय राज्याय देवास् सुवीरन्न् अमुष्मै यमम् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै तम् अस्मै लोकाय राज्याय देवा असुवतामुष्मै यमम्। स वा एष सदशो भवति। सदंशो(संदंशो?) ह वा एष यत् सदशः। स यथा संदंशेन संदश्य हरेद् एवम् एवैनम् एतेन संदंशे। संदश्यास्माल् लोकाद् अमुं लोकं जहार। तस्य रथन्तरं पृष्ठं भवति। वज्रो वै रथन्तरम्। वज्रेणैवैनं तद् अस्माल् लोकाद् अमुं लोकम् अभिनिर्जघान। स यो भ्रातृव्यवान् स्याद् यो अभिचरेद् य स्पर्धेत स एतेन यजेत। एतेनैवैतं संदंशेन संदश्यास्माल् लोकाद् अमुं लोकं हरति। वज्रो वै रथन्तरम्। वज्रेणैवैनं तद् अस्माल् लोकाद् अमुं लोकम् अभिनिर्हन्ति। तस्मिञ् एतानि घोराणि सामान्य् अवकल्पयन्ति
जमदग्नेस् सप्तहं विद्रथं चक्षुंषीति यान्य् अभिचरणीयस्य रूपं सामानि तानि स्तोमम् एव तद्रूपेण समृद्धयन्ति। अथो आहुर् अन्नाद्यकाम एवैनेन यजेतेति। सर्वो ह वा अन्यो विराजम् अतिष्टौति। एष ह वाव विराजं नातिष्टौति यो दशभि स्तुते। दशाक्षरा विराट्। अन्नं विराट्। विराज एवान्नाद्यस्यावरुद्ध्यै। तस्य रथन्तरं पृष्ठं भवत्य् - अन्नं वै रथन्तरम् - अन्नाद्यस्यैवावरुद्ध्यै। तस्मिन्न् एतानि सामान्य् अवकल्पयन्त्य् - अर्कार्कपुष्पे दैर्घश्रवसम् इति यान्य् अन्नाद्यस्य रूपं सामानि तानि। स्तोमम् एव तद्रूपेण समृद्धयन्ति
अथैष गायत्रः। तस्य त्रिवृति प्रातस्सवने पञ्चदशम् अच्छाकवास्याज्यं, सप्तदशं माध्यंदिनं सवनम्, एकविंशं तृतीयसवनम्। उक्थ्यो यज्ञ उभय सामनी। पुरोधाकामो हैतेन यजेत। तद् यत् त्रिवृति प्रातस्सवने पञ्चदशम् अच्छावाकस्याज्यं भवति - ब्रह्म वै त्रिवृत्। क्षत्रं पञ्चदशो - ब्रह्मैव तत् क्षत्रस्य पुरस्ताद् दधाति। तस्माद् ब्राह्मणः क्षत्रियस्य पुरोहितः। अथो हैतत् ब्रह्मण एव क्षत्रम् अनु वर्त्म करोति। सप्तदशं माध्यंदिनं सवनम्। विड् वै सप्तदशः। एष उ ह वै द्वितीयो राजा यत् पुरोहितः। विशो वा एष ऐश्वर्यम् आधिपत्यं गच्छति य श्रियम् अश्नुते। विश ऐश्वर्यम् आधिपत्यं गच्छानीति तस्मात् सप्तदशं माध्यंदिनं सवनं भवति। अथो हैतद् ब्रह्मणे चैव क्षत्राय च विशम् अनुयुवं करोति
तस्य रथन्तरं पृष्ठं भवति, बृहद् ब्रह्मसाम। ब्रह्म वै रथन्तरम्। क्षत्रं बृहत्। ब्रह्मैव तत् क्षत्रस्य पुरस्ताद् दधाति। तस्माद् ब्राह्मणः क्षत्रियस्य पुरोहितः। अथो हैतत् ब्रह्मण एव क्षत्रम् अनु वर्त्म करोति। स उक्थ्यो भवति। विड् वा उक्थानि। एष उ ह वै द्वितीयो राजा यत् पुरोहितः। विश उ वा एष ऐश्वर्यम् आधिपत्यं गच्छति य श्रियम् आश्नुते। विश ऐश्वर्यम् आधिपत्यं गच्छानीति तस्माद् उक्थ्यो भवति। अथो हैतद् ब्रह्मणे चैव क्षत्राय च विशम् अनुयुवं करोति। तान्य् एकविंशानि भवन्ति। द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य एकविंशः। एष उ ह वै श्रीः। एताम् एव तच् छ्रियम् अन्ततो ऽभ्यारोहति। स उ एव सर्वस् संस्तुतो गायत्रीम् एवाभिसंपद्यते। ब्रह्म वै गायत्री। यदो वै ब्रह्मवर्चम् ऋध्नोत्य् अथ स तस्य पुरोधां गच्छति। स यदा पुरोधां गच्छेद् अथ कामयेताच्याव्यो ऽस्यै पुरोधायै स्यां, न च्यवेयेत्य् एतस्यैव सतः, पंचदशं ब्राह्मणाच्छंसिन आज्यं कुर्यात् तत्। ब्रह्म वै त्रिवृत्। क्षत्रं पंचदशः। तद् एतद् ब्रह्मणोभयतः क्षत्रं परिगृह्णाति। स हाच्याव्यः पुरोधायै भवति, न च्यवते
अथैष गौतमस्य चतुष्टोमः। गौतमो वा अकामयताव पशून् रुन्धीय भूमानं पशूनां गच्छेयम् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै सो ऽव पशून् रुन्ध भूमानं पशूनाम् अगच्छत्। स यः कामयेताव पशून् रुन्धीय भूमानं पशूनाम् गच्छेयम् इति स एतेन यजेत। अव हैव पशून् रुन्द्धे भूमानं पशूनां गच्छति। तस्य चतसृषु बहिष्पवमानं भवति। चतुष्पादा वा अश्वास् सन्तश् चतुश्शफाः। ते ये चतुष्पादाः पशवश् चतुश्शफास् तान् एवैतेनावरुन्द्धे। अष्टास्व् अष्टास्व् आज्यानि। अष्टशफा वै पशवः। ते ये ऽष्टाशफाः पशवस् तान् एवैतेनावरुन्द्धे। द्वादशो माध्यंदिनः। द्वादशाक्षरा वै जगती। पशवो जगती। यत् क्षुद्रं पशूनां तज् जागतम्। तद् एवैतेनावरुन्द्धे। षोडशानि पृष्ठानि। षोडशकला वै पशवो यांश् च विद्म यांश् च न। तान् एवैतेन कलशो ऽवरुन्द्धे। स विंश आर्भवः पवमानः। द्वे वा एते दशदशिन्यौ विराजौ यद् विंशतिः। विंशतिप्रतिष्ठाना वै पशवो वैराजाः। ते ये विंशतिप्रतिष्ठाना पशवो वैराजास् तान् एवैतेनावरुन्द्धे। अथ चतुर्विंशम् अग्निष्टोमसाम। चतुष्पादा वै पशवो वैराजाः। ते ये चतुष्पादाः पशवो वैराजास् तान् एवैतेनावरुन्द्धे। अथो चतुर्विंशत्यर्धमासस् संवत्सरः. संवत्सरेणैवैनांस् तत् परिगृह्यात्मन्न् अधत्त। न ह खलु वा एषो ऽग्निष्टोमो नोक्थ्य उभयम् इवैव नो वा एते ग्राम्याः पशवो नारण्या उभयम् इवैव। तान् एवैतेनावरुन्द्धे
अथैषो ऽपूर्वः। प्रजननकामो हैतेन यजेत। प्रजापतिर् वा अकामयत बहुः प्रजया पशुभिः प्रजायेय, न मद् अन्यः पूर्व स्याद् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स बहुः प्रजया पशुभिः प्रजायत। नास्माद् अन्यः पूर्व आसीत्। स यः कामयेत बहुः प्रजायेय न मद् अन्यः पूर्व स्याद् इति स एतेन यजेत। बहु एव प्रजया पशुभिः प्रजायते नास्माद् अन्यः पूर्वो भवति। स त्रिवृद् रथन्तरसामा भवति। न ह वै त्रिवृत स्तोमाद् अन्यः पूर्व स्तोमो ऽस्ति, न रथन्तरात् पृष्ठाद् अन्यत् पूर्वं पृष्ठम् अस्ति, न प्रजापतेर् अन्या पूर्वा देवतास्ति। तद् यद् एतान्य् अपूर्वाणि तस्माद् अपूर्वः। अथो मनो वै प्रजापतिः। नो वै मनसो ऽन्यत् किं चन पूर्वम् अस्ति। तस्माद् उ एवापूर्वः। स त्रिवृद् भवति - न्यूनं वै त्रिवृत्। न्यूनं प्रजननम् - तद् यत् प्रजननं तन् मा प्रजनयाद् इति। तस्य रथन्तरं पृष्ठं भवति - प्रजननं वै रथन्तरं - तद् यत् प्रजननं तन् मा प्रजनयाद् इति। तस्य द्वादश स्तोत्राणि भवन्ति - द्वादश मासास् संवत्सरः। संवत्सरः प्रजननम् - स यः प्रजननं स मा प्रजनयाद् इति। तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति - चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरः प्रजननं - स यः प्रजननं स मा प्रजनयाद् इति
अथैष पञ्चशारदीयः। मरुतो वा अकामयन्तौजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तम देवानां स्याम, जयेम स्वर्गं लोकम् इति। त एतं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। ततो वै त ओजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा देवानाम् आसन्न्, अजयन् स्वर्गं लोकम्। ओजिष्ठो बलिष्ठो भूयिष्ठो वीर्यवत्तम स्वानां भवति, जयति स्वर्गं लोकं य एवं वेद। स वा एष विशाम् एव यज्ञः। विशो वै मरुतस् तस्माद् विशां यज्ञः। तेन हैतेनैकयावा कांदम ईजे। स हौजिष्ठश् चैव बलिष्ठश् च भूयिष्ठश् च वीर्यवत्तमश् च स्वानाम् आस, जिगाय वा लोकं न वा। स सप्तदशो भवति - प्रजापतिर् वै सप्तदशः। प्रजापतिः प्रजननं - स यः प्रजननं स मा प्रजनयाद् इति। तस्य रथन्तरं पृष्ठं भवति - प्रजननं वै रथन्तरं - तद् यत् प्रजननं तन् मा प्रजनयाद् इति। स उक्थ्यो भवति - प्रजा वै पशव उक्थानि - प्रजया पशुभिः प्रजाया इति
तस्य पञ्च शरदः पञ्चोक्षाणः प्रोक्षिताश् चरन्ति। तद् यत् पञ्चशरदः पञ्चोक्षाणः प्रोक्षिताश् चरन्ति, तस्मात् पञ्चशारदीयः। त उ सर्वे पृश्नयो भवन्ति। मरुतः पृश्निमातर इति वा आहुः। अथो ऋचाभ्यनूच्यते मरुतः पृश्निमातर इति। तस्मात् पृश्नयो भवन्ति। वीर्यं वै देवानां हविः। तद् आत्मभ्य एवागृह्णत। तद् यन् मरुद्भ्य एव भवति वीर्यम् एव तद् आत्मसु दधते। मरुद्भ्य उज्जेषिभ्य इति मरुद्भ्य स्वापिभ्य इति मरुद्भ्य स्वतवद्भ्य इति मरुद्भ्य एव मरुद्भ्य इति मरुद्भ्यो ऽभिष्टिभ्य इति। तद् यन् मरुद्भ्य उज्जेषिभ्य इति यथा तं कामम् उज्जयेद् यत्कामो यजेत। अथ यन् मरुद्भ्य स्वतवद्भ्य इति मरुतो ह वा इदं सर्वं स्वम्। तान् एवैतत् स्वेन प्रीणाति। तस्मै प्रीता स्वं प्रत्यवर्जन्ति। तेन प्रत्यवसृष्टेन यजते। अथ यन् मरुद्भ्य एव मरुद्भ्य इति --
-बहवो ह वै मरुतो यांश् च विद्म यांश् च न। ते नस् सर्वे प्रीता आसन्न् इति। अथ यन् मरुद्भ्यो ऽभीष्टिभ्य इति यथा तं कामं स्वाभ्याप्तम् अभ्यश्नुवीत तत्कामो यजेत। तान् एतान् पशून् आलभेत। दीक्षिष्यमाण एकम् उपवसथ एकं प्रसुत एकम् अनूबन्द्यायाम् एकम् उदवसानीयायाम् एकम् एवम् एतान् पशून् आलभेत। अथ हैक आहुः पञ्चरात्र एवैष स्यात्। तत्रैवैतान् अन्वहं पशून् आलभेतेति। तद् उ होदर शाण्डिल्य स्थविरम् एकयावानं पप्रच्छ यद् इदं विवदन्ते पञ्चरात्र एवासेत्य् एक, उक्थ्य एव सप्तदश इत्य् एके कथं स आसेति। स होवाचोक्थ्यम् एव नस् तं सप्तदशम् एकाहम् अभ्यवेदयन्तेति। अथ हैक आहुर् अतिरात्र एवैष स्यात्। कथं पञ्च वर्षाणि यज्ञ आगूर्णो ऽनतिरात्र स्याद् इति। तद् ध तन् न तथा। अग्निष्टोम एव स्याद् इत्य् एके। अग्निष्टोमाद् वै सर्वे यज्ञक्रतवस् तायन्त इति। तद् उ ह तन् नो एव तता. उक्थ्यो हैव स सप्तदश स्यात्। विड् वा उक्थ्यानि। विट् सप्तदशः। विशाम् एव यज्ञः। तस्माद् उक्थ्य एव सप्तदश स्याद् इति। तस्य मरुतां चार्को मरुतां च संस्तोभ इत्य् एते आदिष्टसामनी पवमानयोर् भवतः। स्तोमम् एव तद्रूपेण समृद्धयन्ति
अथैषो ऽभिजित्। देवासुरा वा एषु लोकेष्व् अस्पर्धन्त। अस्मिन् भुवने ते देवा अकामयन्ताभीमान् लोकान् जयेमासुरान् स्पर्धाम भ्रातृव्यान् इति। त एतं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। तेनेमान् लोकान् अभ्यजयन्न् अजयन् स्पर्धां भ्रातृव्यान् असुरान्। तद् यद् इमान् लोकान् ब्यजयंस्, तद् अभिजितो ऽभिजित्त्वम्। अभीमान् लोकान् जयति जयति स्पर्धां द्विषन्तं भ्रातृव्यं य एवं वेद। तस्य त्र्युत्तरिण स्तोमा भवन्ति - त्रयो वा इमे लोका - एषां लोकानाम् अभिजित्यै। चतुरावृतो भवन्ति - चतस्रो दिशो - दिशाम् एवाभिजित्यै। अभिवतीषु स्तुवन्त्य् एषाम् एव लोकानाम् अभिजित्यै। आभीकम् अभिनिधनम् अभीवर्त आभीशवम् इत्य् एतानि सामानि भवन्त्य्, एषाम् एव लोकानाम् अभिजित्यै
तस्य रथन्तरं पृष्ठं भवति, वामदेव्यं मैत्रावरुणसाम, बृहद् आर्भवे पवमाने। इदं वै रथन्तरम्। अन्तरिक्षं वामदेव्यम्। अद एव बृहत्। एषाम् एव लोकानाम् अनन्तर्हितानाम् अभिजित्यै। तस्मिन्न् एतानि परोक्षं पृष्ठरूपाण्य् अवकल्पयन्ति, विश्वजितः प्रत्युद्यमाय। इन्द्रो वै वृत्रम् अहन्। तं वृत्रं जघ्निवांसम् एभ्यो लोकेभ्यस् तमो ऽन्ववृणोत्। सो ऽकामयतापेदं तमो हनीयेति। स एतम् अभिजितं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। तस्य त्र्युत्तरिण स्तोमा भवन्ति। त्रयो वा इमे लोकाः। तेनैभ्यो लोकेभ्यस् तमो ऽपाहत। तं चतुर्थाल् लोकात् तमो ऽन्व् एवावृणोत्। सो ऽकामयतापैवेदं तमो हनीयेति। स एतं विश्वजितं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। तस्य चतुरुत्तरिण स्तोमा भवन्ति। चतस्रो दिशः। एष उ ह वै चतुर्थो लोको यद् दिशः। तेन चतुर्थाल् लोकात् तमो ऽपैवाहत। ततो वै स सर्वेभ्य एभ्यो लोकेभ्यस् तमः पाप्मानम् अपहत्य स्वर्गं लोकम् आरोहत्। सर्वेभ्य एवैभ्यो लोकेभ्यस् तमः पाप्मानम् अपहत्य स्वर्गं लोकम् आरोहत्। सर्वेभ्य एवैभ्यो लोकेभ्यस् तमः पाप्मानम् अपहत्य स्वर्गं लोकम् आरोहति य एवं वेद
अथैष विश्वजित्। इन्द्रो ऽसुरान् अजयत्। तेषां त्वानिव नाजयत्। तम् एतेन देवा अयाजयन्। स विश्वम् अजयत्। इन्द्रो वै विश्वजित्। यद् वा एतेन शिल्पेनाजयत् तद् विश्वजितो विश्वजित्त्वम्। देवा वा असुरेभ्यो बिभ्यतस् सर्वम् इदं संगृह्योर्ध्वा स्वर्गं लोकम् उदक्रामन्। यो वै सर्वं विन्दमानः सर्वं न ददाति स सर्वपरादायी। अथ यस् सर्वं विन्दमानस् सर्वं ददाति स सर्ववेदसी। सर्वं वा एष विन्दते यत् सर्वान् स्तोमान् सर्वान् ग्रहान् सर्वाणि पृष्ठानि सर्वाणि छन्दांसि विन्दते। तस्य चतुरुत्तरिण स्तोमा भवन्ति। इमान् एव लोकांस् त्रिभिर् अभिजयति। यश् चतुर्थो विश्वा एव तेनाशास् संभार्या भवन्ति। पृष्ठानाम् एव संयोगो नानादेवत्या भवन्ति, तेन युज्यं तेन रूपेण। तद् आहुर् अपथम् इव वा एते यन्ति ये पावमानीभिः प्रतिपद्यन्त इति। पवमानस्य ते कव इति पर्यासो भवति। पुनः पन्थानं पर्यवयन्ति। न चत्वारि षड्भ्यो भवन्ति। तेन विभवन्ति
अथैतान्य् आप्रीर् आज्यानि भवन्ति। प्रजापतिः प्रजा असृजत। स सृष्ट्वा रिरिचानो ऽमन्यत। स एतान्य् आप्रीर् आज्यान्य् अपश्यत्। तैर् आत्मानम् आप्रीणीतायातयामतायै। रिच्यत इव वा एष यत् सर्वं ददाति। तद् यद् एतान्य् आप्रीर् आज्यानि भवन्त्य् आत्मानम् एवैतैर् यजमान आप्रीणीते ऽयातयामतायै। तद् आहुर् वीव वा एते प्राणैर् ऋध्यन्ते य एतानि नानारूपाणि नानादेवत्यानि नानाछन्दःसु समाने यज्ञक्रतौ संप्रोहन्तीति। तद् यद् गायत्रीषु बृहद् भवति - प्राणो वै बृहत्। प्राणो गायत्री - प्राणैर् एव तत् समृध्यन्ते। यद् यथापूर्वं पृष्ठान्य् उपेयू रेवतीर् उत्तमाः कुर्यू रेवतीनाम् एता रूपम् ऋचस्, तेनैव रेवतीनां रूपान् न यन्ति। तद् आहुर् यन्ति वा एते ऽग्निष्टोमसाम्नो ये त्रयस्त्रिंशं स्तोमं कुर्वन्तीति। एकविंशत्यक्षरा एता ऋचो भवन्ति। तेनैवाग्निष्टोमसाम्नो न यन्ति। तद् आहुर् यन्ति वा एते यज्ञायज्ञीयाद् य बृहद् अग्निष्टोमसाम कुर्वन्तीति। तद् यत् त्वम् अग्ने यज्ञानां होतेति भवति तेनैव यज्ञायज्ञीयस्य रूपान् न यन्ति, तेन तृतीयसवनान् न यन्ति। तद् आहुर् वीव वा एष पशुभिर् ऋध्यते यत् सर्वं ददातीति
रोहिणीं छविं परिधत्ते। एतद् वै पशूनां प्रियं रूपं यद् रोहितम्। पशूनाम् एव तत् प्रियेण रूपेण समृध्यते। खनति खनित्रम् अवृत्तिम् अपजयति। उभयतःक्ष्णुद् अभ्रिर् भवत्य - उभयत एवास्मा अन्नाद्यं रदति। अरण्ये तिस्रो वसति - यद् आरण्यम् अन्नाद्यं तद् एव ताभिर् अवरुन्द्धे। न ग्रामे नारण्ये तिस्रो - यन् न ग्रामे नारण्ये ऽन्नाद्यं तद् एव ताभिः। जने तिस्रो - जन्यं ताभिः। सजने तिस्रः - सजन्यं ताभिः। ता द्वादश संपद्यन्ते। द्वादश मासास् संवत्सरः। संवत्सराद् एवान्नाद्यम् अवरुन्द्धे। रोहिणीं छविं परिधत्ते। एषा ह वा अग्रे पशूनां त्वग् आस या पुरुषस्य, या पशूनां सा पुरुषस्य। ते पशव आतपं वर्षं दशान् मशकान् न धारन्ति। ते पुरुषम् एत्याब्रुवन् - पुरुषेयं तव त्वग् अस्त्व् एषास्माकम् इति। किं तत स्याद् इति। आद्या ते स्याम इत्य् अब्रुवन्। इदं ते वास इति वासः प्रायच्छन्। तद् यद् रोहिणीं छविं परिधत्ते स्वेनैव तद्रूपेण समृध्यते। तथा हैनम् अमुष्मिन् लोके पशवो नादन्ति। अदन्ति ह वा अमुष्मिन् लोके पशवः पुरुषम्। तस्माद् उ ह गोर् अन्ते नग्नो न स्यात्। ईश्वरो हास्माद् अपक्रमितोस् त्वचम् अस्य बिभर्मीति
सा सपुच्छा भवति कृत्स्नत्वाय। अथो सर्वं वाव स्म प्राजापत्याः। यस् त्वाव पुत्राणां कृपणतमो भवति, स पितुर् हृदयम् आप्येति। कृपणताम् इवैष न्येति यस् सर्वं ददातीति, गच्छति प्रजापतेर् अनुबोधम्। तद् या अरण्ये वसेद् उदुम्बरे हैव ता वसेत्। प्रजापतिर् यत् प्रजाभ्य ऊर्जम् अन्नाद्यं व्यभजत्, ततो यः संशेषः समशिष्यत, स एष वनस्पतिर् अभवत्। उर्ग वा उदुम्बरो ऽन्नम्। अरण्यं वा एतस्यान्नाद्यम् इतं भवति यस् सर्वं ददाति। स यो ऽत्र प्रजापतिन्यंगो यद् अन्नाद्यम्। तद् एव ताभिर् अवरुन्द्धे। अथ या न ग्रामे नारण्ये वसेत्, निषादेषु हैव ता वसेत्। एष ह वै न ग्रामे नारण्ये यन् निषादाः। एताभिर् ह वा उभयम् अन्नाद्यं समभ्यवैति यच् च ग्राम्यं यच् चारण्यम्। स यो ऽत्र प्रजापतिन्यंगो यद् अन्नाद्यं तद् एव ताभिर् अवरुन्द्धे। अथ या जने वसेद्, वैश्ये वा ह ता भ्रातृव्ये वा वसेत्। एष ह वै ब्राह्मणस्य जनो यद् वैश्यो वा भ्रातृव्यो वा। जनं वा एतस्यान्नाद्यम् इतं भवति यस् सर्वं ददाति। स यो ऽत्र प्रजापतिन्यंगो यद् अन्नाद्यं, तद् एव ताभिर् अवरुन्द्धे। अथ यास् सजने वसेद्, राजनि हैव ता वसेत्। एतद् ध वै सजनं यद् राजा। अन्त उ वा अन्नाद्यस्य श्रीर्, अन्त एव तद् अन्नाद्यस्य श्रियाम् अन्ततः प्रतितिष्ठति
प्रजापतिः प्रजा असृजत। स एतेनैव विश्वजितेदम् असृजत विश्वम्। तद् यद् एता नानारूपाः प्रतिपदो भवन्ति, तस्माद् उ हेदं विश्वं भूतं नानरूपम्। पृष्ठानां वावैष योगः। उपवत्यैव रथन्तरं युज्यते। सरस्वता वैराजस् सारस्वत्या महानाम्नयो ब्राह्मणस्पत्यया वैरूपं सावित्र्या रेवतयः आग्निपावमान्या बृहत्। तद् यद् एता नानारूपाः प्रतिपदो भवन्ति पृष्ठान्य् एवैतत् प्रातस्सवने युक्तानि। तानि माध्यंदिने सवने ऽभ्यारोहन्ति। तद् आहुर् वीव वा एते प्राणैर् ऋध्यन्ते ये पवस्विनीभिः प्रतिपद्यन्त इति। तद् यद् एषा वायव्या प्रतिपद् भवति - प्राणो वै वायु- - प्राणैर् एव तत् समृध्यन्ते
अथैते सरस्वतश् च सरस्वत्याश् च। एतद् वै दैव्यं मिथुनं प्रजननं यत् सरस्वांश् च सरस्वती च। दैव्येन मिथुनेन प्रजाया इति। तद् आहुः पुंसः पूर्वा कार्या स्त्रिया उत्तराः। तथा यजमानस्यानपगद्भ्यैः प्रजा जायत इति। तद् उ वा आहुर् वायुर् वै रेतोधाः, प्रजननं सरस्वती। तौ सरस्वन्तं मिथुनात् प्रजनयतः। अथो वाशिता वै पूर्वा धावत्य् अन्वम् ऋषभः सरस्वत्या एव पूर्व कार्येति। एतद् उ हैतत् सरस्वतस् त्व् एव पूर्वा कार्या। अथैषा ब्राह्मणस्पत्या प्रतिपद् भवति। प्रजापतिर् या ऋते ब्रह्मणः प्रजा असृजत, ता अस्य सृष्टाः पराभवन्। स एतां ब्राह्मणस्पत्यां प्रतिपदम् अपश्यत्। तया ब्रह्मण्वतीः प्रजा असृजत। ता अस्य सृष्टा न पराभवन्। तद् यद् एषा ब्राह्मणस्पत्या प्रतिपद् भवति, ब्रह्मण्वतीर् एवैतया प्रजास् सृजते, ता अस्य सृष्टा न पराभवन्ति
अथ सावित्रीप्रसवाः। यद् इह विषुरूपम् इमा नानारूपाः प्रतिपद् उपागाम तन् नस् सवितृप्रसूतम् असद् इति। अथाग्निपावमान्यः। पथम् इव वा एते यन्ति ये पावमानीभिः प्रतिपद्यन्त इति। अग्निर् वै पथिकृद् देवतानाम्। येन वै केन चाग्निनैति पन्थानम् एव कुर्वन्न् एति। तद् यद् एवाग्निपावमानी प्रतिपद् भवत्य् अग्निनैव तत् पथिकृता पन्थानं पर्यवयन्ति। पवमानस्य ते कव इति पर्यासो भवति। एतत् पुनः पन्थानं पर्यवयन्ति। यो वै पृष्ठानां धुर्यं वेद धुर्य स्वानां भवति। वैराजं वाव पृष्ठानां धुर्यम्। धुर्य स्वानां भवति य एवं वेद
तद् आहुः पापवस्यसम् इव वा एतत् क्रियते यद् बृहद्रथन्तरे अभितो भवतो, मध्ये पृष्ठानि। यथा वै पापीयांसम् उपर्यासीनं श्रेयान् अधस्ताद् उपासीत तादृक् तद् यद् एते बृहद्रथन्तरे अभितो भवतो मध्ये पृष्ठानीति। बृहद्रथन्तरे एव मध्ये स्थाताम् अभितः पृष्ठानि पापवस्यसस्य व्यावृत्त्यै। अथो यथा श्रेयांसम् उपर्यासीनं पापीयान् अधस्ताद् उपासीत तादृक् तद् यद् बृहद्रथन्तरे मध्ये भवतो ऽभितः पृष्ठानीति। असर्वपृष्ठो ह तु तथा स्यात्। सर्वेषां वै पृष्ठानां वैराजम् एव पूर्वं योगम् आनशे। अथो यद्यपि चरमं यन्तं पृच्छेयुर् उप पृष्ठान्य् अगूर्णा इति, नेत्य् एव ब्रूयात्। बृहद्रथन्तरे एवाभित स्यातां, मध्ये पृष्ठानि सर्वपृष्ठतायै। इदं वै रथन्तरम्, अदो बृहत्। पशवः पृष्ठानि। आभ्याम् एवैतल् लोकाभ्याम् उभयतः पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद
अथो यथा पिता मातैवं बृहद्रथन्तरे, यथा पुत्रा एवं पृष्ठानि। यद् वै पुत्रो ऽतिपादयति पिता वै तस्य शमयिता पिता निषेद्धा। तद् यद् बृह्द्रथन्तरे अभितो भवतश् शान्त्या एव निषिद्ध्यै। अथो यथा पितरौ पुत्रान् अभित परिशय्यातां तादृक् तद् यद् बृहद्रथन्तरे अभितो भवतो, मध्ये पृष्ठानि। यथा ह वा इदम् ऋषभा वा परस्वन्तो वा समुत्क्रुद्धास् तिष्ठेयुर् एवम् एतद् यद् एतानि मध्यतः पृष्ठानि भवन्ति, तद् यच् छ्यैतनौधसे अभितो भवतः। ब्रह्म वै नौधसम्। ब्रह्मणैवैनांस् तत् पुरस्ताच् छमयित्वा श्यैतेनोपरिष्टाच् छ्येतीकुर्वन्ति। तस्मात् पुरस्ताद् एव नौधसं स्याद् उपरिष्टाच् छ्यैतम्। तद् आहुर् यत् समाननिधनानि पृष्ठानि, केनाजामी क्रियन्त इति। वैराजं च महानाम्नयश् च वैरूपं च रेवत्यश् चैतेनाख्यानेनाजामीति। अथो यद् एवैतानि मध्ये निधनानि भवन्ति तेनो एवेति। तस्मिंस् त्रयस् सप्तदशा भवन्ति। ता एकपञ्चाशत् स्तोत्र्याः। तद् गोः प्रातस्सवनम्। एकान्नवतिशतं रात्रेस् सा ज्योतिष्टोमस्य रात्रिः। तद् एतन् मिथुनं प्रजननं क्रियते। प्र मिथुनेन जायते य एवं वेद। ता उभयी स्तोत्र्यास् संपद्यन्ते द्वे चत्वारिंशच्छते। सा विराट्। अन्नं विराट्। विराज्य् एव तद् अन्नाद्ये यज्ञस्यान्ततः प्रतितिष्ठति
देवासुरा अस्पर्धन्त। अथ ह तर्हि प्रजापताव् एवैतानि शिल्पान्यआसुर् नेतरेषु देवेषु। स इन्द्रः प्रजापतिम् उपाधावज् जयामासुरान् इति। तस्मा एव तच् छिल्पं प्रायच्छत्। तद् अस्मिन् प्रत्यमुञ्चत्। यथा निष्कं मणिं स्रजं प्रतिमुञ्चेद् एवं तन्वोदयच्छत्। तस्माद् एतच् छिल्पं निरमिमीतैतानि पृष्ठानि। अथ यद् इतरत् तेज आसीद् येनैष एतत् तपति। ते ऽसुरा इदं रूपं ज्ञात्वा सो नः पिता हन्ति सो नः पिता हन्तीत्य् एव भवन्तः पराजयन्त। ततो वै देवा अभवन् परासुराः। भवत्य आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद
तद् आहुर् नातिष्टुत्यम्। यथा वै निष्कं मणिं स्रजं प्रतिमुच्य तत् पुनर् उन्मुञ्चेत् तादृक् तद् यो ऽग्निष्टोमे ऽतिष्टौतीति। अन्यतरद् ध त्वाव स विश्वयोर् जयति। अहोरात्रे वै सर्वं विश्वम्। अथो यथा महावृक्षस्याग्रं रूढ्वा प्रत्यवरोढुं न विन्देत् तादृक् तद् यद् अग्निष्टोमो भवति। तद् यत् प्रत्यवरोहीणि स्तोत्राणि भवन्त्य् - एषा वै कृत्स्ना प्रतिष्ठा यद् अतिरात्रस् - तेनैवास्यां प्रतितिष्ठति। तद् आहुः प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते ये ऽतिरात्रम् उपयन्तीति। तद् यद् गायत्रीषु बृहद् भवति - इयं वै गायत्री - अस्याम् एवैतत् प्रतितिष्ठन्ति
अथो यथा रथाक्षे रथचक्रं प्रतिमुञ्चेद् एवम् एवैतानि सर्वाणि शिल्पान्य् आहृत्य ब्रह्मन् प्रतिष्ठापयन्ति ये गायत्रीषु बृहद् अग्निष्टोमसाम कुर्वन्ति। तस्माद् गायत्रीष्व् एव बृहद् अग्निष्टोमसाम कार्यम् इति। तद् आहुस् सहस्रम् एव दद्यात् तद् एव विश्वम् इति। अथो आहुर् यावतीर् एवैतस्य विश्वजित स्तोत्र्यास् तावद् एव दद्यात्। तद् एव विश्वम् इति। तद् उ वा आहुर् यद् एवास्य किंचित् स्वं स्यात् तद् दद्यात्। यत् परिशिनष्टि स पाप्मेति। यथा वैनं मिथुनात् स्रवत्य् एवम् एनं तस्मात् सर्वस्मात् पाप्मा स्रवति यत् परिशिनष्टि। तस्मात् सर्वम् एव देयम् इति
अथैष वाजपेयः। वाजपेयेनान्नाद्यकामो यजेत। अन्नपेयो ह वा एष यद् वाजपेयः। अन्नं वै वाजः। यदा वै गौर् अश्वः पुरुषो ऽन्नस्य सुहितो भवत्य् अथ स वाजी भवति। अग्निष्टोमेन ब्रह्मवर्चसकामो यजेत - ब्रह्म वा अग्निष्टोमो - ब्रह्मवर्चसस्यैवावरुद्ध्यै। ऋतूनां च ह खलु वै पशूनां च कामायाभिषिच्यमानो ऽभिषिच्यते। तस्य पञ्च स्तोत्राणि चतुस्त्रिंशानि कुर्युस् सर्वान् पवमानान् उभे ब्रह्मसामनी। तावतीर् उक्थ्यस्य स्तोत्र्याः। आप्नुवन्ति तं कामं य उक्थ्ये। नो वा अग्निष्टोमाद् यन्ति। न ह खलु वा एषो ऽग्निष्टोमो नोक्थ्यो न षोडशिमान् नातिरात्रः। अतिरिक्तयज्ञो ह वा एषः। अतिरिक्तो वै प्रजापतिः। प्राजापत्य एष यज्ञः। प्रजापतेर् एवाप्त्यै। तस्य बृहच् छिपिविष्टवती भवति। पशवो वै शिपिविष्टाः। क्षत्रं बृहत्। क्षत्रियस्यो अयं लोकः। अस्य नो लोकवतस् साम्नः पशवो लोकम् अनूपतिष्ठन्ता इति। त्रिष्टुप्सु स्तुवन्ति बृहत् साम। क्षत्रं वै त्रिष्टुप्। क्षत्रेणाभिषिच्यमानो ऽभिषिच्याता इति। वैष्णवीषु स्तुवन्ति - विष्णुर् वै परमो देवतानां - परमया देवतयाभिषिच्यमानो ऽभिषिच्याता इति। आजिं धावन्ति, प्रजापतेर् एवाप्त्यै स्वर्गस्य च लोकस्योज्जित्यै। सप्तदश प्रव्याधान धावन्ति। सप्तदशो वै प्रजापतिः। प्राजापत्य एष यज्ञः प्रजापतेर् एवाप्त्यै
तद् आहुस् तिसृष्व् एवास्तुतासु धावेयुः। त्रयो वै प्राणापानव्यानाः। तेषां संतत्या अव्यवच्छेदायेति। अथो आहुर् एकस्याम् एवास्तुतायां धावेयुः। को ह्य् एवैष यत् प्राणो ऽपानो व्यान इति। तद् उ वा आहुस् सर्वास्व् एवास्तुतासु धावेयुर् एतयोर् आज्योर् असंसर्गायेति। तद् आहुर् यन्ति वा एते यज्ञाद् ये बहिर्वेदि प्रसुते धावयन्ति। एतावान् वाव यज्ञो यावान् अन्तर्वेदि। ऐव वेद्यन्ताद् धावेयुर् इति। अथो आहू रथोपस्थ एव पादम् आधाय तं पुनर् एव हरेत्। तद् एव सृतं चासृतं चेति। तद् उ वा आहुर् धावयेयुर् एव। रथन्तरेण वै दैव्यम् आजिम् उज्जयति, रथेन मानुषम्। तस्माद् धावयेयुर् एवैतयोर् आज्योर् उज्जित्या इति। ब्रह्मा रथचक्र आसीनस् सामभिर् गायत्य् अग्म वाजं वाजिन इति. त आ वाजं वाजिनो ऽग्मन्न् इति। अमृतो ऽन्नं वै वाजो ऽन्नाद्यस्यैवावरुद्ध्यै। वर्तमाने गायति। वर्तमानो हि तत्र गच्छति यत्र जिगमिषति। वयश्वो ददाति। वयश्वो वा इदं विहितम्। प्रजापतेर् वा इदं सर्वम्। प्राजापत्य एष यज्ञः, प्रजापतेर् एवाप्त्यै। वयसो वयसस् सप्तदश सप्तदश ददाति। सप्तदशो वै प्रजापतिः। प्राजापत्य एष यज्ञः। प्रजापतेर् एवाप्त्यै। तस्यानिरुक्तं प्रातस्सवनं भवति। अनिरुक्तो वै प्रजापतिः। प्राजापत्य एष यज्ञः। प्राजपतेर् एवाप्त्यै। वाजवन् माध्यंदिनं सवनम्। वाजपेयो ह्य् एषः। चित्रवत् तृतीयसवनम्। चित्रतमो ह्य् एष यज्ञः। उच्चा ते जातम् अन्धसेति माध्यंदिनस्य पवमानस्य अन्धस्वतीर् गायत्र्यो भवन्ति। अन्नं वा अन्धः। तद् एनं तत् सुष्वाणम् एव पवमानमुखे अन्नाद्येन समृद्धयन्ति
तासु गायत्रम् उक्तब्राह्मणम्। अथामहीयवम्। प्रजापतेर् वा आमहीयवम्। प्राजापत्य एष यज्ञः। प्रजापतेर् एवाप्त्यै। अथ सैन्धुक्षितं क्षत्रसाम। क्षत्रेणाभिषिच्यमानो ऽभिषिच्याता इति। अथाभीकम् अभिषिक्त्यै रूपम्। पुनानस् सोम धारयेत्य् उभयरूपा बृहती भवति। एषा उभयसामनी उद्ययामस् तस्माद् एताम्। कुर्वन्त्य् एव बृहत्साम्नः कुर्वन्ति रथन्तरसाम्नः। तासु रौरवं प्रज्ञातम् अग्निष्टोमसाम। प्रज्ञातम् अग्निष्टोमसाम नेद् अन्तरयामेत्य् अथ वाजजिद् - अन्नं वै वाजो - ऽन्नाद्यस्यैवावरुद्ध्यै। अथ दैर्घश्रवसम् - अन्नं वै दैर्घश्रवसम् - अन्नाद्यस्यैवावरुद्ध्यै। अथार्कपुष्पम् - अन्नं वा अर्को - ऽन्नाद्यस्यैवावरुद्ध्यै। अथ समन्तम्। समन्तैनं श्रीर् असद् इति। अथ यौधाजयं त्रिणिधनं सवनानां क्लृप्त्यै। अथौशनम् अन्त्यं साम, अन्त्येन साम्नान्त्यं स्वर्गं लोकम् अश्नवाता इति। अथ रथन्तरम्। ब्रह्म वै रथन्तरम्। ब्रह्मसव एषः। ब्रह्मणाभिषिच्यमानो ऽभिषिच्याता इति। अथ वामदेव्यं शिवं शान्तं सुष्वाणम् अनुवर्तता इति। अथो पशवो वै वामदेव्यं, पशूनाम् एवावरुद्ध्यै। अथ नौधसं प्रज्ञातं ब्रह्मसाम। प्रज्ञातं ब्रह्मसाम नेद् अन्तरयामेति। अथ कालेयं कं सुष्वाणायासद् इत। अथो कालं सुष्वाणो ऽश्नवाता इत्य् अथो तं कालयातं यो ऽस्य काल्यो ऽसद् इति। यस् ते मदो वरेण्य इत्य् आर्भवस्य पवमानस्यान्धस्वतीर् गायत्र्यो भवन्ति। अन्नं वा अन्धः। तद् एनं तत् सुष्वाणम् एव पवमानमुखे ऽन्नाद्येन समृद्धयन्ति
तासु गायत्रम् उक्तब्राह्मणम्। अथो संहितम्। ब्रह्म वै संहितम्। ब्रह्मसव एषः। ब्रह्मणाभिषिच्यमानो ऽभिषिच्याता इति। अथ वाजदावर्य्यः। अन्नं वाजः। अन्नदावर्य्य एता अन्नाद्यस्यैवावरुद्ध्यै। अथ वारवन्तीयं, वारितैनं श्रीर् उपतिष्ठाता इति। अथो पशवो वै वारवन्तीयम्। पशूनाम् एवावरुद्ध्यै। अथ सभम्। सभमविभं सुष्वाणायासद् इति। अथो सभं सुष्वावो ऽश्नवाति इति। अथ श्रुधीयं कीर्तिमत् साम। पुण्यैनं कीर्तिर् उत्तस्थिवांसम् अनूत्तिष्ठाद् इति। पुरोजिती वो अन्धस इत्य् अन्धस्वतीर् अनुष्टुभो भवन्ति। अन्नं वा अन्धः। तद् एनं तत् सुष्वाणाम् एवान्नाद्येन समृद्धयन्ति। तासु नानदम्। षोडशी ह्य् अत्रापि क्रियते। अथ विशोविशीयं क्षत्रसाम, क्षत्रेणाभिषिच्यमानो ऽभिषिच्याता इति। अथो अयं सुष्वाणो विशः। विशो राजासद् इति। अथ श्यावाश्वं स्वर्ग्यं स्वर्गस्य लोकस्य समष्ट्यै। अथान्धीगवम् - अन्नं वा आन्धीगवम् - अन्नाद्यस्यैवावरुद्ध्यै। अथ कावं, कं सुष्वाणायासद् इति। अथो कावं सुष्वाणो ऽश्नवाता इति। अथ यज्ञायज्ञीयं प्रज्ञातम् अग्निष्टोमसाम। प्रज्ञातम् अग्निष्टोमसाम नेद् अन्तरायेमेत्य् अथो ज्यैष्ठ्यम्। (ज्यैष्ठयं) वै यज्ञायज्ञीयम् । ज्यैष्ठ्य एवैनं तत् प्रतिष्ठापयति। अथ साकमश्वं स्वर्ग्यं साम, स्वर्गस्य लोकस्य समष्ट्यै। अथ सौभरं बृहतस् तेजः। सतेजस्केन नो बृहता स्तुतम् असद् इति। अथ नार्मेधम् अतिरात्रसामातिरात्रसाम नेद् अन्तरयामेति। अथो पशवो वै नार्मेधं, पशूनाम् एवावरुद्ध्यै। अथ षोडशी, यत् षोडशिनि कामस् स म उपाप्तो ऽसद् इति। अथ बृहच् छिपिविष्टवतीषु भवति। मनो वै बृहत्। मनः प्रजापतिः। सप्दशम् एतत् स्तोत्राणां भवति। सप्तदश एष स्तोमः। प्रजापतिर् वै सप्तदशः। प्रजापति स्वर्गो लोकः। श्रीस्तत्। एनं तत् प्रजापताव् एव स्वर्गे लोके श्रियाम् अन्ततः प्रतिष्ठापयन्ति
अथैष राजसूयः। वरुणो वा अकामयत - सर्वेषां देवानां राज्याय सूयेयेति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै सर्वेषां देवानां राज्यायासूयत। सूयते स्वानां श्रेष्ठतायै य एवं वेद। तस्य चतुस्त्रिंशाः पवमाना भवन्ति। स्वराड् वै देवलोकः। स्वाराज्यम् उ चतुस्त्रिंशी। तद् एनं तत् सुष्वाणम् एव पवमानमुखे स्वाराज्येन लोकेन समृद्धयन्ति। अनुष्टुप् प्रतिपद् भवति। वाग् वा अनुष्टुप्। क्षत्रम् उ वै वाक्। क्षत्रेणाभिषिच्यमानो ऽभिषिच्याता इति। अथैताः पंच संभार्या नानादेवत्या भवन्ति। पञ्चानां ह वै पुरुषाणां राज्यायाभिषिच्यमानो ऽभिषिच्यते - राज्ञे राजन्याय सूताय ग्रामण्ये शूद्राय दासाय। उद् अतस् त्रिवृतं स्तोमं हरन्त्य् उद् आग्नेयीं संभार्याभ्यः। तस्माद् ब्राह्मण्यो राजन्यस्याज्येयो ऽमार्यो ऽदण्ड्यो ऽघात्यः। यद् अत्र त्रिवृतं स्तोमं कुर्युर् उद् आग्नेयीं संभार्यास्व् अब्रह्मज्य एव राजन्यो ब्राह्मणाञ् जिनीयाद् अभ्रूणह्त्यै मारयात्
तद् आहुर् नैतद् राजभ्यो वेदयेत। यथा वै श्रेष्ठी कामयते तथा करोति। यस् स ब्रूयात् - त्रिवृतम् एव स्तोमं कुरुताग्नेयीं संभार्यास्व् इत्य् अब्रह्मज्य एव राजन्यो ब्राह्मणाञ् जिनीयाद् अभ्रूणह्त्यै मारयात्। तद् उ वा आहुर् य एवैतद् राजभ्यो वेदयेत तम् एवाब्रह्मज्यो जिनीयात्। तम् अभ्रूणह्त्यै मारयाद् इति। तद् आहुर् यन्ति वा एते प्राणेभ्यो ये त्रिवृत स्तोमाद् यन्तीति। त्रिवृताग्निष्टोमेन पुरस्ताद् यजेत। प्राणो वै त्रिवृतः। तेनैव प्राणेभ्यो न यन्ति। ब्रह्म पुरस्ताद् उ क्षत्रं सूयते। अथो आहुर् अपचितिर् इति यज्ञक्रतुः। तेनैव यजेतेति। तस्य यद् द्वे त्रिवृती स्तोत्रे भवतस् तेनैव प्राणेभ्यो न यन्ति। अपचितिम् उ सुष्वाणो ऽश्नुते। तद् उ वा आहुर् यद् एवैषा वायव्या प्रतिपद् भवति - प्राणो वै वायुः - प्राणैर् एव तत् समृध्यन्ते। वायो शुक्रो अयामि त इति शुक्रवती भवति। ज्योतिर् इव ह वा एषो ऽन्येषु मनुष्येष्व् अतिभाति यस् सूयते यं सुष्वाणो ज्योतिर् इवासद् इति। मध्वो अग्रं दिविष्टिष्व् इति तद् एतन् मधव्यम् एवाग्र्यं कुर्वन्ति। आ याहि सोमपीतय इति सौमी। तेन पावमानी क्रियते। स्पार्हो देव नियुत्वतेति। क्षत्रं वै स्पार्हः। विशो नियुत्वतीः. क्षत्रायैव तद् विशम् अनु वर्त्मानं कुर्वन्ति। तस्मात् क्षत्रस्य विड् अनु वर्त्मा
अथैते सरस्वतश् च सरस्वत्याश् च। एतद् वै दैव्यं मिथुनं प्रजननं यत् सरस्वांश् च सरस्वती च। दैव्येन मिथुने प्रजाया इति। तद् आहुः पुंसः पूर्वा कार्या स्त्रिय उत्तराः। तथा सुष्वाणस्यानपगद्भ्यो राजपुत्र आजायत इति। तद् उ वा आहुर् वायुर् वै रेतोधाः , प्रजननं सरस्वती। तौ सरस्वन्तं मिथुनात् प्रजनयतः। अथो वाशिता वै पूर्वा धावत्य् अन्वम् ऋषभः। सरस्वत्या एव पूर्वा कार्येति। एतद् उ हैतत् सरस्वतस् त्व् एव पूर्वा कार्या। अथ ब्राह्मणस्पत्या, ब्रह्मण्य क्षत्रं सूयाता इति। अथ सावित्री, सवितृप्रसूत सूयाता इति। अथैते उभे प्रतिपदौ भवतः। उभे ह्य् अत्र सामनी क्रियेते। अभिवन् नवर्च भवत्य् अभिषिक्त्यै रूपम्। अथो तेनैव त्रिवृत स्तोमान् न यन्ति। सवत् षडृचं भवति। सामानं वदन्तीभिस् सूयाता इति। वृषण्वद् भवति। अयं वृषाभिषिच्यमानो ऽभिषिच्याता इति। चतुरृचं भवति - चतुष्पदां पशूनाम् अवरुद्ध्यै। परोक्षं द्विपदा भवन्ति, द्विपदां पशूनाम् अवरुद्ध्यै। पर्यासो भवति - यः पर्यासे कामस् स मा उपाप्तो ऽसद् इति
अध क्षपा परिष्कृत इत्य् अनुष्टुब् अन्त्या भवति। स ह वा उद्गाता राजानं राजसूयेन याजयेद् य एनं बहिष्पवमान एव देवानां देवासन्दीम् आरोहयेत्। अनुष्टुप् प्रतिपद् भवति अनुष्टुब् अन्त्या। तयोश् चतुष्षष्टिर् अक्षराणि। ततो यानि षष्टिर् आसन्दी सा। अथ यानि चत्वार्य् आसन्दीपादास् ते। एतद् वै राजानम् उद्गाता बहिष्पवमान एव देवानां देवासन्दीम् आरोहयति। उभयान्य् आज्यानि भवन्ति। उभे ह्य् अत्र सामनी क्रियेते। तद् आहुर् अन्यतराण्य् एव कार्याणि यान्य् एव बार्हतानि। विड् - भाजनानि वा आजान्य् अपि वाजिन्या विशः क्षत्रं सूयाता इति। तद् उ वा आहुर् उभयान्य् एव कार्याणि। सर्वेषां वै राज्यायाभिषिच्यमानो ऽभिषिच्यते। तस्माद् उभयान्य् एव कार्याणीति। तानि पञ्चदशानि भवन्ति - क्षत्रं वै पञ्चदशः - क्षत्रेणाभिषिच्यमानो ऽभिषिच्याता इति
अवभृथाद् उदेयुषे द्वादशपुष्करां स्रजं प्रतिमुञ्चति। आपो वै दैवानां पत्नय आसन्। ता मिथुनम् ऐच्छन्त। ता देवा उपायन्। ता गर्भम् अदधत। ततः पुष्कराण्य् अजायन्त। सत्यं वा आपः। सत्यं दीक्षा। सत्यस्यैव तत् सत्यं यत् पुष्कराणि। सत्यस्यैवास्मै तत् सत्येन तपो दीक्षां प्रतिमुञ्चति। सा द्वादशपुष्करा भवति। द्वादश मासास् संवत्सरः। संवत्सरो यज्ञः। यज्ञम् एवास्मिंस् तत् प्रतिमुञ्चति। अथो आहुस् सप्तपुष्करैव स्याद् इति। सप्त वै छन्दांसि। छन्दोभिर् यज्ञस् तायते। यज्ञम् एवास्मिंस् तत् प्रतिमुञ्चति। अथो आहुष् षट्पुष्करैव स्याद् इति। षड् वा ऋतवस् संवत्सरः। संवत्सरो यज्ञः। यज्ञम् एवास्मिंस् तत् प्रतिमुञ्चति। अथो आहुः पञ्चपुष्करैव स्याद् इति। पांक्तो यज्ञः। पांक्ताः पशवः। पशवो यज्ञः। यज्ञम् एवास्मिंस् तत् प्रतिमुञ्चति। अथो आहुश् चतुष्पुष्करैव स्याद् इति। चतस्रो दिशः। चतुष्पदाः पशवः। पशवो यज्ञः। यज्ञम् एवास्मिंस् तत् प्रतिमुञ्चति। अथो आहुस् त्रिपुष्करैव स्याद् इति. त्रिषवणो यज्ञः। यज्ञम् एवास्मिंस् तत् प्रतिमुञ्चति। तद् उ वा आहुर् द्वादशपुष्करैव स्याद् इति। द्वादशसु वावैतानि सर्वाणि। तस्माद् द्वादशपुष्करैव स्याद् इति
अथैतास् संसृप इष्टयो भवन्ति। वरुणस्य ह वै सुष्वाणस्य षोडशतयैर् आपो भर्गं निरघ्नन्। तद् इमां दशम् अपतत्। तच् चतुर्धाभवद् - भृगुस् तुरीयं सरस्वती तुरीयं दशपेयस् तुरीयं श्रायन्तीयं तुरीयम्। तस्माद् एतस्य यज्ञस्य भार्गवो होता भवति, सरस्वतीर् आपो ऽभिषेचनीया, दशपेयो यज्ञ, श्रायन्तीयं ब्रह्मसाम। ते देवा अब्रुवन्न् एतेदं भर्गम् अनुविन्दामेति। त एतास् संसृप इष्टीर् अपश्यन्। ताभिर् एनद् अनु समसर्पन्। यद् अनु समसर्पंस् तत् संसृपां संसृप्त्वम्। तद् विष्णुनैव देवतया दशम्याम् अन्वविन्दन्। तस्माद् एतस्य यज्ञस्य वैष्णवं दशमं हविर् निरूप्यते। दशम्यां ह्य् अन्वविन्दन्। दशमीं प्रसृतो भवति। दशम्यां ह्य् अन्वविन्दन्। दश चमसा भवन्ति। दशम्यां ह्य् अन्वविन्दन्। दश दश चमसम् अनु प्रसृप्ता भवन्ति। दशम्यां ह्य् अन्वविन्दन्। यो दशपुरुषं सोमपीथाद् अव्यवच्छिन्नस् स भक्षस्य कर्ता। दशम्यां ह्य् अन्वविन्दन्। तद् अनुविद्याग्निना पर्यैन्धत। मरुतो यं श्रायन्तीयेनैनद् अश्रीणंस्, तच् छ्रायन्तीयस्य श्रीयन्तीयत्वम्। तस्य यज्ञायज्ञीयस्यर्क्षु बहिष्पवमानं भवति। अग्निर् वै यज्ञायज्ञीयस्यर्चः। अग्निनैवैनत् तत् परीन्धते
श्रायन्तीयं ब्रह्मसाम। सम् एवैनत् तच् छ्रीणन्ति। यज्ञायज्ञीयम् अनुष्टुप्सु प्रोहन्ति। वाग् वै यज्ञायज्ञीयम्। वाग् अनुष्टुप्। वाचैवैनत् तत् समृद्धयन्ति। वारवन्तीयम् अग्निष्टोमसाम। इन्द्रियं वै वीर्यं वारवन्तीयम्। इन्द्रियेणैवैनत् तद् वीर्येण समृद्धयन्ति। सप्तदशस्तोमो भवति - प्रजापतिर् वै सप्तदशः। प्रजापतिर् नष्टस्यानुवेत्ता - स यो नष्टस्यानुवेत्ता तेनेदं भर्गम् अनुविन्दामेति। अग्निष्टोमो यज्ञस् - संवत्सरो वा एष यद् अग्निष्टोमस् - संवत्सरेणैवैनांस् तत् परिगृह्यात्मस्व् अदधत। तस्मिन्न् एता यथारूपं दक्षिणा नीयन्ते - स्रग् उद्गातू, रुक्मो होतुः, प्राकाशाव् अध्वर्योर्, द्वादश पष्ठौहीर् ब्रह्मणे, धेनुर् मैत्रावरुणाय, ऋषभो ब्राह्मणाच्छंसिने, वाससी नेष्टापोत्रो, स्थूर यवाचितम् अच्छावाकाय, अनड्वान् अग्नीधः। तद् यत् स्रग् उद्गातुर् भवति - सौर्या वै स्रक् - सौर्य उद्गाता तत् तत्सलक्ष्म क्रियते
सा पटरणी भवति। पटरीव ह्य् असाव् आदित्यः। अथ यद् रुक्मो होतुर् भवति, त्रीणि वा एतानि सम्यञ्चि सन्धीयन्ते। रुक्म आहवनीयो ऽसाव् आदित्यः। तद् यद् एतानि सम्यञ्चि सन्धीयन्ते समृद्ध्या एव। सम् अस्मा ऋध्यते य एवं वेद। अथ यत् प्राकाशाव् अध्वर्योर् भवतो रूपेणेन्तताम् आह्वयन्तीति वा आहुः। अथो यद् एव तौ प्रकाशैव चरतस् तत् तत्सलक्ष्म क्रियते। अथ यद् द्वादश पष्ठौहीर् ब्रह्मणे भवन्ति - प्रजननं वै पष्ठौहीः - प्रजननं ब्रह्मा तत् तत्सलक्ष्म क्रियते। अथ यद् धेनुर् मैत्रावरुणाय भवति - पयस्या वै धेनुः - पयस्याभाजसौ मित्रावरुणौ तत् तत्सलक्ष्म क्रियते। अथ यद् ऋषभो ब्राह्मणाच्छंसिने भवत्य् - ऐन्द्रो वै ब्राह्मणाच्छंस्य् - ऐन्द्र ऋषभस् तत् तत्सलक्ष्म क्रियते। अथ यद् वाससी नेष्टापोत्रोर् भवतो - मारुते वै वाससी - मारुतौ नेष्टापोतारौ तत् तत्सलक्ष्म क्रियते। अथो भूमा वै मरुतो, भूमा तन्तुभिर् वासः। अथ यत् स्थूर् यवाचितम् अच्छावाकाय भवति, धीतेव ह वा एषा होत्रायातयाम्नी यद् अच्छावाकीया। ताम् एतैर् एव यवैर् आप्याययन्ति। तत् स्थूरि भवति क्षेमस्य रूपम्। होत्रा अनुविमुच्यान्ता इति। अथ यद् अनड्वान् अग्नीधे भवति - वहति वा अनड्वान्, वह्त्य अग्निर् देवेभ्यो हविस् - तत् तत्सलक्ष्म क्रियते। तद् यद् एता यथारूपं दक्षिणा नीयन्ते समृद्ध्या एव। सम् अस्मा ऋध्यते य एवं वेद
अवभृथाद् उदेत्य श्मश्रूण्य् एव वपते न केशान्। श्रीर् वै शिरः। शिर उ ह वै सुष्वाणस्य श्रीर् गच्छति। स यत् पुरा संवत्सरात् केशान् वपेत श्रियम् एव वपेत न केशान्। अथ यद् उपरिष्टात् संवत्सरस्य केशान् वपते संवत्सरेणैव तद् आत्मन् श्रियं परिगृह्य केशान् एव वपते, न श्रियम्। तस्माद् उपरिष्टाद् एव वपेत। सो ऽतिरात्रो भवति। एतद् वै केशानां रूपं यद् अतिरात्रः। ये शुक्ला अह्नस् ते रूपं, ये कृष्णा रात्र्ये ते। तस्माद् अतिरात्रो भवति। तस्यैते प्रतिलोमा भवन्ति। तदा श्रेयांसं वा एषो ऽभ्यारोहति यस् सूयत इति। तस्यैकविंशं प्रातस्सवनं भति। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। एष वै वरुणः। वरुणसव एष एतर्ह्य् अभ्यारोहति यो वै श्रेयांसम् अभ्यारुह्याथास्मै न निह्नुते। यया वै स तम् आर्त्या कामयते तयैनं निह्नोति। तद् यद् एते प्रतिलोमा स्तोमा भवन्ति निह्नवाना एवैतद् अपविजानानाः पुनर् अर्वाञ्च स्तोमा आयन्ति। यो वै श्रेयांसम् अभ्यारुह्याथास्मै निह्नुते व्येहि मापक्रमीर् इति वै स तम् आह तद् यद् आश्विनाः क्रतवः पुनर् ऊर्ध्वा उद्यन्ति यथा निह्नवानं ब्रूयाद् व्येहि मापक्रमीर् इति तादृक् तत्। तस्य रथन्तरं माध्यंदिने भवति। इयं वै रथन्तरम्। अस्याम् एवैतत् प्रतितिष्ठति
अथैष द्विरात्रः। प्रजाकामो हैतेन यजेत। तस्योभये स्तोमा भवन्त्य्, अयुजश् च युग्मन्तश् च - एतद् वै दैव्यं मिथुनं प्रजननं यद् उभये स्तोमास् - तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति। तस्योभे बृहद्रथन्तरे सामनी भवत - एतद् वै दैव्यं मिथुनं प्रजननं यद् उभे बृहद्रथन्तरे - तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रनयताद् इति। तस्य पञ्चविंशं ब्रह्मसाम भवति। पुरुषो वै पञ्चविंशः। यजमानकामो वा एष यद् ब्रह्मसाम। प्रजाम् एव तत् पुरुषतां गमयति। तस्य सप्त च शतानि विंशतिश् च स्तोत्र्या भवन्ति। तावन्तस् संवत्सरस्याहोरात्राः। अहोरात्रा वा इदं सर्वं प्रजनयन्ति। ते य इदं सर्वं प्रजनयन्ति ते य इदं सर्वं प्रजनयन्ति ते मा प्रजनयाद् इति
अथैष त्रिष्टोमो ऽग्निष्टोमः। प्रतिष्ठाकामो हैतम् आहरेत। तद् आहुः प्रेव वा एषो ऽस्माल् लोकाच् च्यवते यस् सूयत इति। तद् यत् त्रिष्टोमो भवति - त्रयो वा इमे लोका - एष्व् एव तल् लोकेषु प्रतितिष्ठति। अथो हैष धृतिर् एव नाम यज्ञक्रतुः। तस्य रथन्तरं पृष्ठं भवति। तेन हैतेनाभिप्रतारणो राजा नेजे। द्विरात्रान्तं हैव चक्रे। तम् उ ह ब्राह्मण उवाच परा कुरवः कुरुक्षेत्रं जेष्यन्ते। प्रजाम् एवाहरत, न क्षेत्राणीति। त एते कुरवः कुरुक्षेत्रं पराजित्य चरन्ति, सल्वा एते कुरुक्षेत्रे। स वा एष क्षेत्राणाम् एव धृत्वा ह्रियते यत् त्रिष्टोमो ऽग्निष्टोमः
अथैते नाकसदः। स्वर्गं ह वै लोकं देवा अभ्यारुरुहुः। ते स्वर्गं लोकं गत्वा सार्धम् एवाव्यवसिता आसन्। ते ऽकामयन्त नाके स्वर्गे लोके व्यवस्येमेति। त एतान् नाकसद स्तोमान् अपश्यन्। तान् आहरन्त। तैर् अयजन्त। ततो वै ते नाके स्वर्गे लोके व्यवास्यन्। यन् नाके स्वर्गे लोके व्यवास्यंस् तन् नाकसदां नाकसत्त्वम्। वि ह वै नाके स्वर्गे लोके वस्यति य एवं वेदेति ह स्माह जानश्रुतेयः। अथ ह स्माह वैतसव्यो(?) ऽस्मिन्न् एवाग्रे लोके प्रजापतिर् देवान् असृजतेति। अथ हेम ऊर्ध्वा लोकाः कृन्तत्राण्य् अवासुर् अरथयाना यथा वनाकक्षा एवम् अप्रैताः। ते देवा अकामयन्त स्वर्गं लोकम् इयामेति
ते वसवः प्रथम आयन्। ते त्रिभिर् एव त्रिवृद्भिर् इमं लोकं प्रायुवन्न्, एकेन पंचदशेनान्ववास्यन्। त्रिभिर् एव त्रिवृद्भिर् इमम् अन्तरिक्षं लोकं प्रायुवन्। एकेन सप्तदशेनान्ववास्यन्। त्रिभिर् एव त्रिवृद्भिर् अमुं लोकं प्रायुवन्। एकेनैकविंशेनान्ववास्यन्। तद् यथा ह वै परशोस् तिग्म यथाग्निर् देवतानाम् एवम् एष यत् त्रिवृत् स्तोमः। तद् यथा परशुना पुरस्तात् संवृच्यन्न् इयाद् अग्निना पश्चात् समं कुर्वन्न्, एवम् एव तद् वसवस् त्रिवृता स्तोमेनेमान् लोकान् प्रायुवन्। तद् यद् इमान् लोकान् प्रायुवंस् तस्माद् उ हैते प्रयुतो नामापि स्तोमाः। तद् यथाग्निदग्धेषु गेवस्यन्न् इयाद् एवम् एव तद् वसव आयन्। तस्मात् ते परार्ध्या देवानाम्। ते हि प्रथम आयन्
अथ रुद्राः कृततरं पन्थानम् अपश्यन्। त एकेनैव त्रिवृतेमं लोकं प्रायुवन्। त्रिभिः पञ्चदशैर् अन्ववास्यन्। एकेनैव त्रिवृतेमम् अन्तरिक्षं लोकं प्रायुवन्। त्रिभिस् सप्तदशैर् अन्ववास्यन्। एकेनैव त्रिवृतामुं लोकं प्रायुवन्। त्रिभिर् एकविंशैर् अन्ववास्यन्। तद् यथा ह वै कृतस्य पथो यत् तत् त्रिविषमम्। तत् पश्चात् समं कुर्वन्न् एवम् एव तद् रुद्रा आयन्। अथादित्याश् चतुर्भिर् एव त्रिवृद्भिश् चतुर्भिः पञ्चदशैस् त्रिभिस् सप्तदशैस् त्रिभिर् एकविंशैर् विराट् स्वराजेन पृथग् एवायन्। त्रिणवेनैव मरुत आयन्। ओजो वै वीर्यम्। मरुत ओजो वीर्यम्। त्रिणवस् ते ऽत ओजसैव वीर्येणायन्। त्रयस्त्रिंशेनैव विश्वे देवा आयन्। ते स्वर्गं लोकं गत्वा सार्धम् एवाव्यवसिता आसन्। ते ऽकामयन्त वयम् अपि नाके स्वर्गे लोके सीदेमेति
त एतं विश्वे देवास् त्रयस्त्रिंशं स्तोमम् अपश्यन्। तम् आहरन्त। तद् आहुः कतमे विश्वे देवा इति। एता एव पञ्च देवतास् संपद्य एव विश्वे देवा भवन्तीति ह ब्रूयात्। त एतेन विश्वे देवास् त्रयस्त्रिंशेन स्तोमेन समयजन्त। तत् त्रयस्त्रिंशद् वै देवतास्, त्रयस्त्रिंशद् देवलोकाः. ततो वै ते नाके स्वर्गे लोके ऽसीदन्। ते ऽब्रुवन् न सदाम वै स्वर्गे लोके नाक इति। यद् अब्रुवन् न सदाम वै स्वर्गे लोके नाक इति तन् नाकसदां नाकसत्त्वम्। वि ह वै नाके स्वर्गे लोके सीदति य एवं वेद। तेषूभे उभेसामनी भवत, उभाभ्यां हि तत्र गच्छति यत्र जिगमिषति। तेषु यानि सुवर्निधनानि यानि ज्योतिर्निधनानि सामानि तान्य् अवकल्पयन्ति स्वर्ग्याणि, स्वर्गस्य लोकस्य समष्ट्या, अहोरूपाणां च समृद्ध्यै
अथैत ऋतुष्टोमाः। ऋतवो वा अकामयन्त समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयामावान्नाद्यं रुन्धीमहि, पुनर्नवाः पुनर्नवा स्यामेति। त एतान् यज्ञान् अपश्यन्। तान् आहरन्त। तैर् अयजन्त। स वसन्तः प्रथमो ऽयजत। स एतेनायजत। स एताम् एवर्द्धिम् आर्ध्नोद् एतद् अन्नाद्यम् अवारुन्द्धैतां पुनर्नवतां यैषा वसन्तस्य। अथ शिशिर ऐक्षत - येनैवेमे पूर्वा इष्ट्वारात्सुस् तेनो एवाहं यजा इति। स एतेनैवायजत। स एताम् एवर्द्धिम् आर्ध्नोद् एतद् अन्नाद्यम् अवारुन्द्धैतां पुनर्नवतां यैषा शिशिरस्य
शश्वद् धैषाम् एष एवर्द्धतमः। एतं ह्य् एव प्राप्य गोर् अश्वस्य पुरुषस्यैतम् एव रूपम् अभ्यवैति। तद् एतद् अनन्तं देवचक्रम् अक्षितं पुनर्नवम् आ च परा च परिवर्तते। स य एतद् एवं वेदैताम् एवानन्तताम् एताम् अक्षितिम् एतां पुनर्नवतां जयति। स यः कामयेत समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयामावान्नाद्यं रुन्धीय पुनर्नवः पुनर्नव स्याम् इति स एतैर् यजेत। स वसन्ते प्रथमेन यजेत। स एताम् एवर्द्धिम् ऋध्नोति एतद् अन्नाद्यम् अवरुन्द्ध एतां पुनर्नवतां यैषा वसन्तस्य। ग्रीष्मे द्वितीयेन यजेत। वर्षासु तृतीयेन यजेत। शरदि चतुर्थेन यजेत। हेमन् पञ्चमेन यजेत। शिशिरे षष्ठेन यजेत। स एताम् एवर्द्धिम् ऋध्नोत्य् एतद् अन्नाद्यम् अवरुन्द्ध एतां पुनर्नवतां यैषा शिशिरस्य
स हर्तूनाम् एवैको भवति। ऋतून् एवाप्येत्य् अक्षय्यं हास्याव्यवच्छिन्नं सुकृतं भवति। पुनर्नवो हैव सुकृतेनाप्यायमान एति। ते पञ्च स्तोत्र्या भवन्ति। यः पांक्तो यज्ञो, ये पांक्ताः पशवो, यत् पांक्तम् अन्नाद्यं, ये पंचर्तवो, यत् किं च पञ्च पञ्च तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः। तेषाम् उ एकैकस्य षष्टि षष्टि स्तोत्र्या भवन्ति। तावतीर् ऋतो रात्रयः। तेनर्तून् नातिष्टुवन्ति। तेषाम् उ सर्वेषां त्रीणि षष्टिशतानि स्तोत्र्या भवन्ति। तावतीस् संवत्सरस्य रात्रयः। रात्रिश एव तत् संवत्सरम् आप्नुवन्ति। तद् आहुः - पृष्ठान्य् एवोपेत्यानीति। पृष्ठाद् वाव पृष्ठम् उपेयात्। पृष्ठानि ह्य् ऋतव इति। स रथन्तरसामैव प्रथम स्याद् अथ बृहत्सामाथ वैरूपसामाथ वैराजसामाथ शक्वरीसामाथ रेवतीसामोत्तम स्याद् इति। तद् उ वा आहुर् दीक्षोपसद्भिस्सुत्यायै पृष्ठानि व्यवच्छिद्येरन्। यद् एवं कुर्युर् दूरे दूर इव वै पृष्ठान्य् उपयन्ति। पृष्ठं वाव पृष्ठम् अभिवोढुम् अर्हति। उपजो वा एषा बृहद्रथन्तरयोर् यद् एतानि सामानि। बृहद्रथन्तरे वै विच्छिन्नस्य यज्ञस्य सन्तत्यौ। तस्माद् बृहद्रथन्तराभ्याम् एव स्युर् इति। स रथन्तरसामैव प्रथम स्याद् अथ बृहत्सामाथ रथन्तरसामाथ बृहत्सामाथ रथन्तरसामाथ बृहत्सामोत्तम स्याद् इति। तेषु यान्य् ऋतुनिधनानि यान्य् ऋतुनिधनानि सामानि तान्य् अवकल्पयन्ति स्वर्ग्याणि, स्वर्गस्य लोकस्य समष्ट्या अहोरूपाणां च समृद्ध्यै
अथैते दिशां स्तोमाः। दिशो वा अकामयन्त - समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयाम प्रतितिष्ठेमानन्तं स्वर्गं लोकं जयेमेति। ता एतान् यज्ञान् अपश्यन्। तान् आहरन्त। तैर् अयजन्त। सेयं प्राची दिक् प्रथमायजत। सैतेनायजत। सैताम् एवर्द्धिम् आर्ध्नोद्, एतां प्रतिष्ठाम् एतम् अनन्तं स्वर्गं लोकम् अजयत्। स एष एतस्यानन्त स्वर्गो लोको जितः। स यो ह वा अपि बहून्य् एवाहानि प्राङ् इयान् नैवैतस्या अन्तं विन्देत्। अथेयम् ऊर्ध्वा दिग् ऐक्षत येनैवेमाः पूर्वा इष्ट्वारात्सुस् तेनो एवाहं यजा इति। सैतेनैवायजत। सैताम् एवर्द्धिम् आर्ध्नोद् एतां प्रतिष्ठाम् एतम् अनन्तं स्वर्गं लोकम् अजयत्। स एष एतस्यानन्त स्वर्गो लोको जितः। स यो ह वा अपि बहून्य् एवाहान्य् ऊर्ध्व इयान् नैवैतस्या अन्तं विन्देत्
तद् आहुः पृष्ठान्य् एवोपेत्यानीति। पृष्ठाद् वाव पृष्ठम् उपेयात्। पृष्ठानि हि दिश इति। स रथन्तरसामैव प्रथम स्याद् अथ बृहत्सामाथ वैरूपसामाथ वैराजसामाथ शक्वरीसामा च रेवतीसामा चोत्तम स्याद् इति। तद् उ वा आहुर् दीक्षोपसद्भिस् सुत्यायै पृष्ठानि व्यवच्छिद्येरन्। यद् एवं कुर्युर् दूरे दूर इव वै पृष्ठान्य् उपयन्ति। पृष्ठं वाव पृष्ठम् अभिवोढुम् अर्हति। उपजो वा एषा बृहद्रथन्तरयोर् यद् एतानि सामानि। बृहद्रथन्तरे वै विच्छिन्नस्य यज्ञस्य सन्तत्यौ तस्माद् बृहद्रथन्तराभ्याम् एव स्युर् इति। स रथन्तरसामैव प्रथम स्याद् अथ बृहत्सामाथ रथन्तरसामाथ बृहत्सामाथ रथन्तरसामा च बृहत्सामा चोत्तम स्याद् इति
त उ वै पंच पंचविंशा भवन्ति। ततो या विंशतिर् विराट् सा। अथ याश् चतस्र इमा एव ताश् चतस्रो दिशः। अथ या पञ्च पंचविंशीयम् एव सोर्ध्वा दिक्। दिशो ह वै दिवं दुह्रे, द्यौर् वा दिशो दुहे। प्र ह वै दिशां च दिवश् च दोहम् आप्नोति य एवं वेद। स यः कामयेत समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयां प्रतितिष्ठेयम् अनन्तं स्वर्गं लोकं जयेयम् इति स एतैर् यजेत। स ह महद् एवाभि देवयजनं जोषयेत। तत् पंच शालाः कर्तवै ब्रूयाद् इहैकाम् इहैकाम् इहैकाम् इहैकां मध्य एकाम्। सो ऽनेन रथन्तरसाम्ना यजेत। स एताम् एवर्द्धिम् ऋध्नोत्य् एतां प्रतिष्ठाम् एतम् अनन्तं स्वर्गं लोकं जयति। अथानेन बृहत्साम्ना यजेताथानेन रथन्तरसाम्ना यजेताथानेन बृहत्साम्ना यजेताथानेनोभयसाम्ना यजेत। स एताम् एवर्द्धिम् ऋध्नोत्य् एतां प्रतिष्ष्ठाम् एतम् अनन्तं स्वर्गं लोकं जयति। अथानेन बृहत्साम्ना यजेताथानेन रथन्तरसाम्ना यजेताथानेन बृहत्साम्ना यजेताथानेनोभयसाम्ना यजेत। स एताम् एवर्द्धिम् ऋध्नोत्य् एताम प्रतिष्ठाम् एतम् अनन्तं स्वर्गं लोकं जयति एताम् एव दिशम् अप्येति। स ह दिशाम् एवैको भवति दिश एवाप्येति। तस्यैषो ऽनन्त स्वर्गो लोको जितो भवति । य एष दिशां तेषु यानि दिङ्निधनानि यानि विण्णिधनानि सामानि तान्य् अवकल्पयन्ति स्वर्ग्याणि, स्वर्गस्य लोकस्य समष्ट्या अहोरूपाणां च समृद्ध्यै
अथैत ऋषिष्टोमाः। ऋषयो ह वै स्वर्गं लोकं जिग्युः श्रमेण तपसा व्रतचर्येण. ते ऽकामयन्त - प्रजा अस्मिन् लोके विदाय स्वर्गं लोकं गच्छेमेति। स वसिष्ठो ऽकामयत अग्र्या मे मुख्या प्रजा स्याद् इति। स एतं त्रिवृतं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। अग्रं वै मुखं त्रिवृत् स्तोमानाम्। ततो वै तस्याग्र्या मुख्या प्रजाभवत्। त एते अप्य् एतर्हि वसिष्ठाः कुरुष्व अग्र्याश् चैव मुख्याश् च मन्यन्ते। अग्र्यो मुख्यो भवति य एवं वेद। अथाकामयत भरद्वाज - ओजिष्ठा मे बलिष्ठा प्रजा स्याद् इति। स एतं पञ्चदशं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। ओजो वै बलं पञ्चदश स्तोमानाम्। ततो वै तस्यौजिष्ठा बलिष्ठा प्रजाभवत्। अपि ह स्म तेन पथा पुरा कुरवो न यन्ति येन भरद्वाजा ययुः। अथो ह स्मोत्क्रोशन्ति भारद्वाजबलम् इति। तस्माद् उ भारद्वाज एवानुज्ञातः सभायां दण्ड्यं प्रहरेत्। ओजिष्ठो बलिष्ठो भवति य एवं वेद
अथाकामयत जमदग्निर् भूमानं प्रजया पशुभिर् गच्छेयम् इति। स एतं सप्तदशं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। भूमा वै प्रजापतिः सप्तदश स्तोमानाम्। ततो वै स भूमानं प्रजया पशुभिर् अगच्छत्। भूमानम् एव प्रजया पशुभिर् गच्छति य एवं वेद। अथाकामयत गौतम - श्रद्धानीया मे प्रजा ब्रह्मवर्चसिनी स्याद् इति। स एतम् एकविंशंस्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। श्रद्धा वै ब्रह्मवर्चसम् एकविंश स्तोमानाम्। असौ हि स आदित्यः। ततो वै तस्य श्रद्धानीया ब्रह्मवर्चसिनी प्रजाभवत्। त इमे ऽप्य् एतर्हि गौतमा श्रद्धानीयाश् चैव ब्रह्मवर्चसिनश् च । श्रद्धानीयो ब्रह्मवर्चसी भवति य एवं वेद
अथाकामयतात्रिर् भूयिष्ठा म ऋषयः प्रजायाम् आजायेरन्न् इति। स एतं त्रिणवं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। तेजो वै त्रिणव स्तोमानाम्। ततो वै तस्य भूयिष्ठा ऋषयः प्रजायाम् आजायन्त - परस्सहस्रा हास्य प्रजायां मन्त्रकृत आसुर्, अपि हास्य स्त्रियो मन्त्रकृत आसुः। तस्माद् यो ऽप्य् आत्रेयीं स्त्रियं हन्ति, तं पर्य् एव चक्षते। तेजस्वी भवति य एवं वेद। अथाकामयत विश्वामित्रो - राज्यं मे प्रजा गच्छेद् इति। स एतं त्रयस्त्रिंशं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। क्षत्रं वै त्रयस्त्रिंश स्तोमानाम्. ततो वै तस्य राज्यं प्रजागच्छत्। अष्टको हास्य प्रजायाम् अभिषिषिचे। गच्छति राज्यं य एवं वेद। ततो वै ते प्रजा अस्मिन् लोके विदाय स्वर्गं लोकम् अगच्छन्। प्रजाम् एवास्मिन् लोके विधाय स्वर्गं लोकं गच्छति य एवं वेद
तद् उ वावागस्त्यः पश्चेवानुबुबुध - ऋषयो ह वा इमे प्रजा अस्मिन् लोके विधाय स्वर्गं लोकम् अग्मन्न् इति। सो ऽकामयताहम् अपि प्रजा अस्मिन् लोके विधाय स्वर्गं लोकम् अनुगच्छेयम् इति। स एतं षोडशं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। स्वर्गो लोकष् षोडश स्तोमानाम्। ततो वै स प्रजा अस्मिन् लोके विधाय स्वर्गं लोकम् अन्वगच्छत्। प्रजाम् एवास्मिन् लोके विधाय स्वर्गं लोकम् अनुगच्छति य एवं वेद। तस्माद् यद् आगस्त्यो ब्राह्मणान् प्राप्नोत्य् अनुचर इवैव भवति। अनुचर इव ह्य् एष स्तोमानां यत् षोडशः। तस्माद् व् अगस्तयो बहिर्धेव कुरुपाञ्चालेभ्यः। बहिर्धेव ह्य् एष स्तोमेभ्यो यत् षोडशः
अथैते व्रात्यस्तोमाः। दिव्या वै व्रात्या व्रात्याम् अधावयन् बुधेन स्थपतिना। त एते व्रात्या आर्छन्न् इमं वैव यो ऽयं पवत ईशानं वा देवम्। तान् यज्ञस्यार्त्याविध्यत्। ते स्वर्गं लोकं न प्राजानन्। ते ऽकामयन्त - प्र स्वर्गं लोकं जानीयामेति। ते प्रजापतिम् एवोपाधावन्। तेभ्य एतं व्रात्यस्तोमं यज्ञं व्यदधात्। तम् आहरन्। तेनायजन्त। ततो वै ते स्वर्गं लोकं प्राजानन्। मुह्यन्तीव वा एते ये व्रात्यां धावयन्ति। तद् यद् व्रात्यस्तोमेन यजन्ते स्वर्गस्यैव लोकस्यानुख्यात्यै। तस्य द्वात्रिंशाः पवमाना भवन्ति। द्वात्रिशदक्षरानुष्टुप्। वाग् अनुष्टुप्। वाचो वा एते व्यृध्यन्ते ये व्रात्यां धावयन्ति। तद् यद् द्वात्रिंशाः पवमानाः भवन्ति, वाचैव तत् समृध्यन्ते। अनुष्टुप् प्रतिपद् भवति। वाग् वा अनुष्टुप्। वाचो वा एते व्यृध्यन्ते, ये व्रात्यां धावयन्ति
वाचा ह्य् अपूतम् अमेध्यं वदन्ति। तेषाम् इन्द्रियं वीर्यं वाचो ऽपक्रामति। तद् यद् अनुष्टुप् प्रतिपद् भवति, अभिपूर्वम् एव तद् वाचा समृध्यन्ते। सो वा अर्बुदस्यर्क्षु भवति। अर्बुदो वै सर्प एताभिर् मृतां त्वचम् अपाहत। म्रियन्त इव वा एते ये व्रात्यां धावयन्ति। उत हि स्थविरतरस्यान्त आहनस्यं वदन्ति। मृताम् एवैताभिस् त्वचम् अपघ्नते
सो वा आग्नेयी भवति। अग्निर् वै लोकानां प्रज्ञपयिता। स यो लोकानां प्रज्ञपयिता स नो लोकान् प्रज्ञपयाद् इति। न हि ते अग्ने तन्वै क्रूरं विवेद मर्त्य इति यद् इह क्रूरम् अशान्तम् अचारिष्म तद् एतयापहनामहा इति। कपिर् बभस्ति तेजनं पुनर् जरायु गौर् इवेति पुनर् एवैतयापियन्ति। अग्ने विश्वेभिर् अग्निभिर् इति वैश्वाग्नम् आज्यं भवति। अग्नयो वै विश्वे देवाः। विश्वान् एव तेन देवान् अपियन्ति। तद् आनुष्टुभं भवति सवनमुखे - सवनमुखे वाचा समृध्यामहा इति। तत् त्रिवृद् भवति। ब्रह्म वै त्रिवृत्। ब्रह्मणो वा एते व्यृध्यन्ते ये व्रात्यां धावयन्ति। राजपुत्रा इति ह्य् एनान् आचक्षते। तद् यत् त्रिवृद् भवति ब्रह्मणैव तत् समृद्ध्यन्ते। पञ्चदशं मैत्रावरुणस्य। क्षत्रं वै पञ्चदशः। अपभ्रंशो ह वै ब्रह्मणः क्षत्रम्। क्षत्रेणैव तत् समृध्यन्ते। षोडशम् अच्छावाकस्य। इन्द्रियं वै वीर्यं षोडशी। इन्द्रियेणैव तद् वीर्येण समद्ध्यन्ते
अथैते उष्णिक्ककुभौ माध्यंदिनं सवनम् अभि प्रत्याहरन्ति। प्रजा वै छन्दसां उष्णिक्ककुभौ। तयोर् बृहतो मारुतस्य सामनी भवतः। द्यौताने वा देवसामे। छन्दांसि वै स्वर्गो लोकः। स यथा प्रियं पुत्रम् आरभ्य याचेत्, सखा वा सखायम् अनुसंविदम्, एवम् एवैतत् सर्वाणि छन्दांस्य आरभ्य मध्यतो वियन्ति। तयोर् अन्यतरस्यां ब्रह्मसाम। ब्रह्म वै ब्रह्मसाम। यजमानकामो वा एष यद् ब्रह्मसाम। स्व एव तद् आयतने यजमानं कामैस् समृद्धयन्ति। सप्तदशं होतुः पृष्ठं भवति। प्रजापतिर् वै सप्तदशः। प्रजापतिम् एवैतन् मध्यतो वियन्ति। एकविंशं मैत्रावरुणस्य। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। एतम् एवैतन् मध्यतो वियन्ति। त्रिणवं ब्राह्मणाच्छंसिनः। त्रिणवा इमे लोकाः। इमान् एवैतल् लोकान् मध्यतो वियन्ति। षोडशम् अच्छावाकस्य। इन्द्रियं वै वीर्यं षोडशी। इन्द्रियेणैव तद् वीर्येण समृध्यन्ते। षोडशम् उ एवादो ऽच्छावाकस्य। तद् द्वात्रिंशत्। द्वात्रिंशदक्षरानुष्टुप्। यो ऽनुष्टुभि कामस् स न उपाप्तो ऽसद् इति
अथैता नदं व ओदतीनाम् इत्य् उष्णिहाभाजनम् आर्भवे पवमाने क्रियन्ते। तास् सप्ताक्षरपदा भवन्ति। सप्त प्राणाः। प्राणैर् एव तत् समृध्यमाना यन्ति। प्राणेषु प्रतितिष्ठन्ति। उत ह्य् अहिंस्यं ब्राह्मणं हिंसन्ति श्रोत्रियं वा गृहमेधिनं वा । तद् यत् सप्ताक्षरपदा भवन्ति प्राणैर् एव तत् समृध्यन्ते। ताश् चतुष्पदा भवन्ति प्रतिष्ठायै। चतुष्पदीव प्रत्यष्ठाद् इति वा आहुः। सुप्रतिष्ठितं तास्व् अभीवर्तः। वाग् वा अभीवर्तः। वाचो वा एते व्यृध्यन्ते ये व्रात्यां धावयन्ति। तद् यद् अभीवर्तो भवति वाचैव तत् समृध्यन्ते। अग्न आ याह्य् अग्निभिर् इत्य् अग्निष्टोमसाम भवति। अग्नयो वै सर्वे देवाः। सर्वान् एव तेन देवान् अपियन्ति। तत् त्रयस्त्रिंशं भवति। त्रयस्त्रिंशद् वै सर्वा देवताः। सर्वास्व् एवैतद् देवतासु यज्ञस्यान्ततः प्रतितिष्ठन्ति
ताः केशिनीर् भवन्ति। ऊर्जो नपातं घृतकेशम् ईमहे ऽग्निं यज्ञेषु पूर्व्यम् इति केशैर् इव ह्य् एते चरन्ति। अथैष कुषीतगृहपतीनाम् एषीकपावानां षोडशपवमानः। इन्द्रियं वै वीर्यं षोडशी। आरभमाणा एवेन्द्रियेण वीर्येण समृध्यामहा इति। त्रीणि पञ्चदशान्य् आज्यानि भवन्ति। क्षत्रं वै पंचदशः। क्षत्रेणैव तत् समृध्यन्ते। षोडशम् अच्छावाकस्य। इन्द्रियं वै वीर्यं षोडशी। इन्द्रियेणैव तद् वीर्येण समृध्यन्ते। षोडशो माध्यंदिनः। द्वात्रिंशद् द्वात्रिंशदक्षरानुष्टुप्। यो ऽनुष्टुभि कामस् स न उपाप्तो ऽसद् इति। त्रीणि सप्तदशानि पृष्ठानि भवन्ति। प्रजापतिर् वै सप्तदशः। प्रजापतिनैव तत् समृध्यन्ते। षोडशम् अच्छावाकस्य। इन्द्रियं वै वीर्यं षोडशी। इन्द्रियेणैव तद् वीर्येण समृध्यन्ते। षोडश आर्भवः। तद् द्वात्रिंशद् द्वात्रिंशदक्षरानुष्टुप्। यो ऽनुष्टुभि कामस् स न उपाप्तो ऽसद् इति। एकविंशम् अग्निष्टोमसाम। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। एतस्य वा एते सलोकतां गचछन्ति एतम् अभ्यारोहन्ति
अथैष कनिष्ठानाम् अग्रकामाणाम्। तस्य त्रिवृतस् सतश् चतुर्विंशं बहिष्पवमानम्। ते ये कनिष्ठा अग्रकामा स्युस् त एतेन यजेरन्। तद् यत् त्रिवृतस् सतश् चतुर्विंशं बहिष्पवमानं भवति - चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरो वा अग्रं ज्यैष्ठ्यं - स यो ऽग्रं ज्यैष्ठ्यं स नो ऽग्रं ज्यैष्ठ्यं गमयाद् इति। स त्रिवृद् भवति। त्रिवृद् वै स्तोमानाम् अग्रं ज्यैष्ठयम्। स यो ऽग्रं ज्यैष्ठ्यं स नो ऽग्रं ज्यैष्ठ्यं गमयाद् इति। स गायत्रीषु भवति। गायत्री वै छन्दसाम् अग्रं ज्यैष्ठ्यम्। सा याग्रं ज्यैष्ठ्यं सा नो ऽग्रं ज्यैष्ठ्यं गमयाद् इति। तस्य रथन्तरं पृष्ठं भवति। रथन्तरं वै पृष्ठानाम् अग्रं ज्यैष्ठ्यम्। तद् यद् अग्रं ज्यैष्ठ्यं तन् नो ऽग्रं ज्यैष्ठ्यं गमयाद् इति। तस्य द्वादश स्तोत्राणि भवन्ति। द्वादश मासास् संवत्सरः। संवत्सरो वा अग्रं ज्यैष्ठ्यम्। स यो ऽग्रं ज्यैष्ठ्यं स नो ऽग्रं ज्यैष्ठ्यं गमयाद् इति। तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरो वा अग्रं ज्यैष्ठ्यम्। स यो ऽग्रं ज्यैष्ठ्यं स नो ऽग्रं ज्यैष्ठ्यं गमयाद् इति। गच्छन्ति ह कनिष्ठास् सन्तो ज्येष्ठताम्
अथैते चातुर्मास्याः। प्रजापतिः प्रजा असृजत। ता अस्य सृष्टाः पराभवन्। तद् इदं सरीसृपम् अभवद् यद् अन्यत् सर्पेभ्यः। स द्वितीया असृजत। ता अस्य परैवाभवन्। ते मत्स्या अभवन्। स तृतीया असृजत। ता अस्य परैवाभवन्। तानि वयांस्य् अभवन्। स ऐक्षत या इमास् त्रयीः प्रजा असृक्ष्य् ऋते ब्रह्मण ऋते ऽन्नाद्याद् ऋते यज्ञात् परा ता अभूवन्। हन्तो न्वैव ब्रह्मणो ऽन्नाद्याद् यज्ञात् प्रजास् सृजा इति। सो ऽन्नाद्यम् आत्मन्न् अधत्त्। तद् अभ्यस्तनयत्। तत् प्राक् प्रैषत्। तौ स्तनाव् अभवताम्। यद् अभ्यस्तनयत् तत् स्तनयो स्तनत्वम्। तद् अत्यक्षरत्। तत् क्षीरम् अभवत्। यद् अत्यक्षरत् तत् क्षीरस्य क्षीरत्वम्। व्रीहियवौ ह वाव स तद् आत्मन् दधे। तद् एतद् व्रीहियवयोः क्षीरम्। स ऐक्षतालं वै तस्मा अस्मि, सृजेयेत्, तद् अन्नं लभेत यत् सृजेय, हन्त सृजा इति
स एतांश् चातुर्मास्यान् यज्ञान् अपश्यत्। तान् आहरत। तैर् अयजत। तैर् इमाः प्रजा असृजत। या इमा स्तनवतीस् ताभ्यो ऽन्नाद्यं प्रायच्छत्। ता अस्यान्नवतीः प्रजा अभवन्। स यः कामयेत बहुः प्रजया पशुभिः प्रजायेयान्नवतीर् म इमाः प्रजा स्युर् इति स एतैर् यजेत। बहुर् एव प्रजया पशुभिः प्रजायते, ऽन्नवतीर् अस्य प्रजा भवन्ति। तद् एषाभ्यनूच्यते --
तिस्रो ह प्रजा अत्यायम् ईयुर्
न्य् अन्या अर्कम् अभितो विविश्युः।
बृहद् ध तस्थौ रजसो विमाने
पवमानो हरित आ विवेश॥
इति। तद् यद् आह तिस्रो ह प्रजा अत्यायम् ईयुर् इति या एव ताः प्रजा अत्यायम् आयंस् ता एव ताः। न्य् अन्या अर्कम् अभितो विविश्युर् इति - अग्निर् वा अर्कस् - तम् इमाः प्रजा अभितो विष्टाः। बृहद् ध तस्थौ रजसो विमाने पवमानो हरित आ विवेशेति। दिशो वै हरितः। ता अयं वायुः पवमान आविष्ट इति वाजसनेयः। अथैकादशाक्षी। तिस्रो ह प्रजा अत्यायम् ईयुर् इति। या एव ताः प्रजा अत्यायम् आयंस् ता एताः। न्य् अन्या अर्कम् अभितो विविश्युर् इत्य् - अन्नं वा अर्कस् - तद् इमाः प्रजा अभितो विष्टाः। बृहद् ध तस्थौ रजसो विमान इति। मनो वै बृहत्। तद् इदं रजसो विमाने मध्य आत्मनो हृदयं तत्। पवमानो हरित आ विविशेति। प्रजा वै हरितः। ता अयं प्राणः पवमान आविष्ट इति
सो ऽकामयत वैश्वदेवीः प्रजास् सृजेयेति। स एतं वैश्वदेवं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। तेन वैश्वदेवीः प्रजा असृजत। स यः कामयेत वैश्वदेवीः प्रजास् सृजेयेति स एतेन यजेत। वैश्वदेवीर् एव प्रजास् सृजते। स त्रिवृद् रथन्तरसामा भवति। ब्रह्म वै त्रिवृत्। ब्रह्म रथन्तरम्। ब्रह्मणा वा एनास् तद् असृजत। ब्रह्मणैव प्रजास् सृजते य एवं वेद। तस्याग्नेयश् च बार्हस्पत्यश् च पशू भवतः। ब्रह्म वा अग्निः। ब्रह्म बृहस्पतिः। ब्रह्मणा वा एनास् तद् अभिपूर्वम् असृजत। ब्रह्मणैवाभिपूर्वं प्रजास् सृजते य एवं वेद। तस्य मैत्रावरुण्य् अनूबन्ध्या भवति। मित्रो वै यज्ञस्य स्विष्टं गृह्णाति वरुणो दुरिष्टम्। तद् यन् मैत्रावरुण्य् अनूबन्ध्या भवति पुनर् एवास्मै मित्रो ददाति। स्विष्टम् अस्मै वरुणः करोति। द्यावापृथिव्योपालंभ्या भवति। द्यावापथिवी वा ऐक्षेतां यद् वा अयम् इदं सृजत आवं वा अयम् इदं प्रतिष्ठे पश्यन् सृजते हन्तास्मिन् भागधेयम् इच्छावहा इति। ते ऽस्मिन् भागधेयम् ऐच्छेताम्। ताभ्याम् एतां द्यावापृथिव्याम् उपालंभ्याम् अकल्पयत्। तद् यद् एता द्यावापृथिव्योपालंभ्या भवति द्यावापृथिवी एवैतेन भागधेयेन निरवदयन्त। आग्नेयः पशुर् - यज्ञो वा अग्निर् - नेद् यज्ञाद् अग्नेर् अयामेति
ता अस्य प्रजास् सृष्टा वरुणस्य यवम् आदन्। ता वरुणो वरुणपाशेनागृह्णात् स ऐक्षत - या अमूः पूर्वाः प्रजा असृक्षि परा ता अभूवन्। यदीमाः पराभवन्ति क्व ततो भवानि, हन्तैना अभितो ऽभिषज्यानीति। स एतौ द्विदिवौ वरुणप्रघासाव् अपश्यत्। ताव् आहरत। ताभ्याम् अयजत। ताभ्याम् एना वरुणीयाद् एनसो विमुञ्चत्। तद् यद् एतौ द्विदिवौ वरुणप्रघासौ भवतो वरुणीयाद् एवैताभ्याम् एनसः प्रजा मुञ्चति। मरुत्वती पूर्वस्याह्नः प्रतिपद् भवति। आग्नेयश् च मारुतश् च पशू। ता अस्य प्रजा वरुणगृहीता मरुतो रन्ध्र्या अन्वपातिनो व्यमिमथिषत। तद् यन् मरुत्वती प्रतिपद् भवति मरुत एवैतेन भागधेयेन निरवदयन्त। आग्नेयः पशुर् - यज्ञो वा अग्निर् - नेद् यज्ञाद् अग्नेर् अयामेति। कवत्य् उत्तरस्याह्नः प्रतिपद् भवति कायोपालंभ्या, आग्नेयश् च वारुणश्च पशू। तद् यत् कवती प्रतिपद् भवति कायोपालंभ्या - प्रजापतिर् वै कः - प्रजापतिम् एव तद् अन्ततः प्रीणन्ति। प्रजापतिर् वा ऐक्षत - कं वै प्रजाभ्यो ऽभूवम् कम् आत्मने ऽसानीति। स एताम् कवतीं प्रतिपदम् अपश्यत् कायाम् उपालंभ्याम्। ततो वै स कं प्रजाभ्यो ऽभवत् कम् आत्मने । कं हैव प्रजाभ्यो भवति कम् आत्मने य एवं वेद। आग्नेयः पशुर् - यज्ञो वा अग्निर् - नेद् यज्ञाद् अग्नेर् अयामेति
अथ यद् वारुणो ऽग्निर् वरुणताया एव। ता अस्य प्रजा वरुणान्मुमुचाना वृत्रः पाप्मा ऽगृह्णात्। स ऐक्षत - हन्तो न्वेवैना अतो ऽभिषज्यानीति। स एतांस् त्रिदिवान् साकमेधान् अपश्यत्। तान् आहरत। तैर् अयजत। तैर् एना वृत्रात् पाप्मनो ऽभिमुञ्चत्। तद् यद् एते त्रिदिवास् साकमेधा भवन्ति वृत्राद् एवैतैः पाप्मनः प्रजा मुञ्चति। ता अस्य प्रजा वृत्रात् पाप्मनो मुमुचानास् सर्वास् साकं समैधयन्त। यत् साकं समैधयन्त तत् साकमेधानां साकमेधत्वम्। साकं ह वै प्रजया पशुभिर् एधते य एवं वेद। अनीकवती प्रथमस्याह्नः प्रतिपद् भवति। आग्नेयः पशुः। अग्निना वा अनीकेनेन्द्रो वृत्रं पाप्मानम् अहन्। तद् यद् अनीकवती प्रतिपद् भवत्य् अग्निनानीकेन वृत्रं पाप्मानं हनानीति। अग्निनैवानीकेन द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य एवं वेद। क्रीडनी प्रतिपद् भवति यद् एव प्रजा वृत्रात् पाप्मनो मुमुचाना आक्रीडन्त तस्मात् क्रीडनी। अथो हेन्द्रो वृत्रं हनिष्यन् मरुत उवाच - परशुवधहस्ता माम् अभितः परिक्रीडत, स वीतभीर् वृत्रं पाप्मानं हनानीति। तम् उ ह मरुतः परशुवधहस्ता अभितः परिचिक्रीडुः। स ह वीतभीर् वृत्रं पाप्मानम् अहन्। वीतभीर् ह वै द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य एवं वेद। आग्नेयः पशुर् - यज्ञो वा अग्निर् - नेद् यज्ञाद् अग्नेर् अयामेति
अथ यद् ऐन्द्राग्नो - ब्रह्म वा अग्निः। क्षत्रम इन्द्रो - ब्रह्मणा च ह वाव स तत् क्षत्रेण च सयुग्भ्यां वृत्रं पाप्मानं हनानीति। ब्रह्मणा च हैव क्षत्रेण च सयुग्भ्यां द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य एवं वेद। वैश्वकर्मणी तृतीयस्याह्नः प्रतिपद् भवति। वैश्वकर्मण्य् उपालंभ्याग्नेयश् च माहेन्द्रश् च पशू। तद् यद् वैश्वकर्मणी तृतीयस्याह्नः प्रतिपद् भवति, वैश्वकर्मण्य् उपालंभ्या - प्रजापतिर् वै विश्वकर्मा - प्रजापतिम् एव तद् अन्ततः प्रीणन्ति। अथो यद् एव प्रजा वृत्रात् पाप्मनो मुमुचाना विश्वं कर्मोपाक्रमन्त तस्माद् वैश्वकर्मणी। आग्नेयः पशुर् - यज्ञो वा अग्निर् - नेद् यज्ञाद् अग्नेर् अयामेति
अथ यन् माहेन्द्रः। इन्द्रो ह वा एष पुरा वृत्रस्य वधाद् आस। स वृत्रं हत्वा महेन्द्रो ऽभवत्। भूयो ह्य् एव ज्यायसा कर्मणा ऽभ्यश्नुते। तस्माद् उ राजानं विजितिनम् आचक्षते महाराज इति। अथैष शुनासीर्यो, यद् वा इन्द्रस्य वृत्रं जघ्नुष इन्द्रियं वीर्यम् आसीत् तच् छुनम्। यत् संवत्सरस्य प्रजितस्य पयस् तत् सीरम्। तद् यद् इन्द्रस्य वृत्रं जघ्नुष इन्द्रियं वीर्यं, यत् संवत्सरस्य प्रजितस्य पयस्, तद् उभयम् अवरुन्धामहा इति। संवत्सरसद् ध खलु वा एष यश् चातुर्मास्ययाजी। तस्य शुनासीर्यं मे महाव्रतं भाजनम्। स यावत् संवत्सरेण महाव्रतवतावरुन्द्धे तावद् अवरुन्द्धे य एवं वेद। तस्य सौरी प्रतिपद् भवति, सौर्य् उपालंभ्या। असौ वा आदित्यः। सूर्य एष इन्द्रः। ऐन्द्रं महाव्रतं तत् तत्सलक्ष्म क्रियते। ऋतुषु ह खलु वा एष संवत्सरं स्वर्गं लोकम् अप्येति यश् चातुर्मास्ययाजी। स वसन्तम् एव प्रथमेनाह्नाप्येति, ग्रीष्मं द्वितीयेन, वर्षास् तृतीयेन, शरदं चतुर्थे, हेमन्तं पञ्चमेन, शिशिरं षष्ठेन। संवत्सरम् एव शुनासीर्येणाप्येति। स सर्वस्तोमो भवति। सर्वं हि तद् यत् सर्वस्तोमः। सर्वम् एवैतेनाप्येति। तस्य त्र्येणी शलली भवति, लौहायसः क्षुरः। स चतुर्षु चतुर्षु मास्सु केशान् परिवर्तयते ऽनन्ततायै - असौ वा आदित्यो ऽनन्तः। अनन्तो वा असौ भूत्वेदं सर्वम् अभ्यश्नुते - ऽनन्तो भूत्वेदं सर्वम् अभ्यश्नवा इति। अनन्तो भूत्वेदं सर्वम् अभ्यश्नवा इति
॥इत्य् एकाहं समाप्तम्॥
अहीनम्
अथैते द्विरात्राः। हविष्मांश् च वै हविष्कृच् चाङ्गिरसाव् आस्ताम्। ताव् अस्मिन् लोके स्त्रीचर्यम् प्रमत्तौ चरन्ताव् ऋषयो ऽङ्गिरसः पितरश् च पितामहाश् च सुकृतो हित्वा स्वर्गं लोकम् आयन्। तौ यदा सा चर्या परैद्, अथाकामयेतां - कथं न्व् इद् यत्र नाव् ऋषयो ऽङ्गिरसः पितरश्च पितामहाश् च सुकृत स्वर्गं लोकम् इतास् - तद् अनुगच्छेवेति। तौ तपो ऽतप्येताम्। ताव् एतद् द्विरात्रं यज्ञम् अपश्यताम्। तम् आहरेताम्। तेनायजेताम्। ततो वै तौ यत्रैनयोर् ऋषयो ऽङ्गिरसः पितरश् च पितामहाश् च सुकृत स्वर्गं लोकम् इता आसंस्, तम् अन्वगच्छताम्। स यः कामयेत - यत्र मे पितरश् च पितामहास् च सुकृत स्वर्गं लोकम् इता भवन्ति तम् एवानुगच्छति। अथो आहुर् यस्माद् एव श्रेयान् भ्रातृव्य स्यात् स एनेन यजेतेति। पूर्वप्रेत इव ह वा एष य श्रेयान्। पूर्वप्रेतान् इव वा एतेन तौ तान् आप्नुताम्। आप्त्वा श्रेयांसं वसीयान् आत्मना भवति। अथो आहुः प्रजाकाम एवैनेन यजेतेति। आत्मा वै पूर्वम् अहः प्रजोत्तरम्। आत्मानम् एव पूर्वेणाह्ना संस्कुरुते, प्रजाम् उत्तरेण
स दुष्षज इव ह खलु वा एष यज्ञक्रतुर् यद् द्विरात्रः। यदि ज्योतिर् अग्निष्टोमः पूर्वम् अहर् भवति सर्वस्तोमो ऽतिरात्र उत्तरं स्तोत्राणि विच्छिन्दन्ति। अथ यदि ज्योतिर् अग्निष्टोमः पूर्वम् अहर् भवति सर्वस्तोम उ एवातिरात्र उत्तरं स्तोत्राणि विच्छिन्दन्ति। अथ यदि ज्योतिर् उक्थ्यः पूर्वम् अहर् भवति सर्वस्तोम उ एवातिरात्र उत्तरं यज्ञमुखं छम्बट्कुर्वन्ति। तद् यज् ज्योतिर् भवति तेन यज्ञमुखं न छम्बट्कुर्वन्ति। अथ यद् उक्थ्यस् तेन स्तोत्राणि न विच्छिन्दन्ति। आप्त इव ह खलु वा एष यज्ञक्रतुर् यो विराजम् अभिसंपन्नः। स पुनर् आरंभ्यो भवति। तद् यद् उत्तरस्याह्नश् चतुर्विंशं बहिष्पवमानं भवति - चतुर्विशत्यर्धमासस् संवत्सरः। संवत्सरो यज्ञो - यज्ञम् एवैतद् यज्ञमुख आरभन्ते। अथो चतुर्विंशत्यक्षरा वै गायत्री। गायत्र्यो वा आप्तं यज्ञक्रतुं पुनस् तन्वते। नो ह्य् अन्या गायत्र्या आप्तं यज्ञक्रतुम् उद्यन्तुम् अर्हति। तद् आहुः कथं न चतुश्चत्वारिंशो नाष्टाचत्वारिंशो मुखं युग्मतां स्तोमानां भवितुम् अर्हति। कथं चतुर्विंश एवेति। स ब्रूयात् त्रिपदा वै गायत्री। तत् त्रिपदा प्रतिपद्यन्त इति। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा एषु प्रतिष्ठायोदृचम् अश्नवामहा इति
विच्छिन्न इव ह खलु वा एष यज्ञक्रतुर् यद् द्विरात्रः। गायत्रीं पूर्वम् अहस् संपद्यते त्रिष्टुभम् उत्तरम्। अथ क्व जगती चानुष्टुप् चेत्य् आहुः। गायत्रीं चैव पूर्वम् अहस् संपादयेत् त्रिष्टुभं च जगतीं चानुष्टुभं चोत्तरं छन्दसां सन्तत्या अव्यवच्छेदाय। उच्चा ते जातम् अन्धसेत्य् अन्धस्वतीर् भवत्य् अन्धस्वद् वै जगत्यै रूपं - तेन जगत्यै रूपान् न यन्ति। वैखानसं भवति जागतं साम। तेनैव जगत्यै रूपान् न यन्ति। द्वैगतं भवति। द्विहिंकारं भवति। द्विरात्ररूपं सामनी द्विरात्ररूपाद् एव तन् न यन्ति। ये द्वे सामनी तयोर् अन्यतरद् भवति - यथोभयापदी प्रतितिष्ठेत् तादृक् तत्। सुवर् ज्योतिर् भवति। सुवर् वै पूर्वम् अहर्, ज्योतिर् उत्तरम्, अह्नोर एव सन्तत्या अह्नोस् समारंभाय। हाविष्मत - हाविष्कृते स्वर्ग्ये सामनी, स्वर्गस्य लोकस्य समष्टयै। तद् आहुः क्षिप्रे सामनी यद् उभे कुर्युर् ईश्वरो यजमानं पुरायुषः प्रमथितोर् अनादृत्य हि ताव् इमं लोकम् अमुम् एव लोकम् अभिसंप्रैताम् इति। हाविष्मतम् एवोत्तरस्याह्न उक्थेषु ब्रह्मसाम कुर्युः। तथा सर्वम् आयुर् एति, गच्छति स्वर्गं लोकम्
अथ यस्यैतस्य ज्योतिर् उक्थ्यः पूर्वम् अहर् भवत्य् आयुर् अतिरात्र उत्तरम्, एतेनो हाभिप्रतारण ईजे राजा प्रजाकामश् च खलती च दैवोवाती अवचिच्छित्समानः। ततो वै सो ऽव खलतीदैवोवाती अच्छिंत्त। इमाम् इयतीं प्रजाम् अध्यगच्छत्। त्रीण्य् अन्यस्यातिरिच्यन्ते, द्वाभ्याम् अन्य ऊनः। त्रीणि तानि पुंसो ऽतिरिक्तानि यैस् स मिथुनेन प्रजनेन प्रजायते य एवं वेद। ता उभे स्तोत्र्यास् संपद्यन्ते सप्त च शतान्य् एकविंशतिश् च - तावन्ति संवत्सरस्याहोरात्राणि। अहोरात्रे वै कृत्स्नः प्रजापतिः - कृत्स्नं प्रजापतिम् ऋध्नवाम कृत्स्नो नः प्रजापतिर् उपेतो ऽसद् इति। अथ यैका स्तोत्र्यातिरिच्यते, यजमानलोको हैव सः। शश्वद् धैनं ब्राह्मण उवाच - नास्यापरः प्रजायाम् एतादृङ् वीरो नानाजनितोः। आत्मन एव लोकम् अकृत न प्रजाया, एकम् इमं ह्य् एव लोकम् अभ्युपागाद् इति
तद् धानुबुध्योवाच - यथादैवं त्यस्य प्रजाया अस्तु। खलती देवेदेवो ऽहं दैवोवाती अवाच्छैत्सीति। तथा हैनं ताव् अभितेपतुस् तथापि शुशुचतुः। तद् इदं तद् एव। इमे हाभिप्रतारणा इयन्तो, नो अपरस् तादृङ् वीर आजायते। अथ यस्यैतस्य त्रिवृत्पञ्चदशाभ्यां विपर्यासम्। पूर्वम् अहर् अग्निष्टोमो भवति। सर्वस्तोमो ऽतिरात्र उत्तरम्। प्रजननकामो हैतेन यजेत। त्रिवृत्पञ्चदशौ स्तोमौ भवत ऊनातिरिक्तौ मिथुनौ प्रजनी। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते। तत् तत्प्रजननं क्रियते। तस्य रथन्तरं पृष्ठं भवति। प्रजननं वै रथन्तरम्। तत् तत्प्रजननं क्रियते। तस्य द्वादश स्तोत्राणि भवन्ति। द्वादश मासास् संवत्सरः। संवत्सरः प्रजननम्। तत् तत्प्रजननं क्रियते। तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरः प्रजननम्। तत् तद् अभिपूर्वं प्रजननं क्रियते। प्र प्रजया पशुभिर् जायते य एवं वेद। सर्वस्तोमो ऽतिरात्रो भवति सर्वेषां लोकानाम अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति
अथ यस्यैतस्य त्रिवृत् पञ्चचदशः सप्तदश इति पूर्वम् अहर् भवत्य्, एकविंशस् त्रिणवस् त्रयस्त्रिंश इत्य् उत्तरं, स्वर्गकामो हैतेन यजेत। ऊर्ध्वा एते स्तोमा भवन्ति। ऊर्ध्वो वै स्वर्गो लोकः। स्वर्गस्यैव लोकस्य समष्ट्यै। अभिक्रान्तस्तोमा भवन्ति। अभिक्रान्तेन ह वै यज्ञस्य भुञ्जते। एतेन ह वै तद् धविष्मांश् च हविष्कृच् च सद्य स्वर्गं लोकम् इयतुः। तस्य परांच्य् एव स्तोत्राणि भवन्ति, पराञ्चि शस्त्राणि भवन्ति, पराञ्चि पृष्ठानि, पराचीर् विष्टुतयः, पराङ् एव सर्वो भवति। तेन हैतेनोत्तरवयस्य् एव यजेत यद् एमं लोकं न प्रत्यवकांक्षेद्, यदास्मिन् लोके न निधित्सेद्, यद् अस्माल् लोकाद् अमुम् एव लोकम् अभि संप्रजिगांसेत्। स हैनेन यजेत। इष्ट्वा हैव स्वर्गं लोकम् एति। तस्मिन्न् उ ह तर्ह्य उभे हाविष्मत - हाविष्कृते कुर्यु स्वर्ग्ये, स्वर्गस्य लोकस्य समष्टयै। तस्याहुस् सप्त च शतानि विंशतिश् च स्तोत्र्यास् संपादयेयुर् इति। तावन्ति संवत्सरस्याहोरात्राणि। संवत्सराद् एव तन् न यन्ति। अथो आहुर् यावतीर् एवैतस्य ज्योतिर् गौर् आयुर् इति त्र्यहस्य स्तोत्र्यास् तावतीर् अस्य स्तोत्र्यास् संपाद्येयुर् इति। तेन त्र्यहरूपान् न यन्ति। अथो आहुस् सहस्रम् एवास्य स्तोत्र्यास् संपादयेयुर् इति। सहस्रं वै त्रिरात्रस्य स्तोत्र्याः। त्रिरात्ररूपाद् एव तन् न यन्ति। एष ह वै समृद्धो द्विरात्रो यस् त्रिरात्रस्य संपदा तायते यो वा त्रिरात्रश् चतूरात्रस्य
अथैते त्रिरात्राः। त्रिरात्रेण वै देवा एषु लोकेष्व् आर्ध्नुवंस् त्रिरात्रेण स्वर्गं लोकम् आयन्। वाग् वै त्रिरात्रः। वाचो रूपेणाज्यानि चाहानि विभज्यन्ते। एकाक्षरा वै वाक्, त्र्यक्षरम् अक्षरम्। अक्षरस्य रूपेण विभज्यन्ते। त्रयो गन्धर्वाः। तेषाम् एषा भक्तिर् - अग्नेः पृथिवी, वायोर् अन्तरिक्षम्, असाव् आदित्यस्य द्यौः। तद् एषाभ्यनूच्यते -
रयः कृण्वन्ति भुवनेषु रेतस् तिस्रः प्रजा आर्या ज्योतिर् अग्राः।
त्रयो घर्मास उषसं सचन्ते सर्वा इत् ताँ अनु विदुर् वसिष्ठाः॥
इति। तद् यद् आह त्रयः कृण्वन्ति भुवनेषु रेत इत्य् अग्निः पृथिव्यां रेतः कृणोति, वायुर् अन्तरिक्ष, आदित्यो दिवि। तिस्रः प्रजा आर्या ज्योतिर् अग्रा इति -
- वसवो रुद्रा आदित्याः। तेषाम् एतज् ज्योतिर् अग्रं यद् असाव् आदित्यः। त्रयो घर्मास उषसं सचन्त इत्य् अग्निर् उषसं सचते, वायुर् उषसं सचत, आदित्य उषसं सचते। सर्वाँँ इत् ताँ अनु विदुर् वसिष्ठा इति ये वै ब्राह्मणाश् शुश्रुवांसस् ते वसिष्ठास्, ते ह्य् एतत् सर्वं अनु विदुः। एतावान् वाव त्रिरात्रः। गायत्रः प्राणस्, त्रैष्टुभं चक्षुर्, जागतं श्रोत्रम्। त्रीणि मिथुनानि तान्य् एषु मिथुनं द्वे सम्भवतो यन् मिथुनात् प्रजायते तत् तृतीयम्। इन्द्रो वृत्राय वज्रम् उदयच्छत्। तं विष्णुर् अन्वतिष्ठत्। सो ऽब्रवीद् अस्ति वा इदं त्यस्मिंस् तेज इन्द्रियं वीर्यम्। तत् त आहराणि। मा मे प्रहार्षीर् इति। तथेति। तद् अस्मै प्रायच्छत्। तद् विष्णुः प्रत्यगृह्णात्। तस्मै द्वितीयम् उदयच्छत्। तं विष्णुर् अन्वतिष्ठत्। सो ऽब्रवीद् अस्ति वा इदं त्यस्मिंस् तेज इन्द्रियं वीर्यम्। तत् त आहराणि। मा मे प्रहार्षीर् इति। तथेति। तद् अस्मै प्रायच्छत्। तद् विष्णुः प्रत्यगृह्णात्। तस्मै तृतीयम् उदयच्छत्। तं विष्णुर् अन्वतिष्ठत्। सो ऽब्रवीद् - अस्ति वा इदं त्यस्मिंस् तेज इन्द्रियं वीर्यम्। तत् त आहराणि। मा मे प्रहार्षीर् इति। तथेति। तद् अस्मै प्रायच्छत्। तद् विष्णुः प्रत्यगृह्णात्। तस्मिन् होदाते - सर्वं ममेतीन्द्रस्, तृतीयं ममेति विष्णुः
तौ वै पृच्छावहा इति। तौ ह प्रजापताव् अपृच्छेताम्। ताभ्यां हैतया व्युवाच -
उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः।
इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम्॥
इति। द्वौ तव भागाव् इतीन्द्रम् अब्रवीत्, तृतीयं तवेति विष्णुम्। एतद् आभ्यां तत् सहस्रं प्रायच्छत्। तस्यैषाप्तिर् यो बन्धुमान् अनूचान स्यात् तस्मै प्रथमे ऽहनि दद्यात्। यथा इयं पृथिव्य् एवं सः। प्रतिष्ठिता वा इयं, प्रतिष्ठितस् सः। एवं सः। अन्तरिक्षम् इति वा इदं विदुर् वेदं तस्य विदुः। अथ यो बन्धुमान् अनूचान स्यात् तस्मै तृतीये ऽहनि दद्यात्। यथा वा असौ द्यौर् एवं सः। द्यौर् इति वा अमुं विदुर् बन्धुं तस्य विदुः। अन्वहं दशतो दीयन्ते। दशाक्षरा विराट्। वैराजो यज्ञः। सैव सा व्यवच्छिन्ना दीयते। अन्वहं शतानि दीयन्ते। एषा वै यज्ञस्य मात्रा यच् छतम्। सैव सा व्यवच्छिन्ना दीयते। त्रयस्त्रिंशतं च त्रीणि च शतानि प्रथमे ऽहनि दद्यात्। त्रयस्त्रिंशतं च त्रीणि च शतानि द्वितीये ऽहनि दद्यात्। त्रयस्त्रिंशतं च त्रीणि च शतानि तृतीये ऽहनि दद्यात्। अथैषा सहस्रतमी त्रिरूपा द्विदेवत्या। तस्यै द्वौ भागौ ब्रह्मण एको ऽग्नीधः
प्रजापतिर् वा इदम् अग्र आसीत्। नान्यं द्वितीयं पश्यमानस् - तस्य वाग् एव स्वम् आसीद्, वाग् द्वितीया - स ऐक्षत हन्तेमां वाचं विसृजे। इयं वावेदं विसृष्टा सर्वं विभवन्त्य् एष्यतीति। तां वाग् इत्य् एव व्यसृजत। सोर्ध्वाद् आतनोद् यथापां धारा सन्ततैवम्। तस्या एत्य् एकम् अक्षरम् अच्छिनत्। तद् इदम् अभवत्। अभूद् वा इदम् इति। तद् भूमेर् भूमित्वम्। केति द्वितीयम्। तद् इदम् अन्तरिक्षम् अभवत्। अन्तरेव वा इदम् उभयम् अभूद् इति। तद् अन्तरिक्षस्यान्तरिक्षत्वम्। हो इति तृतीयम् ऊर्ध्वम् उदस्यत्। तद् अदो ऽभवत्। अद्युतद् इव वा अद इति। तद् दिवो दिवत्वम्। प्रजापतिर् वा इदम् अग्र एकाक्षरां वाचं त्रेधा व्यभजत्। त इमे लोका अभवन् ऋक्षा अनुपजीवनीयाः। सो ऽशोचत्, सो ऽतप्यत। स ऐक्षत कथम् इमे लोका लोम गृह्णीयुः, कथम् उपजीवनवन्त स्युर् इति। स एतं त्रिरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। तम् एषु लोकेष्व् अन्वायातयत्। ततो वा इमे लोका लोमा - गृह्णंस्, तत उपजीवनवन्तो ऽभवन्। त्रिरात्रस्य ह खलु वा इदं पुष्टं, त्रिरात्रस्योदरणं यद् एषु लोकेष्व् अधि। गच्छति पशूनां द्विपदां चतुष्पदां भूमानं य एवं वेद
यथो ह वै मणौ मणिसूत्रम् ओतं स्याद् एवम् एषु लोकेषु त्रिरात्र ओतः। शोभते ऽस्य मुखं य एवं वेद। एषा ह खलु वै प्रत्यक्षं वाग् यज् जिह्वाग्रेणैतद् वाचो वदति यद् एति। मध्येनैतद् वाचो वदति यत् केति। सर्वयैतद् वाचो रसो ऽध्य् ऊर्ध्व उद्वदति यद् धो इति। हो इति हि सर्वा वाक्। तद् यद् एतानि रूपाण्य् आज्येषु चाहस्सु च नियुज्यन्ते। मुखत एवैतद् वाचं विसृजन्ते, मुखतो याज्ञियं कर्म। प्रजापतिर् यद् वाचं व्यसृजत साक्षरद् एव। तस्या एत्य् एव प्रथमम् अक्षरं, क्षेति द्वितीयं, रद् इति तृतीयम्। तद् येन येन वै रूपेण प्रजापतिर् वाचं व्यसृजत तेन तेन रूपेणाज्यान्य् आरभ्यन्ते, तेन तेनाहान्य् आप्यन्ते। अक्षरेष्ठा ह खलु वा एष यज्ञो यस् त्रिरात्रः। अक्षरं त्र्यक्षरम्। त्र्यक्षरस् त्रिरात्रः। अक्षरं त्रिरात्रः। स ह वा एनं वेद य एनं पुरुषसम्मितं वेद - पुरुषस् त्रिरात्रः
इदम् एव प्रथमेनाह्ना व्यकरोद् यद् अस्याम् आयत्तमूलम्, इदं द्वितीयेन यत् प्राणाद एजत्य्, अदस् तृतीयेन यद् वर्षति, यन् नक्षत्राणि यद् अमुं लोकं भेजे। महाव्रतं वा एतद् यद् एष त्रिरात्रस्य। यान्य् एतेषाम् अह्नां बहिष्पवमानानि तच् छिरः। ये ऽभितो ऽहनी तौ पक्षौ। यन् मध्यमम् अहस् स आत्मा। अग्निष्टोमसामान्य् एव पुच्छम्। अथो आहुर् यद् एवासाव् उदेति तच् छिरः। ये ऽभितो ऽहनी तौ पक्षौ। यन् मध्यमम् अहस् स आत्मा। अग्निर् एव पुच्छम्। अथो आहुर् य एवासाव् उदेति तच् छिरः। ये ऽभितो ऽहनी तौ पक्षौ। यन् मध्यमम् अहस् स आत्मा। यद् एवास्तम् एति तत् पुच्छम् इति
वाग्देवत्यं वै त्रिरात्रस्य प्रथमम् अहः, प्राणदेवत्यं द्वितीयं, चक्षुर्देवत्यं तृतीयम्। तद् आहुः कियांस् त्रिरात्र इति। इयान् इति ब्रूयात्। इयद् ध्य् एवैतद् इति। अथो इयान् इति ब्रूयात्। इयद् ध्य् एवैतद् इति। तद् याहुर् अर्वाङ् प्राणिति, पराङ् त्रिरात्रः पराङ् इति। पराङ् इति ब्रूयात्। पराङ् हि वदति, पराङ् प्राणिति, पराङ् पश्यति, पराङ् छृणोति। अथो ह ब्रूयाद् अर्वाञ्च च पराञ्च चेति। अर्वास् च हि पराञ् च वदत्य्, अर्वाञ् च पराञ् च प्राणित्य्, अर्वाञ् च पराञ् च पश्यत्य्, अर्वाञ् च पराञ् च शृणोति। तद् आहुर् एकस् त्रिरात्रा3 उ द्वा3 उ त्रया3 उ इति। एक इति ब्रूयाद्। एको ह्य् एवैष यत् प्राणो ऽपानो व्यान इति। तद् आहुर् एकं भूयास् सहस्रा3म् इति। एकम् इति ब्रूयात्। एकं ह्य् एव भूयस् सहस्रात् संख्यानेव भवति
वाग् एवेति। गायत्रं वै त्रिरात्रस्य प्रथमम् अहस्, त्रैष्टुभं द्वितीये, जागतं तृतीयम्। यद् वा अन्यस्य त्रिरात्रस्य विलोम तद् अस्य सलोम, यद् अस्य सलोम तद् अन्यस्य विलोम। तद् यद् एतत् परं सद् अहर् अवरं क्रियते, यजमानायैव तत् पशून् प्रजनयन्ति, न ह्य् अमुष्मिंल् लोके पशवः प्रजायन्ते। एते ह खलु वै छन्दसां वीर्यवत्तमे यद् गायत्री च त्रिष्टुप् च। तद् यद् गायत्री च त्रिष्टुप् चाभितो भवतो, मध्ये पशवो जगती, वीर्यवद्भ्याम् एवैतच् छन्दोभ्यां यजमानायोभयतः पशून् परिगृह्णन्त्य् अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। असाव् एव त्रिरात्रो यो ऽसौ तपति। स यथोदेत्य् एवम् अस्य प्रथमम् अहर्, यथा माध्यन्दिन एवं द्वितीयम्, यथास्तम् एत्य् एवं तृतीयम्। स य एतद् एवं वेद गच्छत्य् एतस्य सायुज्यं सांवेश्यम्
इन्द्रो वै मरुतस् समजिनोत् स्वां विशं सोमाय राज्ञे प्रतिप्रोच्य। तदनुकृतीदम् अप्य् एतर्हि राज्ञे प्रतिप्रोच्य विशं जिन्वन्ति। तद् यमो ऽन्वबुध्यत सहस्रम् अज्यासिष्टाम् इति। स आगच्छत्। स एत्याब्रवीत् उप मास्मिन् सहस्रे ह्वयेथाम् इति। तथेति। तम् उपाह्वयेताम्। स यमो ऽस्मिन् सहस्रे ऽपि गाम् अपश्यत् सहस्रस्य गवां पयो बिभ्रतीम्। ताव् अब्रवीत् इयम् एव मम युवयोर् एतद् इतरद् इति। ताव् इतराव् अब्रूतां यद् वाव त्वम् एतस्यां पश्यसि तद् आवं पश्याव इति। सो ऽब्रवीत् तया वा एता एव विकरवामहा इति। ते तयैव व्यकुर्वत। ते ऽब्रुवन्न् अंशान् हरामहै यस्मै नः प्रथमैष्यतीति। ते ऽंशान् आहरन्त। सोमस्य प्रथमैत्। अथैन्द्रस्याथ यमस्य। ताम् अप्सु प्रावेशयन्
ताम् अब्रुवन् - सोमायोदेहि तृतीयेन चात्मनस् तृतीयेन च सहस्रस्येति। सा बभ्रुः पिंगाक्ष्य् उदैत्, तृतीयेन चात्मनस् तृतीयेन च सहस्रस्य। सैषा सोमक्रयणी। तृतीयेन च ह वै तस्यै तृतीयेन च सहस्रस्य सह सोमो राजा क्रीतो भवति। तां पुनर् एवाप्सु प्रावेशयन्। ताम् अब्रुवन्न् - इन्द्रायोदेहि तृतीयेन चात्मनस् तृतीयेन च सहस्रस्येति। सा शबली पष्ठौह्य् उदैत् तृतीयेन चात्मनस् तृतीयेन च सहस्रस्य। सैषेन्द्रेष्या दीयते। तृतीयेन च ह वै तस्यै तृतीयेन च सहस्रस्य सह सा दत्ता भवति। तां पुनर् एवाप्सु प्रावेशयन्। ताम् अब्रुवन् - यमायोदेहि तृतीयेन चात्मनस् तृतीयेन च सहस्रस्यैति। सा धूम्रा दित्यौह्य् उदैद् ईर्मतो ह्रसीयसी पश्चाद् वर्षीयसी जरतीव कुष्ठाऽशृंगी तृतीयेन च सहस्रस्य सह सानुस्तरणी कृता भवति, नो हाचक्रुर् इव मन्येत
तद् आहुर् नामुष्मिन् लोके सहस्रस्यावकाशो ऽस्ति। आत्मन् एवैव न वात्मने च। नेति। तद् आहुः कियद् इत स्वर्गो लोक इति। यावत् सहस्रं गौर् गव्य् अधि प्रतिष्ठिता तावद् इति ब्रूयात्। अथो यावत् सहस्रं प्राणैस् सं प्राणन्तीत्य्, अथो यावत् सहस्रम् आश्वीनानीत्य्, अथो यावत् सहस्रं प्राणैस् सं प्राणन्तीत्य्, अथो यावत् सहस्रम् आश्वीनानीत्य्, अथो यावत् सहस्रं योजनानीत्य्, अथो यावत् सहस्रम् अह्नयानीति। तद् गवा गवैवाप्नोति। सा यैषा शबली पष्ठौह्य् उपन्नम् एषामुष्मिन् लोके कामदुघा भूत्वा तिष्ठते। य एवं वेद तार्प्यम् प्रत्यस्य दक्षिणा नयति, सहस्रस्य सयोनितायै। सहस्रं वै यद् असृज्यत। तस्य तार्प्यम् एव योनिर् आसीत्। तद् यत् तार्प्यं प्रत्यस्य स दक्षिणा नयति सयोन्य् एव तत् सहस्रं करोति। उप हैनं सहस्रं ददिवांसं योनिसहस्रं तिष्ठते य एवं वेद। सा या सहस्रतमी स्यात् तस्यै कर्णम् आजपेद् इळे रन्ते महि विश्रुति शुक्रे चन्द्रे हव्ये काम्ये ऽदिते सरस्वत्य् एतानि ते ऽघ्न्ये नामानि, देवेषु नस् सुकृतो ब्रूताद् इति। सुकृतं ह वा एनं देवेष्व् आह। ताम् कलशम् अपघ्रापयत्य् अपजिघ्र कलशं, मह्या त्वा विशन्त्व् इन्दवस्, सा नो धुक्षस् सहस्रम् उरुधारा पयस्वतीति। उप हैनं सहस्रं ददिवांसं सहस्रं तिष्ठते य एवं वेद
प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽकामयत - बहु स्यां, प्रजायेय, भूमानं गच्छेयम् इति। स तपो ऽतप्यत। स वाचम् असृजत्। वाचो गां निरमिमीत। स ऐक्षतालं वै तस्मा अस्मि यत् सृजेयेत्। तद् अन्नं लभेत यत् सृजेय, हन्त सृजा इति। स वसून् असृजत, स रुद्रान्, स आदित्यान्। तं वसव उपासीदन्न् अस्तु न स्वम् इति। तेभ्य एतां गां प्रायच्छत्। तां संवत्सरम् अरक्षन्त। सैभ्यस् संवत्सरे त्रयस्त्रिंशतं च त्रीणि च शतानि प्राजनयत्। तां पुनर् आजायत्। तं रुद्रा उपासीदन्न् अस्तु न स्वम् इति। तेभ्य एतां गां प्रायच्छत्। तां संवत्सरम् अरक्षन्त। सैभ्यस् संवत्सरे त्रयस्त्रिंशतं च त्रीणि च शतानि प्राजनयत्। तां पुनर् आजायत। तम् आदित्या उपासीदन्न् अस्तु न स्वम् इति। तेभ्य एतां गां प्रायच्छत्। तां संवत्सरम् अरक्षन्त। सैभ्यस् संवत्सरे त्रयस्त्रिंशतं च त्रीणि च शतानि प्राजनयत्। तत् सहस्रम् अभवत्। सैव सहस्रतमी। तां पुनर् आजायत। स यो हैवं विद्वान् गा रक्षते प्र हैवास्य सहस्रम् आप्नुवन्ति। तस्माद् उ हैवंविदा रक्षितव्या एव। गावस् ते ऽब्रुवन्न् - अलं वै तस्मै स्मो यत् सहस्रेण यजेमहि। एत सहस्रेण यजामहा इति
तत् सार्धे सहस्रसामाकुर्वन्। तद् एषां सहस्रं संख्यान एकैकस्यै गोर् नोदभवत्। ते ऽब्रुवन् प्रजापतिम् एवेमां सहस्रतमीं याचामहा इति। ते प्रजापतिम् एव तां सहस्रतमीम् अयाचन्त। स प्रजापतिर् ऐक्षत यद्य् एभ्यः प्रदास्यामि रेक्ष्ये, यद्य् एभ्यो न प्रदास्याम्य् ऊनम् एषां सहस्रं भविष्यति। हन्तैनान् सहैवानयाभ्युपयानीति। तान् अब्रवीत् सहैव वो ऽहम् अनयाभ्युपयानीति। तथेति। तांस् तयैव सहाभ्युपैत्। त एतं त्रिरात्रं यज्ञम् अपश्यन्। तम् आहरन्त। सो ऽब्रवीत् - समेनानेन यज्ञेन यक्षामहा3 असमेना3 इति। समेनेत्य् अब्रुवन्। यत् समेनेत्य् अब्रुवन् सम एव तद् वर्षम् अकुर्वत समे राष्ट्रं संज्ञाम् एव तद् अकुर्वत। अथ यद् अवक्ष्यन्न् असमेनेत्य् असम एव वर्षम् अभविष्यद् असमै राष्ट्रम् असंज्ञाभविष्यत्। ते केन समेष्याम इति। यज्ञायज्ञीयेनेति। तस्माद् यज्ञायज्ञीयेनैव संयन्ति। वाग् वै यज्ञायज्ञीयम्। वाग् इमे लोकाः। वाचैव तद् वाचम् अरोहन्। ते त्रयस्त्रिंशतं च त्रीणि च शतानि प्रथमे ऽहन् न ददुः। तेनास्मिन् लोके वसुभिर् अराध्नोत्। त्रयस्त्रिंशतं च त्रीणि च शतानि द्वितीये ऽहन् न ददुः। तेनास्मिन्न् अन्तरिक्षे लोके रुद्रैर् अराध्नुः। त्रयस्त्रिंशतं च त्रीणि च शतानि तृतीये ऽहन् न ददुः। तेनामुष्मिन् लोक आदित्यैर् अराध्नोत्। स यो हैवं विद्वान् एतेन यज्ञक्रतुना यजत, एतासु चैव देवतास्व् ऋध्नोत्य् एतांश् च लोकान् आप्नोति
प्रजापतिर् यद् अग्रे सहस्रम् असृजत तत् प्रजाभ्यः प्रायच्छद् - एतद् वस् सहेति। यत् सहेत्य् अब्रवीत् तत् सहस्रस्य सहस्रत्वम्। तस्माद् उ ह सहस्रीव सतिर् एव स्यात्। सहेति ह्य् अब्रवीत्। सा यो हैनस् तत्रावास्यमानो ब्रूयाद् आ ते सहस्रस्य पयो दद इति तथा हैव स्यात्। ते देवा ईशानं देवम् अब्रुवंस् त्वं वै न श्रेष्ठो ऽसि। तम् उद्धारम् उद्धरस्वेति। स एतानि त्रीणि सामानि सहस्रस्य रसं प्रावहतर्त्तनिधनम् ईनिधनं त्रिणिधनम् इति। तानि वा एतानि सामानि सहस्रत्रिरात्रेण कार्याणीशानस्य देवस्योद्धार उद्धृतानि। उद् उद्धारं हरत् उद्धार्यो भवति य एवं वेद। तस्माद् एतानि सामानि सहस्रत्रिरात्रेण कार्याणीशानस्य देवस्याखलस्य सामानीश्वरो यजमानस्य पशून् अभिमन्तोर् इति। अपरसम् इव तु हास्य सहस्रं दत्तं स्यात्। कार्याण्य् एव सहस्रस्य धरतायै। प्रजापतिर् यद् देवेभ्यस् सहस्रं दत्तं स्यात्। कार्याण्य् एव सहस्रस्य धरतायै। प्रजापतिर् यद् देवेभ्यस् सहस्रं प्रायच्छत् तद् अप्रतीक्षमाणा एवादन्। तद् एभ्यो ऽद्यमानं तिरो ऽभवत्। तं न्व् अमन्त्रयन्त। तद् अब्रवीत् - क्षयाद् वै बिभेमीति। नेत्य् अब्रुवन्। तथा वै त्वात्स्यामो यथा नो ऽद्यमानं पीयमानं न क्षेष्यस इति। तस्मै वै म ऋतं कुरुतेति। तस्या ऋतनिधनेनैवर्तम् अकुर्वन्, ईनिधनेनापायन्, प्र चैवैनं त्रिणिधनेनाजायन्न्, अक्षितिं चास्मा अकुर्वन्। अद्यमानम् अस्य पीयमानं सहस्रं न क्षीयते य एवं वेद
अन्वहम् आजिदोहानि भवन्ति। प्राणा वा आजिदोहानि। यद् अन्वहम् आजिदोहानि भवन्ति प्राणेष्व् एव तत् प्रतितिष्ठति। अन्वहम् आजिदोहानि भवन्ति। पशवो वा आजिदोहानि। यद् अन्वहम् आजिदोहानि भवन्ति पशुष्व् एव तत् प्रतितिष्ठति। अन्वहम् आजिदोहानि भवन्ति। इमे वै लोका आजिदोहानि। यद् अन्वहम् आजिदोहानि भवन्त्य् एष्व् एव तल् लोकेषु प्रतितिष्ठति। अग्निर् आजिदोहं वायुर् आजिदोहम् असाव् आदित्य आजिदोहम्। यद् अन्वहम् आजिदोहानि भवन्त्य् एतास्व् एव तद् देवतासु प्रतितिष्ठति। इमे वै लोका आजयो नाम। एतेषाम् एते दोहाः। दुह इमान् लोकान् य एवं वेद। अन्वहम् अर्का भवन्त्य् - अन्नं वा अर्को - ऽन्नाद्यस्यैवावरुद्धयै। स्वाशिराम् अर्कः प्रथमे ऽहनि भवति। आपो वै स्वाशिरः। अन्नम् उ वा आपः। नो वा अनवसो ऽध्वानं समश्नुते। अग्नेर् अर्को द्वितीये ऽहनि भवति। अन्तरिक्षायतनं वै द्वितीयम् अहः। अस्तम् एवान्तरिक्षं तमस्सहचयानि रक्षांसि - अग्निर् वै रक्षसाम् अपहन्ता - रक्षसाम् एवापहत्यै। दीर्घतमसो ऽर्कस् तृतीये ऽहनि भवति। जागतो वै दीर्घतमसो ऽर्कः। जागतं तृतीयम् अहः। अहर् एव तद्रूपेण समृद्धयन्ति
अन्वहं सौपर्णानि भवन्ति स्वर्ग्याणि, स्वर्गस्य लोकस्य समष्टयै। तद् आहुः - क्षिप्राणि सामानीश्वरो यजमानं पुरायुषः प्रमथितोः। द्वे एव कार्ये पतनायैवेति। सं वा एनं तत् साधयन्तीत्य् आहुः। एकम् एव कार्यं, समष्टया एवेति। किम् उ य एनं प्रथमध्नुर् अपि सर्वाण्य् एव कार्याणि। त्रिरात्रेण वै देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। स एषाम् असंगृहीतो वीवावृह्यत। तं गायत्रपार्श्वेनैवोदस्तभ्नुवन्, संतनिना समतन्वन्, संकृतिना समकुर्वंस्, त्रिषन्धिना समदधु, श्रायन्तीयेन समश्रीणन्न्, अरिष्टेनारिष्टताम् अगमयन्। तद् यद् एतानि सामानि भवन्ति त्रिरात्रस्यैवोत्तब्ध्यै, त्रिरात्रस्य सन्तत्यै, त्रिरात्रस्य संकृत्यै, त्रिरात्रस्य संहित्यै, त्रिरात्रस्य संश्रित्यै, त्रिरात्रस्यारिष्टायै। ऐळं ककुभि, स्वारम् उष्णिहि। त्रिरात्रम् एवैतन् मध्यतो व्यतिषजन्त्य् अवस्रंसाय
षट् च वै गायत्रीः प्रथमम् अहस् संपद्यते दश च स्तोत्र्याः। षट् च वै त्रिष्टुभो द्वितीयम् अहस् संपद्यत एकां च स्तोत्र्याम्। अथ यत् तृतीयम् अहस् तस्य द्वे सवने जगतीस् संपद्यते ऽनुष्टुभः। तृतीयसवनम् एकविंशष् षोडशी। षोडशी वै पूर्वयोर् अह्नोर् अपित्वम् ऐच्छत। षोडशिनि पूर्वे ऽहनी अपित्वम् ऐच्छेताम्। तम् एताभिर् एकादशभि स्तोत्र्याभिर् उसंपरैताम्। स आनुष्टुभष् षोडशी समपद्यत। स यो वै षोडशिनं पूर्वयोर् अह्नोर अपित्विनं वेद षोडशिनि पूर्वे ऽहनी अपित्विनी, अपित्वी ह तत्र भवति यत्र कामयते ऽपित्वी ह स्याम् इति। तद् आहु - स्तोमैर् एव पृष्ठयं षडहम् आप्नोति, संपदा छन्दोमान्, रात्र्या दशमम् अहर् इति। स यवद्वादशाहेन दक्षिणावतावरुन्द्धे य एवं वेद। अथैषा सहस्रतमी, तां यद् दद्याद् रिच्येतानु गर्भाश् शुष्येयुर्, यन् न दद्याद् ऊनम् अस्य सहस्रं दत्तं स्यात्। कलां चादेयं च न दद्यात्। तन् मिथुनम्। तद् अनु प्रजायते। तद् आहुर् अदत्तं वै तथा भवत्य्, उत वै कलाम् एवान्व् अवजयति। तत् तत् कलां वानु सहस्रम् इयात्। कलावानु सहस्रं तत् तद् अविज्ञानं दत्वैवैनाम् अद्यया गवा निष्क्रीणीयाद् इति। तद् उ वा आहुर् दत्तं वै तथा भवति। गौर् इतरा गौर् इतरोर्णास् त्रयस्यैवैनाम् आविकस्य यावद् अर्हन्तीम् मन्येत तावता निष्क्रीणीयाद् इति। ऊर्णासूत्रम् उ वै गोः किञ्चचिद् इव दत्तम् अस्य सहस्रं भवति, नात्मना रिच्यते। स यथा वागरया वा रज्ज्वा वा वज्रं परितनुयाद् एवम् एवैतत् पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद
शबलि समुद्रो ऽस्य् अक्षितिर् ब्रह्मदेवी प्रथमजा ऋतस्यैकम् अक्षरं क्षरसि विभावर्य् अभीमान् लोकान् अमृतं दुहाना तां त्वा विद्म सरमे दीद्यनाम् अक्षितिं देवेभ्यो भासा तपन्तीम्। तेजो ऽसि, शुक्रम् अस्य, अमृतम् अस्य्, अन्नम् असि, महद् अस्य् एषासि महि, तां त्वा तथा वेद। तस्यां त्वय्य् एतां दक्षिणां निदधे ऽक्षितिम् अक्षीयमाणां श्रियं देवानां बृहज् ज्योतिर् वसानां प्रजानां शचिष्ठाम् आ व्रतम् अनुगेषम् इति। एषा ह वै शचिष्ठावृद् यद् असाव् आदित्यः। तस्या एते द्वे पदे अहश् चैव रात्रिश् च, सत्यं चानृतं च। तद् धास्या एतत् सत्यं पदं यद् अहः। तद् एतद् अत्यायु नाम। स यो हास्य एतद् अत्यायु नाम पदं वेदात्य् एवान्यान् प्रजया पशुभि श्रिया कीर्त्यायुषा भवति
अथास्या एतत् पृश्नि शबलं पदं यद् रात्रिः। स यो हास्या एतत् पृश्नि शबलं पदं वेद पृश्निर् एव प्रजया पशुभि श्रिया कीर्त्यायुषा भवति। तद् यथाग्निं दीप्यमानम् उपवाजिनेनोपवाजयेद् एवम् एवैतद् ब्राह्मण आत्मानं संश्यते सत्यं वदन्। स सत्यम् एव वदेत्, सत्यं चरेत्, सत्यं चिकिर्षेत्, सत्यम् एव भवति। उत त्वैनम् अमृतस्य कामो विन्देज्, जीवनकाम्या वा, स्त्रीकाम्या वा, नर्मकाम्या वा, सख्यकाम्या वा। रात्र्यां वा हैनं छायायां वा वदेत्। तथा हैनं तन् न दृणोते। स्वे ह्य् एनद् आयतने वदति पृथ्वी बेकुर इति। हेति हेसिनी परिमन्थादित्ये मनस् ते भुवो युवस् ते यज्ञस्याज्यम् असि धीष्णस् त्व् ऋतुस्था मनस्था मनसो ग्रामस्यामाविशनाभृत् ते ऽस्मि रन्तिर् असि रमतिर् असीमे स्वर्गस्य ऊर्जस्वती पयस्वती शबल्य् एह्य् अराभुर् अस्मि सिकताः पुरोमि वत्सा बिभर्मि सहस्रमातरं विद्म त्वा पुरुष तल्लक स न इदं ब्रूहि यथेदं भविष्यति
अग्ने देवानां होतस् त्वं, देवानां होतास्य्, अहं मनुष्याणां, स न इदं ब्रूहि यथेदं भविष्यति - न साम समेति, न स्तोत्र्या, नो मे लोकास् संक्रामन्ति, वरीयान् यजमानस्य लोको भवति। यत् साम समेयाद्, यत् स्तोत्र्यो, यद् इमे लोकास् संक्रामेयुर् अंहीयाद् यजमानस्य लोक स्यात्। गायत्रं समेति। प्राणो वै गायत्रम्। सर्वत्र ह्य् एव प्राणः समेति॥ यज्ञायज्ञीयं समेति। वाग् वै यज्ञायज्ञीयम्। सर्वम् ह्य् एव वाक् च प्राणश् च समेतः। द्वे सामनी समेतः - द्विपाद् यजमानः - प्रतिष्ठित्यै। प्रतितिष्ठति। य एवं वेद
प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽक्रामयत - बहु स्यां, प्रजायेय, भूमानं गच्छेयम् इति। सो ऽशोचत्। सो ऽतप्यत। तं शोचन्तं तप्यमानं प्राणा अभ्यवदन् - वयं वा इमं यज्ञम् अदृशम् तेन त्वा याजयामेति। सो ऽब्रवीत् - तं कथम् अद्राष्ट, कतमम् अद्राष्टेति। ते ऽब्रुवन्न् - आश्रावयास्तु श्रौषट्। यज ये यजामहे। वौषड् इत्य् एतम् अदृश्मेति। सो ऽवेद् - अदृशन् वा इति। यत् पञ्चासन्, पांक्तो यज्ञः। तेनावेद - अदृशन् वा इति। तेषाम् उ यत् पञ्चानां सतां सप्तदशाक्षराण्य् आसन् - सप्त - दशः प्रजापतिः - प्राजापत्यो यज्ञः। तेनो एवावेद् अदृशन् वावेति। सो ऽब्रवीत् - ते केन होष्यामः, कस्मिन् होष्याम इति। ते ऽब्रुवंस् - तवैव वपाम् उत्खिद्य तां तवैव हृदये ऽग्नौ सर्वहुतां होष्याम इति। ते प्रजापतेर् एव वपाम् उदखिदन्। वाचम् एव तेषां प्राण एवाश्रावयद्, अपानः प्रत्याश्रावयत्। मन एव होतासीत्। प्रजापतिर् एव चतुर्थो ब्रह्मा दक्षिणत आस्त। तां प्रजापतेर् एव हृदये ऽग्नौ सर्वहुताम् अजुहवुः। तां यद् अवपंस् तद् वपायै वपात्वम्। यद् वो एनां तद् अजुहवुस् तद् एनाम् अवपन्। तस्माद् उ ह वप्तव्यम् एव। उप्ताद् ध्य् एवेदं सर्वं जायते। तस्यै हुताया अजः -
- श्वेतो लोमशस्तूपरो लप्सुद्य् अन्यतोदंश् चतुष्पाद् अजायत् तस्मिन् सर्वांणि रूपाणि पर्यपश्यन्। ते ऽब्रुवन्न् - इमानि वा अस्मिन् सर्वाणि रूपाणि। एतेमम् एवालभामहा इति। ते तम् आलभन्त। तेषां प्राण एवाश्रावयद् अपानः प्रत्याश्रावयत्। मन एव होतासीत्। प्रजापतिर् एव चतुर्थो ब्रह्मा दक्षिणत आस्त। तं प्रजापतेर् एव हृदये ऽग्नौ सर्वहुतम् अजुहवुः। तस्माद् धुताद् अग्निर् देवताजायत। तद् ऋचो वेदः। अनु वायुर् देवताजायत। तद् यजूंषि वेदः। अन्व् आदित्यो देवताजायत्। तत् सामानि वेदः। अन्व् एते च त्रयो देवानां श्रेष्ठा अजायन्तैताश् च तिस्रो विद्याः। शश्वद् धैतावद् एव प्रजापतिना सृष्टम्। अथैताभिर् एव देवताभिर् इदम् इतरत् सर्वम्। ते ऽब्रुवन् - येन नः पिता प्रजापतिर् यज्ञेनेष्ट्वारात्सीत् तेन यजामहा इति। ते तम् आहरन्त। तेषां वायुर् एवाश्रावयद्, आदित्यः प्रत्याश्रावयत्। अग्निर् एव होतासीत्। प्रजापतिर् एव चन्द्रमाश् चतुर्थो ब्रह्मा दक्षिणत आस्त
त एव चतुर्होतारम् आसत। एते ह वाव चतुर्होतारो यान् इमान् आहुश् चतुर्होतॄन्। तेषां सहस्रतम्याम् आहुत्यां गौर् आजायत। तस्यां सर्वान् भोगान् पर्यपश्यन्, ये के च गवि भोगास् तान्। ते ऽबुवन्न् - इमे वा अस्यां सर्वे भोगाः। एतेमाम् एव प्राणो जनयति ब्रवामेति। ताम् अब्रुवन् - प्राणो जनयति। सा त्रयस्त्रिंशतं च त्रीणि च शतान्य् अग्नये प्राजनयत्। त्रयस्त्रिंशतं च त्रीणि च शतानि वायवे प्राजनयत्। त्रयस्त्रिंशतं च त्रीणि च शतानि आदित्याय प्राजनयत्। तत् सहस्रम् अभवत्। सैव सहस्रतमी। तां पुनराजत। स यो हैवं विद्वान् गा रक्षते, प्र हैवास्य सहस्रम् आप्नुवन्ति। तस्माद् उ वैवंविदा रक्षितव्या एव गावः। ते ऽब्रुवन्न् - अलं वै तस्मै स्मो यन् नानाशो विपरेत्य यजमाना आसीमं ह्य् एत, नानाशो विपरेत्य यजमाना आसामहा इति। ते नानाशो विपरेत्य यजमाना आसत। तेनैव श्रेयांसो ऽभवन्न् अपापीयांसः। ते ऽब्रुवन् - न वै श्रेयांसो ऽभूम न पापीयांसः। एत, सहस्रेण यजामहा इति
तत् सार्धं सहस्रं सामाकुर्वन्। तद् एषां सहस्रसंख्यानः। एकस्यै गोर् नोदभवत्। ते ऽब्रुवन् - प्रजापतिम् एवेमां सहस्रतमीं याचामहा इति। ते प्रजापतिम् एव तां सहस्रतमीम् अयाचन्त। स प्रजापतिर् ऐक्षत यद्य् एभ्यः प्रदास्यामि रेक्ष्ये, एभ्यो न प्रदास्याम्य् ऊनम् एषां सहस्रं भविष्यति हन्तैनान् सहैवानयाभ्युपयानीति। तान् अब्रवीत् - सहैव वो ऽहम् अनयाभ्युपयानीति। तथेति। तांस् तयैव सहाभ्युपैत्। त एतत् त्रिरात्रं यज्ञम् अपश्यन्। तम् आहरन्त। सो ऽब्रवीत् - समेना3नेन यज्ञेन यक्ष्यामहा असमेना3 इति। समेनेत्य् अब्रुवन्। यत् समेनेत्य् अब्रुवन् सम एव तद् वर्षम् अकुर्वत, समै राष्ट्रं संज्ञाम् एव तद् अकुर्वत। अथ यद् अवक्ष्यन्न् असमेनेत्य् असम एव वर्षम् अभविष्यद् असमै राष्ट्रम् असंज्ञाभविष्यत्। ते केन समेष्याम इति। यज्ञायज्ञीयेनेति। तस्माद् यज्ञायज्ञीयेनैव संयन्ति। वाग् वै यज्ञायज्ञीयम्। वाग् इमे लोकाः। वाचैव तद् वाचम् आरोहन्। ते त्रयस्त्रिंशतं च त्रीणि च शतानि प्रथमे ऽहन्न् अददुः। तेनास्मिन् लोके ऽग्निर् अरार्ध्नोत्। त्रयस्त्रिंशतं च त्रीणि च शतानि द्वितीये ऽहन्न् अददुः। तेनास्मिन्न् अन्तरिक्षलोके वायुर् अरार्ध्नोत्। त्रयस्त्रिंशतं च त्रीणि च शतानि तृतीये ऽहन्न् अददुः। तेनामुष्मिन् लोके आदित्यो ऽरार्ध्नोत। स यो हैवं विद्वान् एतेन यज्ञक्रतुना यजत एतासु चैव देवतास्व् ऋध्नोत्य् एतांश् च लोकान् आप्नोति
सा या सहस्रतम्य आस विद्युद् धैव सा भूत्वा प्रजापतिं विवेश। तद् एषाभ्यनूच्यते -
अयं स शिंक्ते येन गौर् अभीवृता मिमाति मायुं ध्वसनाव् अधि श्रिता।
सा चित्तिभिर् नि हि चकार मर्त्यं विद्युद् भवन्ती प्रति वव्रिम् औहत॥
इति। इमां हैव गां रूपं प्रत्युह्य विद्युद् एव भूत्वा पुनः प्रजापतिं प्रविवेश। सैषा विद्युत् सा यद् एतत् स्तनयति ददददददेति। ददानि ददानीति हैव तत् प्रजाभ्यो वृष्टिम् अन्नाद्यं प्रयच्छति। प्रास्मा एषा देवता वृष्टिम् अन्नाद्यं यच्छति य एवं वेद
अथैषो ऽश्वमेधः। प्रजननकामो हेतेन यजेत। प्रजापतिर् वा अकामयत - बहुः प्रजया पशुभिः प्रजायेय, वीमान् लोकान् आप्नुयाम्, अवेन्द्रियं वीर्यं रुन्धीयेति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स बहुः प्रजया पशुभिः प्रजायत, वीमान् लोकान् आप्नोद्, अवेन्द्रियं वीर्यम् अरुन्ध। स यः कामयेत बहुः प्रजया पशुभिः प्रजायेय, वीमान् लोकान् आप्नुयाम्, अवेन्द्रियं वीर्यं रुन्धीयेति स एतेन यजेत। बहुर् एव प्रजया पशुभिः प्रजायते, वीमान् लोकान् आप्नोत्य्, अवेन्द्रियं वीर्यं रुन्धे। स वा एष वीर्यम् एव यज्ञः। यर्हि वा एतेन पुरेजिरे, सर्वम् एव वीर्यवद् आस - ऋषिर् ह स्म मन्त्रकृद् ब्राह्मण आजायते, ऽतिव्याधी राजन्यश् शूरः, पोषयिष्णुर् वैश्यो रयिमान्, उत्थाता शूद्रो दक्षः कर्मकर्ता, कल्याण्य स्त्रियः पतिव्रताः। अकृष्टपच्यं ह स्म धान्यं पच्येत। अपि ह स्मैको व्रीहिपात्रः पक्कः कुलायालं भवति। तथा पयस्वद् ध तर्हि सर्वम् एवास। अपि ह स्मारण्ये वीर्याण्य् उपाजायन्ते - अघलास् सिंहा, अघलाश् शार्दूला, अघला ऋक्षा ऋक्षीका, अघला अहयो ऽजगराः। पुरुषव्याघ्रा ह स्मारण्येष्व् आददानास् तिष्ठन्ति। अपि ह स्मैकः शिंशुमारो बहूनि तीर्थानि गोपायति। वीर्येण ह वाव ते तत् तथासुः
तस्य वा एतस्य ललाटाद् एव सिंहो ऽजायतोरसो ऽधि शार्दूल, उदराद् द्वीपी, अक्षिभ्याम् अपाष्ठिहौ, कर्णाभ्याम् अश्वकर्णौ, केसरेभ्य ऋक्षा ऋक्षीका, लोमभ्यो दूर्वा, अनूकाच् छिंशुमारो, वालेभ्यो ऽश्ववालाः, सक्थिभ्यां क्रौञ्चाव्, आण्डाभ्यां वराहौ, वक्त्राभ्यां चक्रवाकौ, वनिष्ठोर् उद्रो, गुदाभ्यो ऽहयो ऽजगराः, कुष्ठिकाभ्यो वर्तकाः, शफेभ्यः शल्यकाः, शकृत्पिण्डेभ्यः कूश्मा, ऊवध्याद् उर्वारु तंतिसन्तदूलः श्यामाको लोहितकम् इत्य् एतत् क्षुद्रम् अन्नाद्यम् उपजज्ञे
तद् आहुर् यः कथं स आलभ्य इति। य एव दूरे श्रुतस् स आलभ्य इत्य् आहुः। वीर्येण वै स श्रुतः। वीर्यम् एष यज्ञ इति। अथो आहुर् य एव युग्योर् वहीयान् स आलभ्य इति। वीर्येण ह वै स तयोर् वहीयान्। वीर्यम् एष यज्ञ इति। तस्मिन् ह शौनकश् च कापेयो ऽभिप्रतारणश् च समूदाते - यःकथंरूपस् स आलभ्य इति। तौ ह कृष्णपिशंगे संपादयांचक्रतुः। यस्य श्वेतस्य सतः कृष्णम् अस्ति, कृष्णस्य वा सत श्वेतं, स एव सः प्रजापतिन्यंगः। प्रजापतेर् अक्ष्य् अश्वयत् तस्माद् अश्वः। यच् छ्वेथो (स्) समभवत् तस्मात् पूतिर्, यद् अपः प्राविशत् तस्माच् छ्वेतनः। श्वेतस्य वा वै सतो ऽक्ष्णः कृष्णम् अस्ति, कृष्णस्य वा सत श्वेतम्। स एव स प्रजापतिन्यंगः। तम् एतद् आलभन्ते
तेन हैतेन मौण्डिभ उदन्युर् ईज उदन्यूनां राजा। तद् ध यवक्रीः सौमस्तम्बिर् आस्तावं प्रति निषसाद। तस्य हायं पूषा रयिर् भग इत्य् एताः प्रतिपदश् चक्रुः। स होवाच - छंवट् मासा मौण्डिभाप प्राणान् अरात्सीर् इति। एष ह तर्ह्य् अनुव्याहार आस। अथ ह मौण्डिभ उदन्युस् त्रय्यै विद्यायै कस्सवित आस। स होवाच - संवृहत मे सदोहविर्धाने, मृदा मे ग्रहान् संदिह्य निधत्त। यर्ह्य अयं ब्राह्मणो ऽनुव्याहारी मर्ता, तर्हि यष्टास इति। तस्य ह मृदा ग्रहान् संदिह्य निदधुः। अथ ह यवक्रीः सौमस्तंबिस् तेजस्वी ब्रह्मवर्चस्य् आस। स ह स्म याम् अच्छाब्रूते या ह स्मैनं कामयते, म्रियते ह स्म। यो ह स्मैनं न कामयते, म्रियत उ एव। स ह यज्ञवचसो राजस्तंबायनस्य जायाम् अच्छोचे। सा हेक्षांचक्रे - यदि वा एनं कामयिष्ये यदि च न, मरिष्यत्य् एव स्या। हन्तैनं कामयै। ब्राह्मणस्य चित् स्या प्रियं कृत्वा म्रियताद् इति। तं होवाचादस् तिष्ठ। अथ त्वाभ्येष्याम इति
तां हालंकुर्वाणां रुदतीं पतिर् आजगाम। तां होवाच - किम् अलंकुरुषे किं रोदिषीति। सा होवाच - मरिष्यसि हीत्य् आत्मानम् एवतैत् कृपये। यवक्रीर् चेत्याम् अच्छावोचतेति। स होवाचाज्यम् अत आहरतेति। तद् ध पवित्राभ्याम् उत्पूय जुहवांचकार -
या नो अद्य त्रायाति भारद्वाजस्य संस्कृता
प्रेणीम् अग्निप्रियाम् अग्ने तां मह्यम् आ वह॥ स्वाहा।
इति। तस्यै ह तद्रूपाम् एवाप्सरसम् उत्थापयांचकार। तां होवाचासौ यवक्रीस्, तद् इहीति। द्वितीयं ह जुहवांचकार -
गन्धर्वम् उग्रं बलिनम् अश्मघातिनम् अंसलम्
भारद्वाजस्य हन्तारं विश्वज्योतिषम् आ वह॥ स्वाहा।
इति। तस्यै हायः कूटहस्तं गन्धर्वम् ईर्ष्युम् उत्थापयांचकार। तं होवाचासौ ते जाया यवक्रीयम् अभ्यगात्। तद् इहीति। तस्यै हायत्या उपतस्तार। सा ह सिष्मिये। स होवाच - नाह किल ते स्त्रिके रमेतव्यम्। अथ स्मयस इति। कथा हेति। मरिष्यसि हीति। सा ह पादं प्रगृह्णत्य् उवाच - न खलु त्वं पुरुषेत्थंपदीं स्त्रियं पेचिष इति। लोमशौ हास्या अधस्तात् पादाव् आसतुः। संनिपन्नौ वा हासंनिपन्नौ वासतुः। अथ हेदम् एवायः कूटहस्तो गन्धर्वो ऽभिविचक्रमे। स होवाच - नमस् ते ऽस्तु। कास्य प्रायश्चित्तिर् इति
अस्ति वा न वेति होवाच। यद् एव ते किं च पितु स्वं, तस्य सर्वस्य पुरा सूर्यस्योदेतोश् शिरश् छिन्द्धि। सा वैव सा वा नेति। स ह तथा छेत्तुम् उपचक्रमे। ते होचुर् - अदृपद् यवक्रीर्, विबध्नामेति। नेति ह पितोवाच। देवेषितो वै मे पुत्रः करोति। एष एव तद् वेद यद् अत्र श्रेय इति। तद् ध बधिरो ग्रामे तक्षा प्रतिषिध्यमानं न शुश्राव। तस्य ह घ्नन् परेयाय। स ह - को नु नो जनस् तृणेढीति। स एवास्य प्रजघानेत्य् एके। घ्नन्तम् एवैनं सूर्यो ऽभ्युदियाय। तस्योदिते स एव गन्धर्वः प्रजघानेत्य् एके। यथा ह तु ममार तथास। शश्वद् धास्य स एव गन्धर्वः प्रजघान
तद् उ ह मौण्डिभो ऽनुबुध्योवाच - संमिनुत मे सदोहविर्धाने, याजयत मा ब्राह्मणाः। अमृत ह वै स ब्राह्मणो ऽअनुव्याहारीति। तस्य ह तथा चक्रुः। तद् उ ह सौमस्तंबिर् अनुबुध्याजगाम। स ह तथैवास्तावं प्रतिनिषसाद। तस्य हायं पूषा रयिर् भग इत्य् एता एव प्रतिपदश् चक्रुः। स होवाच - न वै किलायं राजन्यबन्धुर् इमं यज्ञक्रतुं विदांचकार। न वै किल मे ऽनेनोक्तेन पुत्रम् अवधीत्। एतावद् वाव किल त्यस्य पुत्रस्यायुर् अभूद् इति। तं ह तच् छशाप - मरिष्यत्य् अहायं राजन्यबन्धुः, परो इमे मौण्डिभा भविष्यन्तीति। त एते पराभूता गोतमा ब्रुवाणाश् चरन्ति। तस्य वा एतस्य तरत् स मन्दी धावतीत्य् एव प्रतिपदो भवन्ति तरद्वतीः। तस्माद् अश्वो ऽध्वानं तरिष्टः। धावद्वतीर् भवन्ति। तस्माद् अश्वो ऽध्वानं धावन् समुश्नते। समय्य् एकं पदं भवति। तस्माद् अश्व एकैकं पादम् उदंकन् तिष्ठति
तस्य चतसृषु बहिष्पवमानं भवति। चतुष्पादा वा अश्वा सन्तश् चतुश्शफाः। ते ये चतुष्पादाः पशवश् चतुश्शफास् तान् एवैतेनावरुन्द्धे। अष्टास्व् - अष्टास्व् आज्यानि। अष्टाशफा वै पशवः। ते ऽष्टाशफाः पशवश् तान् एवैतेनावरुन्द्धे। द्वादशो माध्यंदिनः। द्वादशाक्षरा वै जगती। पशवो जगती। यत् क्षुद्रं पशूनां तज् जागतम्। तद् एवैतेनावरुन्द्धे। सविंश आर्भवः पवमानः। द्वे वा एते दशदशिन्यौ विराजौ यद् विंशतिः। विंशतिप्रतिष्ठाना वै पशवो वैराजाः। ते ये विंशतिप्रतिष्ठानाः पशवो वैराजास् तान् एवैतेनावरुन्द्धे। चतुर्विंशम् अग्निष्टोमसाम। चतुष्पादा वै पशवो वैराजाः। ते ये चतुष्पादाः पशवो वैराजास् तान् एवैतेनावरुन्द्धे। अथो चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरेणैवैनत् -
- तत् परिगृह्यैतस्मिन् द्वितीये ऽहन्न् आलभन्ते। तद् एतद् एकविंशं द्वितीयम् अहर् भवत्य् एकस्तोमम्। द्वादश मासाः, पञ्चचर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। यथा ह वै दृढा मेधी निहतैवम् एकविंश स्तोमानाम्। तस्मिन्न् एतान् पशून् आलभन्ते - हस्तिनं परमं प्लुषिम् अवमम्। तान् पर्यग्निकृत्वैकान् लभन्त, उद् एकान् सृजन्ते। ब्रह्म वा अग्निः। ब्रह्मणैवैनांस् तत् पर्यग्निकृत्वैकान् लभन्त, उद् एकान् सृजन्ते। तस्य महानाम्न्यः पृष्ठं भवन्ति। नो ह्य् एतान् अन्यन् महानाम्नीभ्यः पृष्ठं पशून् उद्यन्तुम् अर्हति। तास् सप्तपदा भवन्ति - सप्त वै ग्राम्याः पशवो - ग्राम्याणाम् एवं पशूनाम् अवरुद्धयै। अति सप्तमं पदं भवत्य् आरण्यानाम् एव पशूनाम् अवरुद्धयै। तस्य पार्थुरश्मं ब्रह्मसाम भवत्य् अथकारेण समृद्धम्। अथग् अथग् इतीव ह्य अश्वो धावति। अथो पुथुर् वाव रश्मिर् अश्वं यन्तुम् अर्हति। तद् उ पांक्तं भवति। पांक्तं हि महानाम्नीनां ब्रह्मसाम। तस्यैकविंशतिर् यूपा भवन्य् एकविंशत्यरत्नयः। नो ह्य् एतान् अनेकविंशतिर् यूपाः पशून् उद्यन्तुम् अर्हन्ति। षड् बैल्वा द्वादश खादिराः पौतुद्रवाव् अभितो - ऽग्नेर् वा एतच् छरीरं यत् पूतुद्रु - राज्जुदाल एकविंशतिः। सो ऽग्निष्ठः। प्रजापतिर् वा एष वृक्षाणां यद् राज्जुदालः। तस्य यानि फलानि शिश्नान्य् एव तानि। अथ य श्लेष्मा रेत एव तत्। प्रजापतिर् वै पिता, आदित्यः पुत्रः। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् नानेकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति
अथैष गोविनतश् छन्दोमपवमानः। पशुकामो हैतेन यजेत। तस्योभये स्तोमा भवन्त्य् अयुजश् च युग्मन्तश् च। तद् ये ह वा अयुज स्तोमास् तान् ग्राम्याः पशवो ऽन्व्, अथ ये युग्मन्तस् तान् आरण्याः। पशवो वै छन्दोमाः। स यो हैवं विद्वाञ् छन्दोमपवमानेन यजेत उभयान् एव पशून् अवरुन्द्धे ये च ग्राम्या ये चारण्याः। अथैतद् एकविंशपृष्ठं द्वितीयम् अहर् भवति। यैवासाव् एकविंशस्य प्रशंसा न उपाप्तासद् इति। तद् एवैतस्य ब्राह्मणम्। तस्मिन्न् एतम् अश्वं मेध्यम् आलभन्ते। यद् व् एवैतद् एकविंशपृष्ठं तस्माद् गोविनतः। त्रयस्त्रिंशं पुनरभ्यावर्ति तृतीयस्याह्नो भवति। त्रयस्त्रिंशद् वै देवतास्, त्रयस्त्रिंशद् देवलोकाः। तान् एवैतद् अन्तत आप्त्वाभ्यारोहन्ति। अथ यस्यैतस्य पञ्चदशो ऽग्निष्टोमः, पञ्चदश उक्थ्यः, पञ्चदशो ऽतिरात्र इति। क्षत्रकामो हैतेन यजेत। क्षत्रम् अश्वः, क्षत्रं पञ्चदशः, क्षत्रं यज्ञः। एष तत् तत्सलक्ष्म क्रियते। तेन हैतेनर्षभो याज्ञतुर ईजे श्वैत्नो राजैकराट्कामः। स हेष्ट्वैकराड् आस श्वित्नानाम्। स य श्रीकाम स्यात् स एतेन यजेत। क्षत्रं श्रीः। क्षत्रयज्ञ एषः। अश्नुते श्रियम्
अथ यस्यैतस्य त्रिवृद् अहः पञ्चदशी रात्रिस्, त्रिवृद् अहः पञ्चदशी रात्रिस्, त्रिवृद् अहः पञ्चदशी रात्रि, स्वर्गकामो हैतेन यजेत। दत्वश् च ह सौतेमनसो मित्रविच् च दंष्ट्रद्युम्नस्, तौ ह प्रतिदर्शस्य वैभावतस्य श्वैत्नस्य राज्ञो ब्रह्मचारिणाव् आसतुः। तयोर् ह मित्रविद् दंष्ट्रद्युम्न आचार्यकर्म चकार। गा ह स्म रक्षति। अथ हेतरो ऽध्यायम् एव चचार। तौ ह स्म सायं समागत्यान्योन्यम् आहतुर् - आहर सोम्यानूक्ते हस्तं निधास्याव; आहर सोम्य सुचरिते हस्तं निधास्याव इति। अथ ह दत्वं सौतेमनसम् आचार्यो ऽनुशशास। तौ ह सायं समागत्यान्योन्यम् आहतुर् - आहर सोम्यानूक्ते हस्तं निधारयाव; आहर सोम्य सुचरिते हस्तं निधास्याव इति। नेति होवाच। अति वा अहं त्वद् अमुख्य, आचार्यप्रशिष्टो वा अहम् अस्मीति। स ह तां रात्रिम् अप्रियविद्ध उवास। श्वोह भूते गा अन्वियाय। तं ह गौर् ईक्षित्वैव विजज्ञाव् - अप्रियं वा अस्येति
सा होवाच - वेद वै यत् ते ऽप्रियम्। मा ते ऽप्रियं भूत्। एह्य् अहं तुभ्यं देवयानं पन्थानं वक्ष्यामीति। तथेति। तं हास्मा उवाच। तौ ह सायं समाजग्मतुः। स होवाच - दत्वेहीदम्, आचार्यप्रशिष्टो ब्रूषे। पश्यसि त्वं देवयानं पन्थानम् इति। नेति होवाच। अथ वा अहं पश्यामीति। तं वै मे ब्रूहीति। तथेति। तं हास्मा उवाच। तस्माद् उ ह राजन्यबन्धुर् एव ब्राह्मणात् सुहृदयतरः। स ह दत्वः सौतेमनस उवाच - पश्यसि वै त्वं देवयानं पन्थानम्, एहि स्वर्गं लोकम् अयावेति
नेति होवाच। दानेन वा वै श्रमेण वैतं प्रजानन्न् एति। हन्त नु ददाव वा श्राम्याव वेति। स ह मित्रविद् दंष्ट्रद्युम्नो गोआयुर्भ्याम् एव संवत्सरम् इयाय। स होपरिष्टाद् एव संवत्सरस्य स्वर्गं लोकम् इयाय। अथ ह दत्वस् सौतेमनस एतेनैव त्रिरात्रेणेष्ट्वा स्वर्गं लोकम् इयाय। तेन हैतेनेष्ट्वैव स्वर्गं लोकम् एति। एतेनो एव हिरण्यदन् वेद ईजे द्वन्द्वकामः। यद् इदम् गो अश्वं हस्तिहिरण्यम् अजाविकं व्रीहियवास् तिलमाषा इति, तद् धास्य बह्व आस। स यो हैवं विद्वान् एतेन द्वन्द्वकामो यजते, बहु हैवास्यैतद् भवति
अथैषो ऽन्तर्वसुः। खण्डिकश् च हौद्भारिः केशी च दार्भ्यः पाञ्चालेषु पस्पृधाते। स ह खण्डिकः केशिनम् अभिबभूव। स ह केशी खण्डिकेन निबाढ उच्चैःश्रवसं कौवयेयं जगाम कौरव्यं राजानां मातुर् भ्रातरम्। तं होवाच - यज्ञं मे विधेहीति। तथेति होवाच। कथं ते विधास्यामि। यथास्मिन् लोक ऋध्नोती3, यथा हो अमुष्मी3न् इति। यथास्मिन्न् इति होवाच। स होवाचोत नु स यज्ञं पृच्छति यो यज्ञस्सहयं न वेदेति। कथा हेति। अमुष्मै ह्य् एव लोकाय यज्ञो नास्मा इति। नेति होवाच। खण्डिको वै त्यम् औद्भारिर् अभ्यभूत्। स यथा तम् अभिभवाम्य् एवं मे विधेहीति। तस्मा एतम् अन्तर्वसुं विदधौ। सर्वस्तोमो ऽग्निष्टोमः। इत - ऊर्ध्व - छन्दोमविधं मध्यमम् अहश् - चतुर्विंशं प्रातस्सवनं, चतुश्चत्वारिंशं माध्यंदिनं सवनम्, अष्टाचत्वारिंशं तृतीयसवनम्। सर्वस्तोमो ऽतिरात्रः परस्तात् प्रत्यङ्। ब्रह्म वै चतुर्विंश, क्षत्रं चतुश्चत्वारिंशो, विड् अष्टाचत्वारिंशः। संवत्सरो वै सर्वस्तोमः। तम् एताभ्याम् एव सर्वस्तोमाभ्याम् एतां त्रयीं विशं परिगृह्यात्मन् दधे। तस्यै ह श्रियं जगाम
ततो वै स खण्डिकं निस्सारयांचकार। ततो वै केशी दार्भ्यो ऽभवत्, परा खण्डिकः। भवत्य् आत्मना, परास्य द्विषन् भ्रातृव्यो भवति, य एवं वेद। स य श्रीकाम स्यात्, स एतेन यजेत। एताभ्याम् एव सर्वस्तोमाभ्याम् एतां त्रयीं विशं परिगृह्यात्मन् धत्ते। तस्यै ह श्रियं गच्छति।
अथैष पराकः। स्वर्गकामो हैतेन यजेत। तस्य पराञ्च्य् एव स्तोत्राणि भवन्ति, पराञ्चि शस्त्राणि, पराञ्चि पृष्ठानि, पराचीर् विष्टुतयः, पराङ् एव सर्वो भवति। तेन हैतेनोच्चैःश्रवाः कौवेयाय ईजे स्थविरो राजा कौरव्यः। स हेष्ट्वैव स्वर्गं लोकम् इयाय। तेन हैतेनेष्ट्वैव स्वर्गं लोकम् एति। अथ यस्यैतस्य ज्योतिर् अग्निष्टोमो ज्योतिर् उक्थ्यो ज्योतिर् अतिरात्र इति ब्रह्मवर्चसकामो हैतेन यजेत। ज्योतिर् इव ह वै स भाति यो ब्रह्मवर्चसम् ऋध्नोति। ऋध्नोति हैनेन ब्रह्मवर्चसं, ब्रह्मवर्चसी भवति। अथ यस्यैतस्य सप्तदशो ऽग्निष्टोमस्, सप्तदश उक्थ्यस्, सप्तदशो ऽतिरात्र इति प्रजापतेर् अश्वमेधः। प्रजननकामो हैतेन यजेत। अथ यस्यैतस्यैकविंशो ऽग्निष्टोम, एकविंश उक्थ्य, एकविंशो ऽतिरात्र इत्य् आदित्यस्याश्वमेधः। स्वर्गकामो हैतेन यजेत
अथैते चतूरात्राः। अत्रिर् वा अकामयत - चत्वारो मे वीरा आजायेरन्न् इति। स एतं चतूरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै तस्य चत्वारो वीरा आजायन्त। अस्य चत्वारो वीरा आजायन्ते य एवं वेद। अत्रिरृषयो वा अकामयन्त - चत्वारश् चत्वारो नो वीरा आजायेरन्न् इति। त एतं चतूरात्रं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्। ततो वै तेषां चत्वारश् चत्वारो वीरा आजायन्त। अस्य चत्वारश् चत्वारो वीरा आजायन्ते य एवं वेद। आ चतुरं ह खलु वै मिथुनं प्रजननं मिथुनं पराचीनम्। एकश् च वा एका च, द्वौ च द्वे च, त्रयश् च तिस्रश् च, चत्वारश् च चतस्रश् च, एतद् वा आ चतुरं मिथुनं प्रजननम्। न ह वै पञ्च च पञ्च चेति नाम सन्ति। तद् यन् मिथुनं प्रजननं तन् मा प्रजनयाद् इति। तस्य चतुर्विंशाः पवमाना भवन्ति - चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरः प्रजननं - स मा प्रजनयाद् इति। तस्योभे बृहद्रथन्तरे। तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति। तस्योभये स्तोमा भवन्त्य् अयुजश् च युग्मन्तश् च। एतद् वै दैव्यं मिथुनं प्रजननं यद् उभये स्तोमाः। तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति
अयुजश् च उत्तरे स्तोमा भवन्ति। ऋतवो वा अयुजः। ऋतवो वा इदं सर्वं प्रजनयन्ति। ते य इदं सर्वं प्रजनयन्ति ते मा प्रजनयान् इति। अह्नो ऽह्न स्तोमम् उत्सृजमाना यन्ति। अह्नो ऽह्न स्तोमम् अभ्युपाहरन्ते। वीरो वा एष यत् स्तोमः। अह्नो ऽह्न एव तद् वीर्यं प्रजनयन्तो यन्त्य्, अह्नो ऽह्नो वीर्यम् अभ्युपाहरन्ते, ऽक्षरेणाक्षरेणोत्क्रामन्तो यन्ति। एकाक्षरणिधनं प्रथमे ऽहनि भवति, द्व्यक्षरणिधनं द्वितीयं, त्र्यक्षरणिधनं तृतीये, चतुरक्षरणिधनं चतुर्थे - ऽक्षरेष्ठा वीरो ऽसद्, अक्षरेष्ठा वीरो ऽसद् इति। नानाग्निष्टोमसामानि भवन्ति - वीराणाम् एव नानावीर्यतायै। न ह वै स वीरो यो ऽन्यस्य वीर्यम् अनु वीरः। स ह वाव वीरो य आत्मन एवं वीर्यम् अनु वीरः। तद् यन् नानाग्निष्टोमसामानि भवन्ति वीराणाम् एव नानावीर्यतायै
तद् आहुर् - यज्ञायज्ञीयम् एवाह्नो ऽह्नो ऽग्निष्टोमसाम कुर्युः। ज्यैष्ठयं वै यज्ञायज्ञीयम। ज्यैष्ठ्याद् वीरो न च्यवाता इति। तद् यत् समानि स्तोत्राणि स्युस् समावच्छ एव वीर्यम् अश्नुवीरन्। यद् विषमाणि ज्येष्ठेष्व् एवैकधा वीर्यं दध्युः। तद् यत् समाः पवमाना भवन्ति समावच्छ एव तद् वीर्यम् अश्नुवते। अथ यद् उत्तरै स्तोत्रैर् उत्क्रामन्तो यन्ति ज्येष्ठेष्व् एव तद् भूयो भूयो वीर्यं दधतो यन्ति। द्विरात्रो ह खलु वा एष तायते। यो बृहद्रथन्तराभ्याम् अभि त्वा वृषभा सुत इत्य् एतासु तृतीये ऽहनि रथन्तरं पृष्ठं कुर्युः। तद् यद् अभि त्वेति तेन रथन्तरस्य रूपान् न यन्ति। गायत्र्यायातयाम्न्या तृतीयम् अहस् तायते। कस् तम् इन्द्र त्वावसव् इति मैत्रावरुणसाम। तासाम् इहाक्षराणि संपद्यन्ते। या गायत्र्यो गायत्र्यस्ता, याः ककुभः ककुभस् ता, या बृहत्यो बृहत्यस् ताः। यथायतनं छन्दांसि युज्यन्ते। गायत्र्या वै प्रथमम् अहस् तायते, त्रिष्टुभा द्वितीयं, जगत्या तृतीयम्, अनुष्टुभा चतुर्थम्। तं त्वा यज्ञेभिर् ईमह इत्य् एतासु चतुर्थे ऽहनि बृहत् पृष्ठं कुर्युः। तद् यत् तं त्वेति तेन बृहतो रूपान् न यन्ति। अनुष्टुभायातयाम्न्या चतुर्थम् अहस् तायते। वयम् उ त्वाम् अपूर्व्येति मैत्रावरुणसाम। तासाम् इहाक्षराणि संपद्यन्ते। या गायत्र्यो गायत्र्यस् ता, याः ककुभः ककुभस् ता, या बृहत्यो बृहत्यस् ताः। यथायतनं छन्दांसि युज्यन्ते
अग्निष्टोमो वै प्रथमम् अहर्, उक्थ्यो द्वितीयं, षोडशिमांस् तृतीयम्, अतिरात्रश् चतुर्थम्। नानावीर्याण्य् अहानि भवन्ति, वीराणाम् एव नानावीर्यतायै। अथ ह स्माह तक्षको भागेरथिर् मात्स्यो राजानु चतूरात्रः पृष्ठानि व्याप्नोति। द्विरात्रो वै बृहद्रथन्तराभ्यां तायत इति। वैरूपं च महानाम्नयश् च तृतीये ऽहनि कुर्युः। राथन्तरे वैते। राथन्तरं तृतीयम् अहर् इति। वैराजं च रेवत्यश् च चतुर्थे ऽहनि कुर्युः। बार्हते वैते। बार्हतं चतुर्थम् अहर् इति। एवं वै चतूरात्रः पृष्ठानि व्याप्नोतीति ह स्म स आह। तद् आहुः - को यज्ञानां वर्षिष्ठः, को वरिष्ठ इति। स ब्रूयाद् - त्रिरात्र एव यज्ञानां वर्षिष्ठ इति। इमे वै लोकास् त्रिरात्रो दिश एव चतूरात्रः
अथैष जामदग्न्यः। प्रजननकामो हैतेन यजेत। जमदग्निर् वा अकामयत -- बहुः प्रजया पशुभिः प्रजायेयेति। स एतं चतूरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स बहुः प्रजया पशुभिः प्रजायत। अपि हास्य द्वाव् और्वौ प्रजायां न संजज्ञाते - कयस् त्वम् इसि, कयस् त्वम् असीति। तथा बहुर् इह प्रजज्ञे। तस्माद् इदम् अप्य् एतर्हि द्वाव् और्वौ पलितौ समागत्य न संजानाते। बहुः प्रजया पशुभिः प्रजायते य एवं वेद। तस्याहुस् संवत्सरम् एव दीक्षा स्युर् इति। प्रजननं वै संवत्सरः। प्रजननम् एष यज्ञः। तत् तत् प्रजननं क्रियते। तस्माद् उ हैनेन प्रजननकामो यजेत। अथो आहुर् - अष्टाचत्वारिंशद् एव स्युर् इति। अष्टाचत्वारिंशदक्षरा वै जगती। पशवो जगती। जागत एष यज्ञः। तस्माद् उ हैनेन पशुकामो यजेत। अथो आहुष् - षट्त्रिंशद् एव (स्युः)। षट्त्रिंशदक्षरा वै बृहती। बृहती वै स्वर्गं लोकम् आनशे। तद्वा अस्य स्वर्ग्यम्। तस्माद् उ हैनेन स्वर्गकामो यजेत। तानि त्रीणि जागतानि। त्रीणि जागतानि पदानि भवन्ति। तेन जगत्यै रूपान् न यन्ति। अथो आहुश् चतुर्विंशतिर् एव स्युर् इति। चतुर्विंशत्यर्धमासस् संवत्सरः प्रजननम्। प्रजननम् एष यज्ञः। तत् तत् प्रजननं क्रियते। तस्माद् उ हैनेन प्रजननकामो यजेत। तद् एकं जागतं पदं भवति। तेनैव जगत्यै रूपान् न यन्ति
तद् आहुर् - यद् गायत्र्या प्रथमम् अहस् तायते, त्रिष्टुभा द्वितीयं, जगत्या तृतीयम्, अनुष्टुभा चतुर्थम्, अथ कस्माज् जागत एवैष यज्ञ आख्यायत इति। स ब्रूयाद् - यदा वै बह्वश्वो वा बह्वश्वतरीको वान्यान् अन्यान् आयुंजान एत्य्, एवम् एवैतज् जगत्य् अन्यद् अन्यच् छन्दो ऽभ्यारोहन्त्य् एतीति। अथो यद् एवैतानि स्तोत्राणि संस्तुतानि जगतीम् अभि संपद्यन्ते, तेनो एव जागत इति। अथो ज्यैष्ठ्यं वै जगती छन्दसाम्। तस्माज् ज्यैष्ठ्येन गृह्यान् आचक्षतैनेन गृह्यांश् चक्षते य एवं वेद। द्विरात्रो ह खलु वै एष तायते यो बृहद्रथन्तराभ्याम् अभि त्वा वृषभा सुत इत्य् एतासु तृतीये ऽहनि रथन्तरं पृष्ठं कुर्युः। तद् यद् अभि त्वेति तेन रथन्तरस्य रूपान् न यन्ति। गायत्र्यायातयाम्न्या तृतीयम् अहस् तायते। कस् तम् इन्द्र त्वावसव् इति मैत्रावरुणसाम। तासाम् इहाक्षराणि संपद्यन्ते। तं त्वा यज्ञेभिर् ईमह इत्य् एतासु चतुर्थे ऽहनि बहत् पृष्ठं कुर्युः। तद् यत् तं त्वेति तेन बृहतो रूपान् न यन्ति। अनुष्टुभायातयाम्न्या चतुर्थम् अहस् तायते। वयम् उ त्वाम् अपूर्व्यैति मैत्रावरुणसाम। तासाम् इहाक्षराणि संपद्यन्ते
व्यूढच्छन्दा ह खलु वा एष चतूरात्रः। पूर्वो वै बृहत्यै पृष्ठेषु योग उत्तरो गायत्र्यै पूर्वो वा उष्णिक् ककुभोर् आर्भवे योग उत्तरो अनुष्टुभः। तद् यद् एतानि व्यतिषक्तानि छन्दांसि क्रियन्ते - व्यतिषक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते - प्रजात्या एव। अथो व्यतिषक्तो वै पुरुषः। पाप्मभिर् व्यतिषक्तैर् एव तच् छन्दोभिर् व्यतिषक्तान् पाप्मनो ऽपहते। तद् आहुः - किम् अनु चतूरात्र इति। अहोरात्रे इति ब्रूयात्। अहोरात्रे ह वा अनु चतूरात्रः। अहर् एव प्रथमेनाह्ना स्तृणुते, ऽह्नः केतुं द्वितीयेन, रात्रिम् एव तृतीयेनाह्ना स्तृणुते, यः प्रातरह्नः केतुस् तं चतुर्थेन। अहोरात्रे वा इदं सर्वं प्रजनयतः। ते य इदं सर्वं प्रजनयतस् ते मा प्रजनयताम् इति। अथो ह ब्रूयाद् - दिश एवानु चतूरात्र इति। चतस्रो दिशः। ऊर्ध्वा दिक् पञ्चमी। चत्वार्य् एतान्य अहानि भवन्ति। रात्रिः पञ्चमी। दिश एवैतेनर्ध्नोति। दिक्षु प्रतिष्ठाय स्वर्गं लोकम् एति। तस्यैताः पुरोडाशिनीर् उपसदो भवन्ति। योनिर् वै पुरोडाशो रेत आज्यम्। तद् यत् पुरोडाशं हुत्वाज्येनाभिजुहोति, योन्याम् एव तद् रेतः प्रतिष्ठापयन्ति। अनुष्ठ्यास्य रेतस् सिक्तं प्रजायते, य एवं वेद। अथो याभ्य एवैतद् देवताभ्यो हवींषि निर्वपति, तास्व् एवैतद् ऋध्नोति। तासु प्रतिष्ठाय स्वर्गं लोकम् एति
अथैष प्राजापत्यः। प्रजननकामो हैतेन यजेत। प्रजापतिर् वा अकामयत - बहुः प्रजया पशुभिः प्रजायेयेति। स एतं चतूरात्रम् अपश्यत्। तम् आहरत्। तेनायजत। तस्यैते त्रिवृत्पञ्चदशा स्तोमा भवन्ति सप्तदशैकविंशाः। ऊनातिरिक्ता मिथुनाः प्रजनयः। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते। त्रिवृच् च पञ्चदशश् च तन् मिथुनं प्रजननम्। सप्तदशश् चैकविंशश् च तन् मिथुनं प्रजननम् - तद् यन् मिथुनं प्रजननं तन् मा प्रजनयाद् इति। ततो वै स बहुः प्रजया पशुभिः प्रजायत। बहुर् एव प्रजया पशुभिः प्रजायते य एवं वेद। अथो आहुस् तासाम् एव प्रजानां सृष्टानां परावापाद् अबिभेद् इति। स एतं चतूरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। तस्याग्निष्टोमाव् अभितो भवत, उक्थ्यौ मध्ये। ब्रह्म वा अग्निष्टोमः, प्रजाः पशव उक्थ्यानि। ब्रह्मणैव तद् उभयतः प्रजाः पशून् परिगृह्णीते परावापाय। नास्य वित्तं परोप्यते य एवं वेद
अथैष वसिष्ठस्य संसर्पः। वसिष्ठो वा अकामयत - सम् इमान् लोकान् सर्पेयम् इति। स एतं चतूरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स इमान् लोकान् समसर्पत्। यद् इमान् लोकान् समसर्पत् तत् संसर्पस्य संसर्पत्वम्। सम् इमान् लोकान् सर्पति य एवं वेद। तस्य त्रयस्त्रय स्तोमा युक्ता अहर् वहन्ति। त्रयस्त्रयो वै युक्तानां वहिष्ठौ। युक्तेन तत्र गच्छति यत्र जिगमिषति। अथो आहुः प्रजाकाम एवैनेन यजेतेति - स्तोमो वा एतत्, स्तोमेन संसक्तो भवति। संसक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते - प्रजात्या एव। अह्नो ऽह्न स्तोमम् उत्सृजमाना यन्त्य्, अह्नो ऽह्न स्तोमम् अभ्युपाहरन्ते
अथैष गौतमस्य चतुष्टोमः। गौतमाय वै न श्रद्दधत। अश्रद्धानीयो राजन्य ऋषिर् इति। सो ऽकामयत श्रन् मे दधीरन्, श्रद्धानीय स्याम् इति। स एतं चतूरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै तस्मै श्रद्दधत, श्रद्धानीयो ऽभवत्। श्रद्धानीयो भवति य एवं वेद। स वा एष कृतस्तोमः। श्रद्धा वै कृतम्। यद् ध वा इदं कृतेन जित्वा हरन्ति, श्रद्धया हैव तद् धरन्ति। तस्मात् कृतस्तोमः। स वा एष चतुरुत्तर्य्य् अङ्गिरसाम्। द्व्युत्तरेण वा आदित्या स्वर्गं लोकम् आयंश्, चतुरुत्तरेणांगिरसः। चतुरुत्तरेण स्वर्गं लोकम् एति य एवं वेद। तद् आहुर् अपभ्रंशी यज्ञक्रतुर् ईश्वरः पुरायुषो ऽमुं लोकम् एतोर् इति। तद् यत् प्रत्यवरोहीणि स्तोत्राणि भवन्ति तेनानपभ्रंशी, तेनो आयुष्यः।
अथैष विश्वज्योतिः। देवा वा अकामयन्त - सर्व एव ज्योतिर् इव स्यामेति। त एतं चतूरात्रं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। ततो वै ते सर्व एव ज्योतिर् इवासन्। तस्माद् यम् अप्य् एतर्हि देवानां पश्यन्ति ज्योतिर् इवादृश्मेत्य् एवाहुः। स यो ब्रह्मवर्चसकाम स्यात् स एतेन यजेत। ज्योतिर् इव ह वै स भाति यो ब्रह्मवर्चसम् ऋध्नोति। ऋध्नोति हैनेन ब्रह्मवर्चसं, ब्रह्मवर्चसी भवति
अथैते पञ्चरात्राः। पञ्च वै जयाः। पञ्चभिर् वै व्याहृतिभिर् इदं देवा अजयन्। तद् यावतेदं देवा अजयंस् तावता जयानीति। पांक्तो यज्ञः। यावती यज्ञस्य मात्रा ताम् आप्नवानीति। पांक्ताः पशवः। यावती पशूनां मात्रा तावता मा पशवो ऽवरुद्धा उपतिष्ठान्ता इति। पांक्तम् अन्नाद्यम्। यावत्य् अन्नाद्यस्य मात्रा तावता मान्नाद्यम् अवरुद्धम् उपतिष्ठाता इति। पञ्चैतान्य् अहानि भवन्ति। पञ्चर्तवस् संवत्सरः। संवत्सरः प्रजापतिर् यज्ञः। संवत्सरम् एवैतेन प्रजापतिं यज्ञम् आप्नोति। देवासुरा अस्पर्धन्त। ते नैव दण्डैर् नेषुभिर् व्यजयन्त। ते ऽब्रुवन् - न वै दण्डैर् नेषुभिर् विजयामहे। वाच्य् एव वाव नो ब्रह्मन् विजयो ऽस्त्व् इति। त ऐक्षन्त - यतरे नो यतरान् पूर्वे ऽभिव्याहरिष्यन्ति, तेषां क्षेष्यत इति। ते देवा असुरान् अब्रुवन् - यूयं पूर्वे ब्रूध्वम् इति। यूयम् इद् वा इत्य् असुरा देवान्। ते देवा एतद् वाचो मिथुनम् अपश्यन्
एको ऽस्माकम् इति देवा अब्रुवत, एकास्माकम् इत्य् असुराः। मन एव देवा अब्रुवत, वाचम् असुराः। ते देवा मनसैव वाचम् असुराणाम् अवृञ्जत। तस्माद् यन् मनसाधिगच्छति, तद् वाचा वदति। द्वाव् अस्माकम् इति देवा अब्रुवत, द्वे अस्माकम् इत्य् असुराः। प्राणापानाव् एव देवा अब्रुवत, अहोरात्रे असुराः। ते देवाः प्राणापानाभ्याम् एवाहोरात्रे असुराणाम् अवृञ्जत। तस्माज् ज्योग् जीवन् बहून्य् अहोरात्राण्य् अवनयति। त्रयो ऽस्माकम् इति देवा अब्रुवत, तिस्रो ऽस्माकम् इत्य् असुराः। इमान् एव त्रीन् लोकान् देवा अब्रुवत, तिस्रो विद्या असुराः। ते देवा एभिर् एव लोकैस् तिस्रो विद्या असुराणाम् अवृञ्जत। तस्माद् एता विद्या एष्व् एव लोकेषु प्रोच्यन्ते। चत्वारो ऽस्माकम् इति देवा अब्रुवन्, चतस्रो ऽस्माकम् इत्य् असुराः। चतुष्पद एव पशून् देवा अब्रुवत, चतस्रो दिशो ऽसुराः। ते देवा चतुष्पाद्भिर् एव पशुभिश् चतस्रो दिशो ऽसुराणाम् अवृञ्जत। तस्माद् यां कां चन दिशं पशुमान् अयति, सर्वाम् एव जितां क्लृप्तां प्रतिष्ठिताम् अन्वेति। पञ्चास्माकम् इति देवा ऋतून् एवाब्रुवन्। अथासुरा न प्राविन्दन्। न हि पञ्चि किं चनास्ति। ते ऽसुरा आरम्भम् अविन्दन्तः पञ्च पञ्चेत्य् एव वदन्तः पराजयन्। ततो वै देवा अभवन्, परासुराः। भवत्य् आत्मना , परास्य द्विषन् भ्रातृव्यो भवति, य एवं वेद
जितिर् वा एता व्याहृतयः। जितिः पञ्चरात्रः। जयति जयति य एवं वेद। सा वा एषा सर्वस्यान्या जितिस् सर्वस्यान्या पराजितिः। सर्वं वा एतेन देवा असुरान् अजयन्। सर्वम् असुराः पराजयन्त। सर्वम् एव द्विषन्तं भ्रातृव्यं जयति, सर्वम् अस्य द्विषन् भ्रातृव्यः पराजयते, य एवं वेद। अथैते सन्तता भवन्ति। यथा ह वै दारूणि वध्रेण सन्ततानि रथस्य वानसो वैवं स्तोमैः पञ्चरात्रस् सन्ततः। प्राणा ह खलु वै स्तोमाः। प्राणैः पुरुषस् सन्ततः। सं ह तायते य एवं वेद। तस्य द्वौ -द्वौ स्तोमौ युक्ताव् अहर् वहतः। द्वौ - द्वौ वै युक्तानां वहिष्ठौ। युक्तेन तत्र गच्छति यत्र जिगमिषति
अथ यस्यैतस्य ज्योतिर् गौर् आयुर् इति त्र्यहः पञ्चविंशं महाव्रतं सर्वस्तोमो ऽतिरात्रो, ऽन्नाद्यकामो हैतेन यजेत। तद् आहुर् - न पुरा संवत्सरान् महाव्रतम् उपेत्यम् इति। तद् यज् ज्योतिर् गौर् आयुर् इति त्र्यहो भवत्य् - अयं वै लोको ज्योतिर्, अयं गौर्, असाव् आयुः। इमे वै लोका ऋतवस् संवत्सरः। ऋतवस् संवत्सरः कृत्स्नम् अन्नाद्यं पचति - संवत्सरराभिजितम् एव तद् अन्नाद्यम् उपयन्ति। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति।
अथ यस्यैतस्य त्रिवृत् पञ्चदशस् सप्तदश इति त्र्यहः पञ्चविंशं महाव्रतं सर्वस्तोमो ऽतिरात्रो, ऽन्नाद्यकाम उ एवैतेन यजेत। तद् आहुर् न पुरा संवत्सरान् महाव्रतम् उपेत्यम् इति। तद् यत् त्रिवृत् पञ्चदशश् सप्तदश इति त्र्यहो भवत्य् - अयं वै लोकस् त्रिवृद्, अयं पञ्चदशो, ऽसौ सप्तदशः। इमे वै लोका ऋतवस् संवत्सरः। ऋतवस् संवत्सरः कृत्स्नम् अन्नाद्यं पचति - संवत्सराभिजितम् एव तद् अन्नाद्यम् उपयन्ति। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्या तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति
अथ यस्यैतस्य ज्योतिर् गौर् आयुर् इति त्र्यहश चतुर्विंशम् अहस् सर्वस्तोमो ऽतिरात्रो, यः कामयेत परोक्षोपेतं मे महाव्रतं स्याद् इति, स एतेन यजेत। तद् यच् चतुर्विंशम् अहर् भवति, तेनैवास्य परोक्षोपेतं महाव्रतं भवति। यद् व् एव तत्र हिंकारो वा प्रस्तावो वा प्रतिहारो वा किञ्चिद् भवति तेनैवास्य पञ्चविंश्य् उपाप्ता भवति। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥
अथ यस्यैतस्य त्रिवृत् पञ्चदशस् सप्तदश इति त्र्यहश्, चतुर्विंशम् अहर्, ज्योतिर् अतिरात्रो, य उ एव कामयेत परोक्षोपेतं मे महाव्रतं स्याद् इति, स एतन यजेत। तद् यच् चतुर्विंशम् अहर् भवति, तेनैवास्य परोक्षोपेतं महाव्रतं भवति। यद् व् एव तत्र हिंकारो वा प्रस्तावो वा प्रतिहारो वा किञ्चिद् भवति, तेनैवास्य पञ्चविंश्य् उपाप्ता भवति। ज्योतिर् अतिरात्र - एतद् वै प्रज्ञातं देवतीर्थं यज् ज्योतिर् अतिरात्रः - प्रज्ञातेन देवतीर्थेनारिष्ट उदृचम् अश्नवामहा इति
अथ यस्यैतस्य ज्योतिषी अग्निष्टोमाव् अभितो भवतो, गोआयुषी उक्थ्याव् अन्तरौ, ज्योतिर् अतिरात्रो मध्ये, प्रजननकामो हैतेन यजेत। एतद् वै कृत्स्नं प्रजननं यज् ज्योतिर् अतिरात्रः। मध्यत उ वा आत्मनः प्रजननम्। तद् यन् मध्ये ज्योतिर् अतिरात्रो भवति, मध्य एवैतद् आत्मनः प्रजननं धत्ते, बहुर् भवति, प्रजायते। गोआयुषी उक्थ्याव् अन्तरौ भवतः। पशवो वा उक्थानि। तयोः पञ्चशतानि स्तोत्रियाः। पशुभिर् एव तद् उभयतः प्रजां परिगृह्णीते। ज्योतिषी अग्निष्टोमाव् अभितो भवतः। ब्रह्म वै ज्योतिर् अग्निष्टोमः। ब्रह्मणैव तद् उभयतः प्रजां पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद॥
अथ यस्यैतस्य ज्योतिषी अतिरात्राव् अभितो भवतो, गोआयुषी उक्थ्याव् अन्तरौ, ज्योतिर् अग्निष्टोमो मध्ये, यः कामयेता मे ब्रहमवर्चसी प्रजायां जायेतेति, स एतेन यजेत। तेजो वै ब्रह्मवर्चसो ज्योतिर् अग्निष्टोमः। मध्यत उ वा आत्मनः प्रजननम्। तद् यन् मध्ये ज्योतिर् अग्निष्टोमो भवति, मध्यत एवैतद् आत्मनो ज्योतिर् धत्ते, आ हास्य ब्रह्मवर्चसी प्रजायां जायते। गोआयुषी उक्थ्याव् अन्तरौ भवतः। पशवो वा उक्थानि। तयोः पञ्चशतानि स्तोत्रियाः। पशुभिर् एव तद् उभयतो ब्रह्मवर्चसिनीं प्रजां परिगृह्णीते। ज्योतिषी अतिरात्राव् अभितो भवतः। इमौ वै लोकाव् अतिरात्रौ। आभ्याम् एवैतल् लोकाभ्याम् उभयतः प्रजां पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद
अथैते षड्रात्राः। मरुतो वा अकामयन्तौजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा देवानां स्याम, जयेम स्वर्गं लोकम् इति। त एतं षड्रात्रं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। ततो वै त ओजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा देवानाम् आसन्न्, अजयन् स्वर्गं लोकम्। ओजिष्ठो बलिष्ठो भूयिष्ठो वीर्यवत्तम स्वानां भवति, जयति स्वर्गं लोकं, य एवं वेद। पृष्ठ्येन षडहेन यन्ति। श्रीर् वै वर्ष्म पृष्ठानि। ओजसैव तद् वीर्येण यन्ति। स्वर्गो वै लोकः पृष्ठानि। स्वर्गम् एव तल् लोकं रोहन्तो यन्ति। तेषां सरस्वत्या उपमज्जने दीक्षा। दक्षिणे तीरे दीक्षन्ते
चक्रवती सदोहविर्धाने भवत, उलूखलबुध्नो यूप, उत्क्रान्त्या अनपभ्रंशाय। यद् धि ते तत्र कुर्वाणा इवासीरन्न्, अपभ्रंशो हैषां सः। शम्यापरासं यन्ति। एते ह व स्वर्गस्य लोकस्य विक्रमा यच् छम्यापरासाः। स्वर्गस्यैव तल् लोकस्य विक्रमान् क्रममाणा यन्ति। घ्नन्त आक्रोशन्तो यन्ति। एतद् वै बलस्य रूपमं यद् धतम् आक्रुष्टम्। सरस्वत्या यन्ति। वाग् वै सरस्वती। वाग् उ देवयानः पन्थाः। देवयानेनैव तत् पथा यन्ति। प्रतीपं यन्ति। प्रतीपम् इव वै स्वर्गो लोकः। स्वर्गम् एव तल् लोकं प्रतिपद्यन्ते। प्राञ् च उदञ् च यन्ति। प्राङ् इव ह वा इदं स्वर्गो लोकः। स्वर्गम् एव तल् लोकं रोहन्तो यन्ति। आ प्रक्षात् प्रास्रवणाद् यन्ति। एष उ ह वै वाचो ऽन्तो यत् प्रक्षः प्रास्रवणः। यत्रो ह वै वाचो ऽन्तस्, तत् स्वर्गो लोकः। स्वर्गम् एवैतल् लोकं गच्छन्ति
तेन हैतेन मरुतो यत इन्द्राग्नी ईक्षांचक्राते इमे चेद् वा इदं समापयन्ति, मरुत एवेदं सर्वं भवन्तीति। तान् ह सत्रपरिवेषणं सहस्रं जिग्यतुः। तद् धैषां विमाथीचक्रिरे। पाप्मानं ह वा एषां तद् विमेथिरे। तस्माद् उ ह विमाथ्यस्य न लिप्सेत, नेत् पाप्मनो ऽपभजा इति। तयोर् ह वै ते ऽद्यान्यान् अराथुः। ते होत्तस्थुर् - अरात्स्मेति। तेषाम् एता उदृचो - यत् समापयन्ति, सैका। यद् एषाम् म्रियते सैका। यद् दश गावश् शतं भवन्ति, सैका। यच् छतं गावस् सहस्रं भवन्ति, सैका। तेन हैतेन पुरायु स्थूरगृहपतयः। तान ह त्रिकर्तानां वा सल्वानां वा व्याधिनीः पर्युत्थाय जिग्युः। तद् धैषां गृहपतिं जघ्नुः। तं हेमं गृहपतिं हतम् अभितः कृपयमाणा निषेदुः। तम् उ ह ध्रुवगोपः सांकाशिनेनैव द्रवन्तं निजज्ञौ। स आहवनीयाद् एवोर्ध्व स्वर्गं लोकम् आचक्रमे। स होवाच - मा कृपयध्वै। यं वा इमं कृपयध्वे, ऽयं वै स आहवनीयाद् एवोर्ध्वं स्वर्गं लोकम् आक्रांस्तेति। तेषां यांस् तत्र जघ्नुस्, ते स्वर्गं लोकम् ईयुः। अथ ये परिशिशिषिरे, त इम एतर्हि पणाय्यतरा इव स्थूराणाम्। पापग्रामतरा इव हि ततः पुरासुः। तस्माद् उ स्थौर्यं शम्यापरासिनेत्य आख्यापयन्ति
अथ यस्यैतस्य विश्वजिद् अभिजिताव् अतिरात्राव् अभितो भवतो, गौर् आयुर् गौर् आयुर् इति चत्वार उक्थ्या मध्ये, पशुकामा हैतद् उपेयुः। अयं वै लोको ऽभिजिद्, असौ विश्वजित्। अथैते चत्वारो मध्य उक्थ्या भवन्ति। पशवो वा उक्थानि। तेषां सहस्रं स्तोत्रियाः। अनेन चैव तल् लोकेनामुना चोभयत एतान् पशून परिगृह्णीते, ऽव पशून् रुन्धते। बहुपशवो ह भवन्ति। एतेन ह वै तद् एनेनेन्द्राग्नी मरुतः सहस्रं जिग्यतुः। अग्निर् अभिजिद्, इन्द्रो विश्वजित्। अथैते चत्वारो मध्य उक्थ्या भवन्ति। पशवो वा उक्थानि। तेषां सहस्र स्तोत्रिया। एतद् ध वै तद् इन्द्राग्नी उभयतस् सहस्रं परिगृह्याजह्रतुः। आभ्यां च ह वा एनं तल् लोकाभ्याम् इन्द्राग्निभ्यां चोभयतः पशवः परिगृहीता उपतिष्ठन्ते, य एवं वेद। तेषाम् उ तेषां परीणद् इति कुरुक्षेत्रस्य जघनार्धे सरस्कन्दन्तं दीक्षायै। ते प्राञ्चो यन्ति समया कुरुक्षेत्रम्। एतद् वै देवानां देवयजनं यत् क्षेत्रं। देवानाम् एव तद् देवयजनेन यन्ति। तेषां यमुनावभृथः। एष वै स्वर्गो लोको यद् यमुना। स्वर्गम् एव तल् लोकं गच्छन्ति॥
अथ यस्यैतस्योर्ध्वस् त्रियहः प्रत्यङ् त्र्यहो, यः कामयेत गच्छेयं स्वर्गं लोकं, प्रत्य् अस्मिन् लोके तिष्ठेयम् इति, स एतेन यजेत। त्र्यहेणैवेत ऊर्ध्व स्वर्गं लोकं गच्छति, प्रत्य् एवामुतस् त्र्यहेणावरोहति। गच्छति स्वर्गं लोकं प्रत्य् अस्मिन् लोके तिष्ठति। अथो ह वेद यो ऽसाव् आसं सो ऽयम् अस्मीति, पुनर् हैवास्मिन् लोक आजायते
अथैते सप्तरात्राः। सप्त वै छन्दांसि। छन्दांसि वै सर्वा वाक्। वाचस् स ऐश्वर्यम् आधिपत्यं गच्छति य श्रियम् अश्नुते। वाच ऐश्वर्यम् आधिपत्यं गच्छानीति। तस्मात् सप्तरात्रेण यजते। सप्त वै प्राणाः। प्राणैर् वै प्रजाः पशवः परिगृहीता उपतिष्ठन्ते। तद् यैः प्राणैः प्रजाः पशवः परिगृहीता उपतिष्ठन्ते, तैर् मा प्राणैः प्रजा पशवः परिगृहीता उपतिष्ठान्ता इति। प्राणैर् वै देवा स्वर्गं लोकम् आयन्। तद् यैः प्राणैर् देवा स्वर्गं लोकम् आयंस् तैः प्राणै स्वर्गं लोकम् अयानीति। सप्त वै मुख्याः प्राणाः। एते वा अपहतपाप्मानः प्राणा यन् मुख्याः। ते ये ऽपहतपाप्मानः प्राणास् तेषां मात्रया यज्ञं तनवा इति। सप्तर्षयो वा ऋद्धिकामास् तपो ऽतप्यन्त। त एतं सप्तरात्रम् यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त
ते ऽहर्भाज आसन्। ततो वै तेषाम् अह्नैवैक आर्ध्नोद् अह्नैको ऽह्नैकः। सा ह खलु वै श्रेष्ठर्द्धीनां स लोकानां पुष्यतमो यम् एतेन सप्तर्षय आर्ध्नुवन्। सा या श्रेष्ठर्द्धीनां यो लोकानां पुष्यतमो यम् एतेन सप्तर्षय आर्ध्नुवंस् तम् ऋध्नवानीति। तस्मात् सप्तरात्रेण यजते। सप्तैतान्य् अहानि भवन्ति सप्त स्तोमाः। अहर् एव स्तोमो वहत्य् अह स्तोमो ऽह स्तोमः। सा ह खलु वा अह्नां समृद्धिर् यद् एनानि नाना स्तोमा वहन्ति। सा यैवाह्नां समृद्धिस् सैवैषा क्रियते। त उ सर्वे सप्त संपद्यैकविंशम् एवाभिसंपद्यन्ते - त्रिवृच् च त्रयस्त्रिंशश् च तौ द्वाव् एकविंशौ, पञ्चदशश् च त्रिणवश्च तौ द्वाव् एकविंशौ, सप्तदशश् च पञचविंशश् च तौ द्वाव् एकविंशाव्, एकविंश एवैकविशः। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। एतस्य वा एते सलोकतां गच्छन्ति य सप्तरात्रयाजिनः। एतम् अभिसंपन्न एषां लोक ऋध्नोति। एतं गच्छत्य्, एतस्य सलोकतां, य एवं वेद
तेन हैतेन जनको वैदेह इयक्षांचक्रे। तं ह स्म यद् ब्राह्मणाः कुरुपाञ्चाला आहुर् - अनेन त्वा यज्ञेन याजयामानेन त्वा यज्ञेन याजयामेति। नेति ह स्माह। न स युष्मद् ब्राह्मणो ब्रह्मीयान् आसीद्, यो मह्यम् एतं यज्ञक्रतुं व्यदधात्। एतेनैव मा याजयतेति। तथेति। तेन हैनं याजयांचक्रुः। स वा एष पृष्ठ्य एव षडहः, पञ्चविंशं महाव्रतम्। तत एव रात्रिम् उपयन्ति। श्रीर् वै वर्ष्म पृष्ठानि। श्रियम् एव तद् वर्ष्म पृष्ठान्य् अभ्यारोहति। अन्नं वै महाव्रतम्, अन्नाद्यस्यैवावरुद्ध्यै। तद् आहुर् - न पुरा संवत्सरान् महाव्रतम् उपेत्यम् इति। तद् यत् पृष्ठ्यष् षडहो भवत्य् - ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरः कृत्स्नम् अन्नाद्यं पचति - संवत्सराभिजितम् एव तद् अन्नाद्यम् उपयन्ति। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै
तद् आहुस् - तत्स्थानं वा एद् अरोहात्र्या अग्निष्टोमो वा एतद् अहर् इति। तद् उ वा आहुस् - संवत्सरो वा एष यद् अग्निष्टोमः। संवत्सरः प्रजापतिः। प्राजापत्यं महाव्रतम् एवाग्निष्टोमसाम्नः पञ्चविंशानि स्तोत्राणि स्युः। अथैकविंशैर् उक्थ्यै रात्रिम् उपावरोहेयुर् इति। तथा हैतौ यज्ञक्रतू व्याक्रियेते॥
अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य स्तोमाः पञ्चमे ऽहनि महाव्रतं, विश्वजित् सर्वपृष्ठो ऽतिरात्र, एतेनो ह् क्रतुः कारीरादिर् ईजे श्रीकामो ऽन्नाद्यकामः। आत्मा वै पृष्ठ्यष् षडहो ऽन्नं महाव्रतम्। स मध्यत एवात्मनो ऽन्नाद्यं धास्ये, सो ऽन्नाद श्रेष्ठ स्वानां भविष्यामीति। अथो संवत्सरो वै पृष्ठ्यष् षडहः। तन् मा संवत्सरेणान्नाद्यं परिगृहीतम् उपस्थास्यत इति। विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति। श्रीर् वै वर्ष्म पृष्ठानि। तद् उ श्रियं वर्ष्म पृष्ठान्य् अभ्युत्क्रमिष्यामीति। तम् उ ह ब्राह्मण उवाच - यावज् जीविष्यत्य अन्नाद एव श्रेष्ठ स्वानां भविष्यति, विशीर्षास् त्व् एव मर्तेति। शिरो वा एतद् यज्ञस्य यन् महाव्रतम्। तद् यथा शिरश् छित्वा तद् उपपक्षयोर् उपगृहेत् तद् वै न श्लिष्यति तादृग् अकृद् इति होवाच। जानन्त एवास्य शिरश् छेत्तार इति। तद् ध तथैवास। यावद् ध क्रतुः कारीरादिर् जिजीवान्नाद एव श्रेष्ठ स्वानाम् आस। विशीर्षास् त्व् एव ममार। जानन्तो ह त्व् एवास्य शिरश् चिच्छिदुर् भायकाः। स हैष कल्याण एव यज्ञक्रतुर् यस् त्वैनेनानुपद्रष्ट्रे यजेत
अथैष बबरसप्तरात्रः। तस्य सप्तदशम् एव प्रथमम् अहर्, अथ त्रिवृद्, अथ पञ्चदशम्, अथैकविंशम्, अथ त्रिणवम्, अथ त्रयस्त्रिंशं, ज्योतिर् अतिरात्रः। एतेनो ह स ईजे श्रीकाम उ वान्नाद्यकामः। आत्मा वै पृष्ठ्यष् षडह इति। मुखं त्रिवृद्, अन्नं सप्तदशः। स प्रथमत एव मुखतो ऽन्नाद्यं धास्ये, सो ऽन्नाद श्रेष्ठ स्वानां भविष्यामीति । अथो संवत्सरो वै पृष्ठ्य् षडहस्, तं मा संवत्सरस्य पुरस्ताद् अन्नाद्यम् अवरुद्धम् उप स्थास्यत इति। ज्योतिर् अतिरात्रः। एतद् वै प्रज्ञातं देवतीर्थं यज् ज्योतिर् अतिरात्रः। स उ प्रज्ञातेन देवतीर्थेनारिष्टेनारिष्ट उदृचं गमिष्यामीति। तम् उ ह स्व एवान्तेवास्य् अनुव्याजहार -
- गोवर्णः खालतेयः - पापीयान् भविष्यति। प्रथमत एव मुखतो ऽन्नाद्यम् अधित। यदा वै मुखम् अन्नं प्राप्नोति ततो वाव तत् पूयति, यदि प्रगिरति पूयति, यदि ष्ठीवति पूयत्य्, अपूयीद् अन्नाद्यं, पापीयन् भविष्यतीति। तद् ध तथैवास। स ह पापीयान् आस। तस्मै होचुर् - यो वै ते ऽयं स्व एवान्तेवासी गोवर्णः खालतेयस्, स वै त्वानु व्याहार्षीद् इति। तं होवाच - स वै मा त्वम् अनेन यज्ञेन याजयेति। तथेति होवाच। तं वै त्वा यथा रथं वा रिष्टं संस्कुर्याद् अनो वा, एवं त्वा संस्करिष्यामीति। तस्य ह त्रिवृद् एव प्रथमम् अहश् चकार, अथ पञ्चदशम्, अथैकविंशम्, अथ त्रिणवम्, अथ त्रयस्त्रिंशम्, अथ सप्तदशम्, अथ सप्तदशम्। द्वे सप्तदशे अनूची। एतेनो ह गोवर्णः खालतेय आचार्यं याजयांचकार। आत्मा वै पृष्ठ्यष् षडहो, ऽन्नं सप्तदशः। स आत्मन् एवाध्य् ऊर्ध्वो ऽन्नाद्यम् अभ्युत्क्रमिष्यते। तत् त्वोपरिष्टाद् अन्नाद्यम् अवरुद्धम् उपस्थास्यते - सप्तदशात् सप्तदशम्, अन्नाद् अन्नम्। अभि ते प्रजान्नादी भवितेति होवाच
एते बाबरयः कुरुष पणाय्या एव। स ह स्म तद् देवयजने परिचरतीदम् अयज इदम् उ नायज इति॥
अथ यस्यैतस्य ज्योतिर् गौर् आयुर् इति त्र्यहो, विश्वजित् सर्वपृष्ठ्य उक्थ्यष्, षोडशिमाञ् छन्दोमपवमानः सर्वस्तोम उक्थ्यः, पञ्चविंशं महाव्रतं, ज्योतिर् अतिरात्रो, यः कामयेतोपेत्याभिप्लवम्, उपेत्य पृष्ठान्य्, उपेत्य छन्दोमान्, महाव्रतं म उपेतं स्याद् इति, स एतेन यजेत। उपेत्य हैवाभिप्लवम्, उपेत्य पृष्ठान्य्, उपेत्य छन्दोमान्, महाव्रतम् अस्योपेतं भवत्य् - अन्नं वै महाव्रतम् - अन्नाद्यस्यैवावरुद्ध्यै। तद् आहुर् - न पुरा संवत्सरान् महाव्रतम् उपेत्यम् इति। तद् यत् पृष्ठ्यष् षडहो भवत्य् - ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरः कृत्स्नम् अन्नाद्यं पचति - संवत्सराभिजितम् एव तद् अन्नाद्यम् उपयन्ति। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। ज्योतिर् अतिरात्रः। एतद् वै प्रज्ञातं देवतीर्थं यज् ज्योतिर् अतिरात्रः। प्रज्ञातेन देवतीर्थेनारिष्टेनारिष्ट उदृचम् अश्नवा इति
पृष्ठ्यष् षडहो, ऽथ यत् सप्तमम् अहस् तस्य चतुर्विंशं बहिष्पवमानं त्रयस्त्रिंशान्य् उत्तराणि स्तोत्राणि पञ्चविंशं महाव्रतं चतुस्त्रिंशम् अग्निष्टोमसाम। आप्यत इव वा एतद् यज्ञो, यद् एष पृष्ठ्यष षडह आप्यत इति। तद् यत् सप्तमस्याह्नश् चतुर्विंशं बहिष्पवमानं भवति - चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरो यज्ञो - यज्ञम् एवैतद् यज्ञमुख आरभन्ते। अथो चतुर्विंशत्यक्षरा वै गायत्री। गायत्र्यो वा आप्तं यज्ञक्रतुं पुनस् तन्वते। तेनो ह्य् अन्या गायत्र्या आप्तं यज्ञक्रतुम् उद्यन्तुम् अर्हति। त्रयस्त्रिंशान्य् उत्तराणि स्तोत्राणि - त्रयस्त्रिंशद् वै देवता - देवतानाम् एवाप्त्यै। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। चतुस्त्रिंशम् अग्निष्टोमसाम। त्रयस्त्रिंशद् वै देवताः। प्रजापतिश् चतुस्त्रिंशः। सप्रजापतिकास्व् एवैतद् देवतासु यज्ञस्यान्ततः प्रतितिष्ठति॥
पृष्ठ्य एव षडहो, ऽथ यत् सप्तमम् अहस् तस्य चतुर्विंशाः पवमानास्, त्रयस्त्रिंशं पुनरभ्यावर्ति, पञ्चविंशं महाव्रतं, चतुस्त्रिंशम् अग्निष्टोमसाम। आप्यत इव वा एतद् यज्ञो यद् एष पृष्ठ्यष् षडह आप्यत इति। तद् यत् सप्तमस्याह्नश् चतुर्विंशाः पवमाना भवन्ति सवनमुखे, सवनमुखे नो यज्ञ आरब्धो ऽसद् इति। त्रयस्त्रिंशं पुनरभ्यावर्ति - त्रयस्त्रिंशद् वै देवता - देवतानाम् एवाप्त्यै। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। चतुस्त्रिंशम् अग्निष्टोसाम। त्रयस्त्रिंशद् वै देवताः। प्रजापतिश् चतुस्त्रिंशः। सप्रजापतिकास्व् एवैतद् देवतासु यज्ञस्यान्ततः प्रतितिष्ठति
पृष्ठ्य एव षडहो, ऽथ यत् सप्तमम् अहस् तत् सर्वम् एव चतुर्विंशं, पञ्चविंशं महाव्रतं, चतुस्त्रिंशम् अग्निष्टोसाम। आप्यत इव वा एतद् यज्ञो यद् एष पृष्ठ्यष् षडह आप्यत इति। तद् यत् सप्तमम् अहस् सर्वम् एव चतुर्विंशं भवति, सर्वेणैवाह्ना यज्ञ आरब्धो ऽसद् इति। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। चतुस्त्रिंशम् अग्निष्टोमसाम। त्रयस्त्रिंशद् वै देवताः। प्रजापतिश् चतुस्त्रिंशः। सप्रजापतिकास्व् एवैतद् देवतासु यज्ञस्यान्ततः प्रतितिष्ठति॥
पृष्ठ्य एव षडहो, ऽथ यत् सप्तमम् अहस् तस्य छन्दोमाः पवमानाश्, चतुस्त्रिशं पुनरभ्यावर्ति, पञ्चविंशं महाव्रतं, त्रयस्त्रिंशम् अग्निष्टोमसाम। यः कामयेतोपेत्य पृष्ठान्य्, उपेत्य छन्दोमान्, महाव्रतं म उपेतं स्याद् इति, स एतेन यजेत। उपेत्य हैव पृष्ठान्य्, उपेत्य छन्दोमान्, महाव्रतम् अस्योपेतं भवत्य् - अन्नं वै महाव्रतम् - अन्नाद्यस्यैवावरुद्ध्यै। चतुस्त्रिंशं पुनरभ्यावर्ति। त्रयस्त्रिंशद् वै देवताः। प्रजापतिश् चतुस्त्रिंशः। सप्रजापतिकास्व् एवैतद् देवतासु प्रतितिष्ठति। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। त्रयस्त्रिंशम् अग्निष्टोमसाम - त्रयस्त्रिंशद् वै देवता - देवतानाम् एवाप्त्यै
अथैतौ संसंग्यौ। जमदग्निर् ह वै माहेनानां पुरोहित आस। तान् ह वित्तेनात्यादधौ। त उ हैनम् उपजिहिंसुः। स हेक्षांचक्रे - कथं न्व् अहम् एषां सप्तसप्तैकाहनि ग्राम्याणां पशूनां हन्याम् इति। स एतौ यज्ञाव् अपश्यत्। ताव् आहरत। ताभ्याम् अयजत। ततो वै स तेषां सप्त सप्तैकाहनि ग्राम्याणां पशूनाम् अहन्। स वा एषो ऽछिद्रो वज्रः। तान् ह स्मैतेनैवाछिद्रेण वज्रेणोपप्रवर्तयति। तद् यथा मत्येन तिलान् स्तृंह्याद् एवं ह स्मैवैनांस् तत् सृदानपोप्तान् अभिव्युच्छति। स यो भ्रातृव्यवान् स्याद् यो ऽभिचरेद् य स्पर्धेत, स एताभ्यां यजेत। एतेनैवाछिद्रेण वज्रेण द्विषन्तं पाप्मानं भ्रातृव्यं स्तृणुते। अथो आहुः - प्रजाकाम एवाभ्यां यजेतेति। स्तोमो वा एतत् स्तोमेन संसक्तो भवति - संसक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते - प्रजात्या एव। अथैतत् सप्तदशं सप्तमम् अहर् भवति। तस्मिन् महाव्रतम् उपयन्ति। प्रजापतिर् वै सप्तदशः। अन्नं महाव्रतम्। स्व एव तद् आयतने प्रजापतिम् अन्नाद्येन समृद्धयन्ति
तासु वात्सप्रम्। वत्सप्रियं वै भालन्दनं प्रतिसत्रिणो ऽबाधन्त् - स्तेनस् ते पितेति। सो ऽकामयत श्रद्धां विन्देयोप मां ह्वयेरन्न् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स श्रद्धाम् उपहवम् अविन्दत। श्रद्धां विन्दामहा इति सत्रम् आसते। श्रद्धाम् एव विन्दन्ते। वैराजस्य ह खलु वा एतद् अनुरूपं साम। यथा ह वै वैराजस्य स्तोभाः पदवृत्तय एवं ह वै वात्सप्रस्य स्तोभाः पदवृत्तयः। प्रजा ह वा एषा वैराजस्य। आ हास्यानुरूपः प्रजायां जायते य एवं वेद। एतद् ध वा एनं तद् उपजुहुविरे - ऽनुरूपं वैराजस्यासृष्टेति। तद् अनुतुन्नं भवति। अनुतुन्नाद् वै प्रजाः पशवः प्रजायन्ते। अनुतुन्नम् एतस्य वैराजस्याह्नो रूपम्। तेन वै रूपसमृद्धम्। यद् उ वत्सप्रीर् भालन्दनो ऽपश्यत् तस्माद् वात्सप्रम् इत्य् आख्यायते। अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्। अग्निं वो वृधन्तम् इति वृद्धं ह्य् एतद् अहर् यद् बार्हतम्
तासु सैन्धुक्षितम्। सिन्धुक्षिद् वा अन्तं वाचो ऽपश्यत्। वाचम् एतेनाह्ना समिच्छन्ति ताम् एवैतत् संविन्दन्ति। सिन्धुक्षिद् वै भारतो राजा ज्योग् अपरुद्धश्चरन् सो ऽकामयताव स्व ओकसि गच्छेयम् इति। सिन्धुं हैव चचार। सास्य सिन्धुक्षित्ता। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽव स्व ओकस्य् अगच्छत्। तद् एतत् सामसनि साम। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समर्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। तद् उ श्रीर् एव राज्यम्। राज्यं वै स तद् अगच्छत्। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। यद् उ सिन्धुक्षिद् भारतो राजापश्यत् तस्मात् सैन्धुक्षितम् इत्य् आख्यायते। वयम् उ त्वाम् अपूर्व्येत्य् अपूर्वाम् इव ह्य् एतर्हि तन्वम् अगच्छन्। तासु सौभरं बृहतस् तेजः। व्यवप्लीनातीव वै वैराजं यज्ञम्। तत् सौभरेणोत्तभ्नुवन्ति बृहतस् तेजसा। तद् ऊकारणिधनं भवति। एतद् वै प्रत्यक्षं बृहतो रूपं यद् ऊकारो यद् ईकारः। तेन वै रूपसमृद्धम्। इमम् इन्द्र सुतं पिब ज्येष्ठम् अमर्त्यं मदम् इति ज्यैष्ठ्यम् इव ह्य् एतर्ह्य् अगच्छन्। अथो तृतीयसवन एवैतद् रसं मदं दधति
तासु वासिष्ठम्। वसिष्ठो वा अकामयत विराजं पश्येयं, ताम् अवरुन्धीयेति। स प्रस्तुवन्न् एवैतां दक्षाक्षरां विराजम् अपश्यत्। ताम् उपैत्, ताम् अवारुन्द्ध। तद् एतद् विराजो ऽन्नाद्यस्यावरुद्धिस् साम। अव विराजम् अन्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वासिष्ठम् इत्य् आख्यायते। तद् व् एवाचक्षते वसिष्ठस्यप्रियम् इति। वसिष्ठो वै जीतो हतपुत्रो ऽकामयत बहुः प्रजया पशुभिः प्रजायेयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स बहुः प्रजया पशुभिः प्राजायत। सो ऽब्रवीत् प्रियं वावेदं ममाभूद् येन प्रियां प्रजाम् अवारुत्सीति। तद् एव प्रियस्य प्रियत्वम्। तद् एतत् प्रजननं साम। बहुः प्रजया पशुभिः प्रजायते य एवं वेद। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वसिष्ठस्यप्रियम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति। अथ षोडशी। प्रातस्सवनभाजनं प्रथमम् अहर्, माध्यन्दिनभाजनं द्वितीयं, तृतीयसवनभाजनं तृतीयम्। अथैतद् उक्थभाजनम्। उक्थानां वा एष एको यत् षोडशी। तद् यद् अत्र षोडशी क्रियते स्वेनैवैनं तद् आयतनेन समृद्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् ऋद्धुकं भवति
गोवित् पवस्व वसुविद् धिरण्यविद् इति सिमानां रूपम्। करिष्यद् धरिवत् त्रैष्टुभं रूपम्। तस्माद् एतास् त्रैष्टुभे ऽहन् क्रियन्ते। रेतोधा इन्दो भुवनेष्व् अर्पित इत्य् ऋषभम् एवैतद् रेतोधां प्रातस्सवने महानाम्नीष्व् अपिसृजन्ति प्रजननाय। त्वं सुवीरो असि सोम विश्वविद् इति सिमानां रूपम्। तं त्वा विप्रा उप गिरेम आसत इति ब्राह्मणा ह वै विप्रास्, त एवैनं तद् गिरोपासते। त्वं नृचक्षा असि सोम विश्वत इति विश्वत इति सिमानां रूपम्। पवमान वृषभ ता वि धावसीत्य् ऋषभम् एवैतत् प्रातस्सवने महानाम्नीष्व् अपिसृजन्ति प्रजननाय। स नः पवस्य वसुमद् धिरण्यवद् इति पशवो वै वसु सुवर्णम्। असुवर्णम् इति वा आहुर् अपशुम्। पशवश् शक्वर्यः। वयं स्याम भुवनेषु जीवस इत्य् आशिषम् एवैतेनाशास्ते। ईशान इमा भुवनानि वीयस इति वीति सिमानां रूपम्। युजान इन्दो हरितस् सुपर्ण्य इति शक्वर्यो वै हरितस् सुपर्ण्यः। ता एवैतत् प्रातस्सवने युज्यन्ते। ता युक्ता माध्यन्दिन सवने ऽभ्यारोहन्ति। तास् ते क्षरन्तु मधुमद् घृतं पय इति पशवो वै मधु क्षीरं दधि सर्पिर् एतत् क्षरन्ति पशवश् शक्वर्यः। तव व्रते सोम तिष्ठन्तु कृष्टय इति सोमस्य ह वा इदं व्रतं सर्वम् अनूपतिष्ठते
ता एता भवन्ति जगत्यस् त्रिष्टुब्वर्णा अह्नो रूपेण समृद्धाः। यत्र वा अहारूपेण समृद्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद। पवमानस्य विश्वविद् इत्य् अनुरूपो भवति। विश्वविद् इति सिमानां रूपम्। तद् आहुस् साम्न एव रूपं स्तोत्रियेणारभन्ते ऽनुरूपेणाह्न इति। स्तोत्रियानुरूपौ भवतः। प्राणो वै स्तोत्रियो, ऽपानो ऽनुरूपः। प्राणापानाभ्याम् एवैतत् समृध्य प्रयन्ति। प्र ते सर्गा असृक्षत सूर्यस्येव न रश्मय इति सर्गश इव वै पशवस् सृज्यन्ते। पशवश् शक्वर्यः। केतुं कृण्वन् दिवस् परि विश्वा रूपाभ्य् अर्षसीत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। समुद्स् सोम पिन्वस इति समुद्रवतीर् भवन्त्य् आपो ह्य् एतद् अहः। जज्ञानो वाचम् इष्यसीति जायते वै पूर्वेणाह्ना। जज्ञान एवैतेन तस्माज् जज्ञानो वाचम् इष्यसीति भवति।
पवमान विधर्मणि।
क्रन्दं देवो न सूर्यः॥
इति सौर्यं रूपं महानाम्नीनाम् उपगच्छन्ति। सौर्या हि महानाम्नयः
प्र सोमासो अधन्विषुः पवमानास इन्दवः।
श्रीणाना अप्सु वृञ्जते॥
अभि गावो अधन्विषुर् आपो न प्रवता यतीः।
पुनाना इन्द्रम् आशत॥
इत्य् आप आप इति भवत्य आपो ह्य् एतद् अहः।
प्र पवमान धन्वसि सोमेन्द्राय मादनः।
नृभिर् यतो वि नीयसे॥
इति सप्तर्चं भवति। सप्त वै प्राणाः। प्राणैर् एवैतत् समृध्यमाना यन्ति, प्राणेषु प्रतितिष्ठन्तः। तद् आहुर् यत् सप्तर्चं सप्तमस्याह्नो रूपम् अथ कस्मात् पञ्चमे ऽहन् क्रियत इति। स ब्रूयात् सप्तपदा वै शक्वर्यास्, सप्त ग्राम्याः पशवस्, सप्त चतुरुत्तराणि छन्दांसि, सप्त मुख्याः प्राणास्, सप्तविंशतिर् दिव्यानि नक्षत्राणि, सप्तविंशम् एतद् अहर्, एतस्यैव सर्वस्यावरुद्ध्या एतस्योपाप्त्या इति। उत्तरं सप्तर्चं भवति। अभिपूर्वम् एवैतत् प्राणैस् समृध्यमाना यन्ति। चतुरृचं भवति - चतुष्पदा वै पशवः। पशव एतद् अहः - पशूनाम् एवावरुद्ध्यै। पर्यासो भवति प्रजानां धृत्यै पशूनाम् उपस्थित्यै। त्रिणव स्तोमो भवति। त्रिणवा इमे लोकाः। एष्व् एवैतल् लोकेषु प्रतितिष्ठन्तो यन्ति
भूर् इति व्याहृतिः। तद् अयं लोको ऽग्निर् देवता गायत्री छन्दस् त्रिवृत् स्तोमो रथन्तरं साम वसवो देवता वनस्पतयश् चौषधयश् च। भुव इति व्याहृतिः। तद् इदम् अन्तरिक्षं वायुर् देवता जगती छन्दस् सप्तदश स्तोमो वामदेव्यं साम रुद्रा देवतापश् च प्राणभृच् च। स्वर् इति व्याहृतिः। तद् असौ लोक आदित्यो देवता त्रिष्टुप् छन्दः पञ्चदश स्तोमो बृहत् सामादित्या देवता चन्द्रमाश् च नक्षत्राणि च। एतद् इमे लोकास् त्रिणवा भवन्ति। तद् आहुर् मिथुनानि चत्वार्य् अहान्य्, अमिथुनं पञ्चमम् अहः। आचतुरं वाव मिथुनं प्रजननम्। तद् यत् तव श्रियो वर्षस्येव विद्युत इत्य् आग्नेयम् आज्यं भवति। तेनैव मिथुनं पञ्चमम् अहः क्रियते। तवेति पुंसो रूपं, श्रिय इति स्त्रियै। वर्षस्येवेति पुंसो, विद्युत इति स्त्रियै। अग्न इति पुंस, उषसाम् इवेति स्त्रियै। यद् ओषधीर् इति स्त्रिया, अभिसृष्ट इति पुंसः। अभिपूर्वम् एवैतन् मिथुनं प्रजननं दधति यजमानस्य प्रजात्यै
वातोपजूत इषितो वशं अनु तृषु यद् अन्ना वेविशद् वितिष्ठसे।
आ ते यतन्ते रथ्यो यथा पृथक् शर्धांस्य् अग्ने अजरस्य धक्षतः॥
इति। यदा वा अग्निं वात उपवाजयत्य् अथ स महद् दीप्यते। तद् एतद् दीप्तिर् एव ब्रह्मवर्चसस्य रूपम्।
मेधाकारं विदथस्य प्रसाधनम् अग्निं होतारं परिभूतमं मतिम्।
त्वाम् अर्भस्य हविषस् समानम् इत् त्वां महो वृणते नान्यं त्वत्॥
इति यच् च ह वा अर्भकं हविर् यच् च महस् तस्य सर्वस्याग्निम् एव होतृत्वाय वृणुते।
पुरूरुणा चिद् ध्य् अस्त्य् अवो नूनं वां वरुण।
मित्र वंसि वां सुमतिम्॥
इति मैत्रावरुणं भवति दुरिष्टस्यैवावेष्ट्यै। यद् ध वै किं च यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तस्य ह वा एतद् अवेष्ट्यै।
ता वां सम्यग् अद्रुह्वाणेषम् अश्याम धाम च।
वयं वां मित्रा स्याम॥
पातं नो मित्रा पायुभिर् उत त्रायेथां सुत्रात्रा।
साह्याम दस्यूंस् तनूभिः॥
इत्य् आशिषम् एवैतेनाशास्ते
उत्तिष्ठन्न् ओजसा सहेत्य् ऐन्द्रं भवति। त्रिणवो वै स्तोम ओजो वीर्यम्। तम् एवैतत् प्रत्यक्षम् अनुवदन्ति। अनु त्वा रोदसी उभे इतीमे ह वाव रोदसी। एते एवैतद् अभिवदति। स्पर्धमानम् अददाताम् इत्य् एते वा एनं तत् स्पर्धमानम् अन्वददाताम्। इन्द्र यद् दस्युहाभव इति घ्नद्वत्। एतद् वै यजमानस्य स्वं स्तोत्रं यद् ब्रह्मणः। स्व एव तद् आयतने यजमानस्य सर्वं पाप्मानं घ्नन्ति।
वाचम् अष्टापदीम् अहं नवस्रक्तिम् ऋतावृधम्।
इन्द्रात् परि तन्वं ममे॥
इति गायत्री वै वाग् अष्टापदी। तस्यै त्रिवृद् एव स्तोम स्रक्तयः। एतद् वै दैव्यं परमं मिथुनं प्रजननं यत् त्रिवृच् च स्तोमो गायत्री च छन्दः। दैव्यम् एव तत् परमं मिथुनं प्रजननं दधति यजमानस्य प्रजात्यै
ताम् आहुर् आरम्भणतस् तृचस्य कार्या। मुखतो वै रेतस् सिक्तं, तद् इतः प्रजायते। तद् वै रेतो यद् इतस् सिच्यते। अन्नाद् धि रेतस् सिच्यत इति। तदा आहुर् उपरिष्टाद् एव कार्या - इदं वै प्रजननम्, इतः प्रजाः प्रजायन्ते - यतः प्रजाः प्रजायन्ते ततः प्रजायामहा इति। तस्माद् उपरिष्टाद् एव कार्या। इन्द्राग्नी युवाम् इम इत्य् ऐन्द्राग्नं भवति। अभिस्तोमा अनूषतेति बहून् स्तोमान् अभिवदति। एकस्तोमान्य् अन्यान्य् अहानि भवन्ति। अथैतत् त्रिष्टोमम्। तस्माद् अभि स्तोमा अनूषतेति बहून् स्तोमान् अभिवदति।
पिबतं शंभुवा सुतम्॥
या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा।
इन्द्राग्नी ताभिर् आ गतम्॥
ताभिर् आ गच्छतं नरोपेदं सवनं सुतम्।
इन्द्राग्नी सोमपीतये॥
इत्य् एकदेवत्यान्य् अन्यानि स्तोत्राणि भवन्त्य्, अथैतद् द्विदेवत्यम्। यथोभयापदी प्रतितिष्ठेत् तादृक् तत्। त्रिणव स्तोमो भवति। त्रिणवा इमे लोकाः। एष्व् एवैतल् लोकेषु प्रतितिष्ठन्तो यन्ति
अथैते ऽष्टरात्राः। बृहस्पतिर् वा अकामयत - तेजस्वी ब्रह्मवर्चसी स्यां, यशो देवेषु गच्छेयम् इति। स एतम् अष्टरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स तेजस्वी ब्रह्मवर्चस्य् अभवद्, यशो देवेष्व अगच्छत्। यशो ह्य् एष तद् अगच्छद् यद् एषां पुरोधाम् आश्नुत। तेजस्वी ब्रह्मवर्चसी भवति यशो देवेषु गच्छति, य एवं वेद। अथो आहुर् - आयुष्काम एवैनेन यजेतेति। प्राणो वै गायत्री। गायत्रीम् एष यज्ञो ऽभिसंपन्नः। तस्माद् उ हैनेनायुष्कामो यजेत। अथो आहुः पशुकाम एवैनेन यजेतेति। अष्टाक्षरा वै गायत्री। अष्टाशफाः पशवः। पशवो गायत्री। गायत्रीम् एष यज्ञो ऽभि संपन्नः। तस्माद् उ हैनेन पशुकामो यजेत। प्रजापतिर् वा अकामयत - अस्माल् लोकाद् अमुं लोकं गच्छेयम् इति। स एतम् अष्टरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै सो ऽस्माल् लोकाद् अमुं लोकम् आष्ट। यद् अस्माल् लोकाद् अमुं लोकम् आष्ट, तद् अष्टरात्राणाम् अष्टरात्रत्वम्। अष्टे हास्माल् लोकाद् अमुं लोकं, य एवं वेद। तद् आहुः - किम् अन्व् अष्टरात्र इति। दिश इति ब्रूयात्। दिशो ह वा अन्व अष्टरात्रः। चतस्रो दिशश् चत्वारो ऽवान्तरदेशाः। ऊर्ध्वा दिङ् नवमी। अष्टाव् एतान्य् अहानि भवन्ति, रात्रिर् नवमी। दिश एवैतेनर्ध्नोति, दिक्षु प्रतिष्ठाय स्वर्गं लोकम् एति
अथ यस्यैतस्य ज्योतिर् अग्निष्टोमः, पृष्ठ्यष् षडहो, ज्योतिर् अग्निष्टोमो, यः कामयेत तेजस्वी ब्रह्मवर्चस्य् अस्मिन् लोके स्यां, गच्छेयं स्वर्गं लोकं, तेजस्वी ब्रह्मवर्चस्य अमुष्मिन् लोके स्याम् इति, स एतेन यजेत। तद् यत् पुरस्ताज् ज्योतिर् अग्निष्टोमो भवति - तेजो वै ब्रह्मवर्चसं ज्योतिर् अग्निष्टोमस् - तेनैवास्मिन् लोके तेजस्वी ब्रह्मवर्चसी भवति। पृष्ठ्यष् षडहो भवति - स्वर्गो वै लोकः पृष्ठ्यष् षडह - स्वर्गम् एवैतेन लोकं गच्छति। ज्योतिर् अग्निष्टोम उपरिष्टाद् भवति - तेजो वै ब्रह्मवर्चसं ज्योतिर् अग्निष्टोमस् - तेनैवामुष्मिन् लोके तेजस्वी ब्रह्मवर्चसी भवति॥
अथ यस्यैतस्य ज्योतिर् अतिरात्रः, पृष्ठ्यष् षडहो, ज्योतिर् अतिरात्रो, यः कामयेत प्रत्य् अस्मिन् लोके तिष्ठेयं, गच्छेयं स्वर्गं लोकं, प्रत्य् अमुष्मिन् लोके तिष्ठेयम् इति, स एतेन यजेत। तद् यत् पुरस्ताज् ज्योतिर् अतिरात्रो भवत्य् - एषा वै कृत्स्ना प्रतिष्ठा यज् ज्योतिर् अतिरात्रस् - तेनैवास्मिन् लोके प्रतितिष्ठति। पृष्ठ्यष् षडहो भवति - स्वर्गो वै लोकः पृष्ठ्यष् षडह - स्वर्गम् एवैतेन लोकं गच्छति। ज्योतिर् अतिरात्र उपरिष्टाद् भवत्य् - एषा वै कृत्स्ना प्रतिष्ठा यज् ज्योतिर् अतिरात्रस् - तेनैवामुष्मिन् लोके प्रतितिष्ठति
अत यस्यैतस्य ज्योतिर् अग्निष्टोमः, पृष्ठ्यष् षडहो, ज्योतिर् अतिरात्रो, य- कामयेत तेजस्वी ब्रह्मवर्चस्य् अस्मिन् लोके स्यां, गच्छेयं स्वर्गं लोकं, प्रत्य् अमुष्मिन् लोके तिष्ठेयम् इति, स एतेन यजेत। तद् यत् पुरस्ताज् ज्योतिर् अग्निष्टोमो भवति - तेजो वै ब्रह्मवर्चसं ज्योतिर् अग्निष्टोमस् - तेनैवास्मिन् लोके तेजस्वी ब्रह्मवर्चसी भवति। पृष्ठ्यष् षडहो भवति - स्वर्गो वै लोकः पृष्ठ्यष् षडह - स्वर्गम् एवैतेन लोकं गच्छति। ज्योतिर् अतिरात्र उपरिष्टाद् भवत्य् - एषा वै कृत्स्ना प्रतिष्ठा यज् ज्योतिर् अतिरात्रस् - तेनैवामुष्मिन् लोके प्रतितिष्ठति॥
अथ यस्यैतस्य ज्योतिर् अतिरात्रः, पृष्ठ्यष् षडहो, ज्योतिर् अग्निष्टोमो, यः कामयेत प्रत्य् अस्मिन् लोके तिष्ठेयं, गच्छेयं स्वर्गं लोकं, तेजस्वी ब्रह्मवर्चस्य् अमुष्मिन् लोके स्याम् इति, स एतेन यजेत। तद् यत् पुरस्ताज् ज्योतिर् अतिरात्रो भवत्य् - एषा वै कृत्स्ना प्रतिष्ठा यज् ज्योतिर् अतिरात्रस् - तेनैवास्मिन् लोके प्रतितिष्ठति। पृष्ठ्यष् षडहो भवति - स्वर्गो वै लोकः पृष्ठ्यष् षडह - स्वर्गम् एवैतेन लोकं गच्छति। ज्योतिर् अग्निष्टोम उपरिष्टाद् भवति - तेजो वै ब्रह्मवर्चसं ज्योतिर् अग्निष्टोमस् - तेनैवामुष्मिन् लोके तेजस्वी ब्रह्मवर्चसी भवति
अथैष पृष्ठ्यष् षडहः, पञ्चविंशं महाव्रतं, सर्वस्तोमो ऽतिरात्रः। अन्नाद्यकामो हैतेन यजेत। तद् आहुर् - न पुरा संवत्सरान् महाव्रतम् उपेत्यम् इति। तद् यत् पृष्ठ्यष् षडहो भवत्य् - ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरः कृत्स्नम् अन्नाद्यं पचति - संवत्सराभिजितम् एव तद् अन्नाद्यम् उपयन्ति। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम, तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥
अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य स्तोमाश्, चतुर्विंशम् अहर्, विश्वजित् सर्वपृष्ठो ऽतिरात्रो, यः कामयेत परोक्षोपेतं मे महाव्रतं स्याद् इति, स एतेन यजेत। तद् यच् चतुर्विंशम् अहर् भवति, तेनैवास्य परोक्षोपेतं महाव्रतं भवति। यद् व् एव तत्र हिंकारो वा प्रस्तावो वा प्रतिहारो वा किं चिद् भवति, तेनैवास्य पञ्चविंश्य् उपाप्ता भवति। विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति। श्रीर् वै वर्ष्म पृष्ठानि। श्रियम् एव तद् वर्ष्म पृष्ठान्य् अभ्यारोहन्ति
अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य ज्योतिर् अग्निष्टोमो मध्ये भवति, ज्योतिर् अतिरात्र उपरिष्टाद्, यः कामयेत आ मे ब्रह्मवर्चसी प्रजायां जायेतेति, स एतेन यजेत। आत्मा वै पृष्ठ्यष् षडहः। तेजो ब्रह्मवर्चसं ज्योतिर् अग्निष्टोमः। मध्यत उ वा आत्मनः प्रजननम्। प्रजननं तद् यन् मध्ये ज्योतिर् अग्निष्टोमो भवति। मध्यत एवैतद् आत्मनो ज्योतिर् धत्ते। आ हास्य ब्रह्मवर्चसी प्रजायां जायते। ज्योतिर् अतिरात्र उपरिष्टाद् - एतद् वै प्रज्ञातं देवतीर्थं यज् ज्योतिर् अतिरात्रः - प्रज्ञातेन देवतीर्थेनारिष्टेनारिष्ट उदृचम् अश्नवामहा इति॥
अथ यस्यैतस्य विश्वजिदभिजिताव् अग्निष्टोमाव् अभितो भवत उभयतो ज्योतिष् षडहो मध्ये, पशुकामो हैतेन यजेत। चत्वार एते मध्य उक्थ्या भवन्ति। पशवो वा उक्थानि। तेषां सहस्रं स्तोत्र्याः। चत्वार उ वैते ऽग्निष्टोमा अभितो भवन्ति। ब्रह्म वै ज्योतिर् अग्निष्टोमः। ब्रह्मणैव तद् उभयतः पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। ईश्वरो ह तु यादृश एव सन् यजते तादृङ् भवितोः। स यदैवान्तगत इव श्रियै मन्येताथ हैनेन यजेत। इष्ट्वा हैव स्वर्गं लोकम् एति
अथैते नवरात्राः। तेजस्कामो हैतेन यजेत यन् नवरात्रः। तेजो वै त्रिवृत् स्तोमः। त्रिवृतम् एष स्तोमं यज्ञो ऽभिसंपन्नः। तस्माद् उ हैनेन तेजस्कामो यजेत। अथो आहुर् - ब्रह्मवर्चसकाम एवैनेन यजेतेति। ब्रह्म वै त्रिवृत् स्तोमः। त्रिवृतम् एष स्तोमं यज्ञो ऽभिसंपन्नः। तस्माद् उ हैनेन ब्रह्मवर्चसकामो यजेत। अथो आहुर् - आयुष्काम एवैनेन यजेतेति। प्राणो वै त्रिवृत् स्तोमः। नवैतान्य् अहानि भवन्ति, रात्रिर् दशमी। नव पुरुषे प्राणा, नाभिर् दशमी। प्राणान् एवैतेनाभिजयति, प्राणान् आप्नोति। तद् आहुः - किम् अनु नवरात्र इति। दिश इति ब्रूयात्। दिशो ह वा अनु नवरात्रः। चतस्रो दिशश् चत्वारो ऽवान्तरदेशा, ऊर्ध्वा दिङ् नवम्य्, अर्वाची दशमी। दिश एवैतेनर्ध्नोति। दिक्षु प्रतिष्ठाय स्वर्गं लोकम् एति
अथ यस्यैतस्य ज्योतिर् गौर् आयुर् इति त्र्यहो, ज्योतिर् गौर आयुर् इति त्र्यहो, ज्योतिर् गौर् आयुर् अतिरात्रो, यः कामयेत अनन्तर्हितान् इमान् लोकान् अभ्यारोहेयम् इति, स एतेन यजेत। तद् यज् ज्योतिर् गौर् आयुर् इति त्र्यहो भवत्य् - अयं वै लोको ज्योतिर्, अयं गौर्, असाव् आयुर् - अनन्तर्हितान् एवैतेनेमान् लोकान् अभ्यारोहति। अतिरात्राव् अनुत्तमस् त्र्यहो भवति। एवंविधा इव वा इमे लोका - अग्निष्टोम इवायं लोक, उक्थ्य इवायम्, अतिरात्र इवासौ। तद् यथाविधा इमे लोका एवम् एवैनान् एतद् अभ्यारोहन्न् एति॥
अथ यस्यैतस्य ज्योतिर् गौर् आयुर् अतिरात्रो ज्योतिर् गौर आयुर् अतिरात्रो ज्योतिर् गौर् आयुर् अतिरात्रो, य उ एव कामयेत अनन्तर्हितान् इमान् लोकान् अभ्यारोहेयम् इति स एतेन यजेत। तद् यज् ज्योतिर् गौर् आयुर् अतिरात्रो भवत्य् - अयं वै लोको ज्योतिर्, अयं गौर्, असाव् आयुर् - अन्तर्हितान् एवैतेनेमान् लोकान् अभ्यारोहति। अतिरात्रवन्तस् त्र्यहा भवन्ति। अथो एवंविधा इव वा इमे लोका - अग्निष्टोम इवायं लोक, उक्थ्य इवायम्, अतिरात्र इवासौ। तद् यथाविधा इमे लोका, एवम् एवैनान् एतद् अभ्यारोहन्न् एति
त्रयो ह वा एषां लोकानां विषुवन्तो - अग्निर् वा अस्य लोकस्य विषुवान्, वायुर् अन्तरिक्षस्य, आदित्यो दिवः। तान् एवैतेनातितरति। त्र्यनीको भवत्य् ऐन्द्रो विजित्यै। त्र्यनीकेन वै देवसदनेन देवा असुरान् अजयन्। तस्माद् या अप्य् एतर्हि त्र्यनीका सेना भवति जयत्य् एव। तद् तथा त्र्यनीकया सेनया जेष्यन्त्योपप्रेयाद्, एवम् एवैतेन जेष्यन् स्वर्गं लोकम् उपप्रैति, जयति स्वर्गं लोकं, य एवं वेद॥
अथ यस्यैतस्य ज्योतिर् अतिरात्रः, पृष्ठ्यष् षडहः, पञ्चविंशं महाव्रतं, ज्योतिर् अतिरात्रो, ऽन्नाद्यकामो हैतेन यजेत। तद् आहुर् - न पुरा संवत्सरान् महाव्रतम् उपेत्यम् इति। तद् यत् पृष्ठ्यष् षडहो भवत्य् - ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरः कृत्स्नम् अन्नाद्यं पचति - संवत्सराभिजितम् एव तद् अन्नाद्यम् उपयन्ति। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। ज्योतिर् अतिरात्र - एतद् वै प्रज्ञातं देवतीर्थं यज् ज्योतिर् अतिरात्रः - प्रज्ञातेन देवतीर्थेनारिष्ट उदृचम् अश्नवा इति
तद् व् एतस्य परिचक्षते - यद् एनत् सत्रम् एव मन्यन्ते, सत्रं ह स्मैतत् पुरोपयन्ति। अनेन ह त्वाव सत्रियाश् च दक्षिणावन्तश् च स्तोमा विज्ञायन्ते। उभयतो ऽतिरात्रा एव सत्रिया, अन्यतरतो ऽतिरात्रा दक्षिणावन्तः। स य एनेन दक्षिणावता यजेत पुरस्ताद् अग्निष्टोमं कृत्वा यजेत॥
अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य स्तोमाः पञ्चमे ऽहनि महाव्रतं, विश्वजित्स्तोमो ऽतिरात्रः। इहेव च ह खलु वा एत इहेव च वाचं विप्रयुञ्जते ये यजन्ते ये सत्रम् आसते। तान् दशमेनैवाह्ना संपादयन्ति संपन्नायै वाचो विकृष्टायै प्रतिष्ठितायै महाव्रतम् उपेतम् असद् इति। अन्नं वै महाव्रतम्। अन्नाद्यस्यैवावरुद्ध्यै। विश्वजित्स्तोमो ऽतिरात्रो भवति। पराङ् इव ह वा एष स्वर्गम् एव लोकम् अभिनिर्मृष्टो यद् विश्वजित्स्तोमो अतिरात्रः। पराङ् एवैतेन स्वर्गं लोकम् एति। तद् यच् चतुर्थस्तोम एकविंशो भवति - प्रतिष्ठा वा एकविंशस् - तेनैवास्यां प्रतितिष्ठति
अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य ज्योतिर् गौर् आयुर् इति मध्ये त्र्यहो भवति, प्रजननकामो हैतेन यजेत। आत्मा वै पृष्ठ्यष् षडहः। प्रजननम् एते स्तोमाः। तद् यन् मध्ये ज्योतिर् गौर् आयुर् इति त्र्यहो भवति, मध्यत एवैतद् आत्मनः प्रजननं धत्ते, बहुर् भवति, प्रजायते॥
अथ यस्यैतस्योर्ध्वष् षडहः प्रत्यङ् त्र्यहो, यः कामयेत गच्छेयं स्वर्गं लोकं, प्रत्य् अस्मिन् लोके तिष्ठेयम् इति, स एतेन यजेत।
षडहेनैवेत ऊर्ध्वं स्वर्गं लोकं गच्छति, प्रत्य् एवामुतस् त्र्यहेणावरोहति। गच्छति स्वर्गं लोकं, प्रत्य् अस्मिन् लोके तिष्ठति। अथो ह वेद यो असाव् आसं सो ऽयम् अस्मीति पुनर् हैवास्मिन् लोक आजायते॥
अथ यस्यैतस्योर्ध्वस् त्र्यहः, प्रत्यङ् षडहो, य उ एव कामयेत गच्छेयं स्वर्गं लोकं, प्रत्य् अस्मिन् लोके तिष्ठेयम् इति, स एतेन यजेत। त्र्यहेणैवेत ऊर्ध्वं स्वर्गं लोकं गच्छति, प्रत्य् एवामुतष् षडहेनावरोहति। गच्छति स्वर्गं लोकं प्रत्य् अस्मिन् लोके तिष्ठति। अथो ह वेद यो ऽसाव् आसं सो ऽयम् अस्मीति। पुनर् हैवास्मिन् लोक आजायते॥
अथ यस्यैतस्योर्ध्वष् षडह ऊर्ध्वस् त्र्यह, स्वर्गकामो हैतेन यजेत। ऊर्ध्वा एते स्तोमा भवन्त्य् - ऊर्ध्वो वै स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै
अथैष विविधः। तस्य ज्योतिर् अग्निष्टोमो गौर् उक्थ्य आयुर् उक्थ्यो ज्योतिर् अग्निष्टोम आयुर् अतिरात्रो ज्योतिर् अग्निष्टोमो गौर् उक्थ्य आयुर् उक्थ्यो ज्योतिर् अग्निष्टोमः। पशुकामो हैतेन यजेत। तस्यैषो ऽन्यतस्संगो गोआयुषी उक्थ्याव् अन्तरौ भवतः। पशवो वा उक्थानि। तयोः पञ्च शतानि स्तोत्र्याः। ज्योतिषी अग्निष्टोमाव् अभितो भवतः। ब्रह्म वै ज्योतिर् अग्निष्टोमः। ब्रह्मणैव तद् उभयतः पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। आयुर् अतिरात्रो मध्ये भवति।तद् यथा ह वै विविधस्, तस्य मध्ये पृथ्वी वानववर्दाय, तादृक् तद् एष उ एवान्यतस्संगः। गोआयुषी उक्थ्याव् अन्तरौ भवतः। पशवो वा उक्थानि। तयोः पञ्च शतानि स्तोत्रियाः। ज्योतिषी अग्निष्टोमाव् अभितो भवतः। ब्रह्म वै ज्योतिर् अग्निष्टोमः। ब्रह्मणैव तद् उभयतः पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद
अथैते दशरात्राः। अभिचर्यमाणो हैतेन यजेत यद् दशरात्रः। दशैतान्य् अहानि भवन्ति। दश पुरुषे प्राणाः। अह्नेव प्राणं परिगृह्णीते, ऽह्ना प्राणम्, अह्ना प्राणं, न ततस् तस्य स प्राणो ऽतिशयेयम्। अस्याभिचरंस् स्तृण्वीत। अथो आहुर् - अभिचरन्न् एवैनेन यजेतेति। दशैतान्य् अहानि भवन्ति। दश पुरुषे प्राणाः। अह्नैव परस्य प्राणं स्तृणुते, ऽह्ना प्राणम्, अह्ना प्राणम्। न ततः परस्य स प्राणः परिशिष्यते। येनाभिचर्यमाणो जीवेत्। एतद् ध वै ज्यैष्ठ्यं कर्मणां यद् एष सौम्यो ऽध्वरो दशरात्रो विधया विधीयते। तद् यज् ज्यैष्ठ्यं कर्मणां तेन नो यज्ञो विहितो ऽसद् इति
एतद् ध वै परमं वाचः क्रान्तं यद् दशेति। एतावद् ध परमं वाक् चक्रमे। तद् यत् परमं वाचः क्रान्तं तत् सर्वम् आप्नवानीति। अथो आहुर् - अन्नाद्यकाम एवैनेन यजेतेति। सर्वो ह वा अन्यो विराजम् अतिष्टौति। एष ह वाव विराजं नातिष्टौति यो दशभि स्तुते। दशाक्षरा विराट्। अन्नं विराट्। अह्नैव विराजम् अवरुन्द्धे, ऽह्ना विराजम्, अह्ना विराजम्। स दशमेनैवाह्ना सर्वां विराजम् अन्नाद्यम् अवरुद्ध्यान्तत उत्तिष्ठति। पुरुषो ह वाव विराजम् अतिशये। दशैतान्य् अहानि भवन्ति, रात्रिर् एकादशी। दश पुरुषे प्राणा, आत्मैकादशः। पुरुषो ह वा एष विराज्य् अध्यूढो ऽनिष्पादाय। न ह वै गौर् नाश्वो नाश्वतरो विराजम् अधितिष्ठति। पुरुषो ह वाव विराजम् अधितिष्ठति। तस्मात् पुरुषः पशूनाम् अत्ता। अत्ता पशूनां भवत्य् अधि विराजं तिष्ठति, य एवं वेद
इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानस् स व्यस्मयत। स हरितो विस्मितो ऽजरत्। स ऐक्षत - कथं न्व् अहम् अस्य हरिम्णः पाप्मनो दशमीं निर्दश्यं गच्छेयम् इति। स एतं दशरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स तस्य हरिम्णः पाप्मनो दशमीं निर्दश्यम् अगच्छत्। गच्छति ह हरिम्णः पाप्मनो दशमीं निर्दश्यं , य एवं वेद। तस्माद् उत विद्धं वा विजातं वावतीर्णिनं वा पृच्छन्ति निर्दश्यो ऽभूद् इति। तस्य ह वाव ते तद् धरिम्णः पाप्मनो दशमीं निर्दश्यं गच्छन्ति। गच्छति ह हरिम्णः पाप्मनो दशमीं निर्दश्यं य एवं वेद
अथैष त्रिककुप्। प्रजननकामो हैतेन यजेत। त्रिवृत्पञ्चदशौ स्तोमौ भवतः। ऊनातिरिक्तौ मिथुनौ प्रजनी। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते। ताभ्यां त्रिवृतं स्तोमं पर्यूहन्ति। तम् एव तौ प्रजनयतः। सप्तदशैकविंशौ स्तोमौ भवतः। ऊनातिरिक्तौ मिथुनौ प्रजनी। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वै मितुनात् प्रजाः पशवः प्रजायन्ते। ताभ्यां सप्तदशं स्तोमं पर्यूहन्ति। तम् एव तौ प्रजनयतः। त्रिणवस्त्रयस्त्रिंशौ स्तोमौ भवतः। ऊनातिरिक्तौ मिथुनौ प्रजनी। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते। ताभ्यां त्रिणवं स्तोमं पर्यूहन्ति। तम् एव तौ प्रजनयतः। तद् आहुर् - आप्यन्ते वा एतत् स्तोमा, आप्यन्ते छन्दांस्य्, आप्यन्ते देवता, आप्यन्त ऋतवो गृहा(?), यद् एष पृष्ठ्यष् षडह आप्यन्त (?) इति। आग्नेयीष्व अयातयाम्नीषु सप्ते ऽहनि स्तुवीरन्। अग्र्निर् वै देवानाम् अयातयामा। अग्निम् एव तद् देवानाम् अयातयामानं पश्यन्तो यजन्ते। ऐन्द्रीष्व अयातयाम्नीषु अष्टमे ऽहनि स्तुवीरन्। इन्द्रो वै देवानाम् अयातयामा। इन्द्रम् एव तद् देवानाम् अयातयामानं पश्यन्तो यजन्ते। वैश्वदेवीष्व् अयातयाम्नीषु नवमे ऽहनि स्तुवीरन्। विश्वे वै देवा देवानाम् अयातयामानः। विश्वान् एव देवांस् तद् देवानाम् अयातयामनः पश्यन्तो यजन्ते। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम, तान् सार्धम् ऋद्ध्वा, तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति
अथैष पञ्चयज्ञक्रतुः। याः पञ्च दैवीर् आच्छदस् तासाम् एषर्द्धिः। यः पांक्तो यज्ञो ये पांक्ताः पशवो यत् पांक्तम् अन्नाद्यं ये पञ्चर्तवो यत् किं च पञ्च पञ्च तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः। तस्यो एतस्य न रात्रिम् उपयन्ति नेद् विराजम् अतिषुवामेति। तद् आहुर् - अति वै दशरात्रो यज्ञस्य मात्राम् एति। तद् यद् एष पञ्चयज्ञक्रतुर् भवति पञ्चाहे श्रुतस् तं कामम् ऋध्नवानि यो दशरात्र इति। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥
अथैष सप्तयज्ञक्रतुः। यास् सप्त दैवीर् आच्छदस् तासाम् एषर्द्धिः। यास् सप्तपदाश् शक्वर्यो, ये सप्त ग्राम्याः पशवो, यानि सप्त चतुरुत्तराणि छन्दांसि, ये सप्त मुख्याः प्राणा, यानि सप्तविंशतिर् दिव्यानि नक्षत्राणि, यस् सप्तविंश स्तोमो यत् किं च सप्त सप्त, तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः। तद् आहुर् - अति वै दशरात्रो यज्ञस्य मात्राम् एति। तद् यद् एष सप्तयज्ञक्रतुर् भवति सप्ताहे श्रुतस् तं कामम् ऋध्नवानि यो दशरात्र इति। सर्वस्तोमो ऽतिरात्रो भवति सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति
अथैष महात्रिककुप्। य श्रीकामः पुरोधाकाम स्यात् स एतेन यजेत। त्रीणि वर्ष्माणि तिस्र श्रियस् त्रय इमे लोकाः। तद् एवैतेनावरुन्द्धे। त्रिवृता पञ्चदशं परिष्टुबन्ति। ब्रह्म वै त्रिवृत्, क्षत्रं पञ्चदशः। ब्रह्मणैव तत् क्षत्रं परिगृह्णन्ति। सप्तदशेनैकविंशं परिष्टुबन्ति। ब्रह्म वै सप्तदशः क्षत्रम् एकविंशः। ब्रह्मणैव तत् क्षत्रं परिगृह्णन्ति। त्रिणवेन त्रयस्त्रिंशं परिष्टुबन्ति। ब्रह्म वै त्रिणवः, क्षत्रं त्रयस्त्रिंशः। ब्रह्मणैव तत् क्षत्रं परिगृह्णन्ति। यदो वै ब्रह्मणा क्षत्रं परिगृह्णात्य् अथ स तस्य पुरोधां गच्छति, गच्छति पुरोधां , पुर एनं दधते
स वा एष महात्रिककुब् भवति। त्रयो ह वा एषां लोकानां ककुभः। अग्निर् वा अस्य लोकस्य ककुब्, वायुर् अन्तरिक्षस्यादित्यो दिवः। ककुभाम् एको भवति, य एवं वेद। विश्वजित् सर्वपृष्ठातिरात्रो भवति। श्रीर् वै वर्ष्म पृष्ठानि। श्रियम् एव तद् वर्ष्म पृष्ठान्य् अभ्यारोहति। ओजो वै वीर्यं पृष्ठानि। ओजसैव तद् वीर्येणान्ततः पुरोधां परिगृह्णीते। नानाग्निष्टोमसामानि भवन्त्य् अन्यो ऽन्यस्याननुयानाय। शं नो देवीर् अभीष्टये, तं गूर्धया स्वर्णरम् इति यज्ञायज्ञीयं च साकमश्वं च। अग्ने वाजस्य गोमतो, विशोविशो वो ऽतिथिम् इति श्रुधीयं च विशोविशीयं च। आ ते अग्न इधीमहि, मूर्धानं दिवो अरतिं पृथिव्या इति संजयं च दैर्घश्रवसं च। अग्निं नरो दीधितिभिर् अरण्योस्, त्वम् अग्ने गृहपतिर् इति बृहच् चाग्नेयं समन्तं च। समिद्धम् अग्निं समिधा गिरा गृण, आ नो यज्ञं दिविस्पृशम् इति राजोवाजीयं च बृहच् च
तेन हैतेन जबालम् आरुणिर् याजयांचकार। सह त्रयाणां निगृध्नानां पुरोधां जगाम - काश्यस्य कौसल्यस्यैक्ष्वाकस्येति। तस्य ह श्रीर् आस कल्याणी। तस्य ह स्म तच् छ्रियं दृष्ट्वा श्वेतकेतुः पित्रा वदते - पलित यज्ञकाम अन्यान् एव श्रिया यशसा समञ्जश् चरसि, नात्मानम् इति। नेति ह स्माह। मा मा पुत्रक वोचः। यज्ञक्रतुर् एव मे विज्ञात आस। तं पापक इव ब्रह्मबन्धुके व्यजिज्ञासे। स किल तथैवास यथा म एनम् अनूचुः। ततो वा अतितराम् इव। स वा एष यज्ञो मृत्योर् एव निकृतिः। देवा वै मृत्योर् अबिभयुर् ये स्वर्गे लोके। तस्मात् ते प्रजापतिम् एवोपधावन्। तेभ्य एतं दशरात्रं यज्ञं व्यदधात्। तम् आहरन्। तेनायजन्त
ते त्रिवृतास्तुवत। त्रिवृता वै स्तुवत इति मृत्युः पञ्चदशम् अभिपर्येत्यातिष्ठद् इदम् अत एष्यन्तीति। तं पञ्चदशे ऽन्वागच्छन्। तं तत उदरुन्धन्। स सप्तदशम् अभ्युदक्रामत्। अथेतरे पञ्चदशेन स्तुत्वा त्रिवृतैव पुनर् अस्तुवत। त्रिवृता वै स्तुवत इति मृत्युः पञ्चदशम् एवाभिप्रत्याद्रवद् इदम् एवात एष्यन्तीति। अथेतरे सप्तदशम् अभ्यत्यक्रामन्। ते सप्तदशेनास्तुवत। सप्तदशेन वै स्तुवत इति मृत्युर् एकविंशम् अभिपर्येत्यातिष्ठद् इदम् अत एष्यन्तीति। तम् एकविंशे ऽन्वागच्छन्। तं तत उदरुन्धन्। स त्रिणवम् अभ्युदक्रामत्। अथेतर एकविंशेन स्तुत्वा सप्तदशेनैव पुनर् अस्तुवत। सप्तदशेन वै स्तुवत इति मृत्युर् एकविंशम् एवाभिप्रत्याद्रवद् इदम् एवात एष्यन्तीति। अथेतरे त्रिणवम् अभ्यत्यक्रामन्। ते त्रिणवेनास्तुवत। त्रिणवेन वै स्तुवत इति मृत्युस् त्रयस्त्रिंशम् अभिपर्येत्यातिष्ठद् इदम् अत एष्यन्तीति। तं त्रयस्त्रिंशे ऽन्वागच्छन्। तं तत उदरुन्धन्। स छन्दोमान् अभ्युदक्रामत्। अथेतरे त्रयस्त्रिंशेन स्तुत्वा त्रिणवेनैव पुनर् अस्तुवत। त्रिणवेन वै स्तुवत इति मृत्युस् त्रयस्त्रिंशम् एवाभिप्रत्याद्रवद् इदम् एवात एष्यन्तीति
अथेतरे विश्वजितम् एव सर्वपृष्ठं पितरं प्रजापतिं प्रापद्यन्त। ततो वै ते निकृत्य मृत्युम् अमृता अभवन्। निकृत्य हैव मृत्युम् अमृतो भवति, य एवं वेद। अथैते ऽग्निष्टोमा एव दशाहानि भवन्ति। एतेभ्यो ह वै सामभ्यः प्रजापतिस् सोमपीथं प्रददौ। तानि वा एतानि प्रत्तसोमपीथान्य् अपहतपाप्मानि सामानि। अपहत्य पाप्मानं श्रेयान् भवति, य एवं वेद। एतान्य् उ ह वै सामानि कामानां पूर्णानि। यथा दृतिस्व् आसिक्त स्याद् दध्नो वा घृतस्य वा मधुनो वैवम् एतानि सामानि कामानां पूर्णानि। एतान्य् उ ह स्म वै तत् कुंस्थः कालाशभिर् उपगायति --
अरुणान् सदम् उक्षन्न् अश्वान् काष्ठातो यथा।
पूर्णान् परिस्रुतः कुम्भाञ् जनमेजयसादन॥
इति। यं ह वा एतैस् सामभिः कामं कामयते तम् एवावरुन्द्धे। अथैतानि द्वादशाहस्य दशाहानि भवन्ति। एतान्य् उ ह वै वीर्यवन्त्य् अहानि यानि द्वादशाहस्य। तद् यानि वीर्यवन्त्य् अहानि तैर् न स्तुतम् असद् इति। तान्य् उ नाना स्तोमा वहन्ति। एषा ह वा अह्नां समृद्धिर् यद् एनानि नाना स्तोमा वहन्ति। सा यैवाह्नां समृद्धिस् सैवैषा क्रियते
अथैष कुसुर्विन्ददशरात्रः। तस्य त्रयस् त्रिवृतो ऽग्निष्टोमास् त्रयः पञ्चदशा उक्थ्यास् त्रयस् सप्तदशा उक्थ्या ज्योतिर् अतिरात्रो, यः कामयेत तेजस्वी ब्रह्मवर्चस्य् ओजस्वी वीर्यावान् अन्नादः प्रतितिष्ठेयम् इति, स एतेन यजेत। तेजो वै ब्रह्मवर्चसं त्रिवृत् स्तोम, ओजो वीर्यं पञ्चदशो, ऽन्नं सप्तदशः, प्रतिष्ठा ज्योतिर् अतिरात्र, ऋध्नोति हैनेनैतान् कामान् य एतस्मिन् कामाः। अतो ज्योतिष्टोमे ऽतिरात्रे श्रुतस् तं कामम् ऋध्नवानि यो दशरात्र इति। एतं ह स्म वै तत् प्रसृप्तौ ब्राह्मणौ समूदाते - कं नु सोम्य यज्ञक्रतुं प्रसृप्तौ स्व इति। तयोर् हान्यतर उवाच - यदि न्वा इदम् एवाप्य् अह श्वो भविताग्निष्टोमा एव तर्हि दशो एव त्वयि नूनम् अहान्य् आसिष्यावहा इति। तं हैतं ताव् अग्निष्टोमम् एव मेनाते य ह्य् एवामी अग्निष्टोमस्य स्तोमास् त एवैते॥
अथैषो ऽभ्रिर् उभयतःक्ष्णूः --
--तस्य त्रिवृद् अग्निष्टोमः पुरस्ताद् भवति, त्रिवृद् अग्निष्टोम उपरिष्टाद्, अष्टाव् उक्थ्याः सप्तदशा मध्ये। अन्नाद्यकामो हैतेन यजेत। अग्निर् वै पूर्वस् त्रिवृद्, आदित्य उत्तरः। अग्निर् वा अस्य लोकस्याभ्रिर्, आदित्यो ऽमुष्य। अथैतद् अन्नम् एव यजेत। अष्टाव् उक्थ्यास् सप्तदशा मध्ये। अयम् एवास्मा अग्निर् इत एतद् अन्नाद्यं रद्त्य् आदित्यो ऽमुतो वृष्टिं प्रयच्छति। ता अस्मा एतद् उभयतो ऽन्नादं रदतो ऽन्नादो ह भवति, य एवं वेद। अथो आहुः - पशुकाम एवैनेन यजेतेति। तस्याग्निष्टोमाव अभितो भवत, उक्थ्या मध्ये। ब्रह्म वा अग्निष्टोमः, पशव उक्थानि। ब्रह्मणैव तद् उभयतः पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते, य एवं वेद॥
अथ यस्यैतस्योर्ध्वष् षडह, ऊर्ध्वस् त्र्यहो, ज्योतिर् अतिरात्र, स्वर्गकामो हैतेन यजेत। ऊर्ध्वा एते स्तोमा भवन्त्य् - ऊर्ध्वो वै स्वर्गो लोक, स्वर्गस्यैव लोकस्य समष्ट्यै॥
अथ यस्यैतस्य ज्योतिर् गौर् आयुर् अतिरात्रो ज्योतिर् गौर् आयुर् अतिरात्रो ज्योतिर् अतिरात्रो, यः कामयेत ज्योतिष्मतो लोकान् जयेयम् इति, स एतेन यजेत। चत्वार्य् उ ह वै देवानाम् आविष्टमानाव् अतिज्योतींष्य् - अग्निः पृथिव्याम्, आदित्यो दिवि, चन्द्रमा नक्षत्रेषु, विद्युद् अप्सु। एतान् एव ज्योतिष्मतो लोकान् जयति य एवं विद्वान् एतेन यज्ञक्रतुना यजते, य उ चैनम् एवं वेद, य उ चैनम् एवं वेद
सत्रम्
अथैष त्रयोदशरात्रः। असौ वा आदित्यस् सदृङ्ङ् एवान्यैर् देवैर् आसीद् अनेनाग्निना वायुना चन्द्रमसान्यैर् देवैः। सो ऽकामयत सर्वेषां देवानां श्रैष्ठ्यं गच्छेयं, त्रयोदशो मासो भूत्वेदं सर्वम् अभ्यारोहेयम् इति। स एतं त्रयोदशरात्रम् अपश्यत्। तम् उपैत्। ततो वै स सर्वेषां देवानां श्रैष्ठ्यम् अगच्छत्, त्रयोदशो मासो भूत्वेदं सर्वम् अभ्यारोहत्। संवत्सरो वा इदं सर्वम्। त एव सर्वे स्तोमास्, तानि सर्वाणि पृष्ठानि, तानि सर्वाणि छन्दांसि, तानि सर्वाणि सवनानि, ते सर्वे देवास्, ते सर्वे लोकास्, ते सर्वे कामाः। स द्वादशभिर् एवाहोभिर् द्वादश मासान् आप्त्वा त्रयोदशेनैवाह्ना त्रयोदशो मासो भूत्वेदं सर्वम् अभ्यारोहत्। ते य एवं विद्वांसस् त्रयोदशरात्रम् उपयन्त्य् एतम् एवर्ध्नुवन्त्य् एतस्य सलोकतां गच्छन्ति
मास्यं वा एतत् सत्रम्। तेन यर्द्धिस् सैवर्द्धिः। मासो ह खलु वै पुनः पुनः पल्ययमानस् संवत्सरम् आप्नोति। संवत्सरं वा एतत् ईत्सन्ति संवत्सरम् ईप्सन्ति यद् यजन्ते यत् सत्रम् आसते। न हि किं चन बहिस् संवत्सराद् अस्ति। स्वाराज्यं वा एता रात्रयो यच् चतुर्दश। सप्त परस्ताद् अहानि सप्तावस्तात्। अथ यो मध्ये लोकस् स स्वराट् स स्वर्गो लोकः। तद् ब्रध्नस्य विष्टपं गच्छन्ति, तत् स्वाराज्यं गच्छन्ति। तद् अन्यस्याननुयाना भवन्ति। ता वा एता रात्रयस् संपद्यन्ते विराजं च गायत्रीं च। एते ह खलु वै छन्दसां वीर्यवत्तमे यद् विराट् च गायत्री च। ते ये छन्दसां वीर्यवत्तमे तयोर् ऋध्नवाम, तयोः प्रतितिष्ठाम, ताभ्यां न स्तुतम् असद् इति। उपो विराजं गच्छन्ति। तद् उ विराजो ऽन्नाद्यस्यैश्वर्यम् आधिपत्यं गच्छन्ति। द्व्यूना विराट्, द्वे ते स्त्रिया ऊने यतस् सा प्रजायते, तेनो प्रजननम्। वैश्वानरः प्रायणीयो ऽतिरात्रो भवति। वैश्वानरप्रायणा ह्य् अहीनास् सोमाः
अथैष पृष्ठ्यष् षडहो भवति। श्रीर् वै पृष्ठानि, वर्ष्म वै पृष्ठानि। तच् छ्रियं वर्ष्म पृष्ठानि रोहन्ति। तद् उ सत्रिणो भवन्ति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति, य एतं पृष्ठ्यं षडहम् उपयन्तीति। तद् यत् परस्तात् प्रत्यङ् पृष्ठ्यष् षडहो भवति, निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। तत् त्व् एतस्य परिचक्षते यद् आरभमाणा एवं पृष्ठ्यं षडहम् आरभन्ते वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥
अथैते ज्योतिर् गौर् आयुर् इति स्तोमा भवन्ति। एते ह वै शिवाश् शान्ताः पथ्या स्तोमा ये ज्योतिर् गौर् आयुर् इति। ते ये शिवाश् शान्ताः पथ्या स्तोमास् तैर् न स्तुतम् असद् इति। त उ विराजं संपन्नाः। तद् उ विराजम् अन्नाद्यम् आरभन्ते। यो वै श्रेयांसम् असंविद्योपाधिरोहत्य् उद् वै स तं हिंस्ते। यया वै स तम् आर्त्या कामयते तयैनं निनयति। अथ य एनम् अनु संविदम् अनु समात् सद्यो वाधिरोहति न वै स तम् उद्धिंस्ते। तद् यद् एते ज्योतिर् गौर् आयुर् इति स्तोमा भवन्ति, यथा श्रेयांसम् अनु संविदम् अनु समात् सद्यो वाधिरोहेत् तादृक् तत्
अथैष पृष्ठ्यष् षडहो भवति। श्रीर् वै पृष्ठानि। वर्ष्म वै पृष्ठानि। तच् छ्रियं वर्ष्म पृष्ठानि रोहन्ति, तद् उ सत्रिणो भवन्ति। तद् आहुर् अग्रम् इव वा एते रोहन्ति य एतं पृष्ठ्यं षडहम् उपयन्तीति। यो वै महावृक्षस्याग्रं रूढ्वा प्रत्यवरोढुं न वेद भंगं वै स न्येत्य अव वा हि पद्यते तद् वैवोपरि शुष्यति। तद् यत् परस्तात् प्रत्यङ् त्र्यहो भवति, निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। ज्योतिषो ऽध्य् अह्न उत्तिष्ठन्ति, प्रज्ञाताज् ज्यैष्ठ्यात् स्तोमात् प्रज्ञाते ज्यैष्ठ्ये स्तोमे प्रतिष्ठायोदृचम् अश्नवामहा इति। तस्य द्वादश स्तोत्राणि भवन्ति - द्वादश मासास् संवत्सरः। संवत्सरो ज्यैष्ठ्यं , तस्य भ्रातृव्यो नास्त्य् - अभ्रातृव्ये ज्यैष्ठ्ये स्तोमे प्रतिष्ठायोदृचम् अश्नवामहा इति। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः
अथैता द्वादशाहवतीर् भवन्ति - देवसत्रं ह खलु वा एतत् प्रजापतिसत्रं यद् द्वादशाहः। एतेन वै सत्रेण प्रजापतिर् आर्ध्नोत् - तद् येन सत्रेण प्रजापतिर् आर्ध्नोत् तेनर्ध्नवामेति। तद् आहुः - किं वर्ष्म सत्राणाम् इति। द्वादशाह इति ब्रूयात्। द्वादशाहो ह वै वर्ष्म सत्राणां, न ह्य् अन्यस्मिन् सत्रे चतुश्चत्वारिंश स्तोमो ऽस्ति, नाष्टाचत्वारिंशः। तद् यद् वर्ष्म सत्राणां तन् उपेतम् असद् इति। इहेव च ह खलु वा एत इहेव च वाचं विप्रयुञ्जते ये यजन्ते ये सत्रम् आसते। तान् दशमेनैवाह्ना संपादयन्ति संपन्नायै नो वाचो विकृष्टायै प्रतिष्ठिताया उदृचम् अश्नवामहा इति। एकेनो च सत्रेण द्वे सत्रे उपयन्ति द्वादशाहं च चतुर्दशरात्रे च। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः
मास्यं वा एतत् सत्रम् । तेन यर्द्धिस् सैवर्द्धिः। मासो ह खलु वै पुनः पुनः पल्ययमानस् संवत्सरम् आप्नोति। संवत्सरं वा एतद् ईत्सन्ति संवत्सरम् ईप्सन्ति यद् यजन्ते यत् सत्रम् आसते। न हि किं चन बहिस् संवत्सराद् अस्ति। स्वाराज्यं वा एता रात्रयो यत् पञ्चदश। सप्त परस्ताद् अहानि सप्तावस्तात्। अथ यन् मध्ये ऽहस् तद् स्वराट्, स स्वर्गो लोकः। तद् ब्रध्नस्य विष्टपं गच्छन्ति, तत् स्वाराज्यं गच्छन्ति, तद् अन्यस्याननुयाना भवन्ति। वज्रो ह खलु वा एष यत् पञ्चदशरात्रः। पञ्चदशरात्रेण वै वज्रेण देवा असुरान् अभ्यभवन्। ते ये पाप्मगृहीता इव मन्येरंस् त एतम् एव पञ्चदशरात्रम् उपेयुः। पञ्चदशरात्रेणैव वज्रेण द्विषन्तं पाप्मानं भ्रातृव्यम् अभिभूयोत्तिष्ठन्ति। तद् उ होवाच यामनो भ्रातलायनो याम् अहं सरस्वतीं पञ्चदशरात्रेण वज्रेणाजयं कस् तस्याम् उद् अन्यो ऽवसातुम् अर्हति। वज्रेण वा अहम् एताम् अजयम्। दुरपजय्यं वै वज्रजितम् इति। ता वा एता रात्रयस् संपद्यन्ते विराजं च गायत्रीं च। एतं ह खलु वै छन्दसां वीर्यवत्तमे यद् विराट् च गायत्री च। ते ये छन्दसां वीर्यवत्तमे तयोर् ऋध्नवाम, तयोः प्रतितिष्ठाम, ताभ्यां न स्तुतम् असद् इति। उपो विराजं गच्छन्ति। तद् उ विराजो ऽन्नाद्यस्यैश्वर्यम् आधिपत्यं गच्छन्ति। एको विराड्, ऊनं तत् स्त्रियै यतस् सा प्रजायते, तेनो प्रजननम्। वैश्वानरः प्रायणीयो ऽतिरात्रो भवति। वैश्वानरप्रायणा ह्य् अहीनास् सोमाः
अथैते ज्योतिर् गौर् आयुर् इति स्तोमा भवन्ति। एते ह वै शिवाश् शान्ताः पथ्या स्तोमा ये ज्योतिर् गौर् आयुर् इति। ते ये शिवास् शान्ताः पथ्या स्तोमास् तैर् न स्तुतम् असद् इति। त उ विराजं संपन्नाः। तद् उ विराजम् अन्नाद्यम् आरभन्ते। यो वै श्रेयांसम् असंविद्योपाधिरोहत्य् उद् वै स तं हिंस्ते। यया वै स तम् आर्त्या कामयते तयैनं निनयति। अथ य एनम् अनु संविदम् अनु समात् सद्यो वाधिरोहति न वै स तम् उद्धिंसते। तद् यद् एते ज्योतिर् गौर् आयुर् इति स्तोमा भवन्ति यथा श्रेयांसम् अनु संविदम् अनु समात् सद्यो वाधिरोहेत् तादृक् तत्। अथैष त्रिवृद् अग्निष्टुद् अग्निष्टोमो भवति। ब्रह्म वै त्रिवृत्। क्षत्रं पृष्ठ्यष् षडहः। तद् यत् पुरस्तात् पृष्ठ्यस्य षडहस्याग्निष्टुतम् उपयन्ति ब्रह्मैव तत् क्षत्रस्य पुरस्ताद् दधाति। तस्माद् ब्राह्मणः क्षत्रियस्य पुरोहितः। एकेनोप सत्रेण द्वे सत्रे उपयन्ति द्वादशाहं च दशरात्रं च । वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः
द्विमास्यं वा एतत् सत्रम्। तेन यर्द्धिस् सैवर्द्धिः। यौ ह खलु वै द्वौ मासाव् ऋतोस् सर्द्धिः। ऋतुर् उ प्रत्यक्षं संवत्सरस्यर्द्धिः। संवत्सरं वा एतद् ईत्सन्ति संवत्सरम् ईप्सन्ति यद् यजन्ते यत् सत्रम् आसते। न हि किं चन बहिस् संवत्सराद् अस्ति। स्वाराज्यं वा एता रात्रयो यद् एकविंशतिर् - दश परस्ताद् अहानि दशावस्तात्। अथ यन् मध्ये ऽहस् तत् स्वराट्। स् स्वर्गो लोकः। तद् ब्रध्नस्य विष्टपं गच्छन्ति, तत् स्वाराज्यं गच्छन्ति, तद् अन्यस्याननुयाना भवन्ति। ता वै एता रात्रयस् संपद्यन्ते विराजम् एव। तद् उ विराजो ऽन्नाद्यस्यैश्वर्यम् आधिपत्यं गच्छन्ति पञ्च च विराट् च। ता याः पञ्च दैवीर् आच्छदस् तासाम् एषर्द्धिर् यः पांक्तो यज्ञो ये पांक्ताः पशवो यत् पांक्तम् अन्नाद्यं ये पञ्चर्तवः। यत् किं च पञ्च पञ्च तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः
दशैतानि परस्ताद् अहानि भवन्ति दशावस्ताद् विषुवान् एकविंशः। दश वै पुरुषस्य हस्त्या अंगुलयो, दश पद्या, आत्मैकविंशः। पुरुषो ह वा एष विराज्य् अध्यूढो ऽनिष्पादाय। न ह वै गौर् नाश्वो नाश्वतरो विराजम् अधितिष्ठति। पुरुषो ह वाव विराजम् अधितिष्ठति। तस्मात् पुरुषः पशूनाम् अत्ता। अत्ता पशूनां भवत्य् अधि विराजं तिष्ठति , य एवं वेद। ता हैता रात्रीर् नैदाघीये मास्य् उपेयुः। नैदाघीये वै मासि प्रजापतिर् आदित्याय रुचं प्रायच्छत्। तस्माद् एष नैदाघीये मासि बलिष्ठं तपत्य्, अपि द्विगुणाश् छाया उपसर्पन्ति। ता होग्रदेवो राजनिर् ब्रह्मवर्चसकाम उपेयाय। तम् उ ह ब्राह्मणम् उवाच - यावद् ब्रह्मवर्चसम् अवारुध्याभि श्वेतो भविष्यसीति। स यथाश्व श्वेत एवम् आस। तावत् तेजस्विनीस् तावद् ब्रह्मवर्चसिनीस् तावद् वीर्यवतीर् एता रात्रयः। ते य एवं विद्वांस एता रात्रीर् उपयन्ति सर्व एवर्ध्नुवते, सर्वे ब्रह्मवर्चसिनो भवन्ति। तासु वायव्यं पशुम् आलभेरन् - वायुर् वै शान्तिश्, शान्त्या एवानिर्दाहाय। वैश्वानरः प्रायणीयो ऽतिरात्रो भवति। वैश्वानरप्रायणा ह्य् अहीनास् सोमाः
अथैष पृष्ठ्यष् षडहो भवति। श्रीर् वै पृष्ठानि, वर्ष्म वै पृष्ठानि। तच् छ्रियं वर्ष्म पृष्ठानि रोहन्ति। तद् उ सत्रिणो भवन्ति। एते सप्तदशा स्वरसामानो भवन्ति प्राजापत्यान्य् अहानि - त्रयः परस्तात् त्रयो ऽवस्तात्। प्रजापतिर् वा एषद्व धा व्यूढ आदित्याय रुचं प्रयच्छति। त(द्) यो रुचः प्रदाता येन रुक् प्रत्ता स नो रुचं प्रयच्छाद् इति। अथैष एकविंशो विषुवान् भवति। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। एतस्य वा एते सलोकतां गच्छन्त्य्, एतम् अभ्यारोहन्ति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एतम् आदित्यम् इति। तद् यत् परस्तात् प्रत्यङ् पृष्ठ्यष् षडहो भवति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः
अथ यस्यैतस्य पृष्ठ्यस्यैव षडहस्य यन् मध्ये सप्तदशम् अहस् तद् उपरिष्टात् त्रयस्त्रिंशस्य पर्यूहन्ति। प्रजननकामा हैतद् उपेयुः। प्रजननं वै पृष्ठ्यष् षडहः। षडुत्तरेण वै स्तोमाः प्रजनयन्ति, चतुरुत्तरेण छन्दांसि। अथैष षडुत्तरै स्तोमस् सप्तदशो मध्ये व्यवहितः। प्रजननम् अन्तर्धायेव तिष्ठति। तं यद् उपरिष्टात् त्रयस्त्रिंशस्य पर्यूहन्त्य् अनन्तर्हितात् प्रजननात् प्रजायामहा इति। द्वयो रुचै सप्तदशयोस् तृतीयतायै। अथैतौ विश्वजिदभिजिताव् अभित स्तोमानां वीर्यम्। वीर्येण ह वा एतौ विषुवन्तं दाधर्तुः। यज्ञस्य ह खलु वै एते मेध्यौ यद् विश्वजिदभिजितौ। एताभ्यां वै यज्ञो धृतः। देवतल्पो ह खलु वा एष यद् विश्वजिदभिजितौ, क्षत्रम् असाव् आदित्यः। देवतल्प एव तत् क्षत्रम् अध्यूहन्ति। तस्मात् क्षत्रियो विश्य् अध्यूढः। अथैष एकविंशो विषुवान् भवति। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। एतस्य वा एते सलोकतां गच्छन्त्य् एतम् अध्यारोहन्ति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एतम् आदित्यम् इति। तद् यत् परस्तात् प्रत्यङ्ङ् एवंविधष् षडहो भवति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। वैश्वानर उदयनीयो ऽतिरात्रः। वैश्वानरोदयना ह्य् अहीनास् सोमाः
अथैतत् पञ्चाहविधं भवति। न ह खलु वै स एकविंशतिरात्रयो विषुवान्। को नु स विषुवान् यस्मिन् न विश्वजिदभिजितौ भवतः। तद् यद् विश्वजिदभिजितौ भवतः कृत्स्नं विषुवन्तम् ऋध्नवाम, कृत्स्नो नो विषुवान् उपेतो ऽसद् इति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति , य एता रात्रीर् उपयन्तीति। तद् यत् परस्तात् प्रत्यङ् पञ्चाहो भवति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः
द्विमास्यं वा एतत् सत्रम्। तेन यर्द्धिस् सैवर्द्धिः। यौ ह खलु वै द्वौ मासाव् ऋतोस् सर्द्धिः। ऋतुर् उ प्रत्यक्षं संवत्सरस्यर्द्धिः। संवत्सरं वा एतद् ईत्सन्ति संवत्सरम् ईप्सन्ति यद् यजन्ते यत् सत्रम् आसते। न हि किं चन बहिस् संवत्सराद् अस्ति। स्वाराज्यं वा एता रात्रयो यच् चतुर्विंशतिर् - द्वादश परस्ताद् अहानि द्वादशावस्तात्। अथ यो मध्ये लोकस् स् स्वराट्, स स्वर्गो लोकः। तद् ब्रध्नस्य विष्टपं गच्छन्ति, तद् स्वाराज्यं गच्छन्ति, तद् अन्यस्याननुयाना भवन्ति। ता वा एता रात्रयस् संपद्यन्ते जगतीम् एव। पशवो वै जगती। तेनैतत् सत्रं पशव्यम् उपो विराजं गच्छन्ति। तद् उ विराजो ऽन्नाद्यस्यैश्वर्यम् आधिपत्यं गच्छन्ति। द्व्यूना विराट्, द्वे ते स्त्रिया ऊने यतस् सा प्रजायते, तेनो प्रजननम्। गायत्रीम् उ दीक्षोपसद्भिश् च सुत्याभिश् च संपद्यते। प्राणो वै गायत्री, तेनैतत् सत्रम् आयुष्यम्। तेजो वै गायत्री, तत् तेजस्विनो ब्रह्मवर्चसिनो भवन्ति। ज्यैष्ठ्यं वै गायत्री, तद् उ भ्रातृव्ये ज्यैष्ठ्ये प्रतितिष्ठति
अथैते सप्ताहा भवन्ति - सप्त वै छन्दांसि। छन्दांसि वै स्वाराज्यो लोकस् - तद् यावान् स्वाराज्यो लोकस् तावन्तं स्वाराज्यं लोकम् ऋध्नवामेति। सप्त वै प्राणाः। प्राणैर् वै प्रजाः पशवः परिगृहीता उपतिष्ठन्ते। तद् यैः प्राणैः प्रजाः पशवः परिगृहीता उपतिष्ठन्ते तैर् नः प्राणैः प्रजाः पशवः परिगृहीता उपतिष्ठन्ता इति। प्राणैर् वै देवा स्वर्गं लोकम् आयन्। तद् यैः प्राणैर् देवा स्वर्गं लोकम् आयंस् तैः प्राणै स्वर्गं लोकम् आयामेति। सप्त वै मुख्याः प्राणाः। एते वा अपहतपाप्मानः प्राणा ये मुख्याः। ते ये ऽपहतपाप्मानः प्राणास् तेषां मात्रया यज्ञं तनवामहा इति। अग्निष्टोमा भूयांस उक्थ्येभ्यो भवन्ति। ब्रह्म वा अग्निष्टोमः। तद् ब्रह्मवर्चसम् ऋध्नुवन्ति। तद् उ ब्रह्मवर्चसिनो भवन्ति। अग्निष्टोमाः परस्ताद् भवन्त्य्, अग्निष्टोमा अवस्ताद्, उक्थ्या मध्ये। ब्रह्म वा अग्निष्टोमः, पशव उक्थ्यानि। ब्रह्मणैव तद् उभयतः पशून् परिगृह्णन्त्य् अपरावापाय, नास्य वित्तं परोप्यते य एवं वेद। वैश्वानरः प्रायणीयो ऽतिरात्रो भवति, वैश्वानरप्रायणा ह्य् अहीनास् सोमाः
अथैते पृष्ठ्यस्य षडहस्य स्तोमा भवन्ति। श्रीर् वै पृष्ठानि, वर्ष्म वै पृष्ठानि। तच् छ्रियं वर्ष्म पृष्ठानि रोहन्ति, तद् उ सत्रिणो भवन्ति। अथैतत् त्रयस्त्रिंशम् अहर् भवति। त्रयस्त्रिंशाद् एवाधि त्रयस्त्रिंशं सह्यन्तः कुतो ह्य् अन्यद् आहरेयुः। तस्य चतुस्त्रिंशं बहिष्पवमानं भवति त्रयस्त्रिंशद् वै देवताः। प्रजापतिश् चतुस्त्रिंशः। षष्ठायतनो वै प्रजापतिर् देवतानाम्। अथ यस् सप्तमम् अह स्वाराज्यस् स लोकः। स्वाराज्यम् उ चतुस्त्रिंशी। तद् यत् सप्तमस्याह्नश् चतुस्त्रिंशं बहिष्पवमानं भवति, यावान् स्वाराज्यो लोकस् तद् यावान् स्वाराज्यो लोकस् तावन्तं स्वाराज्यं लोकम् ऋध्नवामेति। त्रयाणाम् उ चैव त्रयस्त्रिंशानाम् अननूचीनतायै । प्रोष्ठस्य ह खलु वा एता रूपं रात्रयः। ऊर्ध्वो वा अयम् इतष् षडहस् तिर्यङ् मध्ये ऽर्वाङ् असाव् अमुतः। उपरिषद्यस्यो वा एता रूपं रात्रयः। उपरिषद्यं वै सो ऽश्नुते य श्रियम् अश्नुते। उपरिषद्यं ज्यैष्ठ्यं श्रैष्ठ्यं श्रियम् अश्नवामहा इति। तस्माद् एता रात्रीर् उपयन्ति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एता रात्रीर् उपयन्तीति। तद् यत् परस्तात् प्रत्यञ्चः पृष्ठ्यस्य षडहस्य स्तोमा भवन्ति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। ज्योतिषो ऽध्य् अह्न उत्तिष्ठन्त्य् उक्तब्राह्मणात्। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः
अथ यस्यैतस्य सर्वम् एव चतुस्त्रिंशम् अहर् भवति सर्वेणैवाह्ना स्वाराज्यं लोकम् ऋध्नवामेति। त्रयाणाम् उ चैव त्रयस्त्रिंशानाम् अननूचीनतायै। अथ ह स्माह भाल्लवेयो - न पुरा संवत्सरान् महाव्रतम् उपेत्यम्। उपो चेद् ईयुश् चतुर्विंशत्याम् एवैनद् रात्रीषूपेयुर् इति। संवत्सरो वा एता रात्रयो यच् चतुर्विंशतिः। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सर एवैष उभयतः पर्यूढः। तस्य यन् मध्ये सप्तदशम् अहस् तस्मिन्न् एवोपेत्यम् इति। सप्तदशो वै प्रजापतिः। प्राजापत्यं महाव्रतम्। मध्यायतनो वै प्रजापतिर् देवतानाम्। तद् यत्रायतनः प्रजापतिर् देवतानां तत् प्रजापतिम् ऋध्नवामेति। मध्यतो वा अन्नम् अशितं धुनोति। तद् यद् एवम् उपयन्ति मध्यत एवैतद् अशनयाम् अपहत्योत्तिष्ठन्ति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एता रात्रीर् उपयन्तीति। तद् यत् परस्तात् प्रत्यञ् च पृष्ठ्यस्य षडहस्य स्तोमा भवन्ति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। ज्योतिषो ऽध्य् अह्न उत्तिष्ठन्त्य उक्तब्राह्मणाद् यद् इति ह खलु वा एतच् छन्दो यद् गायत्री। यद् गायत्र्या अध्य् उत्तिष्ठेयुर् ईश्वरा अप्रतिष्ठिताश् चरितोः। सविता यन्त्रैः पृथिवीम् अरम्णाद् इति सावित्रं वैश्वदेवे होतारम् अनुशंस्तवै ब्रूयात्। तद् उद्धृतात् प्रतिष्ठिताद् उत्तिष्ठन्ति। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः
अथैतास् संसदो भवन्ति। एतद् ध वै संसदां संसत्त्वं यद् एते स्तोमाश् च छन्दांसि च मध्यतः संसन्नाः। स्तोमाश् च ह खलु वै छन्दांसि च सर्वा देवताः। देवा वै मृत्योर् अबिभयुः। यत् स्वर्गे लोके तस्मात् ते प्रजापतिम् एवोपाधावन् । तान् प्रजापतिर् अब्रवीत् - मा बिभीत। अहं वस् तं मत्युम् अतिनेष्यामि यत् स्वर्गे लोक इति। तान् पृष्ठ्ये षडहे समसादयत्। ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरो मृत्युः। मृत्योर् वावैनांस् तत् पृष्ठे प्रतिष्ठितस् समसादयत्। तान् एतेनानिरुक्तेन त्रयस्त्रिंशेनात्यनयत्। स ऐक्षत - मानिरुक्ता भूवन्न् इति। ता निरुक्तेन निरब्रवीत्। ते स्तोमांश् च छन्दांसि चाक्रममाणा आयन्। मृत्योर् वाव ते तत् पदयोपनं कुर्वन्त ईयुस्, तद् यद् एते स्तोमाश् च छन्दांसि च मध्यतो विष्वञ्चो भवन्ति
यथा विषूची पदे विनिहिते अनेनाग्रा3द् अनेना3 इत्य् अप्रजानंस् तिष्ठेद्, एवम् एवैतन् मृत्योः पदयोपनं कृतं भवति पाप्मनो ऽनन्ववायाय। न ह वा एनं पुनर् मृत्युर् अन्वेत्य्, अप पाप्मानं हते, गच्छति स्वर्गं लोकम्। ते परमं तम् इत्वा पुनर् एवाबिभयुः। तान् एतेनैवानिरुक्तेन त्रयस्त्रिंशेनात्यनयन् निरुक्तेन निरब्रवीत्। ततो वै ते तं मृत्युम् अपाजयन् यत् स्वर्गे लोके। अप ह वै तं मृत्युं जयति यत् स्वर्गे लोके, य एवं वेद। संवत्सरो वा एता रात्रयस्, संवत्सरस्य गर्भः। संवत्सरस्य वै गर्भं प्रजाः पशव उपजीवन्ति। गर्भिणीर् उ एता रात्रयः। यथा वा अजगरो गीर्णवान् एवम् एता रात्रयः। यद्य् उ वा अजगरो गीर्णवान् भवत्य् उभाव् अन्ताव् अर्णा स्थूलं मध्यम्। सुहित्यस्यो वा एता रूपं रात्रयः। सुहित्यं वै सो ऽश्नुते य श्रियम् अश्नुते। सुहित्यं ज्यैष्ठ्यं श्रैष्ठ्यं श्रियम् अश्नवामहा इति तस्माद् एता रात्रीर् उपयन्ति
अथ ह स्माहाषाढस् सावयसो यादोवश्यं यस्मिन्न् एव मे संवत्सरे सामाना दास्य् उदकं चौदनं चाहरत् तस्मिन्न् एव मे संवत्सरे चतुर्विंशतिः परिष्कन्दा निष्कग्रीवाः परिवेषणम् अन्वायन्। नो तान् संपश्यामो ये निष्का आसन्न् इति। तावत् तेजस्विनीस् तावद् ब्रह्मवर्चसिनीस् तावद् वीर्यावतीर् एता रात्रयः। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एता रात्रीर् उपयन्तीति। तद् यत् परस्तात् प्रत्यञ् च पृष्ठ्यस्य षडहस्य स्तोमा भवन्ति, निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। त्रिवृते ऽध्य् अह्न उत्तिष्ठन्ति। ब्रह्म वै त्रिवृत्। ब्रह्मण्य् एवैतत् प्रतिष्ठायोदृचम् अश्नुवते। त्रिवृत् त्रिवृतो ऽनुचरो भवति। तस्माद् ब्राह्मणो ब्राह्मणस्यानुचरो भवति। विन्दते ऽनुचरितॄन् बहवो ऽस्यानुचरा भवन्ति। न ह खलु वा एषाक्षमारमते यद् गायत्री। ऊर्ध्वा ह वा एष सह यजमानेन स्वर्गं लोकम् एति। ऊर्ध्वा हैवास्य कीर्तिर् ऊर्ध्वा श्रीर् ऊर्ध्वं स्वर्गं लोकम् एति य एवं वेद। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः
द्विमास्यं वा एतत् सत्रम्। तेन यर्द्धिस् सैवर्द्धिः। यौ ह खलु वै द्वौ मासाव् ऋतोस् सर्द्धिः। ऋतुर् उ प्रत्यक्षं संवत्सरस्यर्द्धिः। संवत्सरं वा एतद् ईत्सन्ति संवत्सरम् ईप्सन्ति यद् यजन्ते यत् सत्रम् आसते। न हि किं चन बहिस् संवत्सराद् अस्ति। स्वाराज्यं वा एता रात्रयो यत् पञ्चविंशतिर् - द्वादश परस्ताद् अहानि द्वादशावस्तात्। अथ यन् मध्ये ऽहस् तत् स्वराट्। स स्वर्गो लोकः। तद् ब्रध्नस्य विष्टपं गच्छन्ति, तत् स्वाराज्यं गच्छन्ति, तद् अन्यस्याननुनियाना भवन्ति। ता वा एता रात्रयस् संपद्यन्ते जगतीम् एव। पशवो वै जगती। तेनैव तत् सत्रं पशव्यम् उपो विराजं गच्छन्ति। तद् उ विराजो ऽन्नाद्यस्यैश्वर्यम् आधिपत्यं गच्छन्ति। एकोना विराड् - ऊनं तत् स्त्रियै यतस् सा प्रजायते - तेनो प्रजननम्। गायत्रीम् उ दीक्षोपसद्भिश् च सुत्याभिश् च संपद्यते। प्राणो वै गायत्री। तेनैतत् सत्रम् आयुष्यम्। तेजो वै गायत्री। तत् तेजस्विनो ब्रह्मवर्चसिनो भवन्ति। ज्यैष्ठ्यं वै गायत्री। तद् उ भ्रातृव्ये ज्यैष्ठ्ये प्रतितिष्ठन्ति
संवत्सरस्य ह खलु वा एष रसः प्रवृढो यद् एष पञ्चविंशतिरात्रः। एतद् धि सर्वं संवत्सररूपं क्रियते। एताव् अतिरात्राव् एते आरम्भणीयमहाव्रतीये अहनी एतौ पृष्ठ्याव् एतौ विश्वजिदभिजिताव् एते स्वरसामान एष विषुवान् । ते ये कामकामसमारेफाणा इव मन्येरंस् त एतम् एव पञ्चविंशतिरात्रम् उपेयुः। आप्त्वा हैवैतत् सत्रम् उत्तिष्ठ। पुरुषसंमितं ह खलु वा एतत् सत्रं यद् एष पञ्चविंशतिरात्रः। दश वै पुरुषस्य हस्त्यांगुलयो, दश पद्याश्, चत्वारि प्रांगाण्य्, आत्मा पञ्चविंशः। द्वादशेमाः परिशवो, द्वादशेमा, आत्मैव पञ्चविंशः। पुरुषं वावैतेन संस्कुर्वन्ति, पुरुष वा प्रजनयन्ति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एतं पञ्चविंशतिरात्रम् उपयन्तीति। तद् यत् परस्तात् प्रत्यङ् पृष्ठ्यष् षडहो भवति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। महाव्रतीयाद् अध्य् अह्न उत्तिष्ठन्त्य् - अन्नं वै महाव्रतम् - अन्नाद्य एवैतत् प्रतिष्ठायोदृचम् अश्नुवते। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः
द्विमास्यं वा एतत् सत्रम्। तेन यर्द्धिस् सैवर्द्धिः। यौ ह खलु वै द्वौ मासाव् ऋतोस् सर्द्धिः। ऋतुर् उ प्रत्यक्षं संवत्सरस्यर्द्धिः। संवत्सरं वा एतद् ईत्सन्ति संवत्सरम् ईप्सन्ति यद् यजन्ते यत् सत्रम् आसते। न हि किं च बहिस् संवत्सराद् अस्ति । स्वाराज्यं वा एता रात्रयो यत् त्रयस्त्रिंशत्, षोडश परस्ताद् अहानि, षोडशावस्तात्। अथ यन् मध्ये ऽहस् तत् स्वराट्, स स्वर्गो लोकः। तद् ब्रध्नस्य विष्टपं गच्छन्ति, तत् स्वाराज्यं गच्छन्ति, तद् अन्यस्याननुयाना भवन्ति। तदा वा एता रात्रयस् संपद्यन्ते विराजम् एव। तद् उ विराजो ऽन्नाद्यस्यैश्वर्यम् आधिपत्यं गच्छन्ति। तिस्रश् च विराट् च। ता यास् तिस्रो दैवीर् आच्छदस् तासाम् एषर्द्धिर् यानि त्रीणि छन्दांसि, यानि त्रीणि सवनानि, ये त्रयः प्राणापानव्याना, ये त्रय इमे लोकाः। यत् किं च त्रिस्त्रिस् , तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः। देवसत्रं ह खलु वा एतद् यद् एष त्रयस्त्रिंशद्रात्रः। त्रयस्त्रिंशद् वै देवताः। देवता वा ऋद्धिकामास् तपो ऽतप्यन्त। ता एतद् अयनम् अपश्यन्। तद् उपायन्। ततो वै तासाम् अह्नैवैकार्ध्नोद् अह्नैकाह्नैका । सा ह खलु वै श्रेष्ठर्द्धीनां, स लोकानां पुण्यतमो यम् एतेन देवता आर्ध्नुवन्। सा या श्रेष्ठर्द्धीनां, यो लोकानां पुण्यतमो, यम् एतेन देवता आर्ध्नुवंस्, तम् ऋध्नवामेति। तस्माद् एता रात्रीर् उपयन्ति
अथैते पञ्चाहा भवन्ति - पञ्च वै जयाः। पञ्चभिर् वै व्याहृतिभिर् इदं देवा अजयंस् - तद् यावतेदं देवा अजयंस् तावता जयामेति। पांक्तो यज्ञः। यावती यज्ञस्य मात्रा ताम् आप्नवामेति। पांक्ताः पशवः। यावती पशूनां मात्रा तावता नः पशवो ऽवरुद्धा उपतिष्ठान्ता इति। पांक्तम् अन्नाद्यं, यावत्य् अन्नाद्यस्य मात्रा तावता नो ऽन्नाद्यम् अवरुद्धम् उपतिष्ठाता इति। अथ स्माहुः कापेया - अनृतौ वा एष प्रतिष्ठितो यत् षडहः। पञ्चाहो वा ऋतौ प्रतिष्ठित इति। वसन्तो वै प्रथम ऋतूनां, ग्रीष्मो द्वितीयो, वर्षास् तृतीयाश, शरच् चतुर्थी, हेमन्तः पञ्चमश्, शिशिरष् षष्ठः। स एष श्रेष्ठ ऋतूनां यद् धेमन्तः पीवगुः पीवत्सः। तम् अनु पञ्चाहः प्रतितिष्ठन्न् एति। अथैष परिचक्ष्यैव यच् छिशिरः कृशगुः कृशपुरुषः। तम् अनु षडहः प्रतितिष्ठति। स य श्रेष्ठ ऋतूनां हेमन्तस् तस्य प्रतिष्ठाम् अनु प्रतितिष्ठन्तो ऽयामेति। तस्माद् एतत् पञ्चाहविधम् उपयन्ति। वैश्वानरः प्रायणीयो ऽतिरात्रो भवति। वैश्वानरप्रायणा ह्य् अहीनास् सोमाः
अथैते ज्योतिर् गौर् आयुर् इति स्तोमा भवन्ति। एत ह वै शिवाश् शान्ताः पथ्या स्तोमा ये ज्योतिर् गौर् आयुर् इति। ते ये शिवाश् शान्ताः पथ्या स्तोमास् तैर् न स्तुतम् असद् इति। त उ विराजं संपन्नाः। तद् उ विराजम् अन्नाद्यम् आरभन्ते। ताम् आन्तं नावसृजेयुः। बृहद्रथन्तरे सामनी भवतः। सं ह्य् ऋद्धिस्, सं पन्थाः। श्यैतनौधसे ब्रह्मसामनी भवतः प्र स्पष्टम् आजिम् अनुशूकरवामेति। तद् यत् तृतीये ऽहनि रथन्तरं संपद्येत तद् वैरूपम् उपेयुः। इदं वै रथन्तरम्, अदो बृहद्, इदम् एवान्तरिक्षं वैरूपम्। एतयोर् एव साम्नो रसम् एते। अथ ह वै निष्करणीया इति ब्राह्मणाः पूर्विणस् सत्रं निषेदुः। तेषां ह स्म वासिष्ठस् सात्यहव्य आसद्य सोमं भक्षयित्वा प्रधावति। ते हाभिशस्तिं चक्रिरे - कथं नु नो दीक्षितानाम् अदीक्षितास् सोमं भक्षयेयुर् इति। ते हैतद् एकम् अहर् वैरूपम् उपेयुः। स ह पुनर् आसद्य तूष्णीम् एवेक्षमाणो निषसाद। तं होचुः कथं नु सर्पसि कथं नु भक्षयसीति। स होवाच सत्रिणो वा अभूत दीर्घसोमो वाव वः पुराभूद् इति। तद् यत् तृतीये ऽहनि वैरूपम् उपयन्ति, सत्रिताया एव। ते वा एते सामनी अन्यदन्यद् अहर् उपपद्यमाने इतः। यत्र गवि रथन्तरं संपद्येत --
-- तद् धोतारं ब्रूयाद् उभे रूपे शंस यच् च राथन्तरं यच् च बार्हतम् इति। यत्रायुषि बृहत् संपद्यत तद् धोतारं ब्रूयाद् उभे रूपं शंस यच् च बार्हतं यच् च राथन्तरम् इति। यद् उभे राथन्तरे अहनी संपद्येयाताम्। पूर्वस्याह्नस् सौभरम् उक्थेषु ब्रह्मसामं कुर्युर् यद्य् उभे बार्हते अहनी संपद्येयाताम्। उत्तरस्याह्नः कण्वरथन्तरं माध्यन्दिने पवमाने प्रोहेयुः। प्रजा वा एषा बृहद्रथन्तरयोर् यद् एत सामनी। तद् यद् एवम् उपयन्त्य् अजामिताया एव। अथैष विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति प्राजापत्यम् अहर् -- अहोरात्रे वै कृत्स्नः प्रजापतिः - कृत्स्नं प्रजापतिम् ऋध्नवाम, कृत्स्नो नः प्रजापतिर् उपेतो ऽसद् इति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एतं विश्वजितम् अतिरात्रम् उपयन्ति। प्रजापतिं ह्य् एव प्रत्यक्षम् उपयन्तीति। तद् यत् परस्तात् प्रत्यञ्चस् त्रयः पञ्चाहा भवन्ति, निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः
अथैता द्वादशाहवतीर् भवन्ति, यैवासौ द्वादशाहवतीनां प्रशंसा सा न उपाप्तासद् इति। इदम् इव त्व् अत्रोपाधीयते। ता वा त्वै पुरस्ताद् उपेयुस् ता वोपरिष्टात्। यदि पुरस्ताद् उपेयुः प्रायणीयस्यैवाह्नो ऽछंबट्काराय। तद् इव त्व् अत्र परिचक्षते यद् वाचम् ओहिषीं दशमेनाह्ना संपाद्य तस्यै विकृष्टायै वाचो ऽप्रतिष्ठिताया उदृचम् अश्नुवते। यद् एव तत्र प्रायणीयरूपं मन्येरंस् तद् एव तत्र कुर्युः। प्रत्नवत् प्रेतिवत् संपन्नायै वाचो विकृष्टायै प्रतिष्ठाया उदृचम् अश्नवामहा इति। अथैष विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति प्राजापत्यम् अहर् - अहोरात्रे वै कृत्स्नः प्रजापतिः - कृत्स्नं प्रजापतिम् ऋध्नवाम कृत्स्नो नः प्रजापतिर् उपेतो ऽसद् इति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एतं विश्वजितम् अतिरात्रम् उपयन्ति, प्रजापतिं ह्य् एव प्रत्यक्षम् उपयन्तीति। तद् यत् पुरस्तात् प्रत्यङ् पञ्चाहो भवति, निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः
अथैतत् त्र्यहविधं भवति। त्रयो ह वा ऋतवो ऽनृतवो ऽन्ये। ग्रीष्मो वर्षा हेमन्त एते ह वा ऋद्धा ऋतव, उपाश्लेषगा इवान्ये। ते य ऋद्धा ऋतवस् ते न उपाप्ता असन्न् इति। त्रीणि वाव छन्दांसि, त्रीणि सवनानि, त्रयः प्राणापानव्यानास्, त्रय इमे लोकाः। यत् किं च त्रिस्त्रिस् तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः। पञ्चैते परस्तात् त्र्यहा भवन्ति, पञ्चावस्तात्। तेनो एव पञ्चाहविधतायै न यन्ति। अथैष विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति प्राजापत्यम् अहर् - अहोरात्रे वै कृत्स्नः प्रजापतिः - कृत्स्नं प्रजापतिम् ऋध्नवाम, कृत्स्नो नः प्रजापतिर् उपेतो ऽसद् इति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एतं विश्वजितम् अतिरात्रम् उपयन्ति, प्रजापतिं ह्य् एव प्रत्यक्षम् उपयन्तीति। तद् यत् परस्तात् प्रत्यञ्चः पञ्च त्र्यहा भवन्ति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः
त्रिमात्रं वा एतत् सत्रं, तेन यर्द्धिस् सैवर्द्धिः। यौ ह खलु वै द्वौ मासाव् ऋतोस् सर्द्धिः। ऋतुर् उ प्रत्यक्षं संवत्सरस्यर्द्धिः। अथ यस् तृतीयो मासस् त्रयोदशस्य स मास ऋद्धिः। संवत्सरं वा एतद् ईत्सन्ति संवत्सरम् ईप्सन्ति यद् यजन्ते यत् सत्रम् आसते। न हि किं चन बहिस् संवत्सराद् अस्ति। स्वाराज्यं वा एता रात्रयो यद् एकोनपञ्चाशच्, चतुर्विंशतिः परस्ताद् अहानि चतुर्विंशतिर् अवस्तात्। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सर एवैष उभयतः पर्यूढः। तस्य यन् मध्ये ऽहस् तत् स्वाराट्, स स्वर्गो लोकः। तद् ब्रध्नस्य विष्टपं गच्छन्ति, तत् स्वाराज्यं गच्छन्ति, तद् अन्यस्याननुयाना भवन्ति। ता वा एता रात्रयस् संपद्यन्ते जगतीम् एव । पशवो वै जगती। तेनैतत् सत्रं पशव्यम्, उपो विराजं गच्छन्ति। तद् उ विराजो ऽन्नाद्यस्यैश्वर्यम् आधिपत्यं गच्छन्ति। एकोना विराड्, ऊनं तत् स्त्रियै यतस् सा प्रजायते, तेनो प्रजननम्। गायत्रीम् उ दीक्षोपसद्भिश्च सुत्याभिश् च संपद्यते। प्राणो वै गायत्री। तेनैतत् सत्रम् आयुष्यम्। तेजो वै गायत्री। तत् तेजस्विनो ब्रह्मवर्चसिनो भवन्ति। ज्यैष्ठ्यं वै गायत्री। तद् उ भ्रातृव्ये ज्यैष्ठ्ये प्रतितिष्ठन्ति
आदित्याश् च वा अङ्गिरसश् च स्वर्गे लोके ऽस्पर्धन्त। त आदित्या अकामयन्त - वयं पूर्वे स्वर्गं लोकं गच्छेमेति। त एतद् अयनम् अपश्यंस् तद् उपायन्। ततो वा आदित्याः पूर्वे स्वर्गं लोकम् अगच्छन्न्, अहीयन्तांगिरसः। सा ह खलु वै श्रेष्ठर्द्धीनां स लोकानां पुण्यतमो यम् एतेनादित्या अगच्छन्। सा या श्रेष्ठर्द्धीनां यो लोकानां पुण्यतमो यम् एतेनादित्या अगच्छंस् तं गच्छामेति, तस्माद् एता रात्रीर् उपयन्ति। वैश्वानरः प्रायणीयो ऽतिरात्रो भवति। वैश्वानरप्रायणा ह्य् अहीनास् सोमाः
अथैते ज्योतिर् गौर् आयुर् इति स्तोमा भवन्ति। एते ह वै शिवाश् शान्ताः पथ्या स्तोमा ये ज्योतिर् गौर् आयुर् इति। ते ये शिवाश् शान्ताः पथ्या स्तोमास् तैर् न स्तुतम् असद् इदि। त उ विराजं संपन्नाः। तद् उ विराजम् अन्नाद्यम् आरभन्ते। बृहद्रथन्तरे सामनी भवतः। सा ह्य् ऋद्धिस् स पन्थाः। श्यैतनौधसे ब्रह्मसामनी भवतः, प्र स्पष्टम् आजिम् अनुशूकरवामेति। अथैते षड् अतिरात्रा भवन्ति। षड् वै पुरुषे पाप्मानस् षड् विषुवन्त स्वप्नश् च तन्द्री च मन्युश् चानशनया चाक्षकाम्या च स्त्रीकाम्या च। तान् एवैतैर् अपघ्नते तान् अतितरन्ति। अथैते त्रयस् त्र्यहा भवन्ति। नवाहानि। नव वै पुरुषे प्राणाः। प्राणानाम् एवैषा सं मा प्राणानाम् ऋद्धिः। अथैतद् वैराजपृष्ठं दशमम् अहर् भवति। नाभिर् ह सा, तद् वा अतद् आक्षित्सद् अहर् एतेष्व् अहस्सु नियुक्तम्। यस्माद् एतद् आक्षित्सद् अहर् एतेष्व् अहस्सु नियुक्तं, तस्माद् आक्षित्सती नाभिः प्राणेषु नियुक्ता। प्राणतो ह्य् एनाम् अनूदनित्य् अपानतो ऽन्वपानिति। तद् एतेषाम् अह्नां दशमं भवति - दशाक्षरा विराट्। अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्ध्यै
तद् वैराजपृष्ठं भवत्य् - अन्नं वै वैराजम् - अन्नाद्यस्यैवावरुद्ध्यै। तद् उक्थ्यं भवति - पशवो वा उक्थ्यान्य् अन्नं पशवो - ऽभिपूर्वस्यैवान्नाद्यस्यावरुद्ध्यै। तत् षोडशिमद् भवति - वज्रो वै षोडश्य्, अन्नं विराड् - वज्रेणैवान्नाद्यं परिगृह्णन्ति। तद् एकविंशं भवति - द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। एतद् वै दैव्यं क्षत्रम्। क्षत्रिय उ वा अन्नाद्यस्य प्रदाता। स यो ऽन्नाद्यस्य प्रदाता स नो ऽन्नाद्यं प्रयच्छाद् इति। अथैते चत्वारस् त्रियहा भवन्ति द्वादशाहानि। द्वादश वै संवत्सरस्य पौर्णमास्यः। पौर्णमासीनाम् एवैषा संमा पौर्णमासीनाम् ऋद्धिः। अथैष पृष्ठ्यष् षडहो भवति। श्रीर् वै पृष्ठानि। वर्ष्म वै पृष्ठानि। तच् छ्रियं वर्ष्म पृष्ठानि रोहन्ति, तद् उ सत्रिणो भवन्ति। अथैते चत्वार उत्तरे त्र्यहा भवन्ति द्वादशो एवाहानि। द्वादश वै संवत्सरस्यामावास्याः। अमावास्यानाम् एवैषा संमामावास्यानाम् ऋद्धिः। द्वादशैतानि परस्तात् पृष्ठ्यस्य षडहस्याहानि भवन्ति, द्वादशावस्तात्। तस्मात् समावतीस् संवत्सरस्य पौर्णमास्यश् चामावास्याश् च। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः
आदित्याश् च वा अङ्गिरसश् च स्वर्गे लोके ऽस्पर्धन्त। ते आदित्याः पूर्वे स्वर्गं लोकम् अगच्छन्। ते ऽङ्गिरसो ऽकामयन्त - वयम् अपि तं लोकं गच्छेम यम् आदित्या अग्मन्न् इति । ते येन येनैवायनेनायंस् ततस्तत एनान् प्रत्य् अपानुदन्त। तान् ह परश् चत्वारिंशानि वर्षाणि प्रत्य् एव नुनुदिरे। त एतद् अयनम् अपश्यन्। तद् एव सदन् यथाविधम् इव तद् उपायन्। ततो वा अंगिरसस् तं लोकम् अगच्छन् यम् आदित्याः। सा ह खलु वै श्रेष्ठर्द्धीनां स लोकानां पुण्यतमो यम् एतेनांगिरसो ऽगच्छन्। स यो श्रेष्ठर्द्धीनां यो लोकानां पुण्यतमो यम् एतेनांगिरसो ऽगच्छंस् तं गच्छामेति
तद् ये ह वा एत आदित्यस्योदञ्चो रश्मयस् त आदित्या, ये दक्षिणास् ते ऽङ्गिरसः। ते हैत आदित्याश् चांगिरसश् च सलोकाः। सलोको ह वा आदित्यैश् चांगिरोभिश् च भवति, य एवं वेद। अथैतौ द्वौ त्र्यहौ भवतष् - षड् अहानि। षड् वा ऋतवः। ऋतुष्व् एव तत् प्रतितिष्ठन्ति। अथैतौ द्वाव् उत्तरौ त्र्यहौ भवतष् - षड् उ एवाहानि। अभिपूर्वम् एव तद् ऋतुषु प्रतितिष्ठन्ति। अथैते षड् अतिरात्रा भवन्त्य् उक्तब्राह्मणाः। अथैते त्रयस् त्र्यहा भवन्त्य् उक्तब्राह्मणाः। अथैते चत्वारस् त्र्यहा भवन्ति द्वादशाहानि। द्वादश मासास् संवत्सरः। मासा एव तद् भूत्वा मध्यतस् संवत्सरम् अतीत्य स्वर्गं लोकं रुरुहुः
अथैता द्वादशाहवतीर् भवन्ति, यैवासौ द्वादशाहवतीनां प्रशंसा सा न उपाप्तासद् इति। अथैतानि चतुरुत्तराणि छन्दांस्य् उपयन्ति। चतुरुत्तरा वै वाचो रोहाः। वाचम् एवैते रोहन्ति। अथो चतुष्पदा वै पशवः। तद् यद् एतानि चतुरुत्तराणि छन्दांस्य उपयन्ति, चतुष्पदाम् एव पशूनाम् अवरुद्ध्यै। अथैतानि द्वियन्तराण्य् उपाहरन्ति। चतुरुत्तराणि द्वियन्तराणि। न ह वै तावच् छ्रियम् अश्नुते यावद् द्विपदां चतुष्पदां पशूनाम् ऐश्वर्यम् आधिपत्यं न गच्छति। तद् यद् एतानि द्वियन्तराण्य् उपाहरन्ति चतुरुत्तरद्वियन्तराणि द्विपदां चतुष्पदां पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छामेति। अथैतान्य् अष्टान्तराण्य् उपाहरन्ति चतुरुत्तरद्वियन्तराणि सर्वाणि, चतस्रो दिशश् चत्वारो ऽवान्तरदेशा, दिशां स उपरिष्टाल् लोको यः पुण्यस्, सर्वासु दिक्षु प्रतिष्ठाय स्वर्गं लोकं गच्छामेति। अतैतानि पञ्च सन्धिषामानि भवन्ति - रथन्तरं जराबोधीयं श्रुधीयं नानदगौरिवीते इति। एतद् ध वा एकं प्रज्ञातं सन्धिषाम यद् रथन्तरम्। तद् यद् एकं प्रज्ञातम् --
--सन्धिषाम तेन न स्तुतम् असद् इति। अथो वाग् वै रथन्तरं, वाग् आश्विनं, वाग् वै वाचं प्रति विभवितुम् अर्हति, इयं वाग् वाचं प्रति विभाद् इति। एतद् उ ह वै द्वितीयं प्रज्ञातं सन्धिषाम यज् जराबोधीयम्। तद् यद् द्वितीयं प्रज्ञातं सन्धिषाम तेन न स्तुतम् असद् इति। अथ श्रुधीयं कीर्तिमत्। सामवृक्तिर् उ सन्धिषामनी। तद् यद् आभ्यां सन्धिषामभ्याम् अवृक्ष्महि तन् नो ऽस्य लोकवतस् साम्नः पशवो लोकम् अनूपतिष्ठान्ता इति। अथ नानदगौरिवीते लोकवती सामनी भूयासं नो लोकम् अनूपतिष्ठाता इति। तद् आहुस् त्रिर् एवाश्विनं शस्तव्यं, त्रिषत्या वै वाक्। त्रय इमे लोकाः। यद् अतिरात्रे ऽतिरात्र आश्विनं शंसेद् विकर्षस् स वाचः। होतारं ब्रूयाद् आश्विनक्रतून् एवान्येष्व् अतिरात्रेषु शंसस् त्रिर् एवाश्विनं शस्तव्यम् इति, प्रायणतो मध्यत उदयनतः। एतद् ध वै समृद्धम् आश्विनं यद् रथन्तरेण संपद्यते। यद्य् एकेन संपद्येत रथन्तरम् एव प्रायणतो मध्यत उदयनतो, यदि द्वाभ्यां रथन्तरम् एव प्रायणतो मध्यत उदयनतो, यदि त्रिभी रथन्तरम् एव प्रायणतो मध्यत उदयनतो, न चतुर्भिस् संपद्यते, नो एव पञ्चभिः
अथैता एण्य एककृष्णाः। एण्यो ह वै नामैता रात्रयः। तासु कृष्णो ऽपि मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। तं वा त्वै पुरस्ताद् उपेयुस् तं वोपरिष्टात्। यदि पुरस्ताद् उपेयुः, पुंस्पृणेत्रा असन्न् इति, यद्य् उपरिष्टात् - पश्चाद् वै पुमान् योषायां रेतो दधाति - रेतोधेयाय। प्रजापतिर् वावेदम् अग्र एको ऽसृज्यत नान्यं द्वितीयं पश्यमानः। स ऐक्षताहं वाव प्रथमो ऽजनिष्य, अहं श्रेष्ठो ऽस्म्य्, अस्ति स्विन् मद् इहान्या3 इति। स व्यैक्षत। सो ऽन्यद् आत्मनो ऽध्य् उत्तरतो ज्यायस् तिष्ठद् अपश्यत्। तद् अपृच्छत् किम् इदम् असि, यद् इदम् असीति। ब्रह्म वा अस्मीत्य् अब्रवीत्। तद् अब्रवीद् - आवं वाव प्रथमाव् अजनिष्वह्य् , आवं श्रेष्ठौ स्वस्, संसृज्यावहै, सहासावेति। नेत्य् अब्रवीत्। पाप्मगृहीतो वा असीति। स मे क्व स पाप्मेति। एष ते शीर्षन्न् इति। तं वै मे ऽवजहीति। तथेति। तम् अवाहन्। तं ग्रीवास्व् असिनात्। तं समपीडयत्। तद् एतत् परिगृहीतकम् इवावजहीति। तम् अवाहन्। तं नीव्याम् असिनात्। तं समपीडयत्। तद् एतत् परिगृहीतकम् इवावजहीति। तम् अवाहन्। तं कुल्फयोर् असिनात्। तं समपीडयत्। तद् एतत् परिगृहीतकम् इवावैव जहीति। तम् अवाहन् - पदाभितिष्ठेति। तं पदाभ्यतिष्ठत्
स एवैष पदोर् उच्छंखः। त्रेधा विच्छिंद्धीति। तं त्रेधा व्यच्छिनत्। सैवास्य श्रीर् अभवद् - गौस् तृतीयं स्वप्नस् तृतीयं छाया तृतीयम्। तस्माद् एतानि श्रेष्ठस्य भूयिष्ठानि। भूयिष्ठाः पशवो, ज्येष्ठा छाया, स्वपिति। स ऐक्षत -- यं म इमं पाप्मानम् अवोचद् धन्तेमम् अपैव छिनदा इति। स एतद् एव ब्रह्माष्टधा व्यौहत्। अष्टाक्षरा गायत्री। ब्रह्म गायत्री। ब्रह्मैव तद् अष्टधा व्यौहत्। तम् अष्टाभिस् त्रिवृद्भिः पराञ्चम् अपौहत्। तम् अष्टाभिः पञ्चदशैः पराञ्चम् अपौहत्। तम् अष्टाभिः सप्तदशैः पराञ्चम् अपौहत्। तम् अष्टाभिर् एकविंशैः पराञ्चम् अपौहत्। तम् अष्टाभिस् त्रिणवैः परार्धम् अगमयत्। तम् अष्टाभिस् त्रयस्त्रिंशैर् अपैवाछिन्दत्। स एवैष उपरिष्टाद् अतिरात्रः। पाप्मा हास्यैषो ऽपोढः। अथो एष वै प्रजापतिर् यो ऽसौ तपति। स एषो ऽपहतपाप्मा तपति। तस्य छाया नास्ति। तस्माद् उ छायाम् अभि च ष्ठीवेद् अभि च मेहेत्। पाप्मानम् एव तद् धते। सुप्त्वोदकम् आचामेत्। पाप्मानम् एव तद् धते। गाम् उपाष्टां हनीत। पाप्मानम् एव तद् धते। ते य एवं विद्वांस एता रात्रीर् उपयन्ति, सर्वम् एव पाप्मानम् अपहत्योत्तिष्ठन्ति। ईश्वरा ह त्व् अपशवो भवितोः - पशवो वा उक्थानि - पशून् हि स तत्राप्य् अपौहत्। ते ये श्रीकामा स्युस् त एता रात्रीर् उपेयुः। एता ह स्म वै तत् पुरा कुरुपञ्चालानां ब्राह्मणा श्रीकामा उपयन्ति। ते हागावो ऽभद्रा आसुः। सजातेषु हैवैषां पशव आसुः। ततो ह स्मैव गोरुहायागताय गाम् उपाञ्जन्ति। ततो देयाय ददुः। तद् उ होवाच शाट्यायनिर् न तां वदेद् या परिचक्षा। यदाकामीना वै श्रियां पशवो, यदाकामीनं वित्तं , पशुमन्तश् च भविष्याम, श्रेष्ठाश् च रात्स्यामश् चेत्य् एवं मन्यमाना एता रात्रीर् उपेयुर् इति। तथा हैव भवति। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः
गवामयनशेषः
सावित्रं पूर्वेद्युः पशुम् आलभन्ते। सविता वै देवानां प्रसविता। सवितृप्रसूता एवैतत् संवत्सरम् आरभन्ते। को ह्य् एतम् अर्हत्य् अप्रसूत आरभम्। प्राजापत्यं श्वो भूत आलभन्ते। प्रजापतिश्रेष्ठा वै देवाः। श्रेष्ठत एवैतद् देवताः प्रीणन्ति। यो वै श्रेष्ठम् अराधयित्वाथान्यान् ईप्सति, सर्वे वाव स्य ते ऽराधिता भवन्ति। अथ य श्रेष्ठं राधयित्वाथाप्य् अन्यान् नाद्रियते, सर्वे वाव तस्य त इष्टाः प्रीता भवन्ति। प्रजापतिश्रेष्ठा वै देवाः। श्रेष्ठत एवैतत् सर्वा देवताः प्रीणन्ति। श्वेतो लोमशस् तूपरो लप्सुग्य् अन्यतोदञ् चतुष्पाद। यच् श्वेतो लोमशस्, तद् अवीनां रूपम्। यत् तूपरस् तद् अश्वानाम्। यल् लप्सुगी, तत् पुरुषाणाम्। यद् अन्यतोदंस्, तद् गवाम्। यद् अजस, तद् अजानाम्। सर्वेषां वा एष पशूनां मेधः। सर्वेषाम् एवैतत् पशूनां मेधेन संवत्सरं पितरं प्रजापतिं प्रीणयन्ति। स एनान् प्रीतः प्रीणाति।
देवा वा ऋद्धिकामास् तपो ऽतप्यन्त
स इन्द्र एताम् अष्टकाम् अपश्यत्। तस्याम् अदीक्षत। स एकयाश्नुत। यद् एकयाश्नुत तद् एकाष्टकाया एकाष्टकात्वम्। ते य एवं विद्वांसो दीक्षन्ते सर्व एवाश्नुवते, सर्वे विषुवन्तो भवन्ति। विषुवान् ह्य् एषो ऽभवत्। ते यत् पुरस्ताद् दीक्षेरन् पितृलोके दीक्षेरन्। प्रमायुका स्युर् यद् उपरिष्टाद् दीक्षेरन्। यथापूर्वं पलायितम् ईप्सेत् तं वाप्नुयात् तं वा न तादृक् तत्। त एतस्याम् एवाष्टकायां दीक्षेरन्। तद् यथा रथम् उपस्थितम् आतिष्ठेद् धस्तिनं वा निषादितं तथा। तद्रियञ्च सत्रिण इति वै पृच्छन्ति। नार्वाञ्चो न पराञ्चः। तिर्यञ्चो ह वा एते। नो ह वा असाव् आदित्यो ऽर्वाङ् न पराङ्, तिर्यङ् उ ह वा एष। षड् वा एष मासो दक्षिणैति, षड् उदङ्। यान् दक्षिणैति ते पितृदेवत्या, यान् उदङ् ते देवदेवत्याः
एतं वा एत आरभ्य यन्तीन्द्रं प्रजापतिं विप्रं पदम् ऋतुपात्रं विश्वान् देवान् स्वर्गं लोकम्। एतस्य वा एत आवृतम् अन्वावर्तन्त। त एतस्य विमुक्तिम् अनु विमुच्यन्ते। तस्यैषा परिचक्षा यद् अपक्षीयमाणे सुत्यां गच्छन्त्य् अपक्षीयमाण उदृचम् अश्नुवते। द्वादश दीक्षाः कुर्वीरंस् तिस्र उपसदः। तेनैतद् उभयम् उपाप्नुवन्ति। तद् उ वा आहुर् उपा हैवैतेनैतद् उभयम् आप्नुवन्ति। सेव तु परिचक्षा यद् अपो ऽनभिनन्दन्तश् शिशिरे ऽवभृथम् अभ्यवयस्ति(?)। सम् इव कोपयति हिमः। स य एनांस् तथा चक्रुषो ऽनुव्याहरेद् इति वेति वा भविष्यन्तीति तथा हैव स्युः। यैवासौ फाल्गुनस्यामावास्या तस्या उपरिष्टात् पञ्चाह - षडहे दीक्षेरन्। यो वै श्रेयसो नियानेनैतीदम् अयासीद् इदम् अयासीद् इति न वै स रिष्यति, श्रेयसो वा एते नियानेन यन्ति य आदित्यस्य, ते स्वस्त्य् अरिष्टा उदृचम् अश्नुवते, ते तद् गच्छन्ति यत्रैष आदित्यो गच्छति, तत् ते तद् गत्वैतस्यैवायनेन पुनर् आयन्ति
गावो वा एतद् अग्रे सत्रम् आसतान्नाद्यम् अवरुरुत्समानाः। ता दशमे मास्य् उदतिष्ठन् सर्वम् अन्नाद्यम् अवारुत्स्महीति मन्यमानाः। त एता शृंगिणीः। तासां त्वा इवाब्रुवन् - सर्वान् एवैतान् द्वादश मासः समापयामेति। ता अतिप्रायुञ्जत। तासां द्वादशे मासि शृंगाणि प्रावर्तन्त। ता एतास् तूपराः। तस्मात् सत्रिणो द्वादशे मास्य् अपि शिखाः प्रवपन्ते। गवां हि तर्ह्य् अनुरूपा भवन्ति। ता उदतिष्ठन्न् अरात्स्मेत्य् आप्त्वा सत्रम् आप्त्वा सर्वम् अन्नाद्यम्। तस्माद् एतास् सर्वान् द्वादश मास उत्तिष्ठन्ति प्रर्त्वापि वार्षिकाव् अपि शैशिरौ। सत्राभिजितं ह्य् आसाम् अवरुद्धं ह्य् आसाम्। ते य एवं विद्वांसो द्वादश मासः समापयन्ति, सर्वम् एवान्नाद्यम् अवरुध्योत्तिष्ठन्ति। आत्मदक्षिणं ह खलु वै सत्रम्। लोमैव प्रथमाभ्याम् उपसद्भ्याम् स्पृण्वते, त्वचं द्वितीयाभ्यां, मांसं तृतीयाभ्याम्, अस्थि चतुर्थीभ्यां, मज्जानं पञ्चमीभ्याम्। यद् एवैषां तत्र किं चास्पृतं भवति, तद् एव षष्ठीभ्यां स्पृण्वते। ते शुद्धाः पूता मेध्याश् शुचयो भूत्वा देवलोकम् अपियन्ति
प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽकामयत - बहु स्यां, प्रजायेय, भूमानं गच्छेयम् इति। स तपो ऽतप्यत। स एतं वैश्वानरं प्रायणीयम् अतिरात्रम् अपश्यत्। तस्माद् अहोरात्रे प्राजनयत्। अहोरात्रयोः प्रत्यतिष्ठत्। तद् यद् एष वैश्वानरः प्रायणीयो ऽतिरात्रो भवत्य् अहोरात्रे एवैतस्मात् प्रजनयन्त्य्, अहोरात्रयोः प्रतितिष्ठन्ति। सो ऽकामयत् प्रैव जायेयेति। स एतस्माद् एव वैश्वानरात् प्रायणीयाद् अतिरात्रात् त्र्यहं निरमिमीत, अग्निष्टोमाद् एव ज्योतिर् निरमिमीत, उक्थ्येभ्यो गां, रात्र्या आयुः। तस्मात् त्र्यहात् त्रीन् ऋतून् प्राजनयत्, त्रिष्व् ऋतुषु प्रत्यतिष्ठत्। तद् यद् एष त्र्यहो भवति त्रीन् एवैतस्माद् ऋतून् प्रजनयन्ति, त्रिष्व् ऋतुषु प्रतितिष्ठन्ति। सो ऽकामयत् प्रैव जायेयेति। स एतम् एव त्रयहं परस्तात् पर्यौहत्। स षडहो ऽभवत्। तस्मात् षडहात् षड् ऋतून् प्रजनयत्। षट्स्व् ऋतुषु प्रत्यतिष्ठन्। तद् यद् एष षडहो भवति षड् एवैतस्माद् ऋतून् प्रजनयन्ति, षट्स्व् ऋतुषु प्रतितिष्ठन्ति। सो ऽकामयत प्रैव जायेयेति। स एतम् एव षडहं परस्तात् पर्यौहत्। तौ द्वौ षडहाव् अभवताम्। ताभ्यां द्वाभ्यां षडहाभ्यां द्वादश मासः प्रजनयद्, द्वादशषु मासेषु प्रत्यतिष्ठत्। तद् यद् एतौ द्वौ षडहौ भवतो द्वादशैवैताभ्यां मासः प्रजनयन्ति, द्वादशसु मासेषु प्रतितिष्ठन्ति। सो ऽकामयत प्रैव जायेयेति। स एताव् एव षडहौ परस्तात् पर्यौहत्। ते चत्वारष् षडहा अभवन्। तेभ्यश् चतुर्भ्यष् षडहेभ्यश् चतुर्विंशतिम् अर्धमासान् प्राजनयच्, चतुर्विंशत्याम् अर्धमासेषु प्रत्यतिष्ठत्। तद् यद् एते चत्वारष् षडहा भवन्ति, चतुर्विंशतिम् एवैतेभ्यो ऽर्धमासान् प्रजनयन्ति, चतुर्विंशत्याम् अर्धमासेषु प्रतितिष्ठन्ति
स इदं सर्वं भुवनं प्रजनय्य् पृष्ठ्येन षहेनात्मन्न् अधत्त। तद् यद् एष पृष्ठ्यष् षडहो भवति सर्वम् एवैतेन भुवनं प्रजनय्यात्मसु दधते। वर्ष्म वै पृष्ठानि। वर्ष्मण्य् एवैतत् प्रतितिष्ठन्ति। श्रीर् वै पृष्ठानि। श्रियाम् एवैतत् प्रतितिष्ठन्ति। ज्यैष्ठ्यं वै पृष्ठानि। ज्यैष्ठ्य एवैतत् प्रतितिष्ठन्ति। तेजो वै पृष्ठानि। तेजस्य् एवैतत् प्रतितिष्ठन्ति। पशवो ह खलु वा अभिप्लवष् षडह, आत्मा पृष्ठ्यः। यद् अभिप्लवं षडहम् उपेत्याथ पृष्ठ्यम् उपयन्ति पुरुषम् एवैतत् पशुष्व् अध्यूहन्ति। तस्मात् पुरुष उपरिष्टात् पशून् अधीव तिष्ठति। मूलं ह खलु वा अभिप्लवष् षडहो ऽग्रं पृष्ठ्यः। यत् अभिप्लव षडहम् उपेत्याथ पृष्ठ्यम् उपयन्ति तस्माद् ओषधयो मूलतो जायन्ते, ऽग्रत पच्यन्ते। पञ्चैते षडहा भवन्ति। पांक्तो यज्ञः। यावती यज्ञस्य मात्रा तस्याम् एवैतत् प्रतितिष्ठन्ति। स मासस् संपद्यते। संवत्सरो वै मासः। मासश एव तत् संवत्सरम् आप्नुवन्ति। तस्य त्रिंशद् रात्रयो भवन्ति - त्रिंशदक्षरा विराड्, अन्नं विराड् - विराज्य् एव तद् अन्नाद्ये प्रतितिष्ठन्तो यन्ति
प्रायणीयम् अहर् भवति। प्रायणीयेन वा अह्ना देवा स्वर्गं लोकं प्रायन्। यत् प्रायंस् तत् प्रायणीयस्य प्रायणीयत्वम्। तद् यत् प्रायणीयम् अहर् भवति स्वर्गस्यैव लोकस्य समष्ट्यै। तस्माद् उ हैतस्याह्न ऋत्विजा बुभूषितव्यं, स्वर्गस्य ह्य् एतल् लोकस्य नेदिष्ठम्। तच् चतुर्विंशं भवति। चतुर्विंशत्यर्धमासो वै संवत्सरः। अर्धमासश एव तत् संवत्सरम् आप्नुवन्ति। एतद् उ ह एके सत्रिणो ऽहर् उपेत्योत्तस्थुर् आपाम संवत्सरम् इति वदन्तः। ते ये कामसमारेफाणा इव स्युस् त एतद् एवाहर् उपेत्योत्तिष्ठेयुः। आप्तो हैषां संवत्सरो भवति। तस्य त्रीणि च शतानि स्तोत्रिया भवन्ति षष्ठिश् च तावतीस् संवत्सरस्य रात्रयः। रात्रिश एव तत् संवत्सरम् आप्नुवन्ति। तद् आहुर् यत् संवत्सरसदस् संवत्सरस्याहानि सुन्वन्त आसते ऽथ केन रात्रीर् आप्नुवन्तीति। स ब्रूयाद् यावतीः प्रायणीयस्याह्न स्तोत्र्यास् तावतीस् संवत्सरस्य रात्रयः। प्रायणीयस्याह्न एव स्तोत्र्याभी रात्रीर् आप्त्वा अहानि सुन्वन्त आसत इति। तद् उक्थ्यं भवति - पशवो वा उक्थानि - पशूनाम् एवावरुद्ध्यै। तस्य पञ्चदश स्तोत्राणि भवन्ति। पञ्चदश वा अर्धमासस्य रात्रयः। अर्धमासश एव तत् संवत्सरम् आप्नुवन्ति। त्रिंश(त्) स्तुतशस्त्राणि भवन्ति। त्रिंशन् मासस्य रात्रयः। मासश एव तत् संवत्सरम् आप्नुवन्ति
तद् आहुर् ईर्म इव वा एषा होत्राणां यद् अच्छावाको, यद् अच्छावाकम् अनुसंतिष्ठेतेर्म इव तुष्टुवाना स्युर् इति। तस्य त्रैककुभं ब्रह्मसाम भवत्य्, उद्वंशीयम् अच्छावाकसाम। इन्द्रियं वै वीर्यं त्रैककुभं, सर्वं पृष्ठरूपम् उद्वंशीयम्। इन्द्रिये चैव तद् वीर्ये सर्वस्मिंश् च पृष्ठरूपे ऽन्ततः प्रतितिष्ठन्ति। तद् वा एनत् तत् प्राशंसत्। तद् आहुर् - अग्निष्टोम एव कार्य इति। तस्य द्वादश स्तोत्राणि भवन्ति। द्वादश मासास् संवत्सरः। एतद् उ ह वै संवत्सरस्य ज्यैष्ठ्यं पर्व यन् मासः। तद् यत् संवत्सरस्य ज्यैष्ठ्यं पर्व तेन नस् संवत्सर आरब्धो ऽसद् इति। ईश्वरा ह त्व् अपशवो भवितोः। - पशवो वा उक्थानि - तेभ्यो हि यन्ति। तस्य त्रीणि स्तोत्राण्य् अष्टाचत्वारिंशानि कुर्युर् उभौ पवमानौ ब्रह्मसाम। तावतीर् उक्थ्यस्य स्तोत्र्याः। आप्नुवन्ति तं कामं य उक्थ्ये, नो वा अग्निष्टोमाद् यन्ति। वर्ष्म वा अग्निष्टोमो, वर्ष्म होता, वर्ष्मणैव तद् वर्ष्म संदधति, वर्ष्मणा वर्ष्मन् प्रतितिष्ठन्ति। ज्यैष्ठ्यं वा अग्निष्टोमो, ज्यैष्ठ्यं होता, ज्यैष्ठ्येनैव तज् ज्यैष्ठ्यं संदधति, ज्यैष्ठ्येन ज्यैष्ठ्ये प्रतितिष्ठन्ति
तद् आहुः प्लवम् इव वा एतच् छन्दो यज् जगती, न प्रायणाय। तत्स्थानं षड् एव षट्त्रिंशानि स्तोत्राणि कुर्युष् षट् चतुर्विंशानीति। षट्त्रिंशदक्षरा वै बृहती। बृहती स्वर्गो लोकस् साम्राज्यम्। बृहत्याम् एव तत् स्वर्गे लोके साम्राज्ये प्रतितिष्ठन्तो यन्ति। बृहत्य् उ ह वा इमान् सर्वान् लोकान् अक्षरैर् व्याप्नोति - दशभिर् एवाक्षरैर् व्याप्नोति, दशभिर् एवाक्षरैर् इमं लोकं व्याप्नोति, दशभिर् अन्तरिक्षं, दशभिर् अमुं, चतुर्भिर् दिशो, द्वाभ्याम् अहोरात्रे। सा येमान् लोकान् प्राप्नोति तयेमान् लोकान् व्याप्नवामेति। तस्मात् षड् एव षट्त्रिंशानि स्तोत्राणि कुर्युष षट् चतुर्विंशानीति। अथो चतुर्विंशत्यर्धमासो वै संवत्सरः। अर्धमासश एव तत् संवत्सरम् आप्नुवन्ति। एते असृग्रम् इन्दव इति बहुरूपां प्रतिपदं कुर्वीरन्। बहवो ह्य् एते दीक्षन्ते। तद् उ वा आहुः पवस्व वाचो अग्रिय इत्य् एव प्रतिपत् कार्या। एषा वै बहुरूपा। एतस्यां वै सर्वाणि रूपाणि। उभे प्रतिपदौ भवत, उभे ह्य् अत्र सामनी क्रियेते। तर्ह्य् अथौजिष्ठौ बलिष्ठौ वहिष्ठौ संपादयिष महान्तम् अध्वानं संयुज्योपप्रेयात् तादृक् तत्। सर्वं पृष्ठरूपम् अनु समावर्तयन्ति यथा पित्रे च मात्रे च वत्सान् अनु समावर्तयेत् तादृक् तथा। तद् अग्ने युंक्ष्वा हि ये तवेत्य एतास्व् अग्निष्टोमसाम कार्यम् आहुः। अग्निर् वा एष वैश्वानरो यत् संवत्सरः। तस्यैव युक्त्या अश्वासो देव साधव इति सिद्ध्यै, अरं वहन्त्य् आशव इति समष्ट्यै। तद् आहुर् यज्ञेन वा एते यज्ञान् अभियन्ति ये यज्ञायज्ञीयस्यर्ग्भ्यो ऽधि यज्ञायज्ञीयं च्यवयन्ति। अथैते यज्ञेन यज्ञे प्रतितिष्ठन्ति ये यज्ञायज्ञीयस्यर्क्षु यज्ञायज्ञीयं च्यावयन्ति। तस्माद् यज्ञायज्ञीयं स्वास्व् एव कार्यम् इति
अभीवर्तो ब्रहमसाम भवति। अभीवर्तेन वै देवा इमान् लोकान् अभ्यवर्तन्त। यद् अभ्यवर्तन्त तद् अभीवर्तस्याभीवर्तत्वम्। तद् यद् अभीवर्तो ब्रह्मसाम भवत्य् एषाम् एव लोकानाम् अभिवृत्यै। प्रजापतिर् वा अभीवर्तः, प्रजाश् छन्दांसि। स एष प्रजापतिः प्रजासु गर्भं दधद् एति। अन्यास्व् अन्यासु स्तुवन्ति समानेन साम्ना। रेत एव तत् सिञ्चन्ति। तस्माद् समानो बह्वीषु रेतो दधाति। समानीः परस्ताद् ऋचो भवन्त्य् अन्यद् अन्यत् साम। रेत एव तत् सिक्तम्। तत् सिक्तं प्रजनयन्ति। तस्मात् समाना बहून् सूते। अन्यास्व् अन्यासु स्तुवन्ति समानेन साम्ना। अन्यद् अन्यद् धि यन्तः पश्यन्ति। समानीः परस्ताद् ऋचो भवन्त्य् अन्यद् अन्यत् साम। यान् एवेतो लोकान् प्रगाथैर् अभ्यारोहन्तो यन्ति तान् अमुतस् सामभिः प्रत्यवरोहन्त आयन्ति। ऋग् वा अयं लोकस्, सामासौ। यद् इतो यन्तस् सामारभ्य यन्त्य्, अमुं तल् लोकम् आरभ्य यन्ति। ते यत् पुरस्ताद् विषुवत उत्सृजेरन्न् अवामुष्माल् लोकाच् छिद्येरन्। यद् अमुत आयन्त ऋचम् आरभ्यारभ्यायन्तीमं तल् लोकम् आरभ्यायन्ति। ते यत् पुरस्ताद् द्वादशाहीयेभ्यो ऽहोभ्य उत्सृजेरन्न् अवास्माल् लोकाच् छिद्येरन्
सकृत् परस्ताद् अभीवर्तं पर्यस्यन्ति। तस्माद् गर्भा जायमाना पर्यावर्तन्ते। पुरा ह खलु वै पञ्चमान् मासो बार्हताः प्रगाथा आप्यन्त। उष्णिहं च त्रिष्टुभं च द्वे छन्दसी संयुज्य पञ्च मासस् समापयेयुः। अनुष्टुभं च पंक्तिं च द्वे छन्दसी संयुज्य षण् मासस् समापयेयुर् एकच्छंदः परिशिष्य । जगतीं तद् विषुवत्य् उपेयुः। जागतो वै विषुवान्। स्व एव तद् आयतने विषुवन्तं समर्धयन्ति। छन्दांसि वै स्वर्गो लोकः। स्वर्गम् एव तल् लोकं रोहन्तो यन्ति। तद् आहुर् वीव वा एतच् छन्दांसि विशन्ति यद् एतानि द्वे द्वे संयुञ्जन्ति। क्व ह्य् अद्यतनं च श्वस्तनं चाहनी संपत्स्यतः। सर्वाण्य् एव सप्त चतुरुत्तराण्य् उपेत्यानीति। गायत्रीम् एव प्रथमे ऽहन्न् उपेत्योष्णिहं द्वितीये ऽनुष्टुभं तृतीये बृहत्या पञ्च मासस् समापयेयुः। पंक्तिम् एव प्रथमे ऽहन्न् उपेत्य त्रिष्टुभा षण् मासस् समापयेयुर् एकच्छन्दः परिशिष्य। जगतीं तद् विषुवत्य् उपेयुः। जागतो वै विषुवान्। स्व एव तद् आयतने विषुवन्तं समर्धयन्ति। छन्दांसि वै स्वर्गो लोकः। स्वर्गम् एव तल् लोकं रोहन्तो यन्ति
तद् आहुर् अधामानीव वा एतच् छन्दांसि युञ्जति यद् एनानि यातयामानि सन्ति। तानि सर्वाणि पुनः पुनः प्रयुञ्जते। यान् एव वीर्यवत्तमान् प्रगाथान् मन्येरंस् तान् प्रणिश्चित्य षट्त्रिंशद् उपेयुर् इति। षट्त्रिंशदक्षरा वै बृहती। बृहती स्वर्गो लोकस् साम्राज्यम्। बृहत्याम् एव तत् स्वर्गे लोके साम्राज्ये प्रतितिष्ठन्तो यन्ति। षडुत्सर्गं त्रिंशता पुनरभ्यावर्तम् अयातयामतायै। अथो आहुस् त्रयस्त्रिंशद् एवोपेत्या इति। त्रयस्त्रिंशद् वै सर्वा देवताः। सर्वास्व् एवैतद् देवतासु प्रतितिष्ठन्तो यन्ति। त्रीन् उत्सर्गं त्रिंशता पुनरभ्यावर्तम् अयातयामतायै। अथो आहुस् - त्रिंशद् एवोपेत्या इति। त्रिंशदक्षरा विराड्, अन्नं विराट्। विराज्य् एव तद् अन्नाद्ये प्रतितिष्ठन्तो यन्ति। अथो आहुश् चतुर्विंशतिर् एवोपेत्या इति। चतुर्विंशत्यर्धमासो वै संवत्सरः। अर्धमासश एव तत् संवत्सरे प्रतितिष्ठन्तो यन्ति। अथो आहुर् द्वादशैवोपेत्या इति।द्वादश मासास् संवत्सरः। मासश एव तत् संवत्सरे प्रतितिष्ठन्तो यन्ति। अथो आहुष् षड् एवोपेत्या इति। षड् वा ऋतवः। ऋतुष्व् एव तत् प्रतितिष्ठन्तो यन्ति। अथो आहुश् चत्वार एवोपेत्या इति। चतस्रो दिशस्, चतुष्पदाः पशवः। दिक्षु चैतत् पशुषु च प्रतितिष्ठन्तो यन्ति। अथो आहुस् त्रय एवोपेत्या इति। त्रयो वा इमे लोकाः। एष्व् एव तल्लोकेषु प्रतितिष्ठन्तो यन्ति। अथो आहुर् द्वाव् एवोपेत्याव् इति, श्यैतनौधसयोर् एव प्रगाथाव् इति। श्यैतनौधसयोर् ह खलु वै प्रगाथौ वीर्यवत्तमौ। द्विपाद् यजमानः प्रतिष्ठित्यै
यो वै पुनर्निवृत्तम् अध्वानम् एति नैनं स समश्नुते। अथ य एनम् अपुनर्निवृत्तम् एति स एवैनं समश्नुते। पुनर्निवृत्तम् इवैते यन्ति ये द्वा उपयन्ति। त्रैष्टुभबार्हता एवोपेत्या इति। त्रैष्टुभबार्हतो वै माध्यन्दिनः। तद् यद् राथन्तरम् अह स्यात् तस्मिन् बार्हतम् उपेयुर्, बार्हते ऽहंस् त्रैष्टुभम्। नैषां त्रैष्टुभाः प्रगाथा आप्यन्ते, न बार्हताः। यथायतनं छन्दांसि युज्यन्ते यातयामानम् उ संवत्सरम् आसते। तद् उ वा आहुर् द्वाव् एवोपेत्यौ श्यैतनौधसयोर् एव प्रगाथाव् इइति। अथा उ ह वै वीर्यवत्तमाव्, एता उ ह वै स्वर्गस्य लोकस्य मे पन्थाव् अञ्जसायनौ यद् बृहद्रथन्तरे। तयोर् एते ऽञ्जसायने यच् छ्यैतनौधसे। अहर् अहर् एवैतद् अञ्जसा स्वर्गं लोकम् उपयन्ति। तस्यैष श्लोको -
महापथाद् विश्ववयो यद् उद्रुध्यति पुरुषः।
तम् एव सृप्त्वाजिं श्रान्तः पुनर् अभ्याजिगांसति॥
इति। महापथे वा एते सत्यपथं प्रतिपद्यन्ते, ये ऽन्यान् प्रगाथान् उपयन्ति। अथैते अहरहर् एवाञ्जसा स्वर्गं लोकम् उपयन्ति ये श्यैतनौधसयोः प्रगाथाव् उपयन्ति। तस्माद् द्वाव एवोपेत्यौ श्यैतनौधसयोर् एव प्रगाथाव् इति
अनुष्टुभो वा अन्यानि सामान्य् अन्नम्। अनुष्टुब् एवान्येषां साम्नाम् अन्नम्। यानि वाभिक्रान्त्यपक्रान्तानि सामानि तान्य् अनुष्टुबो ऽन्नम्। तैर् एनां ये व्यर्धयन्ति तान् एषाविभूषिताप्रीताज्ञाता स्वा वाग् अभिवदत्य्, अलूलुभन्न् ऋतून्, अश्रद्दधाना अयक्षत, नारात्सुर् इति। अथ य एनां तैस् समर्धयन्ति तान् एषा तृप्ता प्रीता ज्ञाता स्वा वाग् अभिवद्त्य् अचीक्लृपन्न् ऋतून्, श्रद्दधाना अयक्षत नारात्सुर् इति। अन्वहं सुज्ञानं भवति। सह वा उद्गाता, सत्रिणस् सत्राय दीक्षन्ते यद्, य एनान् देवानां देवक्षेत्रम् अभ्यारोहयेत्। न ह वै देवानां देवक्षेत्रम् अभ्यारुह्य बिभेति, नाशनायति, न पिपासति, नार्तिम् आर्च्छति। सुज्ञानं ह वाव देवानां देवक्षेत्रम्। तद् आहुः - प्रेव वा एते ऽस्माल्लोकाच् च्यवन्ते ये ऽन्वहं सुज्ञानम् उपयन्तीति। तद् यद् राथन्तरम् अह स्यात् तस्मिन् पौष्कलम् उपेयुर् बार्हते ऽहन् सुज्ञानम्। तद् उ वा आहुस् सुज्ञाने वावैतानि सर्वाणि रूपाणीति। सुवर्विद इत्य् एवास्य लोकस्य रूपम्, ए इत्य् अन्तरिक्षस्य, सुवर् इत्य् अमुष्य
तत् सप्ताक्षरणिधनं भवति। सप्त वै प्राणाः। प्राणैर् एव तत् समृध्यमाना यन्ति, प्राणेषु प्रतितिष्ठन्तः। अन्वहं गौरिवीतं भवति। अअतिरिक्तं वा एतद् ब्रह्मणो यद् गौरिवीतम्। अतिरिक्तान्य् एतान्य् अहानि यान्य् अहीनस्य। अतिरिक्ता एव तद् अतिरिक्तं ब्रह्मणो रसं दधतो यन्ति। अन्वहं प्लवो भवति, स्वर्गस्यैव लोकस्य समष्ट्यै। ए इत्य् एवान्तरिक्षम् अतिप्लवन्ते। आति विश्वानि दुरिता तरेमेति यत् किं च यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तद् अतितरन्ति। तद् द्वादशाक्षरनिधनं भवति। द्वादश मासास् संवत्सरः। मासेष्व एव तत् संवत्सरे प्रतितिष्ठन्तो यन्ति। तद् आहुः प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते य एतान् पराचष् षडहान् उपयन्तीति। ओकोनिधनं षष्ठे ऽहनि कुर्युः। अयं वै लोकः पुरुषस्यौकः। अस्मिन्न् एवैतल्लोके प्रतितिष्ठन्ति। तद् व् एवाचक्षते प्रहितोस् संयोजनम् इति। अहोरात्रे वै प्रहितौ। प्रहिते इव ह्य् एते चरतः। अथ ह वा एतत् षडहा वीव छिद्यन्ते यदा षष्ठम् अहर् आगच्छन्ति। स यथाश्वं संयोजनेन संयुज्याद् एवम् एवैतेन साम्ना षडहान् संयुञ्जन्तो यन्ति। तद् आहुः - कार्यम् ओकोनिधनं पृष्ठ्ये षडहा3 इति ना3 इति। नेति ब्रूयात्। एतदग्रा वै षडहा यत् पृष्ठ्य एतदन्ता। एतं वावैतेन प्रेप्स्यन्त्य् एतम् अभीवर्तेनैतं प्लवेनैतं सुज्ञाने(न) । पुनः प्रयोग इव स्याद् यद् एतद् अत्र कुर्युः। तस्माद् एतद् अत्र न कार्यम् इति
स्वर्भानुर् वा आसुर आदित्यं तमसाविध्यत्। तं देवाश्चर्षयश् चाभिषज्यन्। त एतानि स्वराण्य् अपश्यन्। तैर् एनम् अस्पृण्वन्। यद् अस्पृण्वंस् तत् स्वराणां स्वरत्वम्। तद् यद् एतानि स्वराणि भवन्त्य्, आदित्यम् एवैतै स्पृण्वन्ति। यादृग् अह वै मनुष्यो देवेभ्यः करोति तादृग् अस्मै देवाः कुर्वन्ति। तद् यद् एतानि स्वराणि भवन्त्य्, आत्मानम् एवैतै स्पृण्वते। सप्तदशा स्वरसामानो भवन्त्य्, एकविंशो विषुवान्। प्रजापतिर् वै सप्तदशो, ऽसाव् आदित्य एकविंशः। पित्रैव तत् पुत्रं पर्यूहन्ति। पिता हि पुत्राय कन्तमः, पुत्रो हि पित्रे कन्तमःः। यद् अत्रान्यं स्तोमम् अवदध्युः प्रासौ तं तेजसा दहेद्, अग्निर् वैश्वानरः प्रजा अददीत। षड् एते स्वरसामानो भवन्ति। षड् ऋतवः। ऋतुष्व् एवैनं तद् अध्यूहन्ति, तस्माद् एषस् त्रीन् ऋतून् दक्षिणैति त्रीन् उदङ्। स यथा पुत्रः पितॄन् अनुसंचरेत् तादृग् एवैतद्, अजामितायै। अजामि हि पुत्रः पितॄन् अनुसंचरति। अथैतौ विश्वजिदभिजिताव् अभित स्तोमानां वीर्यम्। वीर्येण ह वा एतौ विषुवन्तं दाधर्तुः। तद् आहु - स्तोमकृन्तत्रम् इव वा एतत् स्तोमा यन्ति यत् त्रयस्त्रिंशात् सप्तदशम् उपयन्तीति। पुरस्ताद् एव पृष्ठ्यस्य षडहस्याभिजितम् उपेत्य पृष्ठ्यस्यैव षडहस्य यन् मध्ये सप्तदशम् अहस् तद् उपरिष्टात् त्रयस्त्रिंशस्य पर्यूहेयुः। तत् तत् सप्तदशाद् एव सप्तदशम् उपयन्ति, समात् समं, न स्तोमकृन्तत्रं स्तोमा यन्ति, नार्तिम् आर्च्छन्ति
तद् आहुर् आत्मा वै पृष्ठ्यष् षडहो ऽन्नं सप्तदशः। यत् पृष्ठ्यात् षडहात् सप्तदशं निर्हरेयुर् अन्नाद्यं बहिर्धा कुर्युर् अशनायुका स्युः। त्रयस्त्रिंशाद् एवोपेत्यम् इति। त्रयस्त्रिंशद् वै सर्वा देवताः। सर्वा उ ह वै देवतास् संपद्य प्रजापतिम् उद् वा आप्नुवन्ति न वा। तत् तत् समाद् एव समम् उपयन्ति। वर्ष्मणो वा वर्ष्म। वर्ष्म हि पिता। अथो उत्क्रान्तिर् एव। पिता हि पुत्राच् छ्रेयान्। त उक्थ्या भवन्ति - पशवो वा उक्थानि - पशूनाम् एवावरुद्ध्यै। तद् आहुर् विलोमेव वा एतद् यज्ञः क्रियते यदाग्निष्टोमौ विश्वजिदभिजितौ भवतो ऽग्निष्टोमो विषुवान् उक्थ्या स्वरसामानः। सर्व एवाग्निष्टोमाः कार्या इति। वर्ष्म वा अग्निष्टोमो, वर्ष्म विषुवान्। वर्ष्मणैव तद् वर्ष्म संदधति। वर्ष्मणा वर्ष्म रोहन्ति। तेजो वा अग्निष्टोमस्, तेजो विषुवांस्, तेजसैव तत् तेजस् संदधति, तेजसा तेजो रोहन्ति। अथ ह काम्यकीया इति सत्रिणो ऽयस्थूणगृहपतयस् सत्रं निषेदुः। तान् हेन्द्रद्युम्नो भाल्लवेयो ऽभिप्रधावयांचकार पुत्रं - विषुवता स्तावयिष्यामीति। तेषां ह पृष्ठ्यस्य षडहस्यैकेनाह्नास्तुतम् आजगाम। स होवाच - साधु हैवाकृत यद अस्तोढ्वम्। यद् व् अहम् इहाभविष्यम्, अन्यथातो विषुवन्तम् अकल्पयिष्यम् इति। कथं भगवो ऽकल्पयिष्य इति हैनं पुत्र उवाच। स होवाच - पुरस्ताद् एव पृष्ठ्यस्य षडहस्याभिजितम् उपेत्य पृष्ठ्याद् एव षडहात् स्वरसाम्न उपैष्यम् इति
आत्मा वै पृष्ठ्यष् षडहः, प्रजा स्वरसामानः। प्रजो वा अस्मत् परेति। वाग् वै वयम् इमे स्मः। वाग् अस्मत् परेति। तद् यद् एषो ऽभिजिद् अन्तरेण भवति - प्रजननं वा एष एतद् अन्तर्धायैव तिष्ठति। तं यत् पुरस्तात् पृष्ठ्यस्य षडहस्य पर्यूहन्त्य् अनन्तर्हितात् प्रजननात् प्रजायामहा इति। त उ वै सप्तदशा भवन्ति। प्रजापतिर् वै सप्तदशः। प्रजापतिः प्रजानां प्रजनयिता। स यः प्रजानां प्रजनयिता तेन प्रजाताः प्रजायामहा इति। त उ वा आनुष्टुभा भवन्ति - वाग् वा अनुष्टुब्, वाक् प्रजननं - वाचः प्रजननात् प्रजायामहा इति। त उ वा उक्थ्या भवन्ति - पशवो वा उक्थान्य्, अन्नं पशवः - पशुभ्यो ऽन्नाद्यात् प्रजां नेद् अन्तरयामेति। तद् उ होवाच शाट्यायनिर् अनादृत्य भाल्लवेयस्य वदनम् - अभिजित एवाध्युपेत्यम्। यो वा एष पृष्ठ्यष् षडहस् स एवाभिजित्। आयतनेन ये वा एते पृष्ठ्यस्य षडहस्य स्तोमास् त एवैते। एको वै पृष्ठ्ये षडहे सप्तदशः। अथैतस्मिंस् त्रयस् सप्तदशाः। तं वावैतद् एतं स्तोमं कृत्वा प्रजनयन्ति। तत् तत् सप्तदशाद् एव सप्तदशं प्रजनयन्ति, सप्तदशात् सप्तदशं, सप्तदशात् सप्तदशम्। परस्ताद् उ वै विश्वजिति त्रयस् सप्तदशाः। ते वावैतद् उभये संपद्य प्रजनयन्ति। तेषां वा अत्र प्रतिष्ठा। अभिजित एवाध्युपेत्यम् इति
एकविंशो विषुवान् भवति। एकविंशो वा अस्य भुवनस्य विषुवान्। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। सर्वस्मिन् वा एषो ऽस्मिन्न् अधिप्रतिष्ठितः। तद् यस्मिन्न् एव सर्वस्मिन्न् अधि प्रतिष्ठितस्, तस्मिन् सर्वस्मिन्न् अधि प्रतितिष्ठामेति। तस्माद् वायव्यानुष्टुप् प्रतिपद् भवति। वाक् च वै वायुश चैतं देवतानाम् आनशानौ। तौ याव् एतं देवतानाम् आनशानौ ताभ्याम् एनम् अश्नवामहा इति। यद् ध वै वायुर् न पवेत प्रासाव् इदं तेजसा दहेद, अग्निर् वैश्वानरः प्रजा अददीत। वायव्या प्रतिपद् भवत्य् अग्नेर् एव वैश्वानरस्य शान्त्या अप्रदाहाय। तद् आहुर् वीव वा एते प्राणैर् ऋध्यन्ते ये पावमानीभिः प्रतिपद्यन्त इति। तद् यद् एषा वायव्या प्रतिपद् भवति - प्राणो वै वायुः - प्राणैर् एव तत् समृध्यन्ते। वायो शुक्रो अयामि त इति शुक्रवती भवति। शुक्रियं ह्य् एतद् अहः। मध्वो अग्रं दिविष्टिष्व् इति, तद् उ मधव्या अग्रया ब्रह्मवर्चसिनो भवन्ति। आ याहि सोमपीतय इति सौमी, तेन पावमानी क्रियते। स्पार्हो देव नियुत्वतेत्य् - असौ वै स्पार्हो ऽन्नं नियुत्वद् - एतम् एव तद् अन्नाद्येनाभ्युपयन्ति। यो वै श्रेयांसम् आहरन्न् उपैति प्रति वै स तं नन्दति। अथ य एनम् अनाहरन्न् उपैति न वै स तं प्रतिनन्दति। तद् यद् एवा वायव्यानुष्टुप् प्रतिपद् भवत्य् एष नः प्रतिनन्दाद् एतम् ऋध्नवामेति। तद् उ वा आहुः - पवस्व वाचो अग्रिय इत्य् एव प्रतिपद् कार्येति। वाग् वा इयं वितता यद् इमे लोकाः। तस्या अदो ऽग्रं तपति यद् असाव् आदित्यः। तद् यद् एषा पवस्व वाचो अग्रिय इति प्रतिपद् भवत्य् एतम् एवैतद् एतया अभिप्रतिपद्यन्ते। स यथात्मनात्मानम् आरभेतैवम् एवैनम् एतत् स्वेन रूपेणारभन्ते। यद् व् एवैतत् पदं पवस्वेत्य् अवस्तात् पर्यूढं भवति, तेनायं वायुर् अवस्तात् पर्यूढः पवते ऽनिर्दाहाय
स्वर्भानुर् वा आसुर आदित्यं तमसाविध्यत्। तं देवाश् चर्षयश् चाभिषज्यन्। त एतानि दिवाकीर्त्यानि सामान्य् अपश्यन्। तैर् अस्य तमो ऽपाघ्नन्। तद् यद् एतानि दिवाकीर्त्यानि भवन्त्य्, आदित्यस्यैवैतैस् तमो ऽपघ्नन्ति। यादृग् अह वै मनुष्यो देवेभ्यः करोति, तादृग् अस्मै देवाः कुर्वन्ति। तद् यद् एतानि दिवाकीर्त्यानि भवन्त्य् आत्मन एवैतैस् तमो ऽपघ्नते। भ्राजाभ्राजे पवमानयोर् मुखे भवतः। अङ्गेभ्य एवास्य तत् तमो ऽपघ्नन्ति। महादिवाकीर्त्यं पृष्ठं, विकर्णं ब्रह्मसाम। मध्यत एवास्य तत् तमो ऽपघ्नन्ति। दशस्तोभं भासम् अग्निष्टोमसाम। शीर्षत एवास्य तत् तमो ऽपघ्नन्ति। असाव् आदित्य एकविंशो विषुवांस्, तस्य दिवाकीर्त्यान्य् एव रश्मयः। तद् यद् एतानि दिवाकीर्त्यानि भवन्त्य् एतम् एवैतैः पर्यूहन्त्य्, एतं समर्धयन्ति। तद् आहुः केन संवत्सरसद स्वर्गलोक इति। मूर्धानं दिवो अरतिं पृथिव्या इत्य् अग्निष्टोमसाम भवतीति ब्रूयात्। तेनेति। असौ वै दिवो मूर्धा यो ऽसौ तपत्य्, एतम् एवैतेनाभ्यारोहन्ति। तद् आहुः - प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते, य एतम् अभ्यारोहन्तीति। अरतिं पृथिव्या इति भवति। अयं वै लोको ऽरतिः पृथिव्या, अस्मिन्न् एवैतल् लोके प्रतितिष्ठन्ति। दशस्तोभं भासम् अग्निष्टोसाम भवति - दशाक्षरा विराड्, अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्ध्यै। ईश्वरा ह त्व् अन्यस्मै मूर्धन्न् अन्नाद्यं हर्तोर् य एतासु मूर्धन्वतीष्व् अग्निष्टोमसाम कुर्वन्तीति। तद् अनुष्टुभ्य् एव कार्यम्। वाग् वा अनुष्टुब् अन्नं दशस्तोभम्। मुखतो वै वाग् इयं, मुखत एवैतद् आत्मनो ऽन्नाद्यं दधते, तस्माद् अनुष्टुभ्य् एव कार्यम् इति
आत्मा वै संवत्सरस्य विषुवान्, पक्षाव् अभितो, येन चेतो ऽभीवर्तेन यन्ति येन चामुतः प्रगाथेन प्रत्यवरोहन्ति ताव् उभौ विषुवति कुर्युः। आत्मन्न् एव तत् पक्षौ प्रतिदधते स्वर्गस्य लोकस्य पतनाय। तस्माद् आत्मन् पक्षौ प्रतिहितौ। तद् आहु प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते य एतान् पराचष् षडहान् पराच स्तोमान् पराञ्चि पृष्ठानि पराञ्चि छन्दांस्य् उपयन्तीति। तद् यत् परस्ताद् विषुवतो ऽर्वाचष् षडहान् उपयन्त्य् अस्मिन्न् एवैतल् लोके प्रतितिष्ठन्ति। अद्याद्या श्वश्वो, वयम् एनम् इदा ह्यस्, त्वाम् इदा ह्यो नरः, क्वेयथ क्वेद् असि, इन्द्र त्रिधातु शरणम् इति संतनयः प्रगाथा भवन्त्य् अद्यश्वस्यैव संतत्यै। अद्य चैव ते श्वश् च संतन्वन्ति। अयातयामानम् उ संवत्सरम् आसते। तद् आहुर् इन्द्र क्रतुं न आ भरेत्य् एतास्व् आवतीषु स्तोतव्यम् अह्नो रूपेणेति।
पिता पुत्रेभ्यो यथा।
शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिर् अशीमहि॥
इति। एते ह वै जीवा ज्योतिर् अश्नुवते ये संवत्सरस्योदृचम् अश्नुते।
मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः।
त्वया वयं प्रवतः शश्वतीर् अपो अति शूर तरामसि॥
इत्य् एता ह वै प्रवतः शश्वतीर् आपो यत् संवत्सर ऋतवो मासा अर्धमासा अहोरात्राण्य् उषसः ता एवैतेनातितरन्ति
शक्तिं ह वासिष्ठं सौदासा अग्नौ प्रासुः। स ह प्रास्यमान उवाचेन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथेति। एतावद् धैवास्य व्याहृतम् आस। अथ हैनम् अग्नौ प्रासुः। अथ ह वसिष्ठ आजगाम। स होवाच किं मे पुत्रः प्रास्यमानो ऽब्रवीद् इति। तस्मै होचुर् इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथेत्य् एतावद् एवास्य व्याहृतम् आसीद्, अथैनम् अग्नौ प्रास्यन्न् इति। स होवाच शिक्षा णो ऽस्मिन् पुरुहूता यामनि जीवा ज्योतिर् अशीमहीति यन् म एतम् उत्तरम् अर्धर्चं पुत्रः प्राप्स्यन् न चैवैनम् अग्नौ प्रासिष्यन्, सर्वम् उ चायुर् अयिष्यत्। यैव कुरुतमा देवतानाम् अभूत् ताम् उपासरत्। ऋध्नवन् ते सत्रिणो ये म एतेन पुत्रस्य प्रगाथेन स्तवान्ता इति। स एष ऋद्धिप्रागुभितः प्रगाथः। ऋद्धिष्णवो ह भवन्त्य् एनेन तुष्टुवानाः। गौश् चायुश् च स्तोमौ भवतः प्रतिष्ठित्यै। ऊनातिरिक्तौ भवतः प्रजननाय। वैराजौ भवतो ऽन्नाद्यस्यैवावरुद्ध्यै। पृष्ठ्यष् षडहो भवति। श्रीर् वै वर्ष्म पृष्ठानि। तद् उ श्रियं वर्ष्म पृष्ठान्य् ऊर्ध्वा रोहन्ति। छन्दोमा भवन्ति - पशवो वै छन्दोमाः - पशूनाम् एवावरुद्ध्यै। दशमम् अहर् भवति - दशाक्षरा विराड्, अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्ध्यै। अयं सहस्रमानव इति पुरा तूष्णीं स्तोमाद् एतास्व् अतिछन्दस्सु स्तोतव्यम् आहुः। अति वा एषो अन्यानि छन्दांसि यद् अतिछन्दाः। अत्य् एते ऽन्यान् ये संवत्सरसदः। स्व एवैतच् छन्दसि प्रतितिष्ठति। एकाक्षरणिधनं साम भवति। एकाक्षरा वै वाक्। वाचम् एवैतद् दशमेनाह्ना संपादयन्ति। गोर् इति निधनं भवति - गौर् वै कृत्स्नम् अन्नाद्यं - कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै। तद् आहुर् अतिष्टुतानुष्टुप् स्याद् यद् एतद् अत्र कुर्युः। नेद् वाचम् अतिष्टवामेति वै मनसा तूष्णीं स्तोमेन स्तुवन्ति। अत्रो वावैतद् वाचा संपन्नम्। तस्माद् एतद् अत्र न कार्यम् इति
उत्सृज्यां3 नोत्सृज्या3म् इति मीमांसन्ते। तद् आहुर् उत्सृज्यम् एवेति। यो वा अविमोकं यात्य्, उद् वा वै स कृन्तति प्र वा क्षिणोति। अविमोकम् इवैते यन्ति ये नोत्सृजन्ते। तद् यत् पौर्णमासीर् उत्सृजन्ते ऽरिष्ट्या एव। यो वै पूर्ण आवपति, वि वा वै तत् पतति प्र वा शीर्यते। पूर्ण एष यत् संवत्सरः। तद् यत् पौर्णमासीर् उत्सृजन्ते ऽरिष्ट्या एव। ऊनाद् वै रेतस् सिच्यत, ऊनात् प्रजाः प्रजायन्ते। पूर्ण एष यत् संवत्सरः। तद् यत् पौर्णमासीर् उत्सृजन्ते, रेत एव तल् लोकं कुर्वन्ति, प्रजननाय। ऊनाद् वै प्राणा ईरते। प्रजापतिर् एष यत् संवत्सरः। तस्यैते प्राणा यत् पौर्णमास्यः। तद् यत् पौर्णमासीर् उत्सृजन्ते, प्रजापतेर् एव तत् प्राणान् उत्सृजन्ते। पौर्णमासीस्तोमा ह खलु वै देवाः। तद् यत् पौर्णमासीर् उत्सृजन्ते, को देवान् प्रत्य् अभिष्टोतुम् अर्हतीति
ते यद् अहर् उत्सृजेरन्न्, इन्द्राय वसुमते पूर्वाह्णे पुरोडाशम् अष्टकपालं निर्वपेयुः। इन्द्राय रुद्रवते माध्यन्दिने पुरोडाशम् एकादशकपालं निर्वपेयुः। इन्द्रायादित्यवते ऽपराह्णे पुरोडाशं द्वादशकपालं निर्वपेयुः। एतासां वै देवतानां सवनानि भाजनं, तन् न सवनेनैभ्यो यन्ति, न देवता अन्तर्यन्ति। प्रजापतिर् एष यत् संवत्सरः। तस्यैते प्राणापाना यत् पौर्णमास्यश् चामावास्याश् च। तद् यत् पौर्णमासीश् चामावास्याश् चोत्सृजन्ते, प्रजापतेर् एव तत् प्राणापानान् उत्सृजन्ते। तम् एतम् उपरिष्टात् संवत्सरस्य चतुर्विंशतिरात्रम् उपयन्ति। अथो आहुः - पौर्णमासीर् एवोत्सृज्या इति। प्राणभाजना वै पौर्णमास्य्, अपानभाजनामावास्या। बहिर् वै सन्तं प्राणम् उपजीवन्त्य्, अन्तस् सन्तम् अपानम्। तद् यत् पौर्णमासीर् उत्सृजन्ते, बहिस् सन्तं प्राणम् उपजीवामान्तस् सन्तम् अपानम् इति। तम् एतम् उपरिष्टाद् द्वादशरात्रम् उपयन्ति
तद् उ होवाचारुणिर् अषाढं सावयसम् उत्सृजानं - होता छिद्रे संवत्सर आस्त इति। स होवाच - मा न एवं ब्रवीर्, उप वै वयं तम् उपरिष्टाद् द्वादशरात्रम् ऐमेति। तं ह तद् उपजगौ --
ज्यायो वा हि कनीयो वा न हि वा तेन तत् समम्।
कपालम् अन्यथा सत्य् अछिद्र उपधीयते॥
इति वा अहम् एतद् धोतुर् मन्ये। छिद्रं वा अहं तेषां संवत्सरं मन्य् य उत्सृजन्ते। अथो हैषां तद् अन्यथेव सत्रम् उपेतं भवति। यथा वै शश एवं यज्ञः। यो वै शशम् उत्सर्गं लिप्सते, नैनं स गृह्णाति। अथ य एनम् अनुत्सर्गं लिप्सते, स एवैनं गृह्णाति। उत्सर्गम् एवैतल् लिप्सन्ते य उत्सृजन्ते। तस्मान् नैवोत्सृज्यम् इति
अथ ह स्माह कुसुर्विन्द औद्दालकिर् - उत्सृज्यं चैव न चेति। यद् एवाद्याहर् उत्सृजेरंस्, तच् छ्वो भूते प्रतिसंख्यायोपप्रस्तुयुः। तेनैवोत्सृष्टं च न चेति। अथो यावन्त्य् एवाहान्य् उत्सृजेरंस् तानि संख्यायोपरिष्टाद् अतिरात्रस्योपेयुः। तेनो एवोत्सृष्टं च न चेति। अथ ह स्माह भाल्लवेय - उक्थान्य् एवोत्सृज्यानीति। प्रजा वै पशव उक्थानि। प्रजा एव तत् पशून् उत्सृजन्ते। अथो यथा दृतिम् अभिध्मातम् उच्छ्वासयेत्, तादृक् तत्। तद् आहुर् उत्सृज्यम् एवेति। प्रजापतिर् एष यत् संवत्सरः। तस्यैते प्राणाः पर्वाणि यत् पौर्णमास्यश् चामावास्याश् च। यथा ह वा इदं धृतिर् अभिध्मातश् शोचेद् एवं ह वा एष प्रजापतिः पशूञ् छोचयत्य् अनुत्सृजमानः। तद् यत् पौर्णमासीश् चामावास्याश चोत्सृजन्ते, ऽङ्गान्य् एवास्य तत् प्राणान् पर्वाणि प्रसारयन्ति, नेन् नस् संवत्सरश् शुशुचानो हिनसद् इति। तम् ईं हिन्वन्त्य् अग्रुव इति श्वो भूते प्रतिपदं कुर्वीरन्। तद् यथा दृतिम् उच्छ्वासितं पुनर् अभिधमेत्, तादृक् तत्। धमन्ति बाकुरं दृतिं त्रिधातु सारघं मध्व् इति - संवत्सरो वै बाकुरो दृतिर्, यज्ञस् त्रिधातुर्, ब्राह्मणास् सरघास्, त एवैतन् मधु कुर्वन्ति
अथ ह स्माह सिरिन्दः पालालिर् - अमावास्यायाम् एवोत्सृज्यम् इति। अमावास्यायां वा एतद् देवता उपसृजन्त। देवतानाम् उत्सृष्टिम् अनूत्सृजामहा इति। एते उ ह वै संवत्सरस्य मध्ये रात्री यत् पौर्णमासी चामावास्या च। तद् यत् पौर्णमासीं चामावास्यां चोत्सृजेरन् संवत्सरं मेधेन व्यर्धयेयुः। त्रिवृद् एवाग्निष्टोमः कार्य इति। तस्य यन् न्यूनानि स्तोत्राणि भवन्ति, तेनैवोत्सृष्टं च न चेति। अथ ह स्माह नगरी जानश्रुतेय - एकत्रिक एवोपेत्य इति। तस्य यच् छ्वांक्षितानीव स्तोत्राणि भवन्ति, तेनैवोत्सृष्टं च न चेति। अथ ह स्माहारुणिर् - याव् एवैतौ गोआयुषी स्तोमौ, ताभ्याम् एवोत्सृष्टं च न चेति। तयोर् यस्य न्यूनानि स्तोत्राणि तेनोत्सृष्टं, यस्यातिरिक्तानि तेनानुत्सृष्टम्। तस्माद् एताव् एवोपेत्याव् इति
अध्वर्युर् ग्रहं गृहीत्वा द्रवति। स अहोपावर्तध्वम् इति। ते हिंकृत्यैव प्राञ्चो निष्क्रम्याग्रेणाग्नीध्रं तिष्ठन्तो विश्वेषां देवानां व्रतेन स्तुवते। विश्वेभ्य एव तद् देवेभ्यो निवेदयन्ते - ऽरात्स्मेति। ते प्राञ्चो ऽभिक्रम्य चात्वालम् अवेक्षमाणाः क्रोशेन स्तुवते। देवानां वा अन्तं जग्मुषाम् इन्द्रियं वीर्यम् अपाक्रामत्। तत् क्रोशेनैवावरुन्धत। अन्तम् इवैते गच्छन्ति य संवत्सरस्योदृचम् अश्नुवते। तद् यत् क्रोशेन स्तुवत इन्द्रियस्यैव वीर्यस्यावरुद्ध्यै। अथानुक्रोशम्। देवा वै यत्र त्र्यहेण स्वर्गं लोकम् आयंस् तद् धैषाम् एतत् तृतीयम् अहर् वैरूपं व्यार। तस्यैष श्लोको -
वैरूपं देवा अभिसंवसानास् तद् आतस्थुस् तद् उ हैषां व्यार।
ते हिंकृत्य पुनर् आरुह्य् सर्वं एवाधून्वत जरसं तनूनाम्॥
इति। तस्यो एवैष श्लोको -
यद् वैरूप उपहते व्यध्वे, हिंकृण्वन्तस् समतिष्ठन्त याम् अन्तः।
देवस्थानम् असृजन्त साम तेन देवासो ऽमृतत्वम् आयन्॥
इति। ते स्वर्गं लोकम् आयंस् तद् विधाता पुत्रान् अब्रवीन् - मा यूयम् आदध्वम्, इहैवाहं युष्मान् विधास्यामीति
सो ऽस्यां प्राच्यां दिशि पुरं वैधात्रम् अदधात्। तस्य प्राचीन आहुर् यायणः पुरोहितः। सो ऽस्यां दक्षिणायां दिश्य् अधराहिं वैधात्रम् अदधात्। तस्य दक्षिण आहुर् यायणः पुरोहितः। सो ऽस्यां प्रतीच्यां दिशि पश्चं वैधात्रम् अदधात्। तस्य प्रतीची आहुर् यायणः पुरोहितः। सो ऽस्याम् उदीच्यां दिश्य् उत्तराहिं वैधात्रम् अदधात्। तस्योदीचीन आहुर् यायणः पुरोहितः। ते देवा विधातारम् अब्रुवन्न् एवम् उ चेत् त्वम् एतद् अधिथास् तथास्मान् अन्वीक्षस्व यथा वयं स्वस्ति स्वर्गं लोकं गच्छेमेति। तान् एतेन क्रोशेनान्वैक्षत
इन्द्रासुतेषु सोमेषु होयेहूहो इत्य् एवैनान् प्रसेधत्। ते ऽब्रुवान् - सत्रा वै नो ऽत्युदसित्सन्। तथा नो ऽन्वीक्षस्व तथा न एतस्मिन् लोके अन्वाभजा इति। तान् एतेनैवानुक्रोशेनेन्द्रा हो इह वेहो इत्य् एवास्मिन् लोके ऽन्वाभजत्। ततो वै त उभयोर् अन्योर् लोकयोः प्रत्यतिष्ठन्। क्रोशेनैव स्वर्गं लोकम् अगच्छन्न् अनुक्रोशेनास्मिन् प्रत्यतिष्ठन्। ते य एवं विद्वांसः क्रोशानुक्रोशाभ्यां स्तुवत उभयोर् एवानयोर् लोकयोः प्रतितिष्ठन्ति - क्रोशेनैव स्वर्गं लोकं गच्छन्त्य्, अनुक्रोशेनास्मिन् प्रतितिष्ठन्ति
अग्नेर् अपि पक्षं प्रति सत्रस्यर्द्ध्या स्तुवते। अग्नय एव तद् देवेभ्यो निवेदयन्ते ऽरात्स्मेति। व्रतपक्षाभ्यां अभितो हविर्धाने। स्वर्गाय वा एते लोकाय दीक्षन्ते, ये संवत्सराय। तद् यद् व्रतपक्षाभ्यां स्तुवते, आत्मन्न् एव तत् पक्षौ प्रतिदधते, स्वर्गस्य लोकस्य पतनाय। तस्माद् आत्मन् पक्षौ प्रतिहितौ। प्राणापानाभ्यां स्तुवते। प्राणेन पुरस्ताद् अपानेन पश्चात्। तद् आहुर् वीव वा एते प्राणापानाभ्याम् ऋध्यन्ते ये यज्ञियस्य कर्मणो ऽतिपादयन्ति यदि वा नातिपादयन्ति। को हि तद् वेद यदि ते ऽति वा पादयन्ति न वा। तद् यत् प्राणापानाभ्यां स्तुवते प्राणापानाभ्याम् एव तत् समृध्यन्ते
श्लोकानुश्लोकाभ्यां स्तुवते। श्लोकेन पुरस्ताद् अनुश्लोकेन पश्चात्। तद् यच् छ्लोकेन स्तुवते पुण्यं श्लोकम् अवरुणधामहा इति। अथ यद् अनुश्लोकेन पुण्यो ऽनुश्लोक उत्तस्थुषो ऽनूत्तिष्ठाद् इति। निह्नवाभिनिह्नवाभ्यां स्तुवते। निह्नवेन पुरस्ताद् अभिनिह्नवेन पश्चात्। तद् आहु श्रेयांसं वा एते ऽभ्यारोहन्ति ये संवत्सरम् इति। तद् यन् निह्नवेन स्तुवते श्रेयस एव तन् निह्नुवते, ऽभ्य् एवाभिनिह्नवेनारोहन्ति। यद् उ चेहाकर्म तद् उ च मापह्नोष्महा इति। तथा हैषां तद् अनुषोदितं भवति। अंगिरसां षड्विंशत्यक्षरणिधनेनान्तस्सदसं स्तुवते। जघनेनौदुम्बरीम् अंगिरोभ्य एतद् देवेभ्यो निवेदयन्ते ऽरात्समेति
तत् पञ्चविंशं कृत्वा स्तुवते व्रतस्यानतिष्टवाय, यद् व् एव प्रति भूतेच्छन्दसां व्रतेन स्तुवते -
हरी त इन्द्र श्मश्रूण्य् उतो ते हरिता हरी।
तं त्वा स्तुवन्ति कारवः पुरुषासो वनर्गवः॥
ऋष्य स इन्द्र भुङ्ङ् इति मघवन्न् इन्द्र भुङ्ङ् इति।
इन्द्रस् त्रसरपूतः॥
- - -स्फिगि पुनःपुनस् त्रसरस्फिगिर्
इति। एतावद् ध वा अन्यैकम् अङ्गम् अनास्तुम् आस यत् स्फिगौ। अनास्तुतेनैनम् अङगेन स्तुवन्ति। ऋद्धिष्णवो ह भवन्त्य् एनेन तुष्टुवानाः। तद् आहुः कस्मै कं परिमादः क्रियन्त इति। यथा ह वै शारद उक्षैवं महाव्रतम्। स यथा शारदम् उक्षाणं वागराभिः परितत्यालभेरन्न् एवम् एवैतत् परिमाद्भिर् महाव्रतम् आलभन्ते व्रतस्याप्रक्षयाय। अथो यथैवेदं पुरुषस्य केशा नखा लोमानि श्मश्रूणि तथैवास्यैतद् इति। अथो यद् एवेदं पुरुषम् अभितो गौर् अश्वो ऽजाविर् व्रीहयो यवास् तद् एवास्यैतद् इति
सप्ताशीतिर् महाव्रतस्य स्तोत्र्या भवन्ति, त्रयोदश परिमादः। तच् छतम्। शतायुर् वै पुरुषश् शतेन्द्रियश् शतवीर्यस् तस्यैवेन्द्रियस्य वीर्यस्यावरुद्ध्यै। अथैता वाचः प्रवदन्ति। क्षुद्राः परिमादः - कर्करी चालाबुश् च वक्रा च कपिशीर्ष्णी चैषीकी चापघाटलीका च वीणा च कश्यपी च भूमिदुन्दुभिश् चार्षभेण चर्मणाभिविहतो वाणश् च शततन्त्रीः। अन्तरिक्षे दुन्दुभयो वितता वदन्ति। अधिकुंभाः पर्यायन्ति। एता वाचः प्रवदन्ति - सर्वस्यै वाचो ऽवरुद्ध्यै, कृत्स्नायै वाचः - कृत्स्नां वाचम् अवरुणधामहा इति। तद् यद् भूमिदुन्दुभिर् आर्षभेण चर्मणाभिविहतो वदति - परमा वा ऋषभो वाक् - परमस्या परमस्या एव वाचो ऽवरुद्ध्यै। अन्तरिक्षे दुन्दभयो वितता वदन्ति - यैवान्तरिक्षे वाक् ताम् एव तेनावरुन्धते। अधिकुम्भाः पर्यायन्त्य् - एतद् वै प्रत्यक्षं दिवो रूपं यन् मूर्धा - यैवामुष्यां वाक् ताम् एव तेनावरुन्धते। वाणं शततन्त्रीम् आघ्नन्ति - शतायुर् वै पुरुषश् शतेन्द्रियश् शतवीर्यस् - तस्यैवेन्द्रियस्य वीर्यस्यावरुद्ध्यै
मागधं च पुंश्चलूं च दक्षिणे वेद्यन्ते मिथुनी कारयन्ति, मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। आर्यं च वर्णं शौद्रं चोपर्युपरि चात्वालं बस्ताजिने व्यायमन्त्य् आर्षभे वा चर्मणि। तयोर् अन्तर्वेद्य् आर्यो वर्णो भवति बहिर्वेदि शौद्रः। तयोर् आर्येण वर्णेन शौद्रं वर्णं ज्यपयन्ति। देवाश् च वा असुराश् चामुष्मिन्न् आदित्ये ऽस्पर्धन्त। तं देवा असुराणाम् अवृञ्जत। तद् यद् आर्येण वर्णेन शौद्रं वर्णं ज्यापयन्त्य्, एतम् एव तद् द्विषतो भ्रातृव्यस्य वृञ्जते। तयोर् आन्यः क्रोशति, प्राण्यश् शंसति। य आक्रोशति, पुनात्य् एवैनान् सः। अथ यः प्रशंसति, पूतेष्व एवैतेषु स इन्द्रियं वीर्यं दधाति। आजिं धावन्ति। परमं वा एतन् महो यद् आजिः - परमस्यैव महसो ऽवरुद्ध्यै। संनद्धा भवन्ति। परमा वै संनद्धे त्विषिः। परमाम् एव तत् त्विषिम् आत्मसु दधते। पूर्णकुम्भा मार्जालीयं पर्यायन्ति - पूर्णस्यैवावरुद्ध्यै। है महा है महा इति - महसो ऽवरुद्ध्यै। इदं मध्व् इदं मध्व् इति - मध्व् इव वा एतद् देवेभ्यः क्रियते यन् महाव्रतम्। परमो वै मधुनि रसः, परमस्यैव रसस्यावरुद्ध्यै। तद् आहुर् - ईश्वरा आद्या भवितोर् यद् धै महा इदं मध्व् इति गायन्तीः पर्येयुः। है महाम् एव गायन्तीः पर्येयुर् इति। तद् उ होवाच शाट्यायनिर् - यदा वै भवति यदास्त्य्, अथाद्यो भवति। किम् असतो ऽद्युः। है महा इदं मध्व् इत्य् एव गायन्तीः पर्येयुर् इति
ते स्तोष्यन्तो विपरायन्ति। अध्वर्युस् त्रिवृता शीर्ष्णा गायत्रेण स्तोष्यन्न् अग्रेण हविर्धाने उपविशति, मैत्रावरुणः पञ्चदशेन पक्षेण बृहता स्तोष्यन् दक्षिणत उपविशति, ब्राह्मणाच्छंसी सप्तदशेन पक्षेण रथन्तरेण स्तोष्यन्न् उत्तरत उपविशति, नैष्टैकविंशेन पुच्छेन भद्रेण स्तोष्यन् पत्नीनां मध्य उपविशत्य्, उद्गाता पञ्चविंशेनात्मना राजनेन स्तोष्यन्न् औदुम्बरीम् अधिरोहत्य् - ऊर्ग् वा अन्नम् उदुम्बर - ऊर्ज एवान्नाद्यस्यावरुद्ध्यै। ताम् अभिमन्त्रयते - बृहद्रथन्तरे ते पूर्वौ पादौ, वैरूपवैराजे ऽपरौ, शाक्वररैवते ऽनूच्यानि, छन्दांस्य् आस्तरणं, यजूंषि विवयनं, स्योनाम् आसदं सुषदाम् आसदम् इति। तस्यै प्रत्यवरोहो -
मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम्।
पिपृतां नो भरीमभिः॥
इति
ते सकृद् एव सर्वे हिंकुर्वन्ति। तस्मात् पुरुषस् संविद्धो जायते। उद्गातुर् हिंकारम् अनु हिंकुर्वन्ति। तस्माद् आत्मनो वशम् अङ्गानि यन्ति। अध्वर्युस् त्रिवृता शीर्ष्णा गायत्रेणोद्गायति। इदं तच् छिरः प्रतिदधाति। तस्माद् इदं शिरः प्रतिहितम्। पराचीभिर् अपुनरभ्यावर्तम्। तस्माद् इदं शिरः पराङ् एव नेति नेति। नवभिर् उद्गायति। तस्माद् इदं शिरो न मेद्यतो ऽनुमेद्यति, न कृश्यतो ऽनुकृश्यति। मैत्रावरुणः पञ्चदशपक्षेण बृहतोद्गायति। इमं तद् बाहुं प्रतिदधाति। तस्माद् अयं बाहुः प्रतिहितः। पराचीभिर् पुनरभ्यावर्तम् । तस्माद् इदं बाहुं सं चाञ्चति प्र च सारयति। तिस्रस् सतीः पञ्चदश करोति। कस्माद् अयं बाहुर् मेद्यतो ऽनुमेद्यति, कृश्यतो ऽनुकृश्यति। वीर्यं वै बृहद्, वीर्यं पञ्चदशः। तद् यत् पञ्चदशेन पक्षेण बृहतोद्गायति तस्माद् अयं बाह्वोर् वीर्यवत्तरः। तस्माद् उ दक्षिणं पक्षं वयांस्य् अनु परिप्लवन्ते। पुंसो वा एतद् रूपं यद् बृहत्, स्त्रियै रथन्तरम्। तद् यद् इतो बृहता स्तुवत, इतो रथन्तरेण, तस्मात् पुमान् दक्षिणतो योषाम् उपशेते। ब्राह्मणाच्छंसी सप्तदशेन पक्षेण रथन्तरेणोद्गायति। इमं तं बाहुं प्रतिदधाति। तस्माद् अयं बाहुः प्रतिहितः पराचीभिर् अपुनरभ्यावर्तम्। तस्माद् इमं बाहुं सं चाञ्चति प्र च सारयति। तिस्रस् सतीस् सप्तदशकरोति। तस्माद् अयं बाहुर् मेद्यतो ऽनुमेद्यति, कृश्यतो ऽनुकृश्यति
नेष्टैकविंशेन पुच्छेन भद्रेणोद्गायति। इदं तत् पुच्छं प्रतिदधाति। तस्माद् इदं पुच्छं प्रतिहितम्। पराचीभिर् पुनरभ्यावर्तम्। तस्माद् इदं पुच्छं सं चाञ्चति, प्र च सारयति। तिस्रस् सतीर् एकविंशतिं करोति। तस्माद् इदं पुच्छं मेद्यतो ऽनुमेद्यति कृश्यतो ऽनुकृश्यति। उद्गाता पञ्चविंशेनात्मना राजनेनोद्गायति। इमं तद् आत्मानं प्रतिदधाति। तस्माद् अयम् आत्मा प्रतिहितः। पराचीभिर् पुनरभ्यावर्तम्। तस्माद् इदम् आत्मानं सं चाञ्चति, प्र च सारयति। तिस्रस् सतीः पञ्चविंशतिं करोति। तस्माद् अयम् आत्मा मेद्यतो ऽनुमेद्यति, कृश्यतो ऽनुकृश्यति। त एकैकयास्तुयोद्गातारम् उपसमायन्ति। ताभिर् उद्गातोद्गायति। आत्मन्न् एव तद् अंगानि प्रतिदधाति। तस्माद् आत्मन्न् अङ्गानि प्रतिहितानि। आत्मन्ययोत्तमयोद्गायति। तस्माद् इदम् आत्मन उद् इव शेते
प्रजापतिः प्रजास् ससृजानस् स व्यस्रंसत। तस्माद् देवता व्युदक्रामन्। तम् इन्द्र एव देवतानां नाजहात्। स इन्द्रम् अब्रवीत् कथं न्व् अहम् इतः पुनर् अन्वाभवेयम् इति। किं खलु वै ते ऽस्तीत्य् अब्रवीत्। स्तो न्वै म इमौ प्राणापानाव् इति। यत् स्तो म इत्य् अब्रवीत्, तत् स्तोमस्य स्तोमत्वम्। स्तुवत एनं स्वा - अयं न श्रेष्ठ इति य एवं वेद। तम् अब्रवीत् स वा एताभ्याम् एव संवत्सरं स्तुष्व। तं त्वैताभ्याम् एव तुष्टुवानम् उपरिष्टात् संवत्सरस्य सर्वा देवतास् समभ्यवैष्यन्तीति। स एताभ्याम् एव संवत्सरम् अस्तुत। तम् एताभ्याम् एव तुष्टुवानम् उपरिष्टात् संवत्सरस्य सर्वा देवतास् समभ्यवायन् दिशां रसं प्रवृह्यापां रसं वेदस्य रसम् अन्नस्य रसं, महते व्रतं हरामो महते व्रतं हराम इति वदन्तीः। ता यद् अब्रुवन् - महते व्रतं हराम इति तन् महाव्रतस्य महाव्रतत्वम्। तद् अस्मै प्रायच्छन्। तद् अव्रतयत्। ताः प्रमोदन्त - महाव्रतयतीति, महाव्रतयतीति। तस्माद् एतस्मिन्न् अहन् प्रेव मोदन्ते। देवता ह्य् अस्मिन् प्रमोदन्त।
तद् आहुर् - मध्यतस् संवत्सरस्य विषुवत्य् उपेत्यम् -
-- अन्नं वै व्रतम्। मध्यतो वा अन्नम् अशितं धिनोतीति। तद् उ वा आहुर् - अर्धं वा एते ऽन्नाद्यस्यावरुन्धते ये मध्यतस् संवत्सरस्य विषुवति महाव्रतम् उपयन्ति। संवत्सरः कृत्स्नम् अन्नाद्यं पचति। तद् उपरिष्टात् संवत्सरस्योपेत्यं - कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्या इति। अथ ह स्माह नगरी जानश्रुतेय - उग्रो वा एष मध्यमशीवा यन् महाव्रतम्। यद् वा उग्रो मध्यमशीवा भवति, सर्वान् वै सो ऽन्यान् व्यवकीर्याथैकश् शेते। तद् उपरिष्टाद् एव संवत्सरस्योपेत्यं कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्या इति। तत् पञ्चविंशं भवति। चतुर्विंशत्यर्धमासो वै संवत्सरः। अन्नाद्यं पञ्चविंश्य्, अन्नाद्यम् एवैतत् पञ्चविंश्योपधीयते। स यथा पूर्णोध्नीम् उपसद्य दुहीतैवम् एवैतत् पञ्चविंश्यान्नाद्यं दुह्रे
तद् आहुस् तवश्शाव्यम् एवैतस्याह्नः पृष्ठं कार्यम् इति। देवा वै यद् अग्रे व्रतं समभरंस् तत् तवश्शाव्यम् अभवत्। तद् यद् एतस्याह्नस् तवश्शाव्यं पृष्ठं भवति, व्रतम् एवैतत् प्रत्यक्षम् उपयन्ति। तद् उ वा आहुर् दुष्प्रज्ञाना वै तवश्शाव्यस्य स्तोभाः पदवृत्तीः प्रस्तावाः प्रतिहारा देवता निधनानि। वामदेव्यम् एवैतस्याह्नः पृष्ठं कार्यम् इति। आत्मा वै व्रतस्य वामदेव्यम्। स यथागत्य गृहान् न विन्देत् तादृक् तद् यद् एतस्याह्नोऽन्यद् वामदेव्यात् पृष्ठं कुर्युः। तद् आहु - स्वारं न पृष्ठतायै। तत्स्थानं राजनम् एवैतस्याह्नः पृष्ठं कार्यम् इति। राजनेन वै प्रजापतिः प्रजानां राज्यम् ऐश्वर्यम् आधिपत्यम् अगच्छत्। तद् येन प्रजापतिः प्रजानां राज्यम् ऐश्वर्यम् आधिपत्यम् अगच्छत्, तेन प्रजानां राज्यम् ऐश्वर्यम् आधिपत्यं गच्छामेति। परोक्षम् इव ह खलु वा एतद् वामदेव्यं यद् राजनम्। राजनं पृष्ठं भवति। वामदेव्यं मैत्रावरुणसाम। पञ्चनिधनं वामदेव्यं ब्रह्मसाम। सामाभिपूर्वम् एवैतद् वामदेव्येन मध्यत आत्मानं संदधतो यन्ति
तत् पञ्चस्तोभं भवति पञ्चपदवृत्तीकं पञ्चदेवतं पञ्चप्रतिहारं पञ्चनिधनम्। यः पांक्तो यज्ञो, ये पांक्ताः पशवो, यत् पांक्तम् अन्नाद्यं, ये पञ्चर्तवो, यत् किं च पञ्च पञ्च तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः। पञ्चनिधनं वामदेव्यं ब्रह्मसाम भवति। पञ्चधेव हि व्रतेन स्तुवते। तद् अतिच्छन्दस्सु भवति त्रिकद्रुकेषु महिषो यवाशिरम् इत्य् एतासु। अति वा एषो ऽन्यानि छन्दांसि यद् अतिच्छन्दाः। अत्य् एते ऽन्यान् ये संवत्सरसदः। स्व एवैतच् छन्दसि प्रतितिष्ठन्ति। तद् व् अतिच्छन्दस्स्व् एव तद् एहिवद् इहवद् भवत्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः। तद् आहुर् इलान्दम् एवैतस्याह्नो ऽग्निष्टोमसाम कार्यम् इति। इलान्देन वै प्रजापतिः प्रजाभ्य इराम् अन्नाद्यं प्रायच्छत्। तद् येन प्रजापतिः प्रजाभ्य इराम् अन्नाद्यं प्रायच्छत् तेनेराम् अन्नाद्यम् अवरुध्योत्तिष्ठामेति। तद् व् अतिच्छन्दस्स्व् एव भवति। अति वा एषो ऽन्यानि छन्दांसि यद् अतिच्छन्दाः। अत्य् एते ऽन्यान् ये संवत्सरसदः। स्व एवैतच् छन्दसि प्रतितिष्ठन्ति
तद् वैश्वानरीयासु भवति। वैश्वानरस्य ह्य् एतत् स्तोत्रम्। अशीत्यक्षरासु भवत्य् अश्नवामहा इति। समुद्र इवाक्षितम् इव ह खलु वा एतच् छन्दो यद् अतिच्छन्दास्, समुद्र इवाक्षितास् तुष्टुवाना असामेति। तत् पक्षि भवति। पक्षि ह्य् एतस्याह्नो व्रतम्। ए व्रतम् इत्य् आह - अन्नं वै व्रतम् - अन्नाद्यस्यैवावरुद्ध्यै। ए सुवर् इत्य् आह स्वर्गस्यैव लोकस्य समष्ट्यै। ए शकुना इत्य् आह वय एवैतच् छकुना भूत्वा स्वर्गं लोकं समश्नुवते। तद् आहुर् वारवन्तीयम् एवैतस्याह्नो ऽग्निष्टोमसाम कार्यम् इति। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। तान् वारवन्तीयेनैव वरणशाखाम् आच्छिद्यावारयत। यद् अवारयत् तद् वारवन्तीयस्य वारवन्तीयत्वम्। तस्माद् वरुणं भिषज्यम् आहुः। तद् यद् एतस्याह्नो वारवन्तीयम् अग्निष्टोसाम भवति, यद् एनेन कर्मणावारुत्स्महि, तन् नो वारवन्तीयेन वारितम् अन्तत उपतिष्ठाता इति। तद् एहिवद् इहवद् भवत्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः। तद् उ वा आहुर् यद् वावान्या वाङ् नातिवदति तद् एतस्याह्नो ऽग्निष्टोमसाम कार्यम्। यज्ञायज्ञीयं वावान्या वाङ् नातिवदति। वाग् वै यज्ञायज्ञीयम्। कुतो हि वाग् वाचम् अतिवदिष्यति। तस्माद् एतस्याह्नो यज्ञायज्ञीयम् एवाग्निष्टोमसाम कार्यम् इति
अन्नं वै व्रतं, श्रीर् वै व्रतम्। व्रतेन वा अन्नम् अद्यते, व्रतेन श्रीर् आप्यते। तद् आहुर् उपरिष्टाद् एव संवत्सरस्योपेत्यम्। दूरूपं वै ततो व्रतं विज्ञायते यत्रोपजायत इति। तत् पञ्चविंशं भवति। चतुर्विंशत्यर्धमासो वै संवत्सरो, ऽन्नाद्यं पञ्चविश्य्, अन्नाद्यम् एवैतत् पञ्चविंश्योपधीयते। पञ्चविंशो ह खलु वै पुरुषः। पुरुषस्यैतत् स्तोत्रम् इत्य् आहुर् - दश वै पुरुषस्य हस्त्या अंगुलयो, दश पद्याश्, चत्वारि प्रांगाण्य्, आत्मा पञ्चविंशष्, षड् इमानि पर्वाणि, षड् इमानि, षड् इमानि, षड् इमान्य् , आत्मा पञ्चविंशो, द्वादशेमाः परिशवो, द्वादशेमा, आत्मैव पञ्चविंशः। पुरुषं वावैतेन संस्कुर्वन्ति पुरुषं प्रजनयन्ति। तद् आहुस् सर्वम् एवैतद् अहः पञ्चविंशम् उपेत्यम् इति। पञ्चविंशम् एव शिर उपेयुः, पञ्चविंशम् अन्यं पक्षं, पञ्चविंशम् अन्यं, पञ्चविंशं पुच्छं, पञ्चविंशम् आत्मानम्, एवं व्रतस्योपाप्तिर् अंगेनाङ्गेन व्रतम् उपाप्नवामेति। तस्माद् अथ ह स्माहर्ज्जिश्वा वातवात - एकं वावैतत् स्तोत्रं सत् तत् पञ्चधा विहृत्य स्तुयुः - पञ्चभिर् एव शिर स्तुयुः, पञ्चभिर् अन्यं पक्षं, पञ्चभिर् अन्यं, पञ्चभिः पुच्छं, पञ्चभिर् आत्मानम्। तथैकम् एव पञ्चविंशं नातिरिच्यते। एवं व्रतस्योपाप्तिर् इति
अथ ह स्माहारुणिर् न वा अन्यान्य् अंगान्य् आत्मना समानि। नो ऽन्यैर् अंगैर् आत्मा समः। विषमेण वै पुरुषः कल्पते, विषमेण समः। तद् यथाविधम् एवैतद् एवम् उपेत्यम् इति। ब्रह्म वै व्रतस्य शिरो, द्यावापृथिवी पक्षाव्, अन्तरिक्षम् आत्मा, साम पुच्छम्। गायत्रं वै व्रतस्य शिरस्, तद् धि ब्रह्म। बृह्द्रथन्तरे पक्षौ, ते हि द्यावापृथिवी। वामदेव्यम् आत्मा, तद् ध्य् अन्तरिक्षम्। यज्ञायज्ञीयम् पुच्छं, तद् धि साम। नवभिश् शिर स्तुवन्ति। नव वै पुरुषे प्राणाः। प्राणानाम् एवैषा संमा प्राणानाम् ऋद्धिः। तस्मिन् गायत्रसामाध्यूहन्ति। प्राणो वै गायत्रसाम। प्राणम् एव तच् छीर्षन् दधति। तस्माच् छीर्षन् प्राणो हितः। ते प्रत्यञ्चो निसृव्यार्कशीर्षम् इति तेन स्तुवते। ग्रीवा हि तास् तद् यद् इमान् लोकान् अनुदाख्यायम् इव गायति। शिरश् चैव तद् आत्मानं च संदधाति। तस्माच् छिरश् चात्मा च संहितौ। तद् आहुर् अपञ्चविंशं भवत्य्, अतिरिच्यते, तस्माद् एतद् अत्र न कार्यम् इति
त एतेन त्रिवृता स्तोमेन रथन्तरम् अभ्यायन्ति। ब्रह्म वै त्रिवृद्, अन्नं रथन्तरम्। ब्रह्मणैव तद् अन्नाद्यं स्पृण्वन्ति। तस्मिन् पञ्चदशं स्तोमम् अध्यूहन्ति। वज्रो वै पञ्चदशो ऽन्नं रथन्तरम्। वज्रेणैव तद् अन्नाद्यं परिगृह्णन्ति। त एतेन पञ्चदशेन सप्तदशम् अभ्यायन्ति। वज्रो वै पञ्चदशो, विट् सप्तदशः। वज्रेणैव तद् विशं स्पृण्वन्ति। तस्मिन् ब्रह्मसामाध्यूहन्ति। क्षत्रं वै बृहत्। क्षत्रम् एव तद् विश्य् अध्यूहन्ति। स तस्मात् क्षत्रियो विश्य् अध्यूढः। तद् आहुर् इतो बृहता स्तोतव्यम्, इतो रथन्तरेणेति। प्राणम् इव वा इदं सर्वं प्रत्युद्यत्या इति। तद् उ ह स्माह कीजो वाकायनः - पृष्ठतो वा एते ऽन्नाद्यं कुर्वते, य इतो बृहता स्तुवत, इतो रथन्तरेण। अन्नं वै रथन्तरम्। दक्षिणतो वा अन्नाद्यम् अवरुद्धम् उपाचरति। तस्माद् इत एव बृहता स्तुवत, इतो रथन्तरेणान्नाद्यस्यावरुद्ध्या इति। य उ एवैष पञ्चदश स्तोमस् स उ प्रत्युद्यत्या इति। तस्माद् उ सव्यं पक्षं वयांस्य् अनु परिप्लवन्ते। त एतेन सर्वेणैकविंशं प्रतिष्ठाम् आयन्ति। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। सर्वस्मिन् वा एषो ऽस्मिन्न् अधि प्रतिष्ठितः। तद् यस्मिन्न् एष सर्वस्मिन्न् अधि प्रतिष्ठितस् तस्मिन् सर्वस्मिन्न् अधि प्रतितिष्ठामेत्य् एतं प्रतिष्ठापयन्ति
तस्मिन् भद्रं सामाध्यूहन्ति। प्रजा वै भद्रम्। पुच्छतो वै प्रजाः प्रजायन्ते। पुच्छत एवैतत् प्रजनने प्रजां दधते प्रजात्यै। तत्रापि श्रेयः कार्यम् आहुः। प्रजा वै भद्रं, प्रजायै या प्रजा सा श्रेयः। अपि ह प्रजायै प्रजां पश्यते य एवं वेद। तद् आहुस् सकृद् एव सर्वेण स्तोतव्यं वयसो ऽनुरूपं कृत्वेति। यद् वै वयः प्रपतति सर्वाण्य् अङ्गानि नाआनाशो युक्त्वा प्रपतति। अथ यद् उपविशति सर्वाण्य् अङ्गान्य् आत्मानम् उपसमाहृत्योपविशतीति। तद् यत् सकृदेव सर्वेण स्तुवन्ति यथा वयः प्रपतत् सर्वाण्य् अङ्गानि नानाशो युक्त्वा प्रपतेत् तादृक् तत्। अथ यद् एकैकया स्तुतयोपसमायन्ति यथा वय उपविशत् सर्वाण्य् एवाङगान्य् आत्मानम् उपसमाहृत्योपविशेत् तादृग् उ (त)त् । अथ ह स्माह भाह् भाल्लवेयो - नैतस्मिन्न् अहन्न् अन्य उद्गातुस् साम्नार्त्विज्यं कुर्यात्। श्रीर् वा एतद् अहः, श्रीर् उद्गाता। यद् एतस्मिन्न् अहन्न् अन्य उद्गातुस् साम्नार्त्विज्यं कुर्याद् अनववदितैनान् अववदेद् अनभ्यारोढाभ्यारोहेत्, पापवस्यसं स्यात्, स वैवानुपरिसर्पं संस्थापयेत्, स वैकैकया स्तुतयोपसमेयाद् इति। तद् इव त्व् अत्र परिचक्षते यन् नवविंशस्तोमस् संपद्यते। तद् आहुर् नवविंश स्तोमस् संपद्यतेवाश्यमानानुपतेत् स्वं यूथं जानमेजय गौर् गास् साहस्रयाजिन शलकाण्डाणि विगच्छतीतीव वा एता यथायथम् अपियन्तीति। शिव एव शीर्षन्न् आप्येति, पक्षौ पक्षे, पुच्छं पुच्छ्यात्मानम् इद् आत्मन्न् आप्येति। नवविंश स्तोमस् संपद्यते कार्यम् एवाप्य् एवम् इति
आसन्दीम् उद्गाताधिरोहति, प्लेंखं होता, कूर्चाव् अध्वर्यू, कूर्चसद एवान्या होत्रा भवन्ति। तद् आहुर् न दीक्षितेनासन्द्य् अधिरुह्येति। उत्थिता ह खलु वा एतद् अहर् आगच्छन्ति। यद् वावादो दशमम् अहस् तद् एवोक्थानि। इयम् अधिरुह्यैवेत्य् आहुः। अन्तरिक्षसाच्य् एव वै श्रीः। एवं श्रिया उपाप्तिर् इति। वाणश् शतश्रीर् भवति। शतायुर् वै पुरुषश्शतेन्द्रियश् शतवीर्यस्,तस्यैवेन्द्रियस्य वीर्यस्यावरुद्ध्यै। तद् आहुर् न वाणश् शतश्रीः कार्यो, यर्हि वा एतस्य ब्राह्मणास् सन्तानम् अविदुस् सकृत् सन्ततो वा एष तर्हि राज्ञां समासु प्रविशामि ब्रुवन्न् अशयत् तं किं तत् कुर्युर् यस् तथैतर्हि न यथा पुरेति। तद् उ वा आहुः किं खलु तथैतर्हि यथा पुरा। एकसाम्ना ह स्म वै पुरा स्तुत्वा स्वर्गं लोकं गच्छन्त्य्, अथो ऽवभृथाद् एवोदेत्य कार्यः। एवं वाणश् शतश्रीर् वाचः कृत्स्नत्वायेति। तस्यैष सन्तानो - भूर् भुव स्वर् वदा वदा वदी वदा वदोरुः पृथुस् सुगस् सुगन्तुः कर्मः करणः करः करिष्यन्न् ऐन्द्रीं वाचं बृहतीं विश्वरूपां शतायुषं प्रवद देव वाणेति। अथेन्द्रणतया चेषीकया वेतसशाखया चोल्लिखति - मनो ज्योतिर् इति, वाक् सत्यम् इति, मनो भद्र इति
अहीनसं हाश्वत्थिं पुत्रा उपसमेत्योचुस् - सत्रायामो वै भगवो ऽनु नश् शाधीति। स होवाच - मैवं वोचत। दुरुपधर्षो वै संवत्सरः। यथा वै रथनाभाव् अराः प्रतिष्ठिता, एवं वै संवत्सरे सर्वे मृत्यवः प्रतिष्ठिताः। अथैतद् एवं ब्रूथेति। ते होचुस् तेषां वै त्वम् एव भिषग् असि, त्वं प्रायश्चित्तिर्, अन्व् एव नश् शाधीति। तद् धास्य प्रियम् आस। स होवाचैवं चेद् ब्रूथ, षट्सु स्म प्रतिष्ठासु प्रतितिष्ठत। षड्भ्य स्म हरित्मतीभ्यो मेत। चतुश्चक्रं स्म पारयिष्णुं समारोहत। स्वर्गस्य स्म लोकस्य पथो ऽञ्जसायनान् मेत। संवत्सरस्य स्म व्याप्तम् अतिप्लवध्वम्। दैव्यं स्म मिथुनम् उपेत। प्रस्पष्टात् स्म सार्थान् मा हीयध्वम्। अच्युतं स्म यज्ञस्य मा च्यावयत। यज्ञस्य स्म श्वस्तनम् उपेत। वाचं स्म सत्यवतीम् उपेत। वर्षिष्ठान् स्माजौ युङ्ध्वम्। उत्तरावतीं स्म श्रियम् उपेत। स्वर्गं स्म लोके प्रतितिष्ठत। ग्रामात् स्मारण्यं मेत। ज्ञानात् स्माविर्भवान् मेत। दैव्यात् स्म विवाहान् मेत। यज्ञात् स्म मेतेति। एतानि हैनान् अनुशशास। ते होचुर् अनु न इदम् अशिषः परोक्षेणैव। तथा नो ऽनुशाधि यथेदं विजानीयामेति
स होवाच यद् वो ऽवोचं - षट्सु स्म प्रतिष्ठासु प्रतितिष्ठतेति, निधनवन्ति स्म पवमानमुखेभ्यो मा च्यावयतेत्य् एव वस् तद् अवोचम् इति। एषा ह वै साम्नः प्रतिष्ठा यन् निधनम्। षड् एतानि निधनवन्ति भवन्ति, षड् ऋतवस् संवत्सरः। स यथा वृक्षम् आक्रमणैर् आक्रममाण इयाद् एवम् एवैतैस् सामनिधनै स्वर्गं लोकं रोहन्तो यन्ति। तस्मान् निधनवन्ति पवमानमुखेभ्यो न च्यावयितव्यानि।
अथ यद् वो ऽवोचं षड्भ्य स्म हरित्मतीभ्यो मेतेतीळाविभक्तिर् एव वस् तद् अवोचम्, इळाभि स्म बृहतीर् आरभध्वम् इत्य् एव वस् तद् अवोचम् इति। ता एताष् षड् हरित्मतीः। स यथा षड् ढरित्मतीर् अश्वतरीस् संयुज्य यत्र जिगमिषेत् तद् गच्छेद्, एवम् एवैताभिर् इळाविभक्तिभि स्वर्गं लोकम् अभ्यश्नुवते। तस्माद् इळाभिर् एव बृहतीर् आरभ्या
अथ यद् वो ऽवोचं चतुश्चक्रं स्म पारयिष्णुं समारोहतेति, प्र सोम देववीतये, परीतो षिञ्चता सुतम्, अभि सोमास आयवः, पुनानस् सोम धारयेत्य् एता एव वस् तच् चतस्रो बृहतीर् अवोचम् इति। एष ह वै चतुश्चक्र पारयिष्णुर् यद् एता बृहत्यः। स यथा चतुश्चक्रेण पारयिष्णुना यत्र जिगमिषेत तद् गच्छेद्, एवम् एवैताभिर् बृहतीभिर् बृहतीभि स्वर्गं लोकं गच्छन्ति। अथो एष वाव देवरथः। स यथा देवरथेन सुयुक्तेन यत्र जिगमिषेत् तद् गच्छेद्, एवम् एवैताभिर् बृहतीभि स्वर्गं लोकं गच्छन्ति। तस्माद् एता एव बृहतीः कार्याः।
अथ यद् वो ऽवोचं स्वर्गस्य स्म लोकस्य पथो ऽञ्जसायनान् मेतेत्य्, औशनकावे एव वस् तद् अवोचम् इति। एष ह वै स्वर्गस्य लोकस्य पन्था अञ्जसायनो यद् औशनकावे। औशनं पुरस्ताद् भवति कावम् उपरिष्टात्। ताव् एतत् पितापुत्राव् एव नावम् अजतः। स यथा पितापुत्रौ नावम् अजन्तौ ताम् अरिष्टां स्वस्ति पारं गमयेयाताम् , एवम् एवैतद् औऔशनकावाभ्यां स्वस्त्य् अरिष्टा उदृचम् अश्नुवते। तस्माद् औशनकावे नावसृज्ये
अथ यद् वो ऽवोचं संवत्सरस्य स्म व्याप्तम् अतिप्लवध्वम् इत्य् अभीवर्तं वा स्म पवमाने कुरुध्वं प्लवं वेत्य् एव वस् तद् अवोचम् इति। एतद् ध वै संवत्सरस्य व्याप्तं यद् ऋतवो यन् मासा यद् ऋतुसन्धयः। तद् उ वा आहुर् य ऋतवो ये मासा य ऋतुसन्धयो ऽहोरात्रे वाव तद् भवतः। अहोरात्रे वाव संवत्सरस्य व्याप्तम् इति। तत् प्लवः कार्यः। अत्र वै गौः प्लवते, ऽव हस्त्य्, अव पुरुषः, प्लवो नावप्लवते। तद् एतेन प्लवेनानवप्लाविनैतत् संवत्सरस्य व्याप्तम् अतिप्लवामहा इति। तद् आहुर् अस्ति परिचक्षा प्लवातिप्लुता इति वै निन्दन्ति। यो वै जीयते यो हीयते, तम् आहुर् अप्लोष्टेति। अभीवर्त एव कार्यः। तस्यैकाक्षरं निधनं भवति। एकाक्षरा वै वाक्। वाग् उ कृत्स्नं ब्रह्म। तद् एतेन कृत्स्नेन ब्रह्मणा यथा चर्मणा कुदीकण्टकान् प्रावृत्यातीयाद् एवम् एवैतत् संवत्सरस्य व्याप्तं प्रावृत्यातियन्ति। अथो यथा तप्तान् पांसून् उपानह्य् अतीयात् तादृक् तत्। तस्माद् अभीवर्त एव कार्यः।
अथ यद् वो ऽवोचं दैव्यं स्म मिथुनम् उपेतेत्य्, उच्चा ते जातम् अन्धसा, स्वादिष्ठया मदिष्ठयेत्य् एते एव वस् तद् गायत्र्याव् अवोचम् इति। एतद् वै दैव्यं मिथुनं यद् एते गायत्र्या - उच्चा त इति पुंसो रूपं, स्वादिष्ठयेति स्त्रियै। तद् एतन् मिथुनं प्रजननं क्रियते। प्र मिथुनेन जायते य एवं वेद। तस्माद् एते एव गायत्र्यौ कार्ये
अथ यद् वो ऽवोचं प्रस्पष्टात् स्म सार्थान् मा हीयध्वम् इति, बृहद्रथन्तरे एव वस् तद् अवोचम् इति। एष ह वै प्रस्पष्टः सार्थो यद् बृह्द्रथन्तरे। एते ह वा एतान्य् अरण्यान्य् अतिनयतो यान्य् एतानि सवनारण्यानि। तद् एतद् षड्ग्रामम् इति - त्रिवृत् स्तोमः। अस्ति परस्तराम् इति - पञ्चदशः। अस्ति परस्तराम् इति - सप्तदशः। अस्त्य् एव परस्तराम् इत्य् - एकविंशः। श्रान्त एनद् गच्छेद् इति त्रिणवः। आसायैनद् इति त्रयस्त्रिंशः। अथ यथैकां वा द्वे वान्तरोष्यैव तद् यच् छन्दोमाः। क्षत्रं वा एते साम्नां यद् बृहद्रथन्तरे। क्षत्रिय उ वा अरण्यस्यातिनेता। तद् यत्र वै क्षत्रेणारण्येनैति, यो वै तत्र तं दस्युर् जानाति, यद् यत् स्याल्वं वा मधु वा भवति, तेनास्मा आविर्भवति। अथ ये ऽन्ये नंष्ट्राः परिपन्थिनः, पराञ्चस् ते कक्षं गहनान्य् अभ्यवयन्ति। स यथा क्षत्रियेण सहाबिभ्यद् अरण्यम् अतीयाद्, एवम् एवैतद् बृहद्रथन्तराभ्याम् अतियन्ति। अथो एष वाव देवयानः पन्था यत् पृष्ठ्यष् षडहः। ते देवा एतेन देवयानेन पथैतं स्वर्गं लोकं गत्वान्वागमान् मनुष्याणाम् अबिभयुः। ते होचुर् उप तज् जानीत यथा नो मनुष्या नान्वागच्छान् इति। त एतान् यज्ञमुहो रक्षांसि प्रत्यौहन्। तद् यद् दीक्षितो मीयते यद् रुध्यते, एते हैव तत् कुर्वन्ति। तद् बृहद्रथन्तरे एवातिनयतः। तान् यान् एते घ्नन्त्य्, अनेत्रान् हैव तान् घ्नन्ति, ये बृहद्रथन्तरे अवसृजन्ति। तस्माद् बृहद्रथन्तरे नावसृज्ये
अत ह स्माह नगरी जानश्रुतेयो - वृकस्य चरतस् सर्पणम् इति। को वृक इति। प्रजापतिर् इति। कः प्रजापतिर् इति। संवत्सर इति। तस्य किं सर्पणम् इति। अहोरात्रे इति। के अहोरात्रे इति। बृहद्रथन्तरे इति। एताभ्यां ह वा एष एतत् सर्पति। तौ प्राणापानौ, ताव् इमौ लोकौ, यद् दैव्यं मिथुनम्। तौ हैतत् संवत्सरस्यैव पादाव् आरभ्य यन्ति। ते स्वस्त्य् अरिष्टा उदृचम् अश्नुवते।
अथ यद् वो ऽवोचम् अच्युतं स्म यज्ञस्य मा च्यावयतेति, वामदेव्यम् एव वस् तद् अवोचम् इति। एतद् ध वै यज्ञस्याच्युतं यद् वामदेव्यम्। प्राणो हि वामदेव्यम्। प्राणान् नेद् अवच्छिद्यामहा इति।
अथ यद् वो ऽवोचं यज्ञस्य स्म श्वस्तनम् उपेतेति गौरिवीतम् एव वस् तद् अवोचम् इति। एतद् ध वै यज्ञस्य श्वस्तनं यद् गौरिवीतं, प्रजा श्वस्तनं, पशव श्वस्तनं, स्वर्गो लोक श्वस्तनम्। स यथा क्षेत्रज्ञो ग्रामं धावयेद् - अदस् सुगं तेन यास्यामो , ऽदस् सुतीर्थं तेन तरिष्यामो, ऽदस् सुवसं तद् वत्स्याम इत्य्, एवम् एतौ गौरिवीतस्योदासाव् अवसानदर्शौ चरतः। अथो यथा सोमप्रवाकस् सोमं प्राहैवम् एतौ गौरिवीतस्योदासौ देवेभ्यस् सोमं प्राहतुः। प्रोक्तसोमो ह स तां रात्रिं वसति यस्मिन्न् अहनि गौरिवीतं भवति। अथो हैनं देवा ईक्षन्ते - धावत श्वो यष्टेति। तद् यद् एकाहे गौरिवीतं न कुर्वन्ति, नेद् देवान् लोपयामहा इति
अथ यद् वो ऽवोचं - वाचं स्म सत्यवतीम् उपेतेति - पुरोजिती वो अन्धस इत्य् एताम् एव वस् तद् अनुष्टुभम् अवोचम् इति। एषा वै वाक् सत्यवती यद् एषानुष्टुप्। अनुष्टुप् पूर्वा भवति, गायत्र्या उत्तरे। वाग् वा अनुष्टुप्, प्राणो गायत्री। एतद् वै वाचस्सत्यं यत् प्राणः। सैषा वाक् सत्यवती। अथो यथान्यौ नवतरौ चक्राव् उपास्येद् एवम् एवैताम् अनुष्टुभं त्र्यहमुखेषु पर्याहरन्ति, स्वर्गस्य लोकस्य समष्ट्यै। तस्माद् एषैवानुष्टुप् कार्या।
अथ यद् वो ऽवोचं वर्षिष्ठान् स्माजौ युङ्ध्वम् इत्य् अग्निष्टोमसामान्य् एव तस्माद् अवोचम् इति। एते ह वै वर्षिष्ठा आजौ युज्यन्ते यद् अग्निष्टोमसामानि यानि वै तान्य् अक्ष्यन्त्यहानि।
अथ यद् वो ऽवोचम् उत्तरावतीं स्म श्रियम् उपेतेति पृष्ठान्य् एव वस् तद् अवोचम् इति। एषा ह वा उत्तरावती श्रीर् यत् पृष्ठानि - त्रिवृत् पञ्चदशम् सप्तदशम् एकविंशं त्रिणवम् इत्य् आ त्रयस्त्रिंशाद् उत्क्रामन्ति।
अथ यद् वो ऽवोचं स्वर्गे स्म लोके प्रतितिष्ठतेति - यज्ञायज्ञीयं स्म वो ऽग्निष्टोमसामास्त्व् इत्य् एव वस् तद् अवोचम् इति। एष ह वै स्वर्गो लोको यद् यज्ञायज्ञीयम्, असाव् आदित्य एकविंशः। एतस्मिन्न् एव तत् स्वर्गे लोके ऽन्ततः प्रतितिष्ठन्ति
अथ यद् वो ऽवोचं ग्रामात् स्मारण्यं मेतेत्य् - आहार्याणि स्म सामानि माभिध्यायतेत्य् एव वस् तद् अवोचम् इति। स यथा ग्रामाद् ग्रामं संव्रजेद् अबिभ्यद् एवं तद् यद् अग्निष्टोमसामानि। अथ यथारण्याद् अरण्यं यन् स कण्टकेन वा शलाकया वा परितृण्ण आगच्छेद्, अथो इयतो नो ऽव्यात्सुर् इयन्तो विविध्यमानानाम् अमुष्महीत्य् एवं तद् यद् आहार्याणि सामानि। तस्माद् आहार्याणां साम्नां नाशयितव्यानि।
अथ यद् वो ऽवोचं ज्ञानात् स्माविर्भवान् मेतेति, सुज्ञानम् एव वस्तद् अवोचम् इति।
अथ यद् वो ऽवोचं दैव्यात् स्म विवाहान् मेतेति, श्यैतनौधसे एव वस् तद् अवोचम् इति।
अथ यद् वो ऽवोचं यज्ञात् स्म मेतेति, श्रद्धा स्म वो मा व्यैद् इत्य् एव वस् तद् अवोचम् इति। एषा ह वै देवानां राज्ञी यच् छ्रद्धा। सैषा प्रातर् उपक्रम्य तिष्ठति। तां देवा उपतिष्ठन्ते - याद्रीच्य् एष्यति तद्र्यञ्च एष्याम इति। तस्यै सर्वे देवा अनुवर्त्मानस् सायं जुषन्ते। तम् आविशति, स जुहोति, स यजते। तद् देवा उपजीवन्ति।
एतां हैभ्यस् तत् संवत्सरे ऽरिष्टिम् उवाच। ते य एवं विद्वांसस् संवत्सरम् उपयन्ति, स्वस्त्य् एवारिष्टा उदृचम् अश्नुवते
पुरुषं वावैतद् आसते यत् संवत्सरम्। पुरुषो वै प्रजापतिः, प्रजापतिस् संवत्सरः। तम् एवैतद् ईप्सन्त आसत आत्मानं यज्ञं कृत्वा। तस्य पादाव् एव प्रायणीयो ऽतिरात्रः। तयोर् यद् अधस्ताच् शुक्लं तद् अह्नो रूपं, यद् उपरिष्टात् कृष्णं तद् रात्रेर् नखान्य् एव नक्षत्राणाम् इमान्य् एव चत्वार्य् ऊर्वष्ठी वान्यारम्भणीयम् अहर् अयम् अभिप्लवो ऽयं पृष्ठ्यो ऽयम् इतो ऽर्वाचीनो ऽभिजिद् अयं विश्वजिद् इमे त्रय स्वरसामान इमे त्रयो ऽयं विषुवान् इदं महाव्रतीयम् अहर् अयम् उदयनीयो ऽतिरात्रः। इदम् अह्नो रूपम् इदं रात्रेर् नखान्य् एव नक्षत्राणाम् । तम् एतं पुरुषं प्रजापतिं संवत्सरम् आप्नुवन्त्य् आत्मानम् एव यथाङ्गम्
ते मनोमयाः प्राणमयाश् चक्षुर्मयाः श्रोत्रमया वाङ्मया ऋङ्मया यजुर्मयास् साममया ब्रह्ममया हिरण्मया अमृतास् संभवन्ति। देवासुरा अस्पर्धन्त। ते देवाः प्रजापतिम् उपाधावन् - जयामासुरान् इति। सो ऽब्रवीन् न वै मां यूयं वित्थ नासुराः। यद् वै मां यूयं विद्यात ततो वै यूयम् एव स्यात परासुरा भवेयुर् इति। तद् वै ब्रूहीत्य् अब्रुवन्। सो ऽब्रवीत् - पुरुषः प्रजापतिस् संवत्सर इति मोपाद्ध्वम्। ततो वै यूयम् एव भविष्यथ परासुरा भविष्यन्तीति। तं - पुरुषः प्रजापतिस् संवत्सर इत्य् - उपासत, ततो वै देवा अभवन् परासुराः। स यो हैवं विद्वान् - पुरुषः प्रजापतिस् संवत्सर इत्य् - उपास्ते भविष्यत्य् आत्मना, परास्य द्विषन् भ्रातृव्यो भवति
अथाधिदैवतम्। अयम् एव लोकः प्रायणीयो ऽतिरात्रः। तस्य यच् छुक्लं तद् अह्नो रूपं, यत् कृष्णं तद् रात्रेश्, चित्राण्य् एव नक्षत्राणाम्। संवत्सर एव स्वर्गो लोक, आरम्भणीयम् अहर्, ब्रह्माभिप्लवः, क्षत्रं पृष्ठ्यो, ऽग्निर् अभिजिद्, विश्वे देवा स्वरसामान, आदित्यो विषुवान्, इन्द्रो विश्वजिद्, अहोरात्रे एव गोआयुषी, लोका एव द्वादशाहस्याहानि, प्रजापतिर् एव महाव्रतीयम् अहर्, असाव् एव लोक उदयनीयो ऽतिरात्रः। इदम् अह्नो रूपम् इदं रात्रेर् नक्षत्राण्य् एव नक्षत्राणाम्
ते सतिसदो ह वा अन्ये सत्रसदो ऽन्ये। ते यां प्रायणीयम् अतिरात्रम् उपेत्य वसन्त्य् अस्मिन्न् एव तां लोके वसन्ति। तद् यद् अस्मिन् लोके ऽन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युर् अस्मिन्न् इदम् एतर्हि लोके स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ याम् आरम्भणीयम् अहर् उपेत्य वसन्ति संवत्सर एव तां स्वर्गे लोके वसन्ति। तद् यत् संवत्सरे स्वर्गे लोके ऽन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विदुस् संवत्सर इदम् एतर्हि स्वर्गे लोके स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ याम् अभिप्लवम् उपेत्य वसन्ति ब्रह्मण्य् एव तां वसन्ति। तद् यद् ब्रह्मण्य् अन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्यु(र्) ब्रह्मणीदम् एतर्हि स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ यां पृष्ठ्यम् उपेत्य वसन्ति क्षत्र एव तां वसन्ति। तद् यत् क्षत्रे ऽन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युः क्षत्र इदम् एतर्हि स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ याम् अभिजितम् उपेत्य वसन्त्य् अग्नाव् एव तां वसन्ति। तद् यद् अग्नाव् अन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युर् अग्नाव् इदम् एतर्हि स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ यां स्वरसाम्न उपेत्य वसन्ति विश्वेष्व एव तां देवेषु वसन्ति। तद् यद् विश्वेषु देवेष्व अन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युर् विश्वेष्व् इदम् एतर्हि देवेषु स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ यां विषुवतम् उपेत्य वसन्त्य् आदित्य एव तां वसन्ति। तद् यद् आदित्ये ऽन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युर् आदित्य इदम् एतर्हि स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ यां विश्वजिम् उपेत्य वसन्तीन्द्र एव तां वसन्ति। तद् यद् इन्द्रे ऽन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युर् इन्द्र इदम् एतर्हि स्मस् तेषां नो न का चनार्तिरस्तीति। अथ यां गोआयुषी उपेत्य वसन्त्य् अहोरात्रयोर् एव तां वसन्ति। तद् यद् अहोरात्रयोर् अन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युर् अहोरात्रयोर् इदम् एतर्हि स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ यां द्वादशाहस्याहान्य् उपेत्य वसन्ति लोकेष्व् एव तां वसन्ति। तद् यल् लोकेष्व् अन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युर् लोकेष्व् इदम् एतर्हि स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ यां महाव्रतीयम् अहर् उपेत्य वसन्ति प्रजापताव् एव तां वसन्ति। तद् यत् प्रजापताव् अन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युः प्रजापताव् इदम् एतर्हि स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ याम् उदयनीयम् अतिरात्रम् उपेत्य वसन्त्य् अमुष्मिन्न् एव तां लोके वसन्ति। तद् यद् अमुष्मिन् लोक ऽन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युर् अमुष्मिन्न् इदम् एतर्हि लोके स्मस् तेषां नो न का चनार्तिर् अस्ति
ते सतिसदो ह वा अन्ये सत्रसदो ऽन्ये। सत्येवान्ये सीदन्ति सत्रम् अन्य आसते। ते हैव सतिसदो य एवं विद्वांसो दीक्षन्ते। एतासु हि देवतासु सति सीदन्तो यन्ति। ते ह ते सर्वं पाप्मानम् अपघ्नते। अथ य एते शिखाच्छिन्नाः प्रसर्पम् इच्छमाना आवेष्टन्ते ते हैव सत्रसदः। य एवं विद्वांसम् उपवदति यथैता देवता ऋत्वानीयाद् एवं नेत्य् एतासु ह्य् एवैनं देवतासु प्रपन्नम् एतासु वसन्तम् उपवदति तस्य हैतस्य नैव का चनार्तिर् अस्ति य एवं वेद। य एवैनम् उपवदति स आर्तिम् आर्च्छति।
तानि वा एतानि संवत्सरस्य दशैवाहान्य् - अतिरात्राव् आरम्भणीयमहाव्रतीये अहनी पृष्ठ्याभिप्लवौ विश्वजिदभिजितौ स्वरसामानश् च विषुवांश् च। प्रवतिर् ह कौशान्तेयः कुसुर्विन्दस्यौद्दालकेर् ब्रह्मचार्य् आस। तं होवाचां सोम्य सूतपुत्र, कति ते पिता संवत्सरस्याहान्य् अमन्यतेति। दशेति होवाच। दश वावेति होवाच - दशाक्षरा विराड्, अन्नं विराड्, वैराजो यज्ञः। कत्य् एवामन्यतेति। नवेति होवाच। नव वावेति होवाच। नव वै पुरुषे प्राणाः। प्राणैर् उ यज्ञस् तायते। कत्य् एवामन्यतेति । अष्टाव् इति होवाच। अष्टौ वावेति होवाच। अष्टाक्षरा गायत्री। गायत्रो यज्ञः। कत्य् एवामन्यतेति। सप्तेति होवाच। सप्त वावेति होवाच। सप्त वै छन्दांसि, छन्दोभिर् यज्ञस् तायते। कत्य् एवामन्यतेति। षड् इति होवाच। षड् वावेति होवाच। षड् वा ऋतवस् संवत्सरः। संवत्सरो यज्ञः। कत्य् एवामन्यतेति। पञ्चेति होवाच। पञ्च वावेति होवाच। पांक्तो यज्ञः। पांक्ताः पशवः। पशवो यज्ञः। कत्य् एवामन्यतेति। चत्वारीति होवाच। चत्वारि वावेति होवाच। चतस्रो दिशश् , चतुष्पदाः पशवश्, चत्वारि छन्दांसि यज्ञवाहः - गायत्री त्रिष्टुब् जगत्य् अनुष्टुप्। कत्य् एवामन्यतेति। त्रीणीति होवाच। त्रीणि वावेति होवाच। त्रिषवणो यज्ञस्, त्रयः प्राणापानव्यानास्, त्रय इमे लोकाः। कत्य एवामन्यतेति । द्वे इति होवाच। द्वे वावेति होवाच। अहोरात्राव् एवेति। द्वाव् इमौ लोकाव् आविष्टमाव् इव, द्वौ प्राणापानौ, द्विपात् पुरुषः। कत्य् एवामन्यतेति। एकम् इति होवाच। एकं वावेति होवाच। अहर् एवेति। तद् इदम् अहर् अभूद्, अह श्वो भविता। तद् एतद् अहर् अहर् इत्य् एव प्रोच्यते। सा हैषा संवत्सरस्य प्रतिष्ठा यद् अहः। स यो हास्यैतां प्रतिष्ठां वेद, प्रतितिष्ठति। एषो एवास्यैकता। स यो हास्यैताम् एकतां वेदैकधा हैनं भूत्वा श्रीस् सचते। तद् आहुर् भूतं भूया3भविष्या3द् इति। भूतम् एव भूयो भविष्यत इति ब्रूयात्। भूता इमे लोका भूतो ऽयम् अग्निर् वायुर् असाव् आदित्य इन्द्रश् चन्द्रमाः। एते वै भूतस्य भविष्यतश् चेशते। तस्माद् भूतम् एव भूयो भविष्यत इति
अथैष वैश्वानरः प्रायणीयो ऽतिरात्रः। तस्यैषोर्ध्वा क्लृप्ति स्वर्ग्या। तस्य रथन्तरं पृष्ठं भवति, वामदेव्यं मैत्रावरुणसाम, बृहद् आर्भवे पवमाने। इदं वै रथन्तरम्, अन्तरिक्षं वामदेव्यम्, अद एव बृहत्। सैषोर्ध्वा कलृप्ति स्वर्ग्या। तया हैतया क्लृप्त्योर्ध्वं स्वर्गं लोकं रोहन्ति। अथो हैषाम् एतद् एव साम क्लृप्तं कृत्स्नं युक्तं यज्ञं वहति
तस्य गायत्रम् एव हिंकारो, रथन्तरं प्रस्तावो, वामदेव्यम् उद्गीथो, बृहत् प्रतिहारो, यज्ञायज्ञीयं निधनम्। एकैकम् उ ह वा एतेषां स्वर्गस्य लोकस्येशे। अश्नुते स्वर्गं लोकं य एवं वेद। अथो हैतद् एवार्क्यम्, एतन् महाव्रतम्। तस्य गायत्रम् एव शिरो, बृहद्रथन्तरे पक्षौ, वामदेव्यम् आत्मा, यज्ञायज्ञीयं पुच्छम्। स यावद् अर्क्यवता महाव्रतवतावरुन्द्धे तावद् अवरुन्द्धे य एवं वेद। अथो हैषायुष्यैव क्लृप्तिः। आयुर् वै गायत्रं, विश्वायू रथन्तरं, समायुर् वामदेव्यं, सर्वायुर् बृहद्, अत्यायुर् यज्ञायज्ञीयम्। आयुष्मन्तो ह भवन्त्य् एनया तुष्टुवानाः। अथो हैषाम् एतान्य् एव पञ्च ज्योतींषीद्धान्य् एषु लोकेषु दीप्यन्ते - ऽग्निः पृथिव्यां, वायुर् अन्तरिक्ष, आदित्यो दिवि, चन्द्रमा नक्षत्रेषु, विद्युद् अप्सु। अग्निर् एव रथन्तरस्य, वायुर् वामदेव्यस्य, आदित्यो बृहतश्, चन्द्रमा गायत्रस्य, विद्युद् यज्ञायज्ञीयस्य। आपो हि यज्ञायज्ञीयम्। एतान्य् एव पञ्च ज्योतींषीद्धान्य् एषु लोकेषु दीप्यन्ते
तस्य वा एतस्याग्निष्टोमस्य सोक्थकस्य द्वे त्रयः पञ्चाशे शते स्तोत्रिया भवन्ति। अथ रात्रेस् सह राथन्तरेण सन्धिनैकान्ननवतिशतं स्तोत्रिया भवन्ति। त्रीणि तानि पुंसो ऽतिरिक्तानि यैस् स प्रजनयति, द्वे ते स्त्रिया ऊने यतस् सा प्रजायते। पुंसो वा एतद् रूपं यद् अह, स्त्रियै रात्रिः। तद् इदं पुंसो ऽतिरिक्तम् अमुष्मिन् रात्र्या ऊने दधाति मिथुनत्वाय प्रजनननाय। प्र मिथुनेन जायते य एवं वेद। अथ ये द्वे स्तोत्र्ये ऽतिरिच्येते आण्डाव् एव ताव् अतिरिच्येते। ते बृह्द्रथन्तरे युक्ते यज्ञं वहतः। स यत्र षोडशिनं कुर्युर् अर्शो वैषां जायेत वर्ध्म वा। यद् ध्य् एतेषु त्रिषु पुंसो ऽतिरिक्तेषूप चतुर्थं जायेत, अर्शो वास्याजनि वर्ध्म वेति वा ब्रूयुः। एवम् एव यत् स्त्रियै जायेत। स यो ऽत्र षोडशिनं कुर्वाणान् ब्रूयाद् अर्शो वैषां जनिष्यते वर्ध्म वेति तथा हैव स्युः। तस्माद् अत्र षोडशी न कार्यः
स वा एषो ऽतिरात्र ऋते षोडशिन एकविंशतिं चैकविंशान् संपद्यत एकां च स्तोत्र्याम्। ततो य एकविंशतिर् एकविंशा आदित्य एव सः। आदित्यस्य वा अमुष्य लोकस्यैश्वर्यम् आधिपत्यम्। गच्छत्य् अमुष्य लोकस्यैश्वर्यम् आधिपत्यं य एवं वेद। स यद् अत्र षोडशिनं कुर्युर् द्वाविंशतिश् चैकविंशास् संपद्येरन्न् एका च स्तोत्र्या। संपदं लोभयेत्। स उ एवैकान्नपञ्चाशतं त्रिवृतो ऽभिसंपद्यत एकां च स्तोत्र्याम्। ततो य एकान्नपञ्चाशतं त्रिवृतो ऽग्रिर् एव सः। अग्नेर् वा अस्य लोकस्यैश्वर्यंम् आधिपत्यम्। गच्छत्य् अस्य लोकस्यैश्वर्यम् आधिपत्यं य एवं वेद। स यद् अत्र षोडशिनं कुर्युर् एकपञ्चाशच् च त्रिवृतस् संपद्येरंश् चतस्रश् च स्तोत्र्याः। संपदं लोभयेयुः। नैवेतरां संपदम् उपपद्यत नेतराम्। देवतीर्थं वा एतद् यद् एष वैश्वानरः प्रायणीयो ऽतिरात्रः। तस्मिन्न् एष स्थाणुः क्रियते यत् षोडशी। वैराजो वै षोडशी, विराजि विराजि प्रतिष्ठितः। स यत्रैवैतं विराजं संपद्यमानं मन्येत तद् एवैतेन स्तोतव्यम्
अथैतच् चतुर्विंशम् आरम्भणीयम् अहः। तस्यैषोर्ध्वा क्लृप्ति स्वर्ग्या। तस्य रथन्तरं माध्यन्दिने भवत्य्, अथ दैर्घश्रवसम्, अथ नौधसम्। इदं वै रथन्तरम्। अन्तरिक्षं दैर्घश्रवसम्। वामदैव्यं ह्य् एतन् निधानेन। अद एव नौधसम्। बृहतो ह्य् एषा तनूः। सैषोर्ध्वा क्लृप्ति स्वर्ग्या। तया हैतया क्लृप्त्योर्ध्वा एव स्वर्गं लोकं रोहन्ति। तस्य हैतस्याह्न एके रथन्तरम् एव पृष्ठं कुर्वन्ति, यथैवातिरात्रस्य रथन्तरं पृष्ठं भवति तथा। पराङ् वै स्वर्गो लोकः। पराञ्च एतं स्वर्गं लोकं रोहाम। प्रत्यवरोहस् स यद् रथन्तरं माध्यन्दिने स्यात्। अथैवम् अप्रत्यवरूढम् इति वदन्तः। तद् उ ह तत् पराङ् इवानायुष्यम् इव। स य एनांस् तथा चक्रुषो ऽनुव्याहरेद् इति वेति वा भविष्यन्तीति, तथा हैव स्युः। तस्माद् उ बृहद् एव पृष्ठं स्यान्, माध्यन्दिने रथन्तरम्। तस्यैषा तनूः। सैषा समीची क्लृप्ति स्वर्ग्या
तस्य बृहत् पृष्ठं भवति, वामदेव्यं मैत्रावरुणसाम, श्यैतं ब्रह्मसाम। अदो वै बृहद्, अन्तरिक्षं वामदेव्यम्, इदम् एव श्यैतम्। रथन्तरस्यैषा तनूः। सैषा समीची क्लृप्ति स्वर्ग्या। तया हैतया क्लृप्त्या सम्यञ्च एव स्वर्गं लोकं रोहन्ति। सम्यञ्चो वै प्राणापानव्यानाः। आ च परा च संचरन्त्य् अयातयामानः। आयुष्मन्तो ह भवन्त्य् एनया तुष्टुवानाः। तस्य द्वयानि स्तोत्राणि भवन्ति - चतुर्विंशान्य् एकानि षट्त्रिशान्य् एकानि। ततो यानि चतुर्विंशानि - चतुर्विंशत्यर्धमासो वै संवत्सरो - अर्धमासश एव तैस् संवत्सरम् आप्नुवन्ति। अथ यानि षट्त्रिंशानि - षट्त्रिशदक्षरा वै बृहती। बृहती स्वर्गो लोकस् साम्राज्यं - बृहत्याम् एव तत् स्वर्गे लोके साम्राज्ये प्रतितिष्ठन्तो यन्ति। अथो हैषाम् एतेनैव षट्त्रिंशेन स्तोमे पर्वशस् संवत्सर आरब्धो भवति। द्वादश वै संत्सरस्य पौर्णमासीर् द्वादशाष्टका द्वादशामावास्याः। तद् एवैतेन षड्त्रिंशेन स्तोमेन पर्वशस् संवत्सरम् आरभन्ते
तस्यैतौ श्लोकाव् -
अयुजो युक्ताः प्रवहन्त्य् अग्रे ततो युग्मन्तो अनुसंवहन्ति।
त एकछन्दोभिस् संवत्सरा द्वादश परिसर्पन्ति मासः॥
द्वादशस्य मास उत्तमे ऽहन् षट्त्रिंशं ह दध्रिरे व्यावृत्।
एकं ततो युग्मभिर् व्ययुञ्जताध्य् अन्य आयन् सुवर् अन्ये परायन्॥
इति। तस्य द्वादश स्तोत्राणि भवन्ति। तेनाग्निष्टोमः। तान्य् उ एव द्वादश सन्ति पञ्चदश चतुर्विंशानि स्तोत्राणि भवन्ति। तेनोक्थ्यः। स वा एषो ऽग्निष्टोमस् सन्न् उक्थ्य, उक्थ्यस् सन्न् अग्निष्टोमः। उभौ ह तौ कामाव् उपाप्नोति यश् चाग्निष्टोमे यश चोक्थ्ये य एवं वेद
अथैते ज्योतिर् गौर् आयुर् इति स्तोमा भवन्ति। गौर् आयु स्कन्दत्। ततो ज्योतिर् अजायत। अयं वै लोक आयुर्, असौ गौर्, इदम् वान्तरिक्षं ज्योतिः। तम् एतं पुरस्ताद् अकुर्वातां यथा पुत्रम् एवम्। इतो वा अयम् ऊर्ध्वो लोको ऽर्वाङ् असाव् अमुतः। तद् इदम् एनयोः पुरस्ताज् ज्योतिः पर्यूढम्। तेन पश्यामः। तौ योगम् उपप्रयन्ताव् अन्तम् अभि ज्योतिर् व्युदौहताम्। स यथा पितरौ पुत्रं पूर्वं यन्तं पश्चाद् अन्वियातां तादृक् । तद् एतन् मिथुनी स्तोमा भवन्ति यद् युज्यन्ते। मध्ये वै जायापत्योः पुत्रश् शेते। तौ यथा मिथुनीभविष्यन्ताव् इत्थाद् वेत्थाद् वा पुत्रं परिहरेयातां तादृग् एवैतत्। त एत ऊनातिरिक्ता मिथुनाः प्रजनय स्तोमाः
अथ ह वै पणयो नामासुरा देवानां गोरक्षा आसुः। ताभिर् अहापातस्थुः। ता ह रसायां निरुध्य वलेनापिदधुः। ते देवा अलिक्लवम् ऊचुस् सुपर्णेमा नो गा अन्विच्छेति। तथेति। स हानुप्रपपात। ता हान्वाजगाम रसायाम् अन्तर् वलेनापिहिताः। तस्मै हान्वागताय सर्पिः क्षीरम् आमिक्षाम् दधीत्य् एतद् उपनिदधुः। तस्य ह सुहित आस। तं होचुस् सुपर्णैष एव ते बलिर् भविष्यत्य् एतद् अन्नं मा नः प्रवोच इति। स ह पुनर् आपपात। तं होचुस् सुपर्णाविदो गा इति। का कीर्तिश् चिद् गवाम् इति होवाच। एषैव कीर्तिर् गवाम् इति तस्य हेन्द्रो गलम् उत्पीळयन्न् उवाच गोष्व् एवाहं किल तवोषुषो मुखम् इति। स ह दधिद्रप्सं वामिक्षां वोदास। सो ऽयं बभूव यो ऽयं वसन्ता भूमिकपठुर् जायते। तं ह तच् छशापाश्लीलं जाल्म ते जीवनं भूयाद् यो नो गा अनुविद्य ता न प्रावोच इति। तस्य हैतद् ग्रामस्य जघनार्धे यत् पापिष्ठं तज् जीवनम्
ते सरमाम् अब्रुवन् सरम इमा नस् त्वं गा अन्विच्छेति। तथेति सा हानुप्रससार। सा ह रसाम् आजगाम। एषा ह वै सा रसा यैषार्वाक् समुद्रस्य वापायती। तां होवाच प्लोष्ये त्वा गाधा मे भविष्यसीति। प्लवस्व मेति होवाच न ते गाधा भविष्यामीति। सा हावाच्य् कर्णौ प्लोष्यमाणा ससार। सा हेक्षांचक्रे कथं नु मा शुनी प्लवेत हन्तास्यै गाधासानीति। तां होवाच मा मा प्लोष्ठा गाधा ते भविष्यामीति। तथेति। तस्यै ह गाध आस। सा ह गाधेनातिससार। ता हान्वाजगाम रसायाम् अन्तर् वलेनापिहिताः। तस्यै हान्वागतायै तथैव सर्पिः क्षीरम् आमिक्षां दधीत्य् एतद् एवोपनिदधुः। सा होवाच नाहम् एतावद् अप्रिया देवानाम्। गा अविदं यद् वो ऽश्नीयाम्। त उ वै देवानां स्तेयं कृत्वा चरथैतासां वा अहं गवां पदवीर् अस्मि। न मा लापयिष्यध्व नेन्द्रस्य गा उपहरिष्यध्व इति। सा हानाशिष्य् उवास। सा ह जराय्व् अपास्तं विवेद। तद् ध चखाद। तां हैक उपजगौ त्यम् इव वै घ्नती सरमा जारु खादतीति। तद् इदम् अप्य् एतर्हि निवचनं त्यम् इव वै घ्नती सरमा जारु खादतीति। जरायु ह सा तच् चखाद। सा ह पुनर् आससार। तां होचुस् सरमे ऽविदो गा इति
अविदम् इति होवाचेमा रसायाम् अन्तर् वलेनापिहिताः। ता यथामन्यध्वम् एवम् आजिहीर्षतेति। तां ह तद् इन्द्र उवाचान्नादीम् अरे ते सरमे प्रजां करोमि या नो गा अन्वविद इति। ते हैते विदर्भेषु माचलास् सारमेया अपि ह शार्दूलं मारयन्ति। ते देवा एतम् अभिप्लवं समभरन्। तेनैना अभ्यप्लवन्त्। यद् अभ्यप्लवन्त् तद् अभिप्लवस्याभिप्लवत्वम्। ते ऽग्निनैव वलम् अभ्यौषन्, वज्रेणाभिन्दन्। स य एष पुरस्ताज् ज्योतिस् सो ऽग्निर्, अथ यत् पञ्चदशं गोर् बहिष्पवमानं स वज्रः। ता आयुषावायुवत। यद् आयुषैवायुवत तद् आयुष आयुष्ट्वम्। ता एतेनैव ज्योतिषोभयतः पर्यौहन्। त एते चत्वारो मध्य उक्थ्या भवन्ति। पशवो वा उक्थानि। तेषां सहस्रं स्तोत्र्याः। ब्रह्म वै ज्योतिर् अग्निष्टोमः। ता एतेनैव ब्रह्मणा ज्योतिषोभयतः परिगृह्योदाहरन्। ते य एवं विद्वांसो ऽभिप्लवम् उपयन्ति सहस्रसनयो हैवोत्थिता भवन्ति। तद् आहुर् यद् एष चतुरहो मध्ये व्यतिषक्तो गौर् आयुर् गौर् आयुर् इत्य् अथ कस्माज् ज्योतिषी विपर्यूढे इति। मिथुनत्वाय प्रजननायेति ह ब्रूयात्। प्र मिथुनेन जायते य एवं वेद
मूल पाठ: jaiminīyaṃ brāhmaṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0